श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः
हनुमन्नीलाभ्यांक्रमेणदेवान्तकयुद्धोन्मत्तयोर्वधः ॥ १ ॥ त्रिशिरसामुष्ट्यभिहतेनहनुमता -तदीय खङ्गाक्षेपेणतच्छित्स्त्र्ययकर्तनम् ॥ २ ॥ ऋषभनाम्नावानरवरेणमत्तनाम्नोराक्षसस्य -वधः ॥ ३ ॥
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः ।
देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ १ ॥
आरूढो मेघसंकाशं वारणेन्द्रं महोदरः ।
वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥ २ ॥
पौलस्त्य इति त्रिमूर्धविशेषणं । न तु महोदरस्य । देवान्तकादयस्त्रयश्चुक्रुशुरिति संबन्धः ॥ १-२ ॥
भ्रातृव्यसनसंतप्तस्तथा देवान्तको बली ।
आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ॥ ३ ॥
रथमादित्यसंकाशं युक्तं परमवाजिभिः ।
आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ॥ ४ ॥
स त्रिभिर्देवदर्पघ्नैर्नैर्ऋतेन्द्रैरभिद्रुतः ।
वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ ५ ॥
देवान्तकाय तं वीरश्चिक्षेप सहसाऽङ्गदः ।
महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ॥ ६ ॥
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः ।
स वृक्षं कृत्तमालोक्य उत्पपात तदाऽङ्गदः ॥ ७ ॥
स ववर्ष ततो वृक्षाञ्शैलांश्च कपिकुञ्जरः ।
तान्प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः ॥ ८ ॥
परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः ।
त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥ ९ ॥
गजेन समभिद्रुत्य वालिपुत्रं महोदरः ।
जघानोरसि संक्रुद्धस्तोमरैर्वज्रसन्निभैः ॥ १० ॥
समभिद्रवत् समभ्यद्रवत् ॥ ३-१० ॥
देवान्तकश्च संक्रुद्धः परिषेण तदाऽङ्गदम् ।
उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ ११ ॥
स त्रिभिनैर्ऋतश्रेष्ठैर्युगपत्समभिद्रुतः ।
न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ १२ ॥
व्यपचक्राम पश्चादाजगाम ॥ ११-१२ ॥
स वेगवान्महावेगं कृत्वा परमदुर्जयः ।
तलेन भृशमुत्पत्य जघानास्य महागजम् ॥ १३ ॥
अस्य महोदरस्य ॥ १३ ॥
तस्य तेन प्रहारेण नागराजस्य संयुगे ।
पेततुर्लोचने तस्य विननाद स वारणः ॥ १४ ॥
तस्य अङ्गदस्य । तस्य नागराजस्येति द्वितीयतच्छब्दान्वयः ॥ १४ ।।
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः ।
देवान्तकर्मभिष्ठुत्य ताडयामास संयुगे ॥ १५ ॥
स विह्वलितसर्वाङ्गो वातोद्धूत इव द्रुमः ।
लाक्षारससवर्णं च सुखाव रुधिरं मुखात् ॥ १६ ॥
अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली ।
आविध्य परिघं घोरंमाजधान तदाऽङ्गदम् ॥ १७ ॥
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा ।
जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥ १८ ॥
तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः ।
घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥ १९ ॥
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः ।
हनुमानपि विज्ञाय नीलश्चापि प्रतस्यतुः ॥ २० ॥
ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा ।
तद्रावणसुतो धीमान्बिभेद निशितैः शरैः ॥ २१ ॥
तद्बाणशतनिर्भिन्नं विदारितशिलातलम् ।
सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥ २२ ॥
महाबलः वालिपुत्रः अस्य महोदरवाहनस्य गजस्य विषाणं निष्कृष्य अभिप्लुत्य वेगेन सन्निपत्य । देवान्तकं ताडयामासेति संबन्धः ।। १५-२२ ॥
ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा ।
परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ २३ ॥
तमापतन्तमुत्प्लुत्य हनुमान्मारुतात्मजः ।
आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ॥ २४ ॥
शिरसि प्रहरन्वीरस्तदा वायुसुतो बली ।
नादेनाकम्पयच्चैव राक्षसान्स महाकपिः ॥ २५ ॥
स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वैः ।
देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ॥ २६ ॥
तस्मिन्हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ ।
क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥ २७ ॥
महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम् ।
भूयः समधिरुह्याशु मन्दरं रश्मिवानिव ॥ २८ ॥
ततो बाणमयं वर्ष नीलस्योरस्यपातयत् ।
गिरौ वर्षं तडिचक्रचापवानिव तोयदः ॥ २९ ॥
जृम्भितं भग्नमिति यावत् । जृम्भितं तद्धनुर्दृष्ट्वेत्यादिवत् ।। २३ – २९ ॥
ततः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः ।
नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥ ३० ॥
ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षषण्डम् ।
ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि ॥ ३१ ॥
निसृष्टगात्रः शिथिलगात्रः । विष्टम्भितः स्तब्धीकृतः । एतन्निसृष्टत्वे हेतुः ।। ३०-३१ ।।
ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन ।
विपोथितो भूमितले गतासुः पपात वज्राभिहतो यथाऽद्रिः ॥ ३२ ॥
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे ।
हनुमन्तं च संक्रुद्धो विव्याध निशितैः शरैः ॥ ३३ ॥
स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः ।
त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥ ३४ ॥
तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्ष महाकपिः ।
बिससर्ज रणे तसिन्रावणस्य सुतं प्रति ॥ ३५ ॥
तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान् ।
त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥ ३६॥
ततो हनूमानुत्प्लुत्य हयांस्त्रिशिरसस्तदा ।
विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ॥ ३७॥
अथ शक्तिं समादाय कालरात्रिमिवान्तकः ।
चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ ३८ ॥
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसंगताम् ।
गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ ३९ ॥
विपोथितः हिंसितः ।। ३२-३९ ॥
तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता ।
प्रहृष्टा वानरगणा विनेदुर्जलदा इव ॥ ४० ॥
घोरसंकाशां भयंकरप्रकाशां ॥ ४० ॥
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः ।
निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ॥ ४१ ॥
खड्गप्रहारामिहतो हनूमान्मारुतात्मजः ।
आजधान त्रिशिरसं तलेनोरसि वीर्यवान् ॥ ४२ ॥
व्यूढे विशाले ॥ ४१–४२ ॥
स तलाभिहतस्तेन संस्तहस्तायुधो भुवि ।
निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ ४३ ॥
स तस्य पततः खड्गं समाच्छिद्य महाकपिः ।
ननाद गिरिसंकाशस्त्रासयन्सर्वनैर्ऋतान् ॥ ४४ ॥
अमृष्यमाणस्तं घोपमुत्पपात निशाचरः ।
उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ ४५ ॥
तेन मुष्टिप्रहारेण संचुकोप महाकपिः ।
कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ।
[ हनुमान्रोषताम्राक्षो राक्षसं परवीरहा ] ॥ ४६ ॥
व्यक्तचेतनः मूर्च्छित इत्यर्थः ।। ४३-४६ ।।
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि ।
क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ।। ४७ ।।
त्वष्टुः सुतः विश्वरूपः। विश्वरूपो वै त्वाष्ट्रः पुरोहितः इत्यादि श्रुतिप्रसिद्धः ॥ ४७ ॥
तान्यायताक्षाण्यगसन्निभानि प्रदीप्तवैश्वानरलोचनानि ।
पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथाऽर्कमार्गात् ।। ४८ ।।
तस्मिन्हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण ।
नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ।। ४९ ॥
मुक्तानि अनुभूतपुण्यफलानि । अर्कमार्गात् आकाशात् ।। ४८-४९ ।।
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् ।
हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥ ५० ॥
चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः ।
जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम् ।। ५१ ।।
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम् ।
विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ।। ५२ ।।
तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम् ।
ऐरावतमहापद्मसार्वभौमभयावहाम् ।। ५३ ।।
गदामादाय संक्रुद्धो मत्तो राक्षसपुङ्गवः ।
हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥ ५४ ॥
हतं त्रिशिरसमित्यादि चतुश्लोक्येकान्वया । मत्तः महापार्श्वः । मत्त इति महापार्श्वस्य नामान्तरं । मांसशोणितफेनिलामिति युद्धकालिकरूपं । शत्रुशोणितरञ्जितामिति पूर्वकालिकरूपं । महापद्मः पुण्डरीकाह्वयदिग्गज: ।। ५०-५४ ।।
अथर्षभः समुत्पत्य वानरो रावणानुजम् ।
मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ।। ५५ ।।
तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् ।
आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥ ५६ ॥
मत्तानीकं मत्तानीक इति च महापार्श्वस्य नामान्तरं ॥ ५५-५६ ।।
स तयाऽभिहतस्तेन गदया वानरर्षभः ।
भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ ५७ ॥
स संप्राप्य चिरात्संज्ञामृषभो वानरर्षभः ।
[ क्रुद्धो विस्फुरमाणोष्ठो महापार्श्वमुदैक्षत ।। ५८ ।।
स वेगवान्वेगवदभ्युपेत्य तं राक्षसं वानरवीरमुख्यः ।।
संवर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः ॥ ५९ ॥
स कृत्तमूलः सहसेव वृक्षः क्षितौ पपात क्षतजोक्षिताङ्गः ।
तां चास्य घोरां यमदण्डकल्पां गर्दा प्रगृह्याशु तदा ननाद ॥ ३० ॥
मुहूर्तमासीत्स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः ।
उत्पत्य संध्याभ्रसमानवर्णस्तं वारिराजात्मजमाजघान ॥ ६१ ॥
स मूच्छितो भूमितले पपात मुहूर्तमुत्पत्य पुनः ससंज्ञः ।
तामेव तस्याद्रिवराद्रिकल्पां गदां समाविध्य जघान संख्ये ।। ६२ ।।
सा तस्य रौद्रा समुपेत्य देहं रौद्रस्य देवाध्वरविप्रशत्रोः ।
बिभेद वक्षः क्षतजं च भूरि सुस्राव धात्वंभ इवाद्रिराजः] ॥ ६३ ॥
समाधूतः कम्पितः ॥ ५७–६३ ॥
अभिदुद्राव वेगेन गदां तस्य महात्मनः ।। ६४ ॥
गृहीत्वा तां गदां भीमामाविध्य च पुनः पुनः ।
मत्तानीकं महात्मानं जघान रणमूर्धनि ॥ ६५॥
स स्वया गदया भग्नो विशीर्णदशनेक्षणः ।
निपपात ततो मत्तो वज्राहत इवाचलः ।। ६६ ।।
विशीर्णनयने भूमौ गतसच्चे गतायुषि ।
पतिते राक्षसे तस्मिन्विद्रुतं राक्षसं बलम् ॥ ६७ ॥
[ उन्मत्तस्तु तदा दृष्ट्वा गतासुं भ्रातरं रणे ।
चुकोप परमक्रुद्धः प्रलयाग्निसमद्युतिः ॥ ६८ ॥
ततः समादाय गदां स वीरो वित्रासयन्वानरसैन्य मुग्रम् ।
दुद्राव वेगेन तु सैन्यमध्ये दहन्यथा वहिरतिप्रचण्डः ॥ ६९ ॥
आपतन्तं तदा दृष्ट्वा राक्षसं भीमविक्रमम् ।
शैलमादाय दुद्राव गवाक्षः पर्वतोपमः ॥ ७० ॥
जिघांसू राक्षसं भीमं तं शैलेन महाबलः ।
आपतन्तं तदा दृष्ट्वा उन्मत्तोपि महागिरिम् ॥ ७१
चिच्छेद गदया वीरः शतधा तत्र संयुगे ।
चूर्णीकृतं गिरिं दृष्ट्वा रक्षसा कपिकुञ्जरः ॥ ७२ ॥
विस्मितोऽभून्महाबाहुर्जगर्ज च मुहुर्मुहुः ।
उन्मत्तस्तु सुसंक्रुद्धो ज्वलन्तीं राक्षसोत्तमः ॥ ७३ ॥
गदामादाय वेगेन कपेर्वक्षस्यताडयत् ।
स तया गदया वीरस्ताडितः कपिकुञ्जरः ॥ ७४ ॥
पपात भूमौ निस्संज्ञः सुस्राव रुधिरं बहु ।
पुनः संज्ञामथास्थाय वानरः स समुत्थितः ॥ ७५ ॥
तलेन ताडयामास ततस्तस्य शिरः कपिः ।
तेन प्रताडितो वीरो राक्षसः पर्वतोपमः ।। ७६ ।।
वित्रस्तदन्तनयनो निपपात महीतले ।
सुस्राव रुधिरं सोष्णं गतासुश्च ततोऽभवत् ] ॥ ७७ ॥
गदामभिदुद्राव गदां ग्रहीतुं दुद्रावेत्यर्थः ।। ६४-७७ ।।
तस्मिन्हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम् ।
त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसन्निकाशम् ॥ ७८ ॥
केवलजीविवार्थ यशोरहितजीवनार्थं । भिन्नार्णवसन्निकाशमिति क्रियाविशेषणं ॥ ७८ ॥
इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः ॥ ७० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्ततितमः सर्गः ।। ७० ।।