14 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्दशः सर्गः त्रैलोक्यविजयप्रतिज्ञानपूर्वकं प्रहस्तादिसचिवैः सेनयाचसहनिर्गतेनरावणेन प्रथमंकुबेर -जयाय कैलासंप्रतिगमनम् ॥ १ ॥ कुबेरसेनाभिःसहयुध्यतारावणेन सूर्यभानुनामकयक्षवधे यक्षसेनाभी रावणभयात्पलायनम् ॥ २ ॥ ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः । महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ॥ १ ॥ धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना । संवृतः प्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ॥ २ ॥ पुराणि स नदी: शैलान्वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् […]

13 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोदशः सर्गः ब्रह्मोत्सृष्टनिद्वानिपीडितेनकुंभकर्णेन स्ववचनाद्रावणनिर्मापितगृहवरे चिरस्वापारंभः ।। १ ।। रावणेन देवर्ष्यादिविहिंसने तदसहमानेनकुबेरेण तन्निवर्तनायरावणंप्रति दूतप्रेषणम् ॥ २ ॥ कुबेरनिदेशश्रवणरुष्टेनरावणेन दूतशिरश्छेदनम् ॥ ३ ॥ अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् । निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ १ ॥ ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः । निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥ २ ॥ विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् । […]

12 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वादशः सर्गः शूर्पणखायाःकालकेयायविद्युजिह्वाय दानानन्तरं मृगयार्थमटवींपर्यटतादशकण्ठेन तत्रमयस्यानुमत्या तत्तनयायामन्दोदर्याः परिणयः ॥ १ ॥ तथा वैरोचनदौहित्र्यावज्रज्वालायाः शैलूषतनयायाः सरमायाश्च क्रमेणकुंभकर्णविभीषणाभ्यामुद्वाहनम् ॥ २ ॥ तथा मन्दोदर्यामिन्द्र जिदुत्पादनम् ॥ ३ ॥ राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा । ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ १ ॥ स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् । ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ २ ॥ अथ […]

11 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकादशः सर्गः रावणादीनांवरलाभहृष्टेनसुमालिना प्रहस्तादिभिःसह रावणसमीपमेत्यतंप्रति लङ्कायाः पुरानिजालयत्वकथनपूर्वकं कुबेरस्य ततःप्रव्राजनचोदना ॥ १ ॥ रावणेन भ्रातृगौरवात्तद्वचनानादरणे तंप्रतिप्रहस्तेन पुनस्समयान्तरे निपुणंदुर्बोधनम् ॥ २ ॥ तदनुरोधिनारावणेन कुबेरंप्रति लङ्कात्यागे दूत्येनप्रहस्तप्रेषणम् ॥ ३ ॥ कुबेरेण पितरिविश्रवसि रावणवचननिवेदनपूर्वकं तन्नियोगेन लङ्कातः पौरैः सह कैलासगमनम् ॥ ४ ॥ ततोलङ्कांप्रविष्टैःसुमालिप्रभृतिभी रावणस्य लङ्काराज्येऽभिषेचनम् ॥ ५ ॥ सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् । उदतिष्ठद्भयं त्यक्त्वा […]

10 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशमः सर्गः रावणादितपस्तुष्टेनब्रह्मणारावणायतत्प्रार्थनानुसारेण मानुपान्यसर्वावध्यत्ववरदानपूर्वकं पुनः परितोषाच्छेदेछेदेपुनर्नवनवशिरः प्ररोहादिविषयकवरान्तरदानम् ॥ १॥ विभीषणाय तत्प्रार्थनानुरेधेनधार्मिकत्वादिवरदानपूर्वकं स्वयंचिरजीवित्ववरदानम् ॥ २ ॥ कुंभकर्णाय -वरदानप्रवृत्तेनब्रह्मणा देवगणप्रार्थनयासरस्वतींप्रति तजिह्वासंनिधानेन विपरीतवरवरणकरण -प्रेरणा ।। ३ ।। ब्रह्मणा सरस्वतीविमोहितमनस्कतयाकुंभकर्णेनचिरस्वापयाचने तस्मैतद्दानपूर्वकं -स्वलोकगमनम् ॥ ४ ॥ अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥ १ ॥ अगस्त्यस्त्वब्रवीन्तत्र रामं सुप्रीतमानसम् । तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते […]

09 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवमः सर्गः कदाचन तनययासहरसातलाद्भूतलंगतेनसुमालिनाराक्षसेन विश्रवसोदर्शनायपुष्पक -विमानेनगच्छतः कुबेरस्य दर्शनम् ॥ १ ॥ तत्तुल्यपौत्रकामेनतेन निजकन्यायाःकैकस्या विश्रवस्समीपंप्रति प्रेषणम् ॥ २ ॥ तपःप्रभावेन कैकसीभावविदातेन तांप्रति प्रदोषसमयसमा -गमनाद्धेतो रूक्षराक्षसरूपापत्यजननोक्तिः ॥ ३ ॥ ततस्तयाप्रार्थनाप्रसादितेनतेन पुनस्तांप्रति धर्मिष्ठकनिष्ठतनयजननविषयकवरदानम् ॥ ४ ॥ ततःकैकस्यां कालक्रमेणविश्रवस्सकाशा -द्रावणकुंभकर्णशूर्पणखाविभीषणानांजननम् ॥ ५ ॥ रावणेन मातृप्रेरणयाकुंभकर्णविभीषणाभ्यां -सह गोकर्णेतपश्चरणम् ॥ ६ ॥ कस्य चित्वथ कालस्य सुमाली नाम […]

08 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टमः सर्गः श्रीनारायणेन युद्धे माल्यवत्सुमालिनोः पराजयः ॥ १ ॥ ततस्ताभ्यां विष्णुभयाल्लङ्का -त्यागेन सकलस्वजनैः सह पाताले वासः ॥ २ ॥ ततोरक्षोजनशून्यायांलङ्कायां कुबेरेणवासः ॥ ३ ॥ हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः । माल्यवान्त्सन्निवृत्तोथ वेलामेत्य इवार्णवः ॥ १ ॥ संरक्तनयनः कोपाच्चलन्मौलिर्निशाचर: । पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥ २ ॥ पृष्ठतः अनुद्रुत्येति शेषः ॥ १-२ ॥ […]

07 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तमः सर्गः श्रीनारायणेन बहुराक्षससेनासंहरणपूर्वकं मालिवधः ॥ १ ॥ नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। १ ॥ श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः । वृतोञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः ॥ २ ॥ श्याम: सन्नवदातः शुभ्र: श्यामावदात: निर्मल इत्यर्थ: । अञ्जनगिरीवेति विभक्तिलोपश्छान्दसः ॥ २ ॥   शलभा इव केदारं मशका इव पर्वतम् । यथाऽमृतघटं दंशा मकरा इव […]

06 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्ठः सर्गः माल्यवदादिराक्षसपीडितैः सुरादिभीरुद्रसमीपमेत्य रक्षःपीडानिवेदनपूर्वकं तद्वधप्रार्थने तेनतान्प्रतितेषांस्वावध्यत्वकथनपूर्वकं श्रीनारायणशरणीकरणचोदना ।। १ ।। सुरादिभिः सप्रणामंप्रार्थितेनहरिणा तान्प्रति रक्षःक्षपणप्रतिज्ञानपूर्वकं तेषां स्वस्वालयान्प्रतिप्रेषणम् ।। २ ।। विदितनारायणप्रतिज्ञानेनमाल्यवता तत्प्रतिज्ञायादेवगणप्रार्थनामूलकत्वनिर्धारणेन भ्रातृभ्यां -रक्षोगणैश्चसह देवगणविध्वंसनायदेवलोकगमनेनतैः सहसमरारंभः ॥ ३ ॥ श्रीनारायणेन सुपर्णारोहणेनसुरलोकमेत्य रक्षोभिः सहयुद्धारंभः ॥ ४ ॥ तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः । भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम्  ।। १ ॥ जगत्सृष्टन्तकर्तारमजमव्यक्तरूपिणम् । आधारं […]

05 Sarga उत्तरकाण्डः

श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चमः सर्गः सुकेशान्माल्यवान्सुमालीमालीचेति त्रयाणांरक्षसामुत्पत्तिः ॥ १ ॥ स्वतपस्तुष्टपरमेष्ठिवर -दृप्तैस्तैः सुरासुरादिप्रबोधनपूर्वकं लङ्कायांविश्वकर्मवचनान्निवासः ॥ २ ॥ तैर्निजकलत्रेषु बहुरूक्षरक्षोपत्यसमुत्पादनम् ॥ ३ ॥ सुकेशं धार्मिक दृष्ट्वा वरलब्धं च राक्षसम् । ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ १ ॥ तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी । तां सुकेशाय धर्मेण ददौ रक्षः श्रियं यथा ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.