पारिप्लवाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

पारिप्लवाधिकरणम् ॥ ३ ॥


पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ३-४-२३ ॥

   वाजसनेयके – *अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुरि*(बृह.६-५-२)त्याद्याख्यानानाम् *सर्वाण्याख्यानानि पारिप्लवे शम्सन्ती* ति अश्वमेधगतपारिप्लवनामकशम्सने विनियुक्तत्वात् पारिप्लवार्थान्या
ख्यानानि न तु विद्योपयोगीनीति चेन्न – विशेषितत्वात् । न सर्वाण्या-ख्यानानि पारिप्लवार्थानि भवितुमर्हन्ति । *सर्वाण्याख्यानानि पारिप्लवे शम्सन्ती*ति विधाय *मनुर्वैवम्वतो राजे* त्यादिना केषाम् चिदाख्यानानामेव विशेषितत्वात् वाक्यशेषपठितानामेव आख्यानानाम् पारिप्लवे विनियोगः न सर्वेषाम् । अतो विद्यासन्निधिपठितानाम् याज्ञवल्क्याद्याख्यानानाम् तत्तद्विद्यागतपरमात्मविषयत्वादिविशेषप्रति-पादनोपयुक्तत्वमेव ।

तथा चैकवाक्योपबन्धात् ॥ ३-४-२४ ॥

यथा *तेजो वै घृतम्*(तै.ब्रा.३-१२-५-१२) *सोऽरोदीदि*(तै.सम्.१-५-१) त्येवमादीनाम् *अक्ताश्शर्करा उपदधाति*(तै.ब्रा.३-१२-५-१२) *तस्मा-द्बर्हिषि न रजतम् देयमि*(तै.सम्.१-५-१-२)त्यादिविधिनिषेधैकवाक्यतया विधिनिषेधस्तुतिनिन्दाद्युपयोगित्वम् तथैव *आत्मा वा अरे द्रष्टव्य*(बृह. ४-४-६) इति विधिना आख्यानानामेकवाक्यतोपबन्धात् विधेयविद्या-विशेषोप योगित्वमवश्याभ्युपगन्तव्यमिति भावः ।
ननु *आत्मा वा अर*(बृह.४-४-६) इति वाक्ये द्रष्टव्य इति न विधिः । दृशिघातोः चाक्षुषज्ञानवाचितया चाक्षुषज्ञानस्य *न चक्षुषा दृश्यत*(मुण्ड.३-१-८) इति अचाक्षुषतया प्रतिपन्ने ब्रह्मण्यसम्भवात् । नापि श्रोतव्य इति विधिः । स्वाध्यायस्य अर्थपरत्वेन अधीतवेदः पुरुषः प्रयोजनवदर्थदर्शनात् तन्निर्णयाय स्वयमेव गुरुमुखात् न्याययुक्तार्थ-ग्रहणलक्षणे श्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वात् अनुवादः । स्वात्मनि एवमेवेति श्रुतार्थप्रतिष्ठापनलक्षणमननस्य श्रवणप्रतिष्ठार्थत्वेन प्राप्तत्वात् मन्तव्य इति चानुवादः । निदिध्यासनस्य स्मृतिरूपतया श्रुतार्थविषयत्वात् निदिध्यासितव्य इति चानुवादः । अतो विध्य-सम्भवात् न विध्येकतापन्नानि आख्यानानीति चेन्न । *क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावर*(मुण्ड.२-२-८) इति दर्शनस्यापि मोक्षाव्यव-हितसाधनत्वश्रवणात् दृशिधातुना दर्शनसमानाकारकविशदम् ज्ञानमभि-धीयते । तथा *स्मृतिलम्भे सर्वग्रन्थीनाम् विप्रमोक्ष*(छान्.७-२६-२) इति ध्यानस्य मोक्षाव्यवहितकारणत्व श्रवणात् ध्यानमपि विधीयते । अत उभयोरेकार्थत्वस्य वक्तव्यत्वात् *द्रष्टव्यो निदिध्यासितव्य*(बृह.४-४-६) इत्याभ्याम् दर्शनसमानाकारत्वविशिष्टम् ध्यानम् विधीयते । *आर्षेयम् वृणीते त्रीन् वृणीत*(जै.मी.सू.६-१-४३-१० अधि) इत्याभ्याम्
त्रित्वविशिष्टार्षेयवरणविधानवदिति द्रष्टव्यम् । न च निदिध्यासनस्य स्मृतिरूपतया प्राप्तत्वम् शक्यम् । *निदिध्यासितव्य*(बृह.६-५-६) इति अनवरतभावनारूपस्य ध्यानस्य विधानात् अनवरतभावना रूपत्वस्य अप्राप्तत्वात् । न च सन् श्रुतिवैयर्थ्यम्, उपायदशाप्रभृतिभगवद्ध्यानस्य अनुकूलत्वसूचनाय सन्नन्तपदेन निर्देशसम्भवात् । अतो *न वा अरे* (बृह.६-५-६)इति वाक्यस्य विधायकत्वसम्भवात् विध्येकवाक्यताप-न्नानि विधेयविद्याविशेषोपयोगीन्येवेति सर्वम् सुस्थम् ।

इति पारिप्लवार्थाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.