मनुस्मृतिः द्वितीयोऽध्यायः

मनुस्मृतिः

अथ द्वितीयोऽध्यायः

(धर्मः, संस्काराः, ब्रह्मचारिधर्माश्च)

2.1 विद्वद्भिः सेवितः सद्भिर् नित्यम् अ द्वेष रागिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस् तं निबोधत ।।

2.2 कामात्मता न प्रशस्ता न चैवेहास्त्य् अकामता । काम्यो हि वेदाधिगमः कर्मयोगश् च वैदिकः ।।

2.3 संकल्प मूलः कामो वै यज्ञाः संकल्प संभवाः । व्रतानि यमधर्माश् च सर्वे संकल्पजाः स्मृताः ।।

2.4 अ कामस्य क्रिया का चिद् दृश्यते नेह कर्हि चित् । यद् यद्द् हि कुरुते किं चित् तत् तत् कामस्य चेष्टितम् ।।

2.5 तेषु सम्यग् वर्तमानो गच्छत्य् अमरलोकताम् । यथा संकल्पितांश् चेह सर्वान् कामान् समश्नुते ।।

2.6 वेदो ‘अखिलो धर्ममूलं स्मृति शीले च तद्विदाम् । आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ।।

2.7 यः कश् चित् कस्य चिद् धर्मो मनुना परिकीर्तितः । स सर्वो ‘अभिहितो वेदे सर्वज्ञानमयो हि सः ।।

2.8 सर्वं तु समवेक्ष्येदम् निखिलं ज्ञानचक्षुषा । श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ।।

2.9 श्रुति स्मृत्युदितम् धर्मम् अनुतिष्ठन् हि मानवः । इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमम् सुखम् ।।

2.10 श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । ते सर्वार्थेष्व् अ मीमाम्स्ये ताभ्यां धर्मो हि निर्बभौ ।।

2.11 यो ‘अवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः । स साधुभिर् बहिष्कार्यो नास्तिको वेदनिन्दकः ।।

2.12 वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः । एतच् चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ।।

2.13 अर्थ कामेष्व् अ सक्तानाम् धर्मज्ञानं विधीयते । धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।।

2.14 श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ । उभाव् अपि हि तौ धर्मौ सम्यग् उक्तौ मनीषिभिः ।।

2.15 उदिते ‘अनुदिते चैव समयाध्युषिते तथा । सर्वथा वर्तते यज्ञ इतीयम् वैदिकी श्रुतिः ।।

2.16 निषेकादि श्मशानान्तो मन्त्रैर् यस्योदितो विधिः । तस्य शास्त्रे ‘अधिकारो ‘अस्मिञ् ज्ञेयो नान्यस्य कस्य चित् ।।

2.17 सरस्वती दृशद्वत्योर् देवनद्योर् यद् अन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ।।

2.18 तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः । वर्णानां सान्तरालानाम् स सदाचार उच्यते ।।

2.19 कुरुक्षेत्रं च मत्स्याश् च पञ्चालाः शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरः ।।

2.20 एतद् देशप्रसूतस्य सकाशाद् अग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ।।

2.21 हिमवद् विन्ध्ययोर् मध्यं यत् प्राग् विनशनाद् अपि । प्रत्यग् एव प्रयागाच् च मध्यदेशः प्रकीर्तितः ।।

2.22 आ समुद्रात् तु वै पूर्वाद् आ समुद्राच् च पश्चिमात् । तयोर् एवान्तरम् गिर्योर् आर्यावर्तं विदुर् बुधाः ।।

2.23 कृष्णसारस् तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् त्व् अतः परः ।।

2.24 एताण् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः । शूद्रस् तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः ।।` म्यस्मिम्स् तस्मिन् वा

2.25 एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता । संभवश् चास्य सर्वस्य वर्णधर्मान् निबोधत ।।

2.26 वैदिकैः कर्मभिः पुण्यैर् निषेकादिर् द्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ।।

2.27 गार्भैर् होमैर् जातकर्म चौड मौञ्जी निबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ।।

2.28 स्वाध्यायेन व्रतैर् होमैस् त्रैविद्येनेज्यया सुतैः । महायज्ञैश् च यज्ञैश् च ब्राह्मीयम् क्रियते तनुः ।।

2.29 प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते । मन्त्रवत् प्राशनं चास्य हिरण्य मधु सर्पिषाम् ।।

2.30 नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् । पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ।।

2.31 मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ।।

2.32 शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् । म्राज्ञा वैश्यस्य पुष्टि संयुक्तम् शूद्रस्य प्रेष्यसंयुतम् ।।

2.33 स्त्रीणां सुखोद्यम् अ क्रूरम् विस्पष्टार्थम् मनोहरम् । मङ्गल्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ।।

2.34 चतुर्थे मासि कर्तव्यं शिशोर् निष्क्रमणं गृहात् । षष्ठे ‘अन्नप्राशनं मासि यद् वेष्टम् मङ्गलं कुले ।।

2.35 चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः । प्रथमे ‘अब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ।। म्श्रुतिनोदनात्

2.36 गर्भाष्टमे ‘अब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भाद् एकादशे राज्ञो गर्भात् तु द्वादशे विशः ।।

2.37 ब्रह्मवर्चस कामस्य कार्यो विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनो ‘अष्टमे ।।

2.38 आ षोदशाद् ब्राह्मणस्य सावित्री नातिवर्तते । आ द्वाविंशात् क्षत्रबन्धोर् आ चतुर्विंशतेर् विशः ।।

2.39 अत ऊर्ध्वं त्रयो ‘अप्य् एते यथाकालम् अ संस्कृताः । सावित्रीपतिता व्रात्या भवन्त्य् आर्यविगर्हिताः ।।

2.40 नैतैर् अ पूतैर् विधिवद् आपद्य् अपि हि कर्हि चित् । ब्राह्मान् यौनांश् च संबन्धान् नाचरेद् ब्राह्मणः सह ।। म्ब्राह्मणैः सह

2.41 कार्ष्ण रौरव बास्तानि चर्माणि ब्रह्मचारिणः । वसीरन्न् आनुपूर्व्येण शाण क्षौमाविकानि च ।।

2.42 मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ।।

2.43 मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तक बल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिर् एव वा ।।

2.44 कार्पासम् उपवीतं स्याद् विप्रस्योर्ध्ववृतम् त्रिवृत् । शण सूत्रमयम् राज्ञो वैश्यस्याविकसौत्रिकम् ।।

2.45 ब्राह्मणो बैल्व पालाशौ क्षत्रियो वाट खादिरौ । पैलवौदुम्बरौ वैश्यो दण्डान् अर्हन्ति धर्मतः ।।

2.46 केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः ।।

2.47 ऋजवस् ते तु सर्वे स्युर् अ व्रणाः सौम्य दर्शनाः । अन् उद्वेगकरा न्qणां स त्वचो ‘अनग्निदूषिताः ।।

2.48 प्रतिगृह्य ईप्सितम् दण्डम् उपस्थाय च भास्करम् । प्रदक्षिणं परीत्य अग्निम् चरेद् भैक्षं यथाविधि ।।

2.49 भवत् पूर्वम् चरेद् भैक्षम् उपनीतो द्विजोत्तमः । भवन् मध्यम् तु राजन्यो वैश्यस् तु भवद् उत्तरम्

2.50 मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् । भिक्षेत भिक्षाम् प्रथमं या चैनम् नावमानयेत् ।।

2.51 समाहृत्य तु तद् भैक्षं यावदन्नम् अ मायया । म्यावदर्थम् निवेद्य गुरवे ‘अश्नीयाद् आचम्य प्राङ्मुखः शुचिः ।।

2.52 आयुष्यं प्राङ् मुखो भुङ्क्ते यशस्यं दक्षिणा मुखः । श्रियं प्रत्यङ् मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्य् उदङ् मुखः ।।

2.53 उपस्पृश्य द्विजो नित्यम् अन्नम् अद्यात् समाहितः । भुक्त्वा चोपस्पृशेत् सम्यग् अद्भिः खानि च संस्पृशेत् ।।

2.54 पूजयेद् अशनं नित्यम् अद्याच् चैतद् अ कुत्सयन् । दृष्ट्वा हृष्येत् प्रसीदेच् च प्रतिनन्देच् च सर्वशः ।।

2.55 पूजितं ह्य् अशनं नित्यं बलम् ऊर्जं च यच्छति । अ पूजितम् तु तद् भुक्तम् उभयं नाशयेद् इदम् ।।

2.56 नोच्छिष्टम् कस्य चिद् दद्यान् नाद्याद् एतत् तथान्तरा । न चैवात्यशनम् कुर्यान् न चोच्छिष्टः क्व चिद् व्रजेत् ।।

2.57 अन् आरोग्यम् अन् आयुष्यम् अ स्वर्ग्यम् चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ।।

2.58 ब्राह्मेण विप्रस् तीर्थेन नित्यकालम् उपस्पृशेत् । काय त्रैदशिकाभ्याम् वा न पित्र्येण कदा चन ।।

2.59 अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते । कायम् अङ्गुलिमूले ‘अग्रे देवं पित्र्यं तयोर् अधः ।।

2.60 त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् । खानि चैव स्पृशेद् अद्भिर् आत्मानं शिर एव च ।।

2.61 अन् उष्णाभिर् अ फेनाभिर् अद्भिस् तीर्थेन धर्मवित् । शौचेप्सुः सर्वदाचामेद् एकान्ते प्राग् उदङ् मुखः ।।

2.62 हृद्गाभिः पूयते विप्रः कण्ठगाभिस् तु भूमिपः । वैश्यो ‘अद्भिः प्राशिताभिस् तु शूद्रः स्पृष्टाभिर् अन्ततः ।।

2.63 उद्धृते दक्षिने पाणाव् उपवीत्युच्यते द्विजः । सव्ये प्राचीनावीती निवीती कण्ठसज्जने ।।

2.64 मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीत अन्यानि मन्त्रवत् ।।

2.65 केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके मतः ।।

2.66 अ मन्त्रिका तु कार्या इयम् स्त्रीणाम् आवृद् अशेषतः । संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ।।

2.67 वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । पतिसेवा गुरौ वासो गृहार्थो ‘अग्नि परिक्रिया ।।

2.68 एष प्रोक्तो द्विजातीनाम् औपनायनिको विधिः । उत्पत्ति व्यञ्जकः पुण्यः कर्मयोगं निबोधत ।।

2.69 उपनीय गुरुः शिष्यं शिक्षयेत् शौचम् आदितः । आचारम् अग्निकार्यं च संध्योपासनम् एव च ।।

2.70 अध्येष्यमाणस् त्व् आचान्तो यथाशास्त्रम् उदङ् मुखः । ब्रह्माञ्जलि कृतो ‘अध्याप्यो लघु वासा जितेन्द्रियः ।।

2.71 ब्रह्मारम्भे ‘अवसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्ताव् अध्येयं स हि ब्रह्माञ्जलिः स्मृतः ।।

2.72 व्यत्यस्त पाणिना कार्यम् उपसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ।।

2.73 अध्येष्यमाणं तु गुरुर् नित्यकालम् अ तन्द्रितः । अधीष्व भो इति ब्रूयाद् विरामो ‘अस्त्व् इति चारमेत् ।।

2.74 ब्रह्मनः प्रणवं कुर्याद् आदाव् अन्ते च सर्वदा । स्रवत्य् अन् ओंकृतम् पूर्वं परस्ताच् च विशीर्यति ।।

2.75 प्राक् कूलान् पर्युपासीनः पवित्रैश् चैव पावितः । प्राणायामैस् त्रिभिः पूतस् तत ओंकारम् अर्हति ।।

2.76 अ कारम् चाप्य् उ कारम् च म कारम् च प्रजापतिः । वेदत्रयात् निरदुहद् भूर् भुवः स्वर् इतीति च ।।

2.77 त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत् । तद् इत्य् ऋचो ‘अस्याः सावित्र्याः परमेष्ठी प्रजापतिः ।।

2.78 एतद् अक्षरम् एतां च जपन् व्याहृति पूर्विकाम् । संध्ययोर् वेदविद् विप्रो वेदपुण्येन युज्यते ।।

2.79 सहस्रकृत्वस् त्व् अभ्यस्य बहिर् एतत् त्रिकं द्विजः । महतो ‘अप्य् एनसो मासात् त्वचेवाहिर् विमुच्यते ।।

2.80 एतयर्चा विसंयुक्तः काले च क्रियया स्वया । ब्रह्म क्षत्रिय विश् योनिर् गर्हणां याति साधुषु ।।

2.81 ओंकार पूर्विकास् तिस्रो महाव्याहृतयो ‘अव्ययाः । म् ओङ्कार त्रि पदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ।।

2.82 यो ‘अधीते ‘अहन्य् अहन्य् एतां त्रीणि वर्षाण्य् अ तन्द्रितः । स ब्रह्म परम् अभ्येति वायुभूतः ख मूर्तिमान् ।।

2.83 एकाक्षरं परं ब्रह्म प्राणायामः परं तपः । सावित्र्यास् तु परं नास्ति मौनात् सत्यं विशिष्यते ।।

2.84 क्षरन्ति सर्वा वैदिक्यो जुहोति यजति क्रियाः । अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ।। एष अक्षरं त्व् अक्षरं ज्ञेयं

2.85 विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः । उपांशुः स्यात् शतगुणः साहस्रो मानसः स्मृतः ।।

2.86 ये पाकयज्ञास् चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ।।

2.87 जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः । कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ।।

2.88 इन्द्रियाणां विचरतां विषयेष्व् अपहारिषु । संयमे यत्नम् आतिष्ठेद् विद्वान् यन्तेव वाजिनाम् ।।

2.89 एकादशेन्द्रियाण्य् आहुर् यानि पूर्वे मनीषिणः । तानि सम्यक् प्रवक्ष्यामि यथावद् अनुपूर्वशः ।।

2.90 श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थम् हस्त पादम् वाक् चैव दशमी स्मृता

2.91 बुद्धीन्द्रियाणि पञ्चैषाम् श्रोत्रादीन्य् अनुपूर्वशः । कर्मेन्द्रियाणि पञ्चैषाम् पाय्वादीनि प्रचक्षते ।।

2.92 एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । यस्मिन् जिते जिताव् एतौ भवतः पञ्चकौ गणौ ।।

2.93 इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् अ संशयम् । संनियम्य तु तान्य् एव ततः सिद्धिं निगच्छति ।।

2.94 न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ।।

2.95 यश् चैतान् प्राप्नुयात् सर्वान् यश् चैतान् केवलांस् त्यजेत् । प्रापणात् सर्वकामानां परित्यागो विशिष्यते

2.96 न तथैतानि शक्यन्ते संनियन्तुम् असेवया । विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ।।

2.97 वेदास् त्यागश् च यज्ञाश् च नियमाश् च तपांसि च । न विप्रदुष्ट भावस्य सिद्धिं गच्छति कर्हि चित् ।।

2.98 श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ।।

2.99 इन्द्रियाणां तु सर्वेषां यद्य् एकं क्षरति इन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादाद् इवोदकम् ।।

2.100 वशे कृत्वा इन्द्रियग्रामम् संयम्य च मनस् तथा । सर्वान् संसाधयेद् अर्थान् अ क्षिण्वन् योगतस् तनुम् ।।

2.101 पूर्वां संध्यां जपांस् तिष्ठेत् सावित्रीम् आर्कदर्शनात् । पश्चिमां तु समासीनः सम्यग् ऋक्षविभावनात् ।। एष पश्चिमां तु सदासीत

2.102 पूर्वां संध्यां जपंस् तिष्ठन् नैशम् एनो व्यपोहति । पश्चिमाम् तु समासीनो मलं हन्ति दिवाकृतम् ।।

2.103 न तिष्ठति तु यः पूर्वां नोपास्ते यश् च पश्चिमाम् । स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ।।

2.104 अपां समीपे नियतो नैत्यकं विधिम् आस्थितः । सावित्रीम् अप्य् अधीयीत गत्वा अरण्यम् समाहितः ।।

2.105 वेदोपकरणे चैव स्वाध्याये चैव नैत्यके । नानुरोधो ‘अस्त्य् अनध्याये होममन्त्रेषु चैव हि ।।

2.106 नैत्यके नास्त्य् अनध्यायो ब्रह्मसत्त्रं हि तत् स्मृतम् । ब्रह्माहुति हुतम् पुण्यम् अन् अध्याय वषट्कृतम् ।।

2.107 यः स्वाध्यायम् अधीते ‘अब्दं विधिना नियतः शुचिः । तस्य नित्यं क्षरत्य् एष पयो दधि घृतं मधु ।।

2.108 अग्नीन्धनं भैक्षचर्याम् अधःशय्यां गुरोर् हितम् । आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ।।

2.109 आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः । आप्तः शक्तो ‘अर्थदः साधुः स्वो ‘अध्याप्या दश धर्मतः ।।

2.110 नापृष्टः कस्य चिद् ब्रूयान् न चान्यायेन पृच्छतः । जानन्न् अपि हि मेधावी जडवल् लोक आचरेत् ।।

2.111 अधर्मेण च यः प्राह यश् चाधर्मेण पृच्छति । तयोर् अन्यतरः प्रैति विद्वेषं वाधिगच्छति ।।

2.112 धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वप्तव्या शुभं बीजम् इवोषरे ।।

2.113 विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । आपद्य् अपि हि घोरायां न त्व् एनाम् इरिणे वपेत् ।।

2.114 विद्या ब्राह्मणम् एत्याह शेवधिस् ते ‘अस्मि रक्ष माम् । म्शेवधिष् टे असूयकाय मां मादास् तथा स्यां वीर्यवत्तमा ।।

2.115 यम् एव तु शुचिं विद्यान् नियत ब्रह्मचारिणम्। एष विद्या नियतं ब्रह्मचारिणम् तस्मै मां ब्रूहि विप्राय निधिपाया प्रमादिने

2.116 ब्रह्म यस् त्व् अननुज्ञातम् अधीयानाद् अवाप्नुयात् । स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ।

2.117 लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा । आददीत यतो ज्ञानं तं पूर्वम् अभिवादयेत् ।।

2.118 सावित्रीमात्र सारो ‘अपि वरं विप्रः सुयन्त्रितः । ना यन्त्रितस् त्रिवेदो ‘अपि सर्वाशी सर्वविक्रयी ।।

2.119 शय्यासने ‘अध्याचरिते श्रेयसा न समाविशेत् । शय्यासनस्थश् चैवैनम् प्रत्युत्थाय अभिवादयेत् ।।

2.120 ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्याम् पुनस् तान् प्रतिपद्यते ।।

2.121 अभिवादन शीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर् धर्मो यशो बलम् ।। एष चत्वारि संप्रवर्धन्ते

2.122 अभिवादात् परं विप्रो ज्यायांसम् अभिवादयन् । असौ नामाहम् अस्मि इति स्वं नाम परिकीर्तयेत् ।।

2.123 नामधेयस्य ये के चिद् अभिवादं न जानते । तान् प्राज्ञो ‘अहम् इति ब्रूयात् स्त्रियः सर्वास् तथैव च ।।

2.124 भोःशब्दं कीर्तयेद् अन्ते स्वस्य नाम्नो ‘अभिवादने । नाम्नाम् स्वरूप भावो हि भो भाव ऋषिभिः स्मृतः ।।

2.125 आयुष्मान् भव सौम्येति वाच्यो विप्रो ‘अभिवादने । अ कारश् चास्य नाम्नो ‘अन्ते वाच्यः पूर्वाक्षरः प्लुतः ।।

2.126 यो न वेत्त्य् अभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस् तथैव सः ।।

2.127 ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुम् अन् आमयम् । वैश्यं क्षेमं समागम्य शूद्रम् आरोग्यम् एव च ।।

2.128 अ वाच्यो दीक्षितो नाम्ना यवीयान् अपि यो भवेत् । भो भवत् पूर्वकम् त्व् एनम् अभिभाषेत धर्मवित् ।।

2.129 परपत्नी तु या स्त्री स्याद् अ संबन्धा च योनितः । तां ब्रूयाद् भवतीत्य् एवं सुभगे भगिनीति च ।।

2.130 मातुलांश् च पितृव्यांश् च श्वशुरान् ऋत्विजो गुरून् । असाव् अहम् इति ब्रूयात् प्रत्युत्थाय यवीयसः ।।

2.131 मातृश्वसा मातुलानी श्वश्रूर् अथ पितृश्वसा । संपूज्या गुरुपत्नीवत् समास् ता गुरुभार्यया ।।

2.132 भ्रातुर् भार्योपसंग्राह्या स वर्णाहन्य् अहन्य् अपि । विप्रोष्य तूपसंग्राह्या ज्ञाति संबन्धि योषितः ।।

2.133 पितुर् भगिन्यां मातुश् च ज्यायस्यां च स्वसर्य् अपि । मातृवद् वृत्तिम् आतिष्ठेन् माता ताभ्यो गरीयसी ।।

2.134 दशाब्दाख्यम् पौरसख्यं पञ्चाब्दाख्यम् कलाभृताम् । त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ।।

2.135 ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् । पिता पुत्रौ विजानीयाद् ब्राह्मणस् तु तयोः पिता ।।

2.136 वित्तं बन्धुर् वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद् यद् उत्तरम् ।। म्मानस्थानानि

2.137 पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । यत्र स्युः सो ‘अत्र मानार्हः शूद्रो ‘अपि दशमीं गतः ।।

2.138 चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । स्नातकस्य च राज्ञश् च पन्था देयो वरस्य च ।।

2.139 तेषां तु समावेतानां मान्यौ स्नातक पार्थिवौ । राज स्नातकयोश् चैव स्नातको नृपमानभाक् ््

2.140 उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः । स कल्पम् स रहस्यम् च तम् आचार्यं प्रचक्षते ।।

2.141 एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः । यो ‘अध्यापयति वृत्त्यर्थम् उपाध्यायः स उच्यते ।।

2.142 निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विप्रो गुरुर् उच्यते ।।

2.143 अग्न्याधेयं पाकयज्ञान् अग्निष्टोमादिकान् मखान् । यः करोति वृतो यस्य स तस्यर्त्विग् इहोच्यते ।।

2.144 य आवृणोत्य् अ वितथम् ब्रह्मणा श्रवणाव् उभौ । स माता स पिता ज्ञेयस् तं न द्रुह्येत् कदा चन ।।

2.145 उपाध्यायान् दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पित्qन् माता गौरवेणातिरिच्यते ।।

2.146 उत्पादक ब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता । ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ।।

2.147 कामान् माता पिता चैनम् यद् उत्पादयतो मिथः । संभूतिं तस्य तां विद्याद् यद् योनाव् अभिजायते ।।

2.148 आचार्यस् त्व् अस्य यां जातिं विधिवद् वेदपारगः । उत्पादयति सावित्र्या सा सत्या साजरामरा ।।

2.149 अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तम् अपीह गुरुं विद्यात् श्रुतोपक्रियया तया ।।

2.150 ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालो ‘अपि विप्रो वृद्धस्य पिता भवति धर्मतः ।।

2.151 अध्यापयाम् आस पित्qन् शिशुर् आङ्गिरसः कविः । पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ।।

2.152 ते तम् अर्थम् अपृच्छन्त देवान् आगत मन्यवः । देवाश् चैतान् समेत्य ऊचुर् न्याय्यं वः शिशुर् उक्तवान् ।।

2.153 अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम् ।।

2.154 न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः । ऋषयश् चक्रिरे धर्मं यो ‘अनूचानः स नो महान् ।।

2.155 विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । वैश्यानां धान्यधनतः शूद्राणाम् एव जन्मतः ।।

2.156 न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वै युवाप्य् अधीयानस् तं देवाः स्थविरं विदुः ।।

2.157 यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । यश् च विप्रो ‘अन् अधीयानस् त्रयस् ते नाम बिभ्रति ।।

2.158 यथा षण्ढो ‘अ फलः स्त्रीषु यथा गौर् गवि चा फला । यथा चाज्ञे ‘अ फलम् दानं तथा विप्रो ‘अन् ऋचो ‘अ फलः ।।

2.159 अहिम्सयैव भूतानां कार्यं श्रेयो ‘अनुशासनम् । वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्मम् इच्छता ।।

2.160 यस्य वाच् मनसी शुद्धे सम्यग्गुप्ते च सर्वदा । स वै सर्वम् अवाप्नोति वेदान्तोपगतम् फलम् ।।

2.161 नारुम्तुदः स्याद् आर्तो ‘अपि न परद्रोह कर्म धीः । ययास्योद्विजते वाचा नालोक्याम् ताम् उदीरयेत् ।।

2.162 सम्मानाद् ब्राह्मणो नित्यम् उद्विजेत विषाद् इव । अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ।।

2.163 सुखं ह्य् अवमतः शेते सुखं च प्रतिबुध्यते ।। सुखं चरति लोके ‘अस्मिन्न् अवमन्ता विनश्यति ।।

2.164 अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः । गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकं तपः ।।

2.165 तपो विशेषैर् विविधैर् व्रतैश् च विधिचोदितैः । वेदः कृत्स्नो ‘अधिगन्तव्यः स रहस्यो द्विजन्मना ।।

2.166 वेदम् एव सदाभ्यस्येत् तपस् तप्स्यन् द्विजोत्तमः । वेदाभ्यासो हि विप्रस्य तपः परम् इहोच्यते ।।

2.167 आ हैव स नखाग्रेभ्यः परमं तप्यते तपः । यः स्रग्व्य् अपि द्विजो ‘अधीते स्वाध्यायं शक्तितो ‘अन्वहम् ।।

2.168 यो ‘अन् अधीत्य द्विजो वेदम् अन्यत्र कुरुते श्रमम् । स जीवन्न् एव शूद्रत्वम् आशु गच्छति सान्वयः ।।

2.169 मातुर् अग्रे ‘अधिजननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ।।

2.170 तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् । तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते ।।

2.171 वेदप्रदानाद् आचार्यं पितरं परिचक्षते । न ह्य् अस्मिन् युज्यते कर्म किञ् चिद् आ मौञ्जिबन्धनात् ।।

2.172 नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते । शूद्रेण हि समस् तावद् यावद् वेदे न जायते ।।

2.173 कृतोपनयनस्यास्य व्रतादेशनम् इष्यते । ब्रह्मणो ग्रहणं चैव क्रमेण विधि पूर्वकम् ।।

2.174 यद्य् अस्य विहितं चर्म यत् सूत्रं या च मेखला । यो दण्डो यच् च वसनं तत् तद् अस्य व्रतेष्व् अपि ।।

2.175 सेवेत इमाम्स् तु नियमान् ब्रह्मचारी गुरौ वसन् । सन्नियंय इन्द्रियग्रामम् तपोवृद्ध्यर्थम् आत्मनः ।।

2.176 नित्यं स्नात्वा शुचिः कुर्याद् देवर्षि पितृतर्पणम् । देवताभ्यर्चनं चैव समिदाधानम् एव च ।।

2.177 वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ।।

2.178 अभ्यङ्गम् अञ्जनं चाक्ष्णोर् उपानह् छत्रधारणम् । कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ।।

2.179 द्यूतं च जनवादं च परिवादं तथानृतम् । स्त्रीणां च प्रेक्षणालम्भम् उपघातं परस्य च ।। म् आलंभाअव्

2.180 एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्व चित् । कामाद्द् हि स्कन्दयन् रेतो हिनस्ति व्रतम् आत्मनः ।।

2.181 स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अ कामतः । स्नात्वा अर्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ।।

2.182 उदकुम्भं सुमनसो गोशकृत् मृत्तिका कुशान् । आहरेद् यावद् अर्थानि भैक्षं चाहर् अहश् चरेत् ।।

2.183 वेद यज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचार्य् आहरेद् भैक्षं गृहेभ्यः प्रयतो ‘अन्वहम् ।।

2.184 गुरोः कुले न भिक्षेत न ज्ञाति कुल बन्धुषु । अ लाभे त्व् अन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ।।

2.185 सर्वं वापि चरेद् ग्रामं पूर्वोक्तानाम् अ संभवे । नियम्य प्रयतो वाचम् अभिशस्तांस् तु वर्जयेत् ।।

2.186 दूराद् आहृत्य समिधः सन्निदध्याद् विहायसि । सायंप्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ।।

2.187 अ कृत्वा भैक्षचरणम् अ समिध्य च पावकं । अन् आतुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ।।

2.188 भैक्षेण वर्तयेन् नित्यं नैकान्नादी भवेद् व्रती । भैक्षेण व्रतिनो वृत्तिर् उपवास समा स्मृता ।।

2.189 व्रतवद् देव दैवत्ये पित्र्ये कर्मण्य् अथर्षिवत् । कामम् अभ्यर्थितो ‘अश्नीयाद् व्रतम् अस्य न लुप्यते ।।

2.190 ब्राह्मणस्यैव कर्मैतद् उपदिष्टं मनीषिभिः । राजन्य वैश्ययोस् त्व् एवं नैतत् कर्म विधीयते ।।

2.191 चोदितो गुरुणा नित्यम् अ प्रचोदित एव वा । कुर्याद् अध्ययने यत्नम् आचार्यस्य हितेषु च ।। म् अध्ययने योगम्

2.192 शरीरं चैव वाचं च बुद्धीन्द्रिय मनाम्सि च । नियम्य प्राञ्जलिस् तिष्ठेद् वीक्षमाणो गुरोर् मुखम् ।।

2.193 नित्यम् उद्धृत पाणिः स्यात् साध्वाचारः सु संवृतः । आस्यताम् इति चोक्तः सन्न् आसीत अभिमुखम् गुरोः ।।

2.194 हीनान्न वस्त्र वेषः स्यात् सर्वदा गुरुसन्निधौ । उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ।।

2.195 प्रतिश्रावण संभाषे शयानो न समाचरेत् । नासीनो न च भुञ्जानो न तिष्ठन् न पराङ् मुखः ।।

2.196 आसीनस्य स्थितः कुर्याद् अभिगच्छंस् तु तिष्ठतः । प्रत्युद्गम्य त्व् आव्रजतः पश्चाद् धावंस् तु धावतः ।।

2.197 पराङ् मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् । प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ।।

2.198 नीचं शय्यासनम् चास्य नित्यं स्याद् गुरुसन्निधौ । गुरोस् तु चक्षुर्विषये न यथेष्टासनो भवेत् ।।

2.199 नोदाहरेद् अस्य नाम परोक्षम् अपि केवलम् । न चैवास्यानुकुर्वीत गति भाषित चेष्टितम् ।।

2.200 गुरोर् यत्र परिवादो निन्दा वापि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ‘अन्यतः ।।

2.201 परीवादात् खरो भवति श्वा वै भवति निन्दकः । परिभोक्ता कृमिर् भवति कीटो भवति मत्सरी ।।

2.202 दूरस्थो नार्चयेद् एनं न क्रुद्धो नान्तिके स्त्रियाः । यानासनस्थश् चैवैनम् अवरुह्य अभिवादयेत् ।।

2.203 प्रतिवाते ‘अनुवाते च नासीत गुरुणा सह । म्प्रतिवातानुवाते अ संश्रवे चैव गुरोर् न किं चिद् अपि कीर्तयेत् ।।

2.204 गो ‘अश्वोष्ट्र यान प्रासाद प्रस्तरेषु कटेषु च । आसीत गुरुणा सार्धं शिला फलक नौषु च ।।

2.205 गुरोर् गुरौ सन्निहिते गुरुवद् वृत्तिम् आचरेत् । न चा निसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत् ।।

2.206 विद्यागुरुष्व् एवम् एव नित्या वृत्तिः स्वयोनिषु । प्रतिषेधत्सु चाधर्माद्द् हितं चोपदिशत्स्व् अपि ।।

2.207 श्रेयःसु गुरुवद् वृत्तिं नित्यम् एव समाचरेत् । गुरुपुत्रेषु चार्येषु गुरोश् चैव स्वबन्धुषु ।। म्गुरुपुत्रे तथाचार्ये

2.208 बालः समान जन्मा वा शिष्यो वा यज्ञकर्मणि । अध्यापयन् गुरुसुतो गुरुवत् मानम् अर्हति ।।

2.209 उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने । न कुर्याद् गुरुपुत्रस्य पादयोश् चावनेजनम् ।।

2.210 गुरुवत् प्रतिपूज्याः स्युः स वर्णा गुरुयोषितः । अ सवर्णास् तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ।।

2.211 अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ।।

2.212 गुरुपत्नी तु युवतिर् नाभिवाद्या इह पादयोः । पूर्णविंशतिवर्षेण गुण दोषौ विजानता ।।

2.213 स्वभाव एष नारीणां नराणाम् इह दूषणम् । अतो ‘अर्थान् न प्रमाद्यन्ति प्रमदासु विपश्चितः ।।

2.214 अ विद्वाम्सम् अलं लोके विद्वांसम् अपि वा पुनः । प्रमदा ह्य् उत्पथं नेतुं काम क्रोधवशानुगम् ।।

2.215 मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवान् इन्द्रियग्रामो विद्वांसम् अपि कर्षति ।।

2.216 कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवद् वन्दनं कुर्याद् असाव् अहम् इति ब्रुवन् ।।

2.217 विप्रोष्य पादग्रहणम् अन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्मम् अनुस्मरन् ।।

2.218 यथा खनन् खनित्रेण नरो वार्य् अधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति ।।

2.219 मुण्डो वा जटिलो वा स्याद् अथ वा स्यात् शिखा जटः । नैनम् ग्रामे ‘अभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्व चित् ।।

2.220 तं चेद् अभ्युदियात् सूर्यः शयानं कामचारतः । निम्लोचेद् वाप्य् अ विज्ञानाज् जपन्न् उपवसेद् दिनम् ।।

2.221 सूर्येण ह्य् अभिनिर्मुक्तः शयानो ‘अभ्युदितश् च यः । म् अभिनिम्लुक्तः प्रायश्चित्तम् अ कुर्वाणो युक्तः स्यान् महतैनसा ।।

2.222 आचम्य प्रयतो नित्यम् उभे संध्ये समाहितः । शुचौ देशे जपञ् जप्यम् उपासीत यथाविधि ।।

2.223 यदि स्त्री यद्य् अवरजः श्रेयः किं चित् समाचरेत् । तत् सर्वम् आचरेद् युक्तो यत्र चास्य रमेन् मनः ।।

2.224 धर्मार्थाव् उच्यते श्रेयः कामार्थौ धर्म एव च । अर्थ एवेह वा श्रेयस् त्रिवर्ग इति तु स्थितिः ।।

2.225 आचार्यश् च पिता चैव माता भ्राता च पूर्वजः । नार्तेनाप्य् अवमन्तव्या ब्राह्मणेन विशेषतः ।।

2.226 आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्या मूर्तिस् तु भ्राता स्वो मूर्तिर् आत्मनः ।।

2.227 यं माता पितरौ क्लेशं सहेते संभवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैर् अपि ।।

2.228 तयोर् नित्यं प्रियं कुर्याद् आचार्यस्य च सर्वदा । तेष्व् एव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ।।

2.229 तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । न तैर् अन् अभ्यनुज्ञातो धर्मम् अन्यं समाचरेत् ।।

2.230 त एव हि त्रयो लोकास् त एव त्रय आश्रमाः । त एव हि त्रयो वेदास् त एवोक्तास् त्रयो ‘अग्नयः ।।

2.231 पिता वै गार्हपत्यो ‘अग्निर् माताग्निर् दक्षिणः स्मृतः । गुरुर् आहवनीयस् तु साग्नित्रेता गरीयसी ।।

2.232 त्रिष्व् अ प्रमाद्यन्न् एतेषु त्रीन् लोकान् विजयेद् गृही । दीप्यमानः स्ववपुषा देववद् दिवि मोदते ।।

2.233 इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । गुरुशुश्रूषया त्व् एवं ब्रह्मलोकं समश्नुते ।।

2.234 सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः । अन् आदृतास् तु यस्यैते सर्वास् तस्या फलाः क्रियाः ।।

2.235 यावत् त्रयस् ते जीवेयुस् तावएष नान्यम् समाचरेत् । तेष्व् एव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ।।

2.236 तेषाम् अन् उपरोधेन पारत्र्यं यद् यद् आचरेत् । तत् तन् निवेदयेत् तेभ्यो मनो वचन कर्मभिः ।।

2.237 त्रिष्व् एतेष्व् इतिकृत्यं हि पुरुषस्य समाप्यते । एष धर्मः परः साक्षाद् उपधर्मो ‘अन्य उच्यते ।।

2.238 श्रद्दधानः शुभां विद्याम् आददीत अवराद् अपि । अन्याद् अपि परं धर्मं स्त्रीरत्नं दुष्कुलाद् अपि ।।

2.239 विषाद् अप्य् अमृतं ग्राह्यं बालाद् अपि सुभाषितम् । अमित्राद् अपि सद्वृत्तम् अमेध्याद् अपि काञ्चनम् ।।

2.240 स्त्रियो रत्नान्य् अथो विद्या धर्मः शौचं सुभाषितम् । विविधानि च शील्पानि समादेयानि सर्वतः ।।

2.241 अ ब्राह्मणाद् अध्यायनम् आपत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावद् अध्यायनं गुरोः ।।

2.242 ना ब्राह्मणे गुरौ शिष्यो वासम् आत्यन्तिकं वसेत् । ब्राह्मणे वान् अनूचाने काङ्क्षन् गतिम् अन् उत्तमाम् ।।

2.243 यदि त्व् आत्यन्तिकं वासं रोचयेत गुरोः कुले । युक्तः परिचरेद् एनम् आ शरीरविमोक्षणात् ।।

2.244 आ समाप्तेः शरीरस्य यस् तु शुश्रूषते गुरुम् । स गच्छत्य् अञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ।।

2.245 न पूर्वं गुरवे किं चिद् उपकुर्वीत धर्मवित् । स्नास्यंस् तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थम् आहरेत् ।।

2.246 क्षेत्रं हिरण्यं गाम् अश्वं छत्रोपानहम् आसनम् । म्छत्रोपानहम् अन्ततः धान्यं शाकं च वासांसि गुरवे प्रीतिम् आवहेत् । म्धान्यम् वासांसि शाकं वा गुरवे प्रीतिम् आहरन्

2.247 आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते । गुरुदारे सपिण्डे वा गुरुवद् वृत्तिम् आचरेत् ।

2.248 एतेष्व् अ विद्यमानेषु स्थानासन विहारवान् । प्रयुञ्जानो ‘अग्निशुश्रूषां साधयेद् देहम् आत्मनः ।।

2.249 एवं चरति यो विप्रो ब्रह्मचर्यम् अ विप्लुतः । स गच्छत्य् उत्तमस्थानं न चेह जायते पुनः ।।

***********

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.