मनुस्मृतिः दशमोऽध्यायः

मनुस्मृतिः

अथ दशमोऽध्यायः

(वर्ण-जाति-वृत्ति-धर्मविशेषाः)

10.1 अधीयीरंस् त्रयो वर्णाः स्वकर्मस्था द्विजातयः । प्रब्रूयाद् ब्राह्मणस् त्व् एषां नेतराव् इति निश्चयः ।।

10.2 सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि । प्रब्रूयाद् इतरेभ्यश् च स्वयं चैव तथा भवेत् ।।

10.3 वैशेष्यात् प्रकृतिश्रैष्ठ्याएष नियमस्य च धारणात् । संस्कारस्य विशेषाच् च वर्णानां ब्राह्मणः प्रभुः ।।

10.4 ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः । चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ।।

10.5 सर्ववर्णेषु तुल्यासु पत्नीष्व् अक्षत योनिषु । आनुलोम्येन संभूता जात्या ज्ञेयास् त एव ते ।।

10.6 स्त्रीष्व् अनन्तरजातासु द्विजैर् उत्पादितान् सुतान् । सदृशान् एव तान् आहुर् मातृदोषविगर्हितान् ।।

10.7 अनन्तरासु जातानां विधिर् एष सनातनः । द्व्येकान्तरासु जातानां धर्म्यं विद्याद् इमं विधिम् ।।

10.8 ब्राह्मणाद् वैश्यकन्यायाम् अम्बष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते ।।

10.9 क्षत्रियाएष शूद्रकन्यायां क्रूराचारविहारवान् । क्षत्र शूद्र वपुर् जन्तुर् उग्रो नाम प्रजायते ।।

10.10 विप्रस्य त्रिषु वर्णेषु नृपतेर् वर्णयोर् द्वयोः । वैश्यस्य वर्णे चैकस्मिन् षड् एते ‘अपसदाः स्मृताः ।।

10.11 क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः । वैश्यान् मागध वैदेहौ राज विप्राङ्गनासुतौ ।।

10.12 शूद्राद् आयोगवः क्षत्ता चण्डालश् चाधमो नृणाम् । वैश्य राजन्य विप्रासु जायन्ते वर्णसंकराः ।।

10.13 एकान्तरे त्व् आनुलोम्याद् अंबष्ठोग्रौ यथा स्मृतौ । क्षत्तृ वैदेहकौ तद्वत् प्रातिलोम्ये ‘अपि जन्मनि ।।

10.14 पुत्रा ये ‘अनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । तान् अनन्तर नाम्नस् तु मातृदोषात् प्रचक्षते ।।

10.15 ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते । आभीरो ‘अम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ।।

10.16 आयोगवश् च क्षत्ता च चण्डालश् चाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्राद् अपसदास् त्रयः ।।

10.17 वैश्यान् मागध वैदेहौ क्षत्रियात् सूत एव तु । प्रतीपम् एते जायन्ते परे ‘अप्य् अपसदास् त्रयः ।।

10.18 जातो निषादाच् शूद्रायाम् जात्या भवति पुक्कसः । शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ।।

10.19 क्षत्तुर् जातस् तथोग्रायाम् श्वपाक इति कीर्त्यते ।

10.19 वैदेहकेन त्व् अम्बष्ठ्याम् उत्पन्नो वेण उच्यते ।।

10.20 द्विजातयः सवर्णासु जनयन्त्य् अ व्रताम्स् तु यान् । तान् सावित्रीपरिभ्रष्टान् व्रात्यान् इति विनिर्दिशेत् ।।

10.21 व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः । म्भृज्जकण्टकः आवन्त्य वाटधानौ च पुष्पधः शैख एव च ।।

10.22 झल्लो मल्लश् च राजन्याद् व्रात्यात् निच्छिविर् एव च । म्व्रात्याल्लिच्छविर् एव च नटश् च करणश् चैव खसो द्रविड एव च ।।

10.23 वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च । कारुषश् च विजन्मा च मैत्रः सात्वत एव च ।।

10.24 व्यभिचारेण वर्णानाम् अवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः ।।

10.25 संकीर्ण योनयो ये तु प्रतिलोमानुलोम जाः । अन्योन्यव्यतिषक्ताश् च तान् प्रवक्ष्याम्य् अशेषतः ।।

10.26 सूतो वैदेहकश् चैव चण्डालश् च नराधमः । मागधः तथायोगव एव च क्षत्रजातिश् च ।। म्क्षत्तृजातिश् च

10.27 एते षट् सदृशान् वर्णाञ् जनयन्ति स्वयोनिषु । मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु ।। म्मातृजात्याः

10.28 यथा त्रयाणां वर्णानां द्वयोर् आत्मास्य जायते । आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्व् अपि क्रमात् ।। म्क्रमः

10.29 ते चापि बाह्यान् सुबहूंस् ततो ‘अप्य् अधिकदूषितान् । परस्परस्य दारेषु जनयन्ति विगर्हितान् ।।

10.30 यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते । तथा बाह्यतरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ।।

10.31 प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः । हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ।।

10.32 प्रसाधनोपचारज्ञम् अदासं दासजीवनम् । म्दास्यजीविनम् सैरिन्ध्रं वागुरा वृत्तिम् सूते दस्युर् अयोगवे ।। एष सैरन्ध्रं

10.33 मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते । न्qन् प्रशंसत्य् अजस्रं यो घण्टाताडो ‘अरुणोदये ।।

10.34 निषादो मार्गवं सूते दासं नौकर्मजीविनम् । कैवर्तम् इति यं प्राहुर् आर्यावर्तनिवासिनः ।।

10.35 मृतवस्त्रभृत्स्व् नारीषु गर्हितान्नाशनासु च । म् अनार्याषु भवन्त्य् आयोगवीष्व् एते जातिहीनाः पृथक् त्रयः ।।

10.36 कारावरो निषादात् तु चर्मकारः प्रसूयते । म्चर्मकारम् वैदेहिकाद् अन्ध्र मेदौ बहिर्ग्राम प्रतिश्रयौ ।।

10.37 चण्डालात् पाण्डुसोपाकस् त्वक्सारव्यवहारवान् । आहिण्डिको निषादेन वैदेह्याम् एव जायते ।।

10.38 चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ।। म्पुल्कस्याम्

10.39 निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम् । श्मशान गोचरम् सूते बाह्यानाम् अपि गर्हितम् ।।

10.40 संकरे जातयस् त्व् एताः पितृ मातृ प्रदर्शिताः । प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ।।

10.41 स्वजातिजानन्तरजाः षट् सुता द्विजधर्मिणः । शूद्राणां तु स धर्माणः सर्वे ‘अपध्वंसजाः स्मृताः ।।

10.42 तपो बीज प्रभावैस् तु ते गच्छन्ति युगे युगे । उत्कर्षं चापकर्षम् च मनुष्येष्व् इह जन्मतः ।।

10.43 शनकैस् तु क्रियालोपाद् इमाः क्षत्रिय जातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ।। म्ब्राह्मणातिक्रमेण च

10.44 पौण्ड्रकाश् चौड्र द्रविडाः काम्बोजा यवनाः शकाः । म्पुण्ड्रकाश् चोड द्रविडाः पारदा पह्लवाश् चीनाः किराता दरदाः खशाः ।।

10.45 मुख बाहूरु पज् जानाम् या लोके जातयो बहिः । म्लेच्छ वाचश् चार्य वाचः सर्वे ते दस्यवः स्मृताः ।।

10.46 ये द्विजानाम् अपसदा ये चापध्वंसजाः स्मृताः । ते निन्दितैर् वर्तयेयुर् द्विजानाम् एव कर्मभिः ।।

10.47 सूतानाम् अश्व सारथ्यम् अम्बष्ठानां चिकित्सनम् । वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ।।

10.48 मत्स्यघातो निषादानां त्वष्टिस् त्व् आयोगवस्य च । मेदान्ध्र चुञ्चु मद्गूनाम् आरण्यपशुहिंसनम् ।।

10.49 क्षत्त्रुग्र पुक्कसानाम् तु बिलौकोवध बन्धनम् । धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ।।

10.50 चैत्यद्रुम श्मशानेषु शैलेषूपवनेषु च । वसेयुर् एते विज्ञाता वर्तयन्तः स्वकर्मभिः ।।

10.51 चण्डाल श्वपचानाम् तु बहिर् ग्रामात् प्रतिश्रयः । अपपात्राश् च कर्तव्या धनम् एषां श्व गर्दभम् ।।

10.52 वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् । कार्ष्णायसम् अलङ्कारः परिव्रज्या च नित्यशः ।।

10.53 न तैः समयम् अन्विच्छेत् पुरुषो धर्मम् आचरन् । व्यवहारो मिथस् तेषां विवाहः सदृशैः सह ।।

10.54 अन्नम् एषां पराधीनं देयं स्याद् भिन्नभाजने । रात्रौ न विचरेयुस् ते ग्रामेषु नगरेषु च ।।

10.55 दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः । अ बान्धवम् शवं चैव निर्हरेयुर् इति स्थितिः ।।

10.56 वध्यांश् च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्णीयुः शय्याश् चाभरणानि च ।।

10.57 वर्णापेतम् अविज्ञातं नरं कलुषयोनिजम् । आर्य रूपम् इवानार्यम् कर्मभिः स्वैर् विभावयेत् ।।

10.58 अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता । पुरुषं व्यञ्जयन्ति इह लोके कलुषयोनिजम् ।।

10.59 पित्र्यं वा भजते शीलं मातुर् वोभयम् एव वा । न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति ।।

10.60 कुले मुख्ये ‘अपि जातस्य यस्य स्याद् योनिसंकरः । संश्रयत्य् एव तच् शीलम् नरो ‘अल्पम् अपि वा बहु ।।

10.61 यत्र त्व् एते परिध्वंसाज् जायन्ते वर्णदूषकाः । राष्ट्रिकैः सह तद् राष्ट्रं क्षिप्रम् एव विनश्यति ।। म्राष्ट्रियैः

10.62 ब्राह्मणार्थे गवार्थे वा देहत्यागो ‘अन् उपस्कृतः । स्त्री बालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ।। म्स्त्री बालाभ्यवपत्तौ च

10.63 अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।

10.63 एतं सामासिकं धर्मं चातुर्वर्ण्ये ‘अब्रवीन् मनुः ।।

10.64 शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते । अश्रेयान् श्रेयसीं जातिं गच्छत्य् आ सप्तमाद् युगात् ।।

10.65 शूद्रो ब्राह्मणताम् एति ब्राह्मणश् चैति शूद्रताम् । क्षत्रियाज् जातम् एवं तु विद्याद् वैश्यात् तथैव च ।।

10.66 अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया । ब्राह्मण्याम् अप्य् अनार्यात् तु श्रेयस्त्वं क्वेति चेद् भवेत् ।। म्कस्य चिद् भवेत्

10.67 जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणैः । जातो ‘अप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ।।

10.68 ताव् उभाव् अप्य् असंस्कार्याव् इति धर्मो व्यवस्थितः । वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ।। म्जन्मतः

10.69 सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा । तथार्याज् जात आर्यायां सर्वं संस्कारम् अर्हति ।।

10.70 बीजम् एके प्रशंसन्ति क्षेत्रम् अन्ये मनीषिणः । बीज क्षेत्रे तथैवान्ये तत्रेयम् तु व्यवस्थितिः ।।

10.71 अक्षेत्रे बीजम् उत्सृष्टम् अन्तरैव विनश्यति । अ बीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत्

10.72 यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयो ‘अभवन् । पूजिताश् च प्रशस्ताश् च तस्माद् बीजं प्रशस्यते ।। म्विशिष्यते

10.73 अनार्यम् आर्य कर्माणम् आर्यं चानार्यकर्मिणम् । संप्रधार्य अब्रवीद् धाता न समौ नासमाव् इति ।।

10.74 ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्य् अवस्थिताः । ते सम्यग् उपजीवेयुः षट् कर्माणि यथाक्रमम् ।।

10.75 अध्यापनम् अध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश् चैव षट् कर्माण्य् अग्रजन्मनः ।।

10.76 षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ।।

10.77 त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति । अध्यापनं याजनं च तृतीयश् च प्रतिग्रहः ।।

10.78 वैश्यं प्रति तथैवैते निवर्तेरन्न् इति स्थितिः । न तौ प्रति हि तान् धर्मान् मनुर् आह प्रजापतिः ।। एष प्रति हितान् धर्मान्

10.79 शस्त्रास्त्रभृत्त्वम् क्षत्रस्य वणिक् पशु कृषिर् विषः । आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ।।

10.80 वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ।।

10.81 अ जीवंस् तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स ह्य् अस्य प्रत्य् अनन्तरः ।।

10.82 उभाभ्याम् अप्य् अ जीवंस् तु कथं स्याद् इति चेद् भवेत् । कृषि गोरक्षम् आस्थाय जीवेद् वैश्यस्य जीविकाम् ।।

10.83 वैश्यवृत्त्यापि जीवंस् तु ब्राह्मणः क्सत्रियो ‘अपि वा । हिम्सा प्रायाम् पराधीनां कृषिं यत्नेन वर्जयेत् ।।

10.84 कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिताः । भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयो मुखम् ।।

10.85 इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुणं । विश् पण्यम् उद्धृतोद्धारम् विक्रेयं वित्तवर्धनम् ।।

10.86 सर्वान् रसान् अपोहेत कृतान्नं च तिलैः सह । अश्मनो लवणं चैव पशवो ये च मानुषाः ।।

10.87 सर्वं च तान्तवं रक्तं शाण क्षौमाविकानि च । अपि चेत् स्युर् अरक्तानि फल मूले तथौषधीः ।।

10.88 अपः शस्त्रं विषं मांसं सोमं गन्धांश् च सर्वशः । क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ।।

10.89 आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश् च वयांसि च । मद्यं नीलिं च लाक्षां च सर्वांश् चैक शफाम्स् तथा ।। म्नीलीम्

10.90 कामम् उत्पाद्य कृष्यां तु स्वयम् एव कृषीवलः । विक्रीणीत तिलाञ् शूद्रान् धर्मार्थम् अचिरस्थितान् ।। म्तिलाञ् शुद्धान्

10.91 भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः । कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ।।

10.92 सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ।।

10.93 इतरेषां तु पण्यानां विक्रयाद् इह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ।।

10.94 रसा रसैर् निमातव्या न त्व् एव लवणं रसैः । कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ।।

10.95 जीवेद् एतेन राजन्यः सर्वेणाप्य् अनयं गतः । न त्व् एव ज्यायंसीं वृत्तिम् अभिमन्येत कर्हि चित् ।।

10.96 यो लोभाद् अधमो जात्या जीवेद् उत्कृष्ट कर्मभिः । तं राजा निर्धनं कृत्वा क्षिप्रम् एव प्रवासयेत् ।।

10.97 वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । म्विगुणः परधर्मात् स्वधिष्ठितात् परधर्मेण जीवन् हि सद्यः पतति जातितः ।।

10.98 वैश्यो ‘अ जीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् । अन् आचरन्न् अ कार्याणि निवर्तेत च शक्तिमान् ।।

10.99 अ शक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् । पुत्र दारात्ययम् प्राप्तो जीवेत् कारुक कर्मभिः ।।

10.100 यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुक कर्माणि शिल्पानि विविधानि च ।।

10.101 वैश्यवृत्तिम् अन् आतिष्ठन् ब्राह्मणः स्वे पथि स्थितः । अवृत्तिकर्षितः सीदन्न् इमं धर्मं समाचरेत् ।।

10.102 सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस् त्व् अनयं गतः । पवित्रं दुष्यति इत्य् एतद् धर्मतो नोपपद्यते ।।

10.103 नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनाम्बु समा हि ते ।।

10.104 जीवितात्ययम् आपन्नो यो ‘अन्नम् अत्ति ततस् ततः । आकाशम् इव पङ्केन न स पापेन लिप्यते ।।

10.105 अजीगर्तः सुतं हन्तुम् उपासर्पद् बुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रतीकारम् आचरन् ।।

10.106 श्वमांसम् इच्छन् आर्तो ‘अत्तुं धर्माधर्मविचक्षणः । प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ।।

10.107 भरद्वाजः क्षुधार्तस् तु स पुत्रो विजने वने । बह्वीर् गाः प्रतिजग्राह वृधोस् तक्ष्णो महातपाः ।।

10.108 क्षुधार्तश् चात्तुम् अभ्यागाद् विश्वामित्रः श्वजाघनीम् । चण्डालहस्ताद् आदाय धर्माधर्मविचक्षणः ।।

10.109 प्रतिग्रहाद् याजनाद् वा तथैवाध्यापनाद् अपि । प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ।।

10.110 याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् । प्रतिग्रहस् तु क्रियते शूद्राद् अप्य् अन्त्य जन्मनः ।।

10.111 जप होमैर् अपैत्य् एनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ।।

10.112 शिलोञ्छम् अप्य् आददीत विप्रो ‘अ जीवन् यतस् ततः । प्रतिग्रहाएष शिलः श्रेयांस् ततो ‘अप्य् उञ्छः प्रशस्यते ।।

10.113 सीदद्भिः कुप्यम् इच्छद्भिर् धने वा पृथिवीपतिः । म्धनम् वा याच्यः स्यात् स्नातकैर् विप्रैर् अदित्संस् त्यागम् अर्हति ।।

10.114 अकृतं च कृतात् क्षेत्राद् गौर् अजाविकम् एव च । हिरण्यं धान्यम् अन्नं च पूर्वं पूर्वम् अदोषवत् ।।

10.115 सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ।।

10.116 विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । धृतिर् भैक्षं कुसीदं च दश जीवनहेतवः ।।

10.117 ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् । कामं तु खलु धर्मार्थं दद्यात् पापीयसे ‘अल्पिकाम् ।।

10.118 चतुर्थम् आददानो ‘अपि क्षत्रियो भागम् आपदि । प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ।।

10.119 स्वधर्मो विजयस् तस्य नाहवे स्यात् पराङ् मुखः । शस्त्रेण वैश्यान् रक्षित्वा धर्म्यम् आहारयेद् बलिम् ।। म्वैश्याद् रक्षित्वा

10.120 धान्ये ‘अष्टमं विशां शुल्कं विंशं कार्षापणावरम् । कर्मोपकरणाः शूद्राः कारवः शिल्पिनस् तथा ।।

10.121 शूद्रस् तु वृत्तिम् आकाङ्क्षन् क्षत्रम् आराधयेद् यदि । म् आराधयेद् इति धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविषेत् ।।

10.122 स्वर्गार्थम् उभयार्थं वा विप्रान् आराधयेत् तु सः । जातब्राह्मण शब्दस्य सा ह्य् अस्य कृतकृत्यता ।।

10.123 विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते । यद् अतो ‘अन्यद्द् हि कुरुते तद् भवत्य् अस्य निष्फलम् ।।

10.124 प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः । शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ।।

10.125 उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च । पुलाकाश् चैव धान्यानां जीर्णाश् चैव परिच्छदाः ।।

10.126 न शूद्रे पातकं किं चिन् न च संस्कारम् अर्हति । नास्याधिकारो धर्मे ‘अस्ति न धर्मात् प्रतिषेधनम् ।।

10.127 धर्मेप्सवस् तु धर्मज्ञाः सतां वृत्तम् अनुष्ठिताः । म्सताम् धर्मम् मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ।।

10.128 यथा यथा हि सद्वृत्तम् आतिष्ठत्य् अनसूयकः । तथा तथेमम् चामुम् च लोकं प्राप्नोत्य् अनिन्दितः ।।

10.129 शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः । शूद्रो हि धनम् आसाद्य ब्राह्मणान् एव बाधते ।।

10.130 एते चतुर्णां वर्णानाम् आपद्धर्माः प्रकीर्तिताः । यान् सम्यग् अनुतिष्ठन्तो व्रजन्ति परमं गतिम् ।।

10.131 एष धर्मविधिः कृत्स्नश् चातुर्वर्ण्यस्य कीर्तितः । अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ।।

******

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.