मनुस्मृतिः अष्टमोऽध्यायः (Part 01)

मनुस्मृतिः

अष्टमोऽध्यायः (Part 01)

(व्यवहारदर्शनम्)

8.1 व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ।।
8.2 तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् । विनीत वेषाभरणः पश्येत् कार्याणि कार्यिणाम् ।।

8.3 प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः । अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ््

8.4 तेषाम् आद्यम् ऋणादानं निक्षेपो ‘अस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च

8.5 वेतनस्यैव चादानं संविदश् च व्यतिक्रमः । क्रय विक्रयानुशयो विवादः स्वामि पालयोः ।।

8.6 सीमाविवादधर्मश् च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणम् एव च ।।

8.7 स्त्री पुम्धर्मो विभागश् च द्यूतम् आह्वय एव च । पदान्य् अष्टादशैतानि व्यवहारस्थिताव् इह ।।

8.8 एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । धर्मं शाश्वतम् आश्रित्य कुर्यात् कार्यविनिर्णयम् ।।

8.9 यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् । तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ।।

8.10 सो ‘अस्य कार्याणि संपश्येत् सभ्यैर् एव त्रिभिर् वृतः । सभाम् एव प्रविश्य अग्र्याम् आसीनः स्थित एव वा ।।

8.11 यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः । राज्ञश् चाधिकृतो विद्वान् ब्रह्मणस् तां सभां विदुः ।।

8.12 धर्मो विद्धस् त्व् अधर्मेण सभां यत्रोपतिष्ठते । शल्यं चास्य न कृन्तन्ति विद्धास् तत्र सभासदः ।।

8.13 सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । म्सभा वा न प्रवेष्टव्या अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ।।

8.14 यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ।।

8.15 धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतो ‘वधीत् ।। म्वधीत्

8.16 वृषो हि भगवान् धर्मस् तस्य यः कुरुते ह्य् अलम् । म्त्व् अलम् वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् ।।

8.17 एक एव सुहृद् धर्मो निधाने ‘अप्य् अनुयाति यः । शरीरेण समं नाशं सर्वम् अन्यद्द् हि गच्छति ।।

8.18 पादो ‘अधर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति । पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ।।

8.19 राजा भवत्य् अन् एनास् तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ।।

8.20 जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः । धर्मप्रवक्ता नृपतेर् न शूद्रः कथं चन ।।

8.21 यस्य शूद्रस् तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सीदति तद् राष्ट्रं पङ्के गौर् इव पश्यतः ।।

8.22 यद् राष्ट्रं शूद्र भूयिष्ठम् नास्तिकाक्रान्तम् अ द्विजम् । विनश्यत्य् आशु तत् कृत्स्नं दुर्भिक्ष व्याधिपीडितम् ।।

8.23 धर्मासनम् अधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आरभेत् ।।

8.24 अर्थानर्थाव् उभौ बुद्ध्वा धर्माधर्मौ च केवलौ । वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ।।

8.25 बाह्यैर् विभावयेत् लिङ्गैर् भावम् अन्तर्गतं नृणाम् । स्वर वर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ।।

8.26 आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च । नेत्र वक्त्रविकारैश् च गृह्यते ‘अन्तर्गतं मनः ।।

8.27 बालदायादिकम् रिक्थं तावद् राजानुपालयेत् । यावत् स स्यात् समावृत्तो यावच् चातीत शैशवः ।। म्यावद् वातीत शैशवः

8.28 वशापुत्रासु चैवम् स्याद् रक्षणं निष् कुलासु च । पति व्रतासु च स्त्रीषु विधवास्व् आतुरासु च ।।

8.29 जीवन्तीनां तु तासां ये तद्द् हरेयुः स्वबान्धवाः । ताञ् शिष्यात् चौरदण्डेन धार्मिकः पृथिवीपतिः ।।

8.30 प्रणष्ट स्वामिकम् रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्द् हरेत् स्वामी परेण नृपतिर् हरेत् ।।

8.31 ममेदम् इति यो ब्रूयात् सो ‘अनुयोज्यो यथाविधि । संवाद्य रूप संख्यादीन् स्वामी तद् द्रव्यम् अर्हति ।।

8.32 अ वेदयानो नष्टस्य देशं कालं च तत्त्वतः । वर्णं रूपं प्रमाणं च तत्समं दण्डम् अर्हति ।।

8.33 आददीत अथ षड्भागं प्रनष्टाधिगतान् नृपः । दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ।।

8.34 प्रनष्टाधिगतम् द्रव्यं तिष्ठेद् युक्तैर् अधिष्ठितम् । यांस् तत्र चौरान् गृह्णीयात् तान् राजेभेन घातयेत् ।।

8.35 ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशम् एव वा ।।

8.36 अनृतं तु वदन् दण्ड्यः स्ववित्तस्याम्शम् अष्टमम् । तस्यैव वा निधानस्य संख्ययाल्पीयसीम् कलाम् ।।

8.37 विद्वांस् तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितम् निधिम् । अशेषतो ‘अप्य् आददीत सर्वस्याधिपतिर् हि सः ।।

8.38 यं तु पश्येन् निधिं राजा पुराणं निहितं क्षितौ । तस्माद् द्विजेभ्यो दत्त्वा अर्धम् अर्धं कोशे प्रवेशयेत् ।।

8.39 निधीनां तु पुराणानां धातूनाम् एव च क्षितौ । अर्धभाग् रक्षणाद् राजा भूमेर् अधिपतिर् हि सः ।।

8.40 दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर् हृतं धनम् । राजा तद् उपयुञ्जानश् चौरस्याप्नोति किल्बिषम् ।।

8.41 जाति जानपदान् धर्मान् श्रेणीधर्मांश् च धर्मवित् । समीक्ष्य कुलधर्मांश् च स्वधर्मं प्रतिपादयेत् ।।

8.42 स्वानि कर्माणि कुर्वाणा दूरे सन्तो ‘अपि मानवाः । प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्य् अवस्थिताः ।।

8.43 नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पुरुषः । न च प्रापितम् अन्येन ग्रसेद् अर्थं कथं चन ।। म्ग्रसेत अर्थम्

8.44 यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम् । नयेत् तथानुमानेन धर्मस्य नृपतिः पदम् ।।

8.45 सत्यम् अर्थं च संपश्येद् आत्मानम् अथ साक्षिणः । म्साक्षिणम् देशं रूपं च कालं च व्यवहारविधौ स्थितः ।।

8.46 सद्भिर् आचरितं यत् स्याद् धार्मिकैश् च द्विजातिभिः । तद् देश कुल जातीनाम् अ विरुद्धम् प्रकल्पयेत् ।।

8.47 अधमर्णार्थसिद्ध्यर्थम् उत्तमर्णेन चोदितः । दापयेद् धनिकस्यार्थम् अधमर्णाद् विभावितम् ।।

8.48 यैर् यैर् उपायैर् अर्थं स्वं प्राप्नुयाद् उत्तमर्णिकः । तैर् तैर् उपायैः संगृह्य दापयेद् अधमर्णिकम् ।।

8.49 धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ।।

8.50 यः स्वयं साधयेद् अर्थम् उत्तमर्णो ‘अधमर्णिकात् । न स राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम् ।।

8.51 अर्थे ‘अपव्ययमानं तु करणेन विभावितम् । दापयेद् धनिकस्यार्थम् दण्डलेशं च शक्तितः ।।

8.52 अपह्नवे ‘अधमर्णस्य देहि इत्य् उक्तस्य संसदि । अभियोक्ता दिशेद् देश्यं करणं वान्यद् उद्दिशेत् ।।

8.53 अदेश्यं यश् च दिशति निर्दिश्य अपह्नुते च यः । यश् चाधरोत्तरान् अर्थान् विगीतान् नावबुध्यते ।।

8.54 अपदिश्य अपदेश्यम् च पुनर् यस् त्व् अपधावति । म् अपदिश्यापदेशम् सम्यक् प्रणिहितं चार्थम् पृष्टः सन् नाभिनन्दति ।।

8.55 अ संभाष्ये साक्षिभिश् च देशे संभाषते मिथः । निरुच्यमानं प्रश्नं च नेच्छेद् यश् चापि निष्पतेत् ।।

8.56 ब्रूहि इत्य् उक्तश् च न ब्रूयाद् उक्तं च न विभावयेत् । न च पूर्वापरम् विद्यात् तस्माद् अर्थात् स हीयते ।।

8.57 साक्षिणः सन्ति मेत्य् उक्त्वा दिश इत्य् उक्तो दिशेन् न यः । म्ज्ञातारः सन्ति मेत्य्* *{मेत्य् म इत्य् } धर्मस्थः कारणैर् एतैर् हीनं तम् अपि निर्दिशेत् ।। म्तम् इति निर्दिशेत्

8.58 अभियोक्ता न चेद् ब्रूयाद् बध्यो दण्ड्यश् च धर्मतः । म्बन्ध्यो दण्ड्यश् च न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ।।

8.59 यो यावत् निह्नुवीत अर्थम् मिथ्या यावति वा वदेत् । तौ नृपेण ह्य् अधर्मज्ञौ दाप्यो तद्द्विगुणं दमम् ।।

8.60 पृष्टो ‘अपव्ययमानस् तु कृतावस्थो धनैषिणा । त्र्यवरैः साक्षिभिर् भाव्यो नृप ब्राह्मणसंनिधौ ।।

8.61 यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः । तादृशान् संप्रवक्ष्यामि यथा वाच्यम् ऋतं च तैः ।।

8.62 गृहिणः पुत्रिणो मौलाः क्षत्र विश् शूद्र योनयः । अर्थ्युक्ताः साक्ष्यम् अर्हन्ति न ये के चिद् अनापदि ।।

8.63 आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । सर्वधर्मविदो ‘अलुब्धा विपरीतांस् तु वर्जयेत् ।।

8.64 नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ।।

8.65 न साक्षी नृपतिः कार्यो न कारुक कुशीलवौ । न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ।।

8.66 नाध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् । न वृद्धो न शिशुर् नैको नान्त्यो न विकलेन्द्रियः ।।

8.67 नार्तो न मत्तो नोन्मत्तो न क्षुत् तृष्णोपपीडितः । न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ।।

8.68 स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशा द्विजाः । शूद्राश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्य योनयः ।।

8.69 अनुभावी तु यः कश् चित् कुर्यात् साक्ष्यं विवादिनाम् । अन्तर्वेश्मन्य् अरण्ये वा शरीरस्यापि चात्यये ।।

8.70 स्त्रियाप्य् असंभावे कार्यं बालेन स्थविरेण वा । शिष्येण बन्धुना वापि दासेन भृतकेन वा ।।

8.71 बाल वृद्धातुराणाम् च साक्ष्येषु वदतां मृषा । जानीयाद् अस्थिरां वाचम् उत्सिक्त मनसाम् तथा ।।

8.72 साहसेषु च सर्वेषु स्तेय संग्रहणेषु च । वाग् दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ।।

8.73 बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः । समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ।।

8.74 समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति । तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्याम् न हीयते ।।

8.75 साक्षी दृष्ट श्रुताद् अन्यद् विब्रुवन्न् आर्यसंसदि । अवाङ् नरकम् अभ्येति प्रेत्य स्वर्गाच् च हीयते ।।

8.76 यत्रानिबद्धो ‘अपीक्षेत शृणुयाद् वापि किं चन । पृष्टस् तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ।।

8.77 एको ‘अलुब्धस् तु साक्षी स्याद् बह्व्यः शुच्यो ‘अपि न स्त्रियः । एष त्व् असाक्षी स्त्रीबुद्धेर् अस्थिरत्वात् तु दोषैश् चान्ये ‘अपि ये वृताः ।।

8.78 स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम् । अतो यद् अन्यद् विब्रूयुर् धर्मार्थं तद् अपार्थकम् ।।

8.79 सभान्तः साक्षिणः प्राप्तान् अर्थि प्रत्यर्थि संनिधौ । प्राड्विवाको ‘अनुयुञ्जीत विधिनानेन सान्त्वयन् ।।

8.80 यद् द्वयोर् अनयोर् वेत्थ कार्ये ‘अस्मिंश् चेष्टितं मिथः । तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ।।

8.81 सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोत्य् पुष्कलान् । म् आप्नोत्य् अनिन्दितान् इह चान् उत्तमाम् कीर्तिं वाग् एषा ब्रह्मपूजिता ।।

8.82 साक्ष्ये ‘अनृतं वदन् पाशैर् बध्यते वारुणैर् भृशम् । विवशः शतम् आजातीस् तस्मात् साक्ष्यं वदेद् ऋतम् ।।

8.83 सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ।।

8.84 आत्मैव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः । मावमंस्थाः स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ।।

8.85 मन्यन्ते वै पापकृतो न कश् चित् पश्यति इति नः । तांस् तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ।।

8.86 द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नि यमानिलाः । रात्रिः संध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ।।

8.87 देव ब्राह्मणसाम्निध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् । उदङ् मुखान् प्राङ् मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ।।

8.88 ब्रूहि इति ब्राह्मणं पृच्छेत् सत्यं ब्रूहि इति पार्थिवम् । गो बीज काञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ।।

8.89 ब्रह्मघ्नो ये स्मृता लोका ये च स्त्री बाल घातिनः । मित्रद्रुहः कृत घ्नस्य ते ते स्युर् ब्रुवतो मृषा ।।

8.90 जन्मप्रभृति यत् किं चित् पुण्यं भद्र त्वया कृतम् । तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास् त्वम् अन्यथा ।।

8.91 एको ‘अहम् अस्मि इत्य् आत्मानं यस् त्वं कल्याण मन्यसे । नित्यं स्थितस् ते हृद्य् एष पुण्य पापेक्षिता मुनिः ।।

8.92 यमो वैवस्वतो देवो यस् तवैष हृदि स्थितः । तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ।।

8.93 नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत् पिपासितः । म्कपाली अन्धः शत्रुकुलं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ।।

8.94 अवाक् शिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ।।

8.95 अन्धो मत्स्यान् इवाश्नाति स नरः कण्टकैः सह । यो भाषते ‘अर्थवैकल्यम् अ प्रत्यक्षम् सभां गतः ।।

8.96 यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते । म्नातिशङ्कते तस्मान् न देवाः श्रेयांसं लोके ‘अन्यं पुरुषं विदुः ।।

8.97 यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ‘अनृतं वदन् । तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ।।

8.98 पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ।।

8.99 हन्ति जातान् अजातांश् च हिरण्यार्थे ‘अनृतं वदन् । सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतम् वदीः ।।

8.100 अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने । अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ।।

8.101 एतान् दोषान् अवेक्ष्य त्वं सर्वान् अनृतभाषणे । यथाश्रुतं यथादृष्टं सर्वम् एवाञ्जसा वद ।।

8.102 गोरक्षकान् वाणिजिकांस् तथा कारु कुशीलवान् । म्वाणिजकाम्स् प्रेष्यान् वार्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ।।

8.103 तद् वदन् धर्मतो ‘अर्थेषु जानन्न् अप्य् अन्य्था नरः । न स्वर्गाच् च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ।।

8.104 शूद्र विश् क्षत्र विप्राणाम् यत्रर्तोक्तौ भवेद् वधः । तत्र वक्तव्यम् अनृतं तद्द् हि सत्याद् विशिष्यते ।।

8.105 वाज्जैवत्यैश् च चरुभिर् यजेरंस् ते सरस्वतीम् । अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ।।

8.106 कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि । ट्A10 3 5; Vष्20 14 उद् इत्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ।। ऋष्1 24 15; 10 9 1 3; Vष्12 2;Vष्12 50

8.107 त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ‘अ गदः । तदृणं प्राप्नुयात् सर्वं दशबन्धं च सर्वतः ।।

8.108 यस्य दृश्येत सप्ताहाद् उक्त वाक्यस्य साक्षिणः । रोगो ‘अग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ।।

8.109 असाक्षिकेषु त्व् अर्थेषु मिथो विवादमानयोः । अविन्दंस् तत्त्वतः सत्यं शपथेनापि लम्भयेत् ।।

8.110 महर्षिभिश् च देवैश् च कार्यार्थं शपथाः कृताः । वसिष्ठश् चापि शपथं शेपे पैजवने नृपे ।।

8.111 न वृथा शपथं कुर्यात् स्वल्पे ‘अप्य् अर्थे नरो बुधः । वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति

8.112 कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ।।

8.113 सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः । गो बीज काञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ।।

8.114 अग्निं वाहारयेद् एनम् अप्सु चैनम् निमज्जयेत् । पुत्र दारस्य वाप्य् एनं शिरांसि स्पर्शयेत् पृथक् ््

8.115 यम् इद्धो न दहत्य् अग्निर् आपो नोन्मज्जयन्ति च । न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ।।

8.116 वत्सस्य ह्य् अभिशस्तस्य पुरा भ्रात्रा यवीयसा । नाग्निर् ददाह रोमापि सत्येन जगतः स्पशः ।।

8.117 यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत् तत् कार्यं निवर्तेत कृतं चाप्य् अकृतं भवेत् ।।

8.118 लोभात् मोहाद् भयात् मैत्रात् कामात् क्रोधात् तथैव च । अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते

8.119 एषाम् अन्यतमे स्थाने यः साक्ष्यम् अनृतं वदेत् । तस्य दण्डविशेषांस् तु प्रवक्ष्याम्य् अनुपूर्वशः ।।

8.120 लोभात् सहस्रं दण्ड्यस् तु मोहात् पूर्वं तु साहसम् । भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ।।

8.121 कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् । अज्ञानाद् द्वे शते पूर्णे बालिश्याच् शतम् एव तु ।।

8.122 एतान् आहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः । धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ।।

8.123 कौटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः । प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ।।

8.124 दश स्थानानि दण्डस्य मनुः स्वयंभुवो ‘अब्रवीत् । त्रिषु वर्णेषु यानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ।।

8.125 उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् । क्षुर् नासा च कर्णौ च धनं देहस् तथैव च ।।

8.126 अनुबन्धं परिज्ञाय देश कालौ च तत्त्वतः । सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ।।

8.127 अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् । अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ।।

8.128 अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् । अयशो महद् आप्नोति नरकं चैव गच्छति ।।

8.129 वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ।।

8.130 वधेनापि यदा त्व् एतान् निग्रहीतुं न शक्नुयात् । तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुष्टयम् ।।

8.131 लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्र रूप्य सुवर्णानाम् ताः प्रवक्ष्याम्य् अशेषतः ।।

8.132 जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः । प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ।।

8.133 त्रसरेणवो ‘अष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ।।

8.134 सर्षपाः षड् यवो मध्यस् त्रियवं त्व् एककृष्णलम् । पञ्चकृष्णलको माषस् ते सुवर्णस् तु षोडश ।।

8.135 पलं सुवर्णाश् चत्वारः पलानि धरणं दश । द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ।। म्रूप्यमाषकः

8.136 ते षोडश स्याद् धरणं पुराणश् चैव राजतः । कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः ।।

8.137 धरणानि दश ज्ञेयः शतमानस् तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस् तु प्रमाणतः ।।

8.138 पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव चोत्तमः ।।

8.139 ऋणे देये प्रतिज्ञाते पञ्चकं शतम् अर्हति । अपह्नवे तद्द्विगुणं तन् मनोर् अनुशासनम् ।।

8.140 वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् । अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ।।

8.141 द्विकं शतं वा गृह्णीयात् सतां धर्मम् अनुस्मरन् । द्विकं शतं हि गृह्णानो न भवत्य् अर्थकिल्बिषी ।।

8.142 द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ।।

8.143 न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् । न चाधेः कालसंरोधात् निसर्गो ‘अस्ति न विक्रयः ।।

8.144 न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् । मूल्येन तोषयेच् चैनम् आधिस्तेनो ‘अन्यथा भवेत् ।।

8.145 आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः । अवहार्यौ भवेतां तौ दीर्घकालम् अवस्थितौ ।।

8.146 संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन । धेनुर् उष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ।।

8.147 यत् किं चिद् दशवर्षाणि संनिधौ प्रेक्षते धनी । भुज्यमानं परैस् तूष्णीं न स तल्लब्धुम् अर्हति ।।

8.148 अजडश् चेद् अपोगण्डो विषये चास्य भुज्यते । भग्नं तद् व्यवहारेण भोक्ता तद् द्रव्यम् अर्हति ।। म्तद् धनम् अर्हति

8.149 आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः । म्निक्षेपोपनिधी राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ।।

8.150 यः स्वामिनाननुज्ञातम् आधिं भूङ्क्ते ‘अविचक्षणः । तेनार्धवृद्धिर् मोक्तव्या तस्य भोगस्य निष्कृतिः ।।

8.151 कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृद् आहृता । म्सकृद् आहिता धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ।।

8.152 कृतानुसाराद् अधिका व्यतिरिक्ता न सिध्यति । कुसीदपथम् आहुस् तं पञ्चकं शतम् अर्हति ।।

8.153 नाति साम्वत्सरीम् वृद्धिं न चादृष्टाम् पुनर् हरेत् । म्विनिर्हरेत् चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ।

8.154 ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत् पुनः क्रियाम् । स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ।।

8.155 अ दर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । यावती संभवेद् वृद्धिस् तावतीं दातुम् अर्हति ।।

8.156 चक्रवृद्धिं समारूढो देश कालव्यवस्थितः । अतिक्रामन् देश कालौ न तत्फलम् अवाप्नुयात् ।।

8.157 समुद्रयानकुशला देश कालार्थदर्शिनः । स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमम् प्रति ।।

8.158 यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः । अ दर्शयन् स तं तस्य प्रयच्छेत् स्वधनाद् ऋणम् ।। म्तस्य यतेत

8.159 प्रातिभाव्यं वृथादानम् आक्षिकं सौरिकां च यत् । दण्ड शुल्कावशेषम् च न पुत्रो दातुम् अर्हति ।।

8.160 दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः । दानप्रतिभुवि प्रेते दायादान् अपि दापयेत् ।।

8.161 अदातरि पुनर् दाता विज्ञातप्रकृताव् ऋणम् । पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ।।

8.162 निरादिष्टधनश् चेत् तु प्रतिभूः स्याद् अलंधनः । स्वधनाद् एव तद् दद्यान् निरादिष्ट इति स्थितिः ।।

8.163 मत्तोन्मत्तार्ताध्यधीनैर् बालेन स्थविरेण वा । असंबद्धकृतश् चैव व्यावहारो न सिध्यति ।।

8.164 सत्या न भाषा भवति यद्य् अपि स्यात् प्रतिष्ठिता । बहिश् चेद् भाष्यते धर्मात् नियताद् व्यवहारिकात् ।।

8.165 योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ।।

8.166 ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतो व्ययः । म्कुटुम्बे च दातव्यं बान्धवैस् तत् स्यात् प्रविभक्तैर् अपि स्वतः ।।

8.167 कुटुम्बार्थे ‘अध्यधीनो ‘अपि व्यवहारं यम् आचरेत् । स्वदेशे वा विदेशे वा तं ज्यायान् न विचालयेत् ।।

8.168 बलाद् दत्तं बलाद् भुक्तं बलाद् यच् चापि लेखितम् । सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत् ।।

8.169 त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । चत्वारस् तूपचीयन्ते विप्र आढ्यो वणिङ् नृपः ।।

8.170 अन् आदेयम् नाददीत परिक्षीणो ‘अपि पार्थिवः । न चादेयम् समृद्धो ‘अपि सूक्ष्मम् अप्य् अर्थम् उत्सृजेत् ।।

8.171 अन् आदेयस्य चादानाद् आदेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ।।

8.172 स्वादानाद् वर्णसंसर्गात् त्व् अबलानां च रक्षणात् । बलं संजायते राज्ञः स प्रेत्येह च वर्धते ।।

8.173 तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । वर्तेत याम्यया वृत्त्या जित क्रोधो जितेन्द्रियः ।।

8.174 यस् त्व् अधर्मेण कार्याणि मोहात् कुर्यान् नराधिपः । अचिरात् तं दुर् आत्मानम् वशे कुर्वन्ति शत्रवः ।।

8.175 काम क्रोधौ तु संयम्य यो ‘अर्थान् धर्मेण पश्यति । प्रजास् तम् अनुवर्तन्ते समुद्रम् इव सिन्धवः ।।

8.176 यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे । स राज्ञा तच् चतुर्भागम् दाप्यस् तस्य च तद् धनम् ।।

8.177 कर्मणापि समं कुर्याद् धनिकायाधमर्णिकः । समो ‘अवकृष्टजातिस् तु दद्यातेष श्रेयांस् तु तएष शनैः ।।

8.178 अनेन विधिना राजा मिथो विवदतां नृणाम् । साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ।।

8.179 कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि । महापक्षे धनिन्य् आर्ये निक्षेपं निक्षिपेद् बुधः ।।

8.180 यो यथा निक्षिपेद्द् हस्ते यम् अर्थं यस्य मानवः । स तथैव ग्रहीतव्यो यथा दायस् तथा ग्रहः ।।

8.181 यो निक्षेपं याच्यमानो निक्षेप्तुर् न प्रयच्छति । स याच्यः प्राड्विवाकेन तएष निक्षेप्तुर् असंनिधौ ।।

8.182 साक्ष्यभावे प्रणिधिभिर् वयो रूप समन्वितैः । अपदेशैश् च संन्यस्य हिरण्यं तस्य तत्त्वतः ।।

8.183 स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् । न तत्र विद्यते किं चिद् यत् परैर् अभियुज्यते ।।

8.184 तेषां न दद्याद् यदि तु तद्द् हिरण्यं यथाविधि । उभौ निगृह्य दाप्यः स्याद् इति धर्मस्य धारणा ।। म्स निगृह्य उभयम् दाप्य इति धर्मस्य धारणा

8.185 निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे । नश्यतो विनिपाते ताव् अनिपाते त्व् अनाशिनौ ।।

8.186 स्वयम् एव तु यौ दद्यान् मृतस्य प्रत्यनन्तरे। न स राज्ञाभियोक्तव्यो न निक्षेप्तुश् च बन्धुभिः ।।

8.187 अच्छलेनैव चान्विच्छेत् तम् अर्थं प्रीतिपूर्वकम् । विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ।।

8.188 निक्षेपेष्व् एषु सर्वेषु विधिः स्यात् परिसाधने । स मुद्रे नाप्नुयात् किं चिद् यदि तस्मान् न संहरेत् ।।

8.189 चौरैर् हृतं जलेनोढम् अग्निना दग्धम् एव वा । न दद्याद् यदि तस्मात् स न संहरति किं चन ।।

8.190 निक्षेपस्यापहर्तारम् अनिक्षेप्तारम् एव च । सर्वैर् उपायैर् अन्विच्छेत् शपथैश् चैव वैदिकैः ।।

8.191 यो निक्षेपं नार्पयति यश् चा निक्षिप्य याचते । ताव् उभौ चौरवच् शास्यौ दाप्यौ वा तत्समं दमम् ।।

8.192 निक्षेपस्यापहर्तारम् तत्समं दापयेद् दमम् । तथोपनिधिहर्तारम् अविशेषेण पार्थिवः ।।

8.193 उपधाभिश् च यः कश् चित् परद्रव्यं हरेन् नरः । स सहायः स हन्तव्यः प्रकाशं विविधैर् वधैः ।।

8.194 निक्षेपो यः कृतो येन यावांश् च कुलसंनिधौ । तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ।।

8.195 मिथो दायः कृतो येन गृहीतो मिथ एव वा । मिथ एव प्रदातव्यो यथा दायस् तथा ग्रहः ।।

8.196 निक्षिप्तस्य धनस्यैवम् प्रीत्योपनिहितस्य च । राजा विनिर्णयं कुर्याद् अक्षिण्वन् न्यासधारिणम् ।।

8.197 विक्रीणीते परस्य स्वं यो ‘अस्वामी स्वाम्यसम्मतः । न तं नयेत साक्ष्यं तु स्तेनम् अस्तेनमानिनम् ।।

8.198 अवहार्यो भवेत् चैव सान्वयः षट्शतं दमम् । निर् अन्वयो ‘अन् अपसरः प्राप्तः स्याच् चौरकिल्बिषम् ।।

8.199 अस्वामिना कृतो यस् तु दायो विक्रय एव वा । अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ।।

8.200 संभोगो दृश्यते यत्र न दृश्येत आगमः क्व चित् । आगमः कारणं तत्र न संभोग इति स्थितिः ।।

…….Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.