मनुस्मृतिः पञ्चमोऽध्यायः

मनुस्मृतिः

अथ पञ्चमोऽध्यायः

(गृहस्थधर्माः)

5.1 श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथोदितान् । इदम् ऊचुर् महात्मानम् अनल प्रभवम् भृगुम् ।।
5.2 एवं यथोक्तम् विप्राणां स्वधर्मम् अनुतिष्ठताम् । कथं मृत्युः प्रभवति वेद शास्त्रविदाम् प्रभो ।।

5.3 स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः । श्रूयतां येन दोषेण मृत्युर् विप्रान् जिघांसति ।।

5.4 अनभ्यासेन वेदानाम् आचारस्य च वर्जनात् । आलस्याद् अन्नदोषाच् च मृत्युर् विप्राञ् जिघांसति ।। म्विप्रान्

5.5 लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च । अभक्ष्याणि द्विजातीनाम् अमेध्य प्रभवानि च ।।

5.6 लोहितान् वृक्षनिर्यासान् वृश्चन प्रभवाम्स् तथा । म्व्रश्चन प्रभवाम्स् शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ।। म्पीयूषम्

5.7 वृथा कृसर संयावम् पायसापूपम् एव च । अन् उपाकृतमाम्सानि देवान्नानि हवींषि च ।।

5.8 अ निर्दशाया गोः क्षीरम् औष्ट्रम् ऐकशफं तथा । आविकं संधिनीक्षीरं वि वत्सायाश् च गोः पयः ।। म्सन्धिनीक्षीरम्

5.9 आरण्यानां च सर्वेषां मृगाणां माहिषं विना । स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ।।

5.10 दधि भक्ष्यं च शुक्तेषु सर्वं च दधि संभवम् । म्दधि संभवम् यानि चैवाभिषूयन्ते पुष्प मूल फलैः शुभैः ।।

5.11 क्रव्यादाञ् शकुनान् सर्वाएष तथा ग्रामनिवासिनः । म्क्रव्यादः शकुनीन् अ निर्दिष्टाम्श् चैकशफाम्ष् टिट्टिभं च विवर्जयेत् ।।

5.12 कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् । सारसं रज्जुवालं च दात्यूहं शुक सारिके ।। म्रज्जुदालम्

5.13 प्रतुदाञ् जालपादांश् च कोयष्टि नखविष्किरान् । म्प्रतुदान् निमज्जतश् च मत्स्यादान् सौनं वल्लूरम् एव च ।।

5.14 बकं चैव बलाकां च काकोलं खञ्जरीटकम् । मत्स्यादान् विड्वराहांश् च मत्स्यान् एव च सर्वशः ।।

5.15 यो यस्य मांसम् अश्नाति स तन्मांसाद उच्यते । मत्स्यादः सर्वमांसादस् तस्मान् मत्स्यान् विवर्जयेत् ।।

5.16 पाठीन रोहिताव् आद्यौ नियुक्तौ हव्य कव्ययोः । राजीवान् सिंहतुण्डाश् च स शल्काश् चैव सर्वशः ।। म्राजीवाः

5.17 न भक्षयेद् एकचरान् अज्ञातांश् च मृग द्विजान् । भक्ष्येष्व् अपि समुद्दिष्टान् सर्वान् पञ्चनखांस् तथा ।।

5.18 श्वाविधं शल्यकं गोधां खड्ग कूर्म शशाम्स् तथा । भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् चैकतोदतह् ।।

5.19 छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ।।

5.20 अ मत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । यतिचान्द्रायाणं वापि शेषेषूपवसेद् अहः ।।

5.21 संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः । अ ज्ञातभुक्तशुद्ध्यर्थम् ज्ञातस्य तु विषेशतः ।।

5.22 यज्ञार्थं ब्राह्मणैर् वध्याः प्रशस्ता मृग पक्षिणः । भृत्यानां चैव वृत्त्यर्थम् अगस्त्यो ह्य् आचरत् पुरा ।।

5.23 बभूवुर् हि पुरोडाशा भक्ष्याणां मृग पक्षिणाम् । पुराणेष्व् अपि यज्ञेषु ब्रह्म क्षत्रसवेषु च ।। म्पुराणेष्व् ऋषियज्ञेषु

5.24 यत् किं चित् स्नेहसंयुक्तं भक्ष्यं भोज्यम् अ गर्हितम् । तत् पर्युषितम् अप्य् आद्यं हविःशेषं च यद् भवेत् ।।

5.25 चिरस्थितम् अपि त्व् आद्यम् अ स्नेहाक्तम् द्विजातिभिः । यव गोधूमजम् सर्वं पयसश् चैव विक्रिया ।।

5.26 एतद् उक्तं द्विजातीनां भक्ष्याभक्ष्यम् अ शेषतः । माम्सस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ।।

5.27 प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया । यथाविधि नियुक्तस् तु प्राणानाम् एव चात्यये ।।

5.28 प्राणस्यान्नम् इदं सर्वं प्रजापतिर् अकल्पयत् । स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ।।

5.29 चराणाम् अन्नम् अ चरा दंष्ट्रिणाम् अप्य् अ दंष्ट्रिणः । अ हस्ताश् च स हस्तानाम् शूराणां चैव भीरवः ।।

5.30 नात्ता दुष्यत्य् अदन्न् आद्यान् प्राणिनो ‘अहन्य् अहन्य् अपि । धात्रैव सृष्टा ह्य् आद्याश् च प्राणिनो ‘अत्तार एव च ।।

5.31 यज्ञाय जग्धिर् माम्सस्येत्य् एष दैवो विधिः स्मृतः । अतो ‘अन्यथा प्रवृत्तिस् तु राक्षसो विधिर् उच्यते ।।

5.32 क्रीत्वा स्वयं वाप्य् उत्पाद्य परोपकृतम् एव वा । देवान् पित्qंश् चार्चयित्वा खादन् मांसं न दुष्यति ।।

5.33 नाद्याद् अविधिना मांसं विधिज्ञो ‘अनापदि द्विजः । जग्ध्वा ह्य् अ विधिना मांसं प्रेतस् तैर् अद्यते ‘अ वशः ।।

5.34 न तादृशं भवत्य् एनो मृगहन्तुर् धनार्थिनः । यादृशं भवति प्रेत्य वृथामांसानि खादतः ।।

5.35 नियुक्तस् तु यथान्यायं यो मांसं नात्ति मानवः । स प्रेत्य पशुतां याति संभवान् एकविंशतिम् ।।

5.36 असंस्कृतान् पशून् मन्त्रैर् नाद्याद् विप्रः कदा चन । मन्त्रैस् तु संस्कृतान् अद्याच् शाश्वतम् विधिम् आस्थितः ।।

5.37 कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा । न त्व् एव तु वृथा हन्तुं पशुम् इच्छेत् कदा चन ।।

5.38 यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ।।

5.39 यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयंभुवा । यज्ञो ‘अस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधो ‘अ वधः ।।

5.40 ओषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्य् उत्सृतीः पुनः ।। म् उच्छ्रितीः

5.41 मधुपर्के च यज्ञे च पितृ दैवतकर्मणि । अत्रैव पशवो हिंस्या नान्यत्रेत्य् अब्रवीन् मनुः ।।

5.42 एष्व् अर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः । आत्मानं च पशुं चैव गमयत्य् उत्तमं गतिम् ।।

5.43 गृहे गुराव् अरण्ये वा निवसन्न् आत्मवान् द्विजः । ना वेदविहिताम् हिंसाम् आपद्य् अपि समाचरेत् ।।

5.44 या वेदविहिता हिंसा नियतास्मिम्श् चराचरे । अहिंसाम् एव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ।।

5.45 यो ‘अहिंसकानि भूतानि हिनस्त्य् आत्मसुखेच्छया । स जीवांश् च मृतश् चैव न क्व चित् सुखम् एधते ।।

5.46 यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखम् अत्यन्तम् अश्नुते ।।

5.47 यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च । तद् अवाप्नोत्य् अयत्नेन यो हिनस्ति न किं चन ।।

5.48 ना कृत्वा प्राणिनां हिंसां मांसम् उत्पद्यते क्व चित् । न च प्राणिवधः स्वर्ग्यस् तस्मान् मांसं विवर्जयेत् ।।

5.49 समुत्पत्तिं च मांसस्य वध बन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ।।

5.50 न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । न लोके प्रियतां याति व्याधिभिश् च न पीड्यते ।।

5.51 अनुमन्ता विशसिता निहन्ता क्रय विक्रयी । संस्कर्ता चोपहर्ता च खादकश् चेति घातकाः ।।

5.52 स्वमांसं परमांसेन यो वर्धयितुम् इच्छति । अन् अभ्यर्च्य पित्qन् देवांस् ततो ‘अन्यो नास्त्य् अपुण्यकृत् ।।

5.53 वर्षे वर्षे ‘अश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद् यस् तयोः पुण्यफलं समम् ।।

5.54 फल मूलाशनैर् मेध्यैर् मुन्यन्नानाम् च भोजनैः । न तत् फलम् अवाप्नोति यत् माम्सपरिवर्जनात् ।।

5.55 मां स भक्षयितामुत्र यस्य मांसम् इहाद्म्य् अहम् । एतत् माम्सस्य मांसत्वं प्रवदन्ति मनीषिणः ।।

5.56 न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ।।

5.57 प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च । चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः ।।

5.58 दन्तजाते ‘अनुजाते च कृत चूडे च संस्थिते । अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ।।

5.59 दशाहं शावम् आशौचं सपिण्डेषु विधीयते । अर्वाक् संचयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ।।

5.60 सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस् तु जन्म नाम्नोर् अ वेदने ।।

5.61 यथेदम् शावम् आशौचं सपिण्डेषु विधीयते । नोत् इन् ं जनने ‘अप्य् एवम् एव स्यात् निपुणम् शुद्धिम् इच्छताम् ।। नोत् इन् ं

5.62 सर्वेषां शावम् आशौचं माता पित्रोस् तु सूतकम् । ं: जनने ‘अप्य् एवम् एव स्यान् माता पित्रोस् तु सूतकम् । सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ।।

5.63 तु पुमाञ् शुक्रम् उपस्पृस्यैव शुध्यति । बैजिकाद् अभिसंबन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ।।

5.64 चैकेन रात्र्या च त्रिरात्रैर् एव च त्रिभिः । शव स्पृशो विशुध्यन्ति त्र्यहाद् उदकदायिनः ।।

5.65 प्रेतस्य शिष्यस् तु पितृमेधं समाचरन् । प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ।। म्प्रेताहारैः

5.66 मास तुल्याभिर् गर्भस्रावे विशुध्यति । रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ।।

5.67 अ कृतचूडानाम् विशुद्धिर् नैशिकी स्मृता । निर्वृत्त चूडकानाम् तु त्रिरात्राच् शुद्धिर् इष्यते ।। एष निर्वृत्त मुण्डकानाम्

5.68 प्रेतं निदध्युर् बान्धवा बहिः । अलंकृत्य शुचौ भूमाव् अस्थिसंचयनाद् ऋते ।।

5.69 कार्यो ‘अग्निसंस्कारो न च कार्योदकक्रिया । अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस् त्र्यहम् एव तु ।। एष क्षपेत त्र्यहम् एव च

5.70 कर्तव्या बान्धवैर् उदकक्रिया । जात दन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ।।

5.71 एकाहम् अतीते क्षपणम् स्मृतम् । जन्मन्य् एकोदकानाम् तु त्रिरात्राच् शुद्धिर् इष्यते ।।

5.72 अ संस्कृतानाम् तु त्र्यहाच् शुध्यन्ति बान्धवाः । यथोक्तेनैव कल्पेन शुध्यन्ति तु स नाभयः ।।

5.73 स्युर् निमज्जेयुश् च ते त्र्यहम् । मांसाशनं च नाश्नीयुः शयीरंश् च पृथक् क्षितौ ।।

5.74 एष वै कल्पः शावाशौचस्य कीर्तितः । अ संनिधाव् अयं ज्ञेयो विधिः संबन्धि बान्धवैः ।।

5.75 तु विदेशस्थं शृणुयाद् यो ह्य् अ निर्दशम् । यच् शेषम् दशरात्रस्य तावद् एवाशुचिर् भवेत् ।।

5.76 अतिक्रान्ते दशाहे च त्रिरात्रम् अशुचिर् भवेत् । संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ।।

5.77 निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । स वासा जलम् आप्लुत्य शुद्धो भवति मानवः ।।

5.78 बाले देशान्तरस्थे च पृथक् पिण्डे च संस्थिते । स वासा जलम् आप्लुत्य सद्य एव विशुध्यति ।।

5.79 अन्तर्दशाहे स्यातां चेत् पुनर् मरण जन्मनी । एष चेत् स्यातां तावत् स्याद् अ शुचिर् विप्रो यावत् तत् स्याद् अ निर्दशम् ।।

5.80 त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति । तस्य पुत्रे च पत्न्यां च दिवा रात्रम् इति स्थितिः ।।

5.81 श्रोत्रिये तूपसंपन्ने त्रिरात्रम् अशुचिर् भवेत् । मातुले पक्षिणीं रात्रिं शिष्यर्त्विग् बान्धवेषु च ।।

5.82 प्रेते राजनि स ज्योतिर् यस्य स्याद् विषये स्थितः । अ श्रोत्रिये त्व् अहः कृत्स्नम् अनूचाने तथा गुरौ ।। म्कृत्स्नाम्

5.83 शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ।।

5.84 न वर्धयेद् अघाहानि प्रत्यूहेन् नाग्निषु क्रियाः । न च तत्कर्म कुर्वाणः स नाभ्यो ‘अप्य् अशुचिर् भवेत् ।।

5.85 दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ।।

5.86 आचम्य प्रयतो नित्यं जपेद् अ शुचिदर्शने । सौरान् मन्त्रान् यथोत्साहम् पावमानीश् च शक्तितः ।।

5.87 नारं स्पृष्ट्वास्थि स स्नेहम् स्नात्वा विप्रो विशुध्यति । आचंयैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ।।

5.88 आदिष्टी नोदकम् कुर्याद् आ व्रतस्य समापनात् । समाप्ते तूदकम् कृत्वा त्रिरात्रेणैव शुध्यति ।।

5.89 वृथा संकर जातानाम् प्रव्रज्यासु च तिष्ठताम् । आत्मनस् त्यागिनां चैव निवर्तेतोदकक्रिया ।।

5.90 पाषण्डम् आश्रितानां च चरन्तीनां च कामतः । गर्भ भर्तृ द्रुहाम् चैव सुरापीनां च योषिताम् ।।

5.91 आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् । निर्हृत्य तु व्रती प्रेतान् न व्रतेन वियुज्यते ।।

5.92 दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । पश्चिमोत्तर पूर्वैस् तु यथायोगं द्विजन्मनः ।।

5.93 न राज्ञाम् अघदोषो ‘अस्ति व्रतिनां न च सत्त्रिणाम् । ऐन्द्रं स्थानम् उपासीना ब्रह्मभूता हि ते सदा ।।

5.94 राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थम् आसनं चात्र कारणम् ।।

5.95 डिम्भाहव हतानाम् च विद्युता पार्थिवेन च । म्डिम्बाहव हतानाम् गो ब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ।।

5.96 सोमाग्न्यर्कानिलेन्द्राणाम् वित्ताप्पत्योर् यमस्य च । अष्टानां लोकपालानां वपुर् धारयते नृपः ।।

5.97 लोकेशाधिष्ठितो राजा नास्याशौचम् विधीयते । शौचाशौचम् हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ।।

5.98 उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः संतिष्ठते यज्ञस् तथाशौचम् इति स्थितिः ।।

5.99 विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृत क्रियः ।।

5.100 एतद् वो ‘अभिहितं शौचं सपिण्डेषु द्विजोत्तमाः । असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ।।

5.101 असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ।।

5.102 यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शुध्यति । अन् अदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ।।

5.103 अनुगंयेच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव च । एष अज्ञातिम् एव वा स्नात्वा स चैलः स्पृष्ट्वाग्निम् घृतं प्राश्य विशुध्यति ।। म्स चैलम्, विशुद्ध्यति

5.104 न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् । अ स्वर्ग्या ह्य् आहुतिः सा स्याच् शूद्रसंस्पर्शदूषिता ।।

5.105 ज्ञानं तपो ‘अग्निर् आहारो मृत् मनो वार्य् उपाञ्जनम् । वायुः कर्मार्क कालौ च शुद्धेः कर्त्qणि देहिनाम् ।।

5.106 सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतं । यो ‘अर्थे शुचिर् हि स शुचिर् न मृत् वारि शुचिः शुचिः ।।

5.107 क्षान्त्या शुध्यन्ति विद्वांसो दानेना कार्यकारिणः । म्शुद्ध्यन्ति प्रच्छन्न पापा जप्येन तपसा वेदवित्तमाः ।।

5.108 मृत् तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ।।

5.109 अद्भिर् गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्या तपोभ्याम् भूतात्मा बुद्धिर् ज्ञानेन शुध्यति ।। म्शुद्ध्यति

5.110 एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः । नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ।।

5.111 तैजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाद्भिर् मृदा चैव शुद्धिर् उक्ता मनीषिभिः ।।

5.112 निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति । म्विशुद्ध्यति अब्जम् अश्ममयं चैव राजतं चान् उपस्कृतम् ।।

5.113 अपाम् अग्नेश् च संयोगाद्द् हैमं रौप्यं च निर्बभौ । तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ।।

5.114 ताम्रायस् काम्स्य रैत्यानाम् त्रपुणः सीसकस्य च । शौचं यथार्हं कर्तव्यं क्षाराम्लोदक वारिभिः ।।

5.115 द्रवाणां चैव सर्वेषां शुद्धिर् उत्पवनं स्मृतम् । प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ।।

5.116 मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ।।

5.117 चरूणां स्रुक् स्रुवाणाम् च शुद्धिर् उष्णेन वारिणा । स्फ्य शूर्प शकटानाम् च मुसलोलूखलस्य च ।।

5.118 अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्य वाससाम् । प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ।।

5.119 चैलवच् चर्मणाम् शुद्धिर् वैदलानां तथैव च । शाक मूल फलानाम् च धान्यवच् शुद्धिर् इष्यते ।। एष तु

5.120 कौशेयाविकयोर् ऊषैः कुतपानाम् अरिष्टकैः । श्रीफलैर् अंशुपट्टानां क्षौमाणां गौरसर्षपैः ।।

5.121 क्षौमवच् शङ्ख शृङ्गाणाम् अस्थि दन्तमयस्य च । शुद्धिर् विजानता कार्या गो मूत्रेणोदकेन वा ।।

5.122 प्रोक्षणात् तृण काष्ठम् च पलालं चैव शुध्यति । मार्जनोपाञ्जनैर् वेश्म पुनःपाकेन मृत् मयम् ।। M5 123Ka/ मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैह् पूयशोणितैः । नोत् इन् ं M5 123Kb/ संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृत् मयम् ।। नोत् इन् ं

5.124 संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च । गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ।। म्शुद्ध्यति

5.125 पक्षि जग्धम् गवा घ्रातम् अवधूतम् अवक्षुतम् । दूषितं केश कीटैश् च मृत् प्रक्षेपेण शुध्यति ।।

5.126 यावत् नापैत्य् अ मेध्याक्ताद् गन्धो लेपश् च तत् कृतः । तावन् मृद् वारि चादेयम् सर्वासु द्रव्यशुद्धिषु ।।

5.127 त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् । अ दृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ।।

5.128 आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर् भवेत् । अ व्याप्ताश् चेद् अ मेध्येन गन्ध वर्ण रसान्विताः ।।

5.129 नित्यं शुद्धः कारु हस्तः पण्ये यच् च प्रसारितम् । म्पण्यम् ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यम् इति स्थितिः ।।

5.130 नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फलपातने । प्रस्रवे च शुचिर् वत्सः श्वा मृगग्रहणे शुचिः ।।

5.131 श्वभिर् हतस्य यन् मांसं शुचि तन् मनुर् अब्रवीत् । क्रव्याद्भिश् च हतस्यान्यैश् चण्डालाद्यैश् च दस्युभिः ।।

5.132 ऊर्ध्वं नाभेर् यानि खानि तानि मेध्यानि सर्वशः । यान्य् अधस् तान्य् अ मेध्यानि देहाच् चैव मलाश् च्युताः ।।

5.133 मक्षिका विप्रुषश् छाया गौर् अश्वः सूर्यरश्मयः । रजो भूर् वायुर् अग्निश् च स्पर्शे मेध्यानि निर्दिशेत् ।।

5.134 विष् मूत्रोत्सर्ग शुद्ध्यर्थम् मृत् वार्य् आदेयम् अर्थवत् । दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ।।

5.135 वसा शुक्रम् असृज् मज्जा मूत्र विष् घ्राण कर्ण विएष । श्लेश्म अश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ।।

5.136 एका लिङ्गे गुदे तिस्रस् तथैकत्र करे दश । उभयोः सप्त दातव्या मृदः शुद्धिम् अभीप्सता ।।

5.137 एतच् शौचम् गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ।।

5.138 कृत्वा मूत्रं पुरीषं वा खान्य् आचान्त उपस्पृशेत् । वेदम् अध्येष्यमाणश् च अन्नम् अश्नंश् च सर्वदा ।।

5.139 त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् । शरीरं शौचम् इच्छन् हि स्त्री शूद्रस् तु सकृत् सकृत् ।।

5.140 शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् । वैश्यवच् शौचकल्पश् च द्विजोच्छिष्टम् च भोजनम् ।।

5.141 नोच्छिष्टम् कुर्वते मुख्या विप्रुषो ‘अङ्गं न यान्ति याः । न श्मश्रूणि गतान्य् आस्यं न दन्तान्तर् अधिष्ठितम् ।।

5.142 स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । भौमिकैस् ते समा ज्ञेया न तैर् आप्रयतो भवेत् ।। एष अ प्रयतो

5.143 उच्छिष्टेन तु संस्पृष्टो द्रव्य हस्तः कथं चन । अ निधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ।।

5.144 वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् । आचामेद् एव भुक्त्वान्नम् स्नानं मैथुनिनः स्मृतम् ।।

5.145 सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च । पीत्वापो ‘अध्येष्यमाणश् च आचामेत् प्रयतो ‘अपि सन् ।।

5.146 एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस् तथैव च । म् एष उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान् निबोधत ।।

5.147 बालया वा युवत्या वा वृद्धया वापि योषिता । न स्वातन्त्र्येण कर्तव्यं किं चिद् कार्यं गृहेष्व् अपि ।।

5.148 बाल्ये पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने । पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ।।

5.149 पित्रा भर्त्रा सुतैर् वापि नेच्छेद् विरहम् आत्मनः । एषां हि विरहेण स्त्री गर्ह्ये कुर्याद् उभे कुले ।।

5.150 सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया । सुसंस्कृतोपस्करया व्यये चामुक्त हस्तया ।।

5.151 यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ।।

5.152 मङ्गलार्थं स्वस्त्ययनं यज्ञश् चासाम् प्रजापतेः । प्रयुज्यते विवाहे तु प्रदानं स्वाम्य कारणम् ।।

5.153 अन् ऋताव् ऋतुकाले च मन्त्र संस्कारकृत् पतिः । सुखस्य नित्यं दातेह परलोके च योषितः ।।

5.154 वि शीलः काम वृत्तो वा गुणैर् वा परिवर्जितः । उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ।।

5.155 नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषणम् । म् उपोषितम् पतिं शुश्रूषते येन तेन स्वर्गे महीयते ।।

5.156 पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा । पतिलोकम् अभीप्सन्ती नाचरेत् किं चिद् अ प्रियम् ।।

5.157 कामं तु क्सपयेद् देहं पुष्प मूल फलैः शुभैः । न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ।।

5.158 आसीता मरणात् क्सान्ता नियता ब्रह्मचारिणी । यो धर्म एकपत्नीनां काङ्क्षन्ती तम् अनुत्तमम् ।।

5.159 अनेकानि सहस्राणि कुमार ब्रह्मचारिणाम् । दिवं गतानि विप्राणाम् अ कृत्वा कुलसंततिम् ।।

5.160 मृते भर्तरि साढ्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गं गच्छत्य् अ पुत्रापि यथा ते ब्रह्मचारिणः ।।

5.161 अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते । सेह निन्दाम् अवाप्नोति परलोकाच् च हीयते ।।

5.162 नान्योत्पन्ना प्रजास्तीह न चाप्य् अन्यपरिग्रहे । म्न चान्यस्य परिग्रहे न द्वितीयश् च साध्वीनां क्व चिद् भर्तोपदिश्यते ।।

5.163 पतिं हित्वापकृष्टम् स्वम् उत्कृष्टं या निषेवते । म्हित्वावकृष्टम् निन्द्यैव सा भवेल् लोके पर पूर्वेति चोच्यते ।।

5.164 व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । म्व्यभिचारे तु शृगाल योनिम् प्राप्नोति पाप रोगैश् च पीड्यते ।।

5.165 पतिं या नाभिचरति मनो वाग् देहसंयुता । एष देहसंयता सा भर्तृलोकम् आप्नोति सद्भिः साध्वीति चोच्यते ।।

5.166 अनेन नारी वृत्तेन मनो वाग् देहसंयता । इहाग्र्याम् कीर्तिम् आप्नोति पतिलोकं परत्र च ।।

5.167 एवं वृत्तां स वर्णाम् स्त्रीं द्विजातिः पूर्वमारिणीम् । दाहयेद् अग्निहोत्रेण यज्ञपात्रैश् च धर्मवित् ।।

5.168 भार्यायै पूर्वमारिण्यै दत्त्वाग्नीन् अन्त्यकर्मणि । पुनर् दारक्रियां कुर्यात् पुनर् आधानम् एव च ।।

5.169 अनेन विधिना नित्यं पञ्चयज्ञान् न हापयेत् । द्वितीयम् आयुषो भागं कृत दारो गृहे वसेत् ।।

********

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.