मनुस्मृतिः सप्तमोऽध्यायः

मनुस्मृतिः

अथ सप्तमोऽध्यायः

(राजधर्माः)

7.1 राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः । संभवश् च यथा तस्य सिद्धिश् च परमा यथा ।।

7.2 ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ।।

7.3 अ राजके हि लोके ‘अस्मिन् सर्वतो विद्रुतो भयात् । रक्षार्थम् अस्य सर्वस्य राजानम् असृजत् प्रभुः ।।

7.4 इन्द्रानिल यमार्काणाम् अग्नेश् च वरुणस्य च । चन्द्र वित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतीः ।।

7.5 यस्माद् एषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा ।।

7.6 तपत्य् आदित्यवच् चैष चक्षूंषि च मनांसि च । न चैनम् भुवि शक्नोति कश् चिद् अप्य् अभिवीक्षितुम् ।।

7.7 सो ‘अग्निर् भवति वायुश् च सो ‘अर्कः सोमः स धर्मराट् । स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ।। म्स चेन्द्रः स्वप्रभावतः ।। K:

7.8 बालो ‘अपि नावमान्तव्यो मनुष्य इति भूमिपः । महती देवता ह्य् एषा नररूपेण तिष्ठति ।।

7.9 एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् । कुलं दहति राजाग्निः स पशु द्रव्यसंचयम् ।।

7.10 कार्यं सो ‘अवेक्ष्य शक्तिं च देश कालौ च तत्त्वतः । कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ।।

7.11 यस्य प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे । मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः ।।

7.12 तं यस् तु द्वेष्टि संमोहात् स विनश्यत्य् असंशयम् । तस्य ह्य् आशु विनाशाय राजा प्रकुरुते मनः ।।

7.13 तस्माद् धर्मं यम् इष्टेषु स व्यवस्येन् नराधिपः । अनिष्टं चाप्य् अनिष्टेषु तं धर्मं न विचालयेत् ।।

7.14 तस्यार्थे सर्वभूतानां गोप्तारं धर्मम् आत्मजम् । म्तदर्थम् ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः ।।

7.15 तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद् भोगाय कल्पन्ते स्वधर्मात् न चलन्ति च ।।

7.16 तं देश कालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः संप्रणयेन् नरेष्व् अन्याय वर्तिषु ।।

7.17 स राजा पुरुषो दण्डः स नेता शासिता च सः । चतुर्णाम् आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ।।

7.18 दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः ।।

7.19 समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । अ समीक्ष्य प्रणीतस् तु विनाशयति सर्वतः ।।

7.20 यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः । शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ।।

7.21 अद्यात् काकः पुरोडाशं श्वा च लिह्याद्द् हविस् तथा । म्श्वावलिह्याद्द् स्वाम्यं च न स्यात् कस्मिंश् चित् प्रवर्तेताधरोत्तरम् ।।

7.22 सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः । दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते ।।

7.23 देव दानव गन्धर्वा रक्षांसि पतगोरगाः । ते ‘अपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ।।

7.24 दुष्येयुः सर्ववर्णाश् च भिद्येरन् सर्वसेतवः । सर्वलोकप्रकोपश् च भवेद् दण्डस्य विभ्रमात् ।।

7.25 यत्र श्यामो लोहिताक्षो दण्डश् चरति पापहा । प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ।।

7.26 तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् । समीक्ष्यकारिणं प्राज्ञं धर्म कामार्थ कोविदम् ।।

7.27 तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते । कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ।। म्कामान्धो

7.28 दण्डो हि सुमहत् तेजो दुर्धरश् चाकृतात्मभिः । धर्माद् विचलितं हन्ति नृपम् एव स बान्धवम् ।।

7.29 ततो दुर्गं च राष्ट्रं च लोकं च स चराचरम् । अन्तरिक्षगतांश् चैव मुनीन् देवांश् च पीडयेत् ।।

7.30 सो ‘असहायेन मूढेन लुब्धेनाकृत बुद्धिना । न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ।।

7.31 शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ।।

7.32 स्वराष्ट्रे न्यायवृत्तः स्याद् भृश दण्डश् च शत्रुषु । सुहृत्स्व् अजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ।।

7.33 एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तीर्यते यशो लोके तैलबिन्दुर् इवाम्भसि ।।

7.34 अतस् तु विपरीतस्य नृपतेर् अजितात्मनः । संक्षिप्यते यशो लोके घृतबिन्दुर् इवाम्भसि ।।

7.35 स्वे स्वे धर्मे निविष्टानां सर्वेषाम् अनुपूर्वशः । वर्णानाम् आश्रमाणां च राजा सृष्टो ‘अभिरक्षिता ।।

7.36 तेन यद् यत् स भृत्येन कर्तव्यं रक्षता प्रजाः । तत् तद् वो ‘अहं प्रवक्ष्यामि यथावद् अनुपूर्वशः ।।

7.37 ब्राह्मणान् पर्युपासीत प्रातर् उत्थाय पार्थिवः । त्रैविद्यवृद्धान् विदुषस् तिष्ठेत् तेषां च शासने ।।

7.38 वृद्धांश् च नित्यं सेवेत विप्रान् वेदविदः शुचीन् । वृद्धसेवी हि सततं रक्षोभिर् अपि पूज्यते ।।

7.39 तेभ्यो ‘अधिगच्छेद् विनयं विनीतात्मापि नित्यशः । विनीतात्मा हि नृपतिर् न विनश्यति कर्हि चित् ।।

7.40 बहवो ‘अविनयाएष नष्टा राजानः स परिच्छदाः । म्स परिग्रहाः वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ।।

7.41 वेनो विनष्टो ‘अविनयात् नहुषश् चैव पार्थिवः । सुदाः पैजवनश् चैव सुमुखो निमिर् एव च ।।

7.42 पृथुस् तु विनयाद् राज्यं प्राप्तवान् मनुर् एव च । कुबेरश् च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ।।

7.43 त्रैविद्येभ्यस् त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । म्त्रयीम् विद्यात् आन्वीक्षिकीं चात्मविद्याम् वार्तारम्भांश् च लोकतः ।।

7.44 इन्द्रियाणां जये योगं समातिष्ठेद् दिवा निशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ।।

7.45 दश काम समुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुर् अन्तानि प्रयत्नेन विवर्जयेत् ।।

7.46 कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यते ‘अर्थ धर्माभ्याम् क्रोधजेष्व् आत्मनैव तु ।।

7.47 मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ।।

7.48 पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजो ‘अपि गणो ‘अष्टकः ।।

7.49 द्वयोर् अप्य् एतयोर् मूलं यं सर्वे कवयो विदुः । तं यत्नेन जयेल्लोभम् तज्जाव् एताव् उभौ गणौ ।।

7.50 पानम् अक्षाः स्त्रियश् चैव मृगया च यथाक्रमम् । एतत् कष्टतमं विद्याच् चतुष्कम् कामजे गणे ।।

7.51 दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजे ‘अपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ।।

7.52 सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनम् आत्मवान्

7.53 व्यसनस्य च मृत्योश् च व्यसनं कष्टम् उच्यते । व्यसन्य् अधो ‘अधो व्रजति स्वर् यात्य् अव्यसनी मृतः ।।

7.54 मौलाञ् शास्त्रविदः शूराम्लब्ध लक्षान् कुलोद्भवान् । म्कुलोद्गतान् सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ।। म्कुर्वीत सुपरीक्षितान्

7.55 अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम् । विशेषतो ‘असहायेन किं तु राज्यं महोदयम् ।। म्किम् नु

7.56 तैः सार्धं चिन्तयेन् नित्यं सामान्यं संधि विग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ।।

7.57 तेषां स्वं स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक््् समस्तानां च कार्येषु विदध्याद्द् हितम् आत्मनः ।।

7.58 सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ।।

7.59 नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । म्निक्षिपेत् तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ।।

7.60 अन्यान् अपि प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान् । सम्यग् अर्थसमाहर्त्qन् अमात्यान् सुपरीक्षितान् ।।

7.61 निर्वर्तेतास्य यावद्भिर् इतिकर्तव्यता नृभिः । तावतो ‘अतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ।।

7.62 तेषाम् अर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् । शुचीन् आकर कर्मान्ते भीरून् अन्तर्निवेशने ।।

7.63 दूतं चैव प्रकुर्वीत सर्वशास्त्र विशारदम् । इङ्गिताकार चेष्टज्ञम् शुचिं दक्षं कुलोद्गतम् ।।

7.64 अनुरक्तः शुचिर् दक्षः स्मृतिमान् देश कालवित् । वपुष्मान् वीतभीर् वाग्मी दूतो राज्ञः प्रशस्यते ।।

7.65 अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोश राष्ट्रे च दूते संधि विपर्ययौ ।।

7.66 दूत एव हि संधत्ते भिनत्त्य् एव च संहतान् । दूतस् तत् कुरुते कर्म भिद्यन्ते येन मानवः ।।

7.67 स विद्याद् अस्य कृत्येषु निर्गूढेङ्गित चेष्टितैः । आकारम् इङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ।।

7.68 बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् । तथा प्रयत्नम् आतिष्ठेद् यथात्मानम् न पीडयेत् ।।

7.69 जाङ्गलं सस्यसंपन्नम् आर्य प्रायम् अन् आविलम् । रम्यम् आनत सामन्तम् स्वाजीव्यं देशम् आवसेत् ।।

7.70 धन्व दुर्गम् मही दुर्गम् अब् दुर्गम् वार्क्षम् एव वा । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ।।

7.71 सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ।।

7.72 त्रिण्य् आद्यान्य् आश्रितास् त्व् एषां मृग गर्ताश्रयाप्चराः । त्रीण्य् उत्तराणि क्रमशः प्लवंगम नरामराः ।।

7.73 यथा दुर्गाश्रितान् एतान् नोपहिम्सन्ति शत्रवः । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ।।

7.74 एकः शतं योधयति प्राकारस्थो धनुर्धरः । शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ।।

7.75 तत् स्याद् आयुधसंपन्नं धन धान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर् यन्त्रैर् यवसेनोदकेन च ।।

7.76 तस्य मध्ये सुपर्याप्तं कारयेद् गृहम् आत्मनः । गुप्तं सर्वर्तुकम् शुभ्रं जल वृक्षसमन्वितम् ।।

7.77 तद् अध्यास्योद्वहेद् भार्यां स वर्णाम् लक्षणान्विताम् । कुले महति संभूतां हृद्यां रूप गुणान्वीताम् ।।

7.78 पुरोहितं च कुर्वीत वृणुयाद् एव चर्त्विजः । ते ‘अस्य गृह्याणि कर्माणि कुर्युर् वैतानिकानि च ।।

7.79 यजेत राजा क्रतुभिर् विविधैर् आप्त दक्षिणैः । धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ।।

7.80 सांवत्सरिकम् आप्तैश् च राष्ट्राद् आहारयेद् बलिम् । स्याच् चाम्नाय परो लोके वर्तेत पितृवत् नृषु ।।

7.81 अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः । ते ‘अस्य सर्वाण्य् अवेक्षेरन् नृणां कार्याणि कुर्वताम् ।।

7.82 आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् । नृपाणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो ‘अभिधीयते ।।

7.83 न तं स्तेना न चामित्रा हरन्ति न च नश्यति । तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्व् अक्षयो निधिः ।।

7.84 न स्कन्दते न व्यथते न विनश्यति कर्हि चित् । एष न स्कन्दति न च्यवते वरिष्ठम् अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ।।

7.85 समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राधीते शतसाहस्रम् अनन्तं वेदपारगे ।। म् आचार्ये शतसाहस्रम् ञ्: सहस्रगुणम् आचार्ये

7.86 पात्रस्य हि विशेषेण श्रद्दधानतयैव च । अल्पं वा बहु वा प्रेत्य दानस्य फलम् अश्नुते ।। M7 87Ma/ देश कालविधानेन द्रव्यं श्रद्धासमन्वितम् । नोत् इन् K M7 87Mc/ पात्रे प्रदीयते यत् तु तद् धर्मस्य प्रसाधनम् ।। नोत् इन् K Aल्थोउघ् ंएधातिथि चोम्मेन्त्स् ओन् थे अबोवे श्लोक, ञ्ह’स् एदितिओन् दोएस् नोत् चोउन्त् इत् इन् हिस् नुम्बेरिन्ग् ओf थे तेxएष ठेरेfओरे, ञ्ह एद् ‘स् नुम्बेरिन्ग् इस् थे समे wइथ् K इन् थे fओल्लोwइन्ग्

7.87 समोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः । न निवर्तेत संग्रामात् क्षात्रं धर्मम् अनुस्मरन् ।।

7.88 संग्रामेष्व् अनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ।।

7.89 आहवेषु मिथो ‘अन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अ पराङ्मुखाः ।।

7.90 न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् । न कर्णिभिर् नापि दिग्धैर् नाग्निज्वलित तेजनैः ।।

7.91 न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम् । न मुक्त केशम् नासीनम् न तवास्मीति वादिनम् ।।

7.92 न सुप्तं न वि संनाहम् न नग्नं न निर् आयुधम् । नायुध्यमानम् पश्यन्तं न परेण समागतम् ।।

7.93 नायुधव्यसनप्राप्तम् नार्तम् नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ।।

7.94 यस् तु भीतः परावृत्तः संग्रामे हन्यते परैः । भर्तुर् यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते ।।

7.95 यच् चास्य सुकृतं किं चिद् अमुत्रार्थम् उपार्जितम् । भर्ता तत् सर्वम् आदत्ते परावृत्तहतस्य तु ।।

7.96 रथाश्वम् हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः । सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ।।

7.97 राज्ञश् च दद्युर् उद्धारम् इत्य् एषा वैदिकी श्रुतिः । राज्ञा च सर्वयोधेभ्यो दातव्यम् अपृथग्जितम् ।।

7.98 एषो ‘अनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । अस्माद् धर्मान् न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ।।

7.99 अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः । रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ।।

7.100 एतच् चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् । अस्य नित्यम् अनुष्ठानं सम्यक् कुर्याद् अतन्द्रितः ।।

7.101 अलब्धम् इच्छेद् दण्डेन लब्धं रक्षेद् अवेक्षया । रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ।।

7.102 नित्यम् उद्यत दण्डः स्यान् नित्यं विवृत पौरुषः । नित्यं संवृत संवार्यो नित्यं छिद्रानुसार्य् अरेः ।।

7.103 नित्यम् उद्यत दण्डस्य कृत्स्नम् उद्विजते जगत् । तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ।।

7.104 अ माययैव वर्तेत न कथं चन मायया । बुध्येतारिप्रयुक्ताम् च मायां नित्यं सुसंवृतः ।।

7.105 नास्य छिद्रं परो विद्याद् विद्यात् छिद्रम् परस्य च । गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः ।।

7.106 बकवच् चिन्तयेद् अर्थान् सिम्हवच् च पराक्रमे । वृकवच् चावलुम्पेत शशवच् च विनिष्पतेत् ।।

7.107 एवम् विजयमानस्य ये ‘अस्य स्युः परिपन्थिनः । तान् आनयेद् वशं सर्वान् सामादिभिर् उपक्रमैः ।।

7.108 यदि ते तु न तिष्ठेयुर् उपायैः प्रथमैस् त्रिभिः । दण्डेनैव प्रसह्य एताञ् शनकैर् वशम् आनयेत् ।।

7.109 सामादीनाम् उपायानां चतुर्णाम् अपि पण्डिताः । साम दण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ।।

7.110 यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति । तथा रक्षेन् नृपो राष्ट्रं हन्याच् च परिपन्थिनः ।।

7.111 मोहाद् राजा स्वराष्ट्रं यः कर्षयत्य् अनवेक्षया । सो ‘अचिराद् भ्रश्यते राज्याज्जीविताच् च स बान्धवः ।।

7.112 शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञाम् अपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ।।

7.113 राष्ट्रस्य संग्रहे नित्यं विधानम् इदम् आचरेत् । सुसंगृहीतराष्ट्रे हि पार्थिवः सुखम् एधते ।।

7.114 द्वयोस् त्रयाणां पञ्चानां मध्ये गुल्मम् अधिष्ठितम् । तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य संग्रहम् ।।

7.115 ग्रामस्याधिपतिम् कुर्याद् दशग्रामपतिं तथा । विंशतीशं शतेशम् च सहस्रपतिम् एव च ।।

7.116 ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् । शंसेद् ग्रामदशेशाय दशेशो विंशतीशिने ।।

7.117 विंशतीशस् तु तत् सर्वं शतेशाय निवेदयेत् । शंसेद् ग्रामशतेशस् तु सहस्रपतये स्वयम् ।।

7.118 यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्न पानेन्धनादीनि ग्रामिकस् तान्य् अवाप्नुयात् ।।

7.119 दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ।।

7.120 तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि । राज्ञो ‘अन्यः सचिवः स्निग्धस् तानि पश्येद् अतन्द्रितः ।।

7.121 नगरे नगरे चैकम् कुर्यात् सर्वार्थचिन्तकम् । उच्चैःस्थानं घोररूपं नक्षत्राणाम् इव ग्रहम् ।।

7.122 स तान् अनुपरिक्रामेत् सर्वान् एव सदा स्वयम् । तेषां वृत्तं परिणयेत् सम्यग् राष्ट्रेषु तच् चरैः ।।

7.123 राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद् इमाः प्रजाः ।।

7.124 ये कार्यिकेभ्यो ‘अर्थम् एव गृह्णीयुः पापचेतसः । तेषां सर्वस्वम् आदाय राजा कुर्यात् प्रवासनम् ।।

7.125 राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । म्राजकर्मसु प्रत्यहं कल्पयेद् वृत्तिं स्थानं कर्मानुरूपतः ।। म्स्थान कर्मानुरूपतः

7.126 पणो देयो ‘अवकृष्टस्य षड् उत्कृष्टस्य वेतनम् । षाण्मासिकस् तथाच्छादो धान्यद्रोणस् तु मासिकः ।।

7.127 क्रय विक्रयम् अध्वानं भक्तं च स परिव्ययम् । योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत् करान् ।।

7.128 यथा फलेन युज्येत राजा कर्ता च कर्मणाम् । तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ।। M7 129a 130Ma / यथाल्पाल्पम् अदन्त्य् आद्यं वार्योको वत्स षट्पदाः । तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ।।

7.130 पञ्चाशद्भाग आदेयो राज्ञा पशु हिरण्ययोः । धान्यानाम् अष्टमो भागः षष्ठो द्वादश एव वा ।।

7.131 आददीत अथ षड्भागं द्रु माम्स मधु सर्पिषाम् । गन्धौषधि रसानाम् च पुष्प मूल फलस्य च ।।

7.132 पत्र शाक तृणानाम् च चर्मणां वैदलस्य च । मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ।।

7.133 म्रियमाणो ‘अप्य् आददीत न राजा श्रोत्रियात् करम् । न च क्षुधास्य संसीदेतेष श्रोत्रियो विषये वसन् ।।

7.134 यस्य राज्ञस् तु विषये श्रोत्रियः सीदति क्षुधा । तस्यापि तत् क्षुधा राष्ट्रम् अचिरेनैव सीदति ।।

7.135 श्रुत वृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् । संरक्षेत् सर्वतश् चैनम् पिता पुत्रम् इवौरसम् ।।

7.136 संरक्ष्यमाणो राज्ञा यं कुरुते धर्मम् अन्वहम् । म्राज्ञायम् तेनायुर् वर्धते राज्ञो द्रविणं राष्ट्रम् एव च ।।

7.137 यत् किं चिद् अपि वर्षस्य दापयेत् करसंज्ञितम् । व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ।।

7.138 कारुकाञ् शिल्पिनश् चैव शूद्रांस् चात्मोपजीविनः । एकैकं कारयेत् कर्म मासि मासि महीपतिः ।।

7.139 नोच्छिन्द्याद् आत्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन् ह्य् आत्मनो मूलम् आट्मानं तांश् च पीदयेत् ।।

7.140 तीक्ष्णश् चैव मृदुश् च स्यात् कार्यं वीक्ष्य महीपतिः । तीक्ष्णश् चैव मृदुश् चैव राज भवति सम्मतः ।।

7.141 अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् । स्थापयेद् आसने तस्मिन् खिन्नः कार्येक्षणे नृणाम् ।।

7.142 एवं सर्वं विधाय इदम् इतिकर्तव्यम् आत्मनः । युक्तश् चैवाप्रमत्तश् च परिरक्षेद् इमाः प्रजाः ।।

7.143 विक्रोशन्त्यो यस्य राष्ट्राद् ह्रियन्ते दस्युभिः प्रजाः । संपश्यतः स भृत्यस्य मृतः स न तु जीवति ।।

7.144 क्षत्रियस्य परो धर्मः प्राजानाम् एव पालनम् । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ।।

7.145 उत्थाय पश्चिमे यामे कृत शौचः समाहितः । हुताग्निर् ब्राह्मणांश् चार्च्य प्रविशेत् स शुभां सभाम् ।।

7.146 तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ।।

7.147 गिरिपृष्ठं समारुह्य प्रसादं वा रहोगतः । अरण्ये निःशलाके वा मन्त्रयेद् अ विभावितः ।।

7.148 यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः । स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनो ‘अपि पार्थिवः ।।

7.149 जड मूकान्ध बधिराम्स् तैर्यग्योनान् वयो ‘अतिगान् । स्त्री म्लेच्छ व्याधित व्यङ्गान् मन्त्रकाले ‘अपसारयेत् ।।

7.150 भिन्दन्त्य् अवमता मन्त्रं तैर्यग्योनास् तथैव च । स्त्रियश् चैव विशेषेण तस्मात् तत्रादृतो भवेत् ।।

7.151 मध्यंदिने ‘अर्धरात्रे वा विश्रान्तो विगतक्लमः । चिन्तयेद् धर्म कामार्थान् सार्धं तैर् एक एव वा ।। म्सार्थम्

7.152 परस्परविरुद्धानां तेषां च समुपार्जनम् । कन्यानां संप्रदानं च कुमाराणां च रक्षणं ।।

7.153 दूतसंप्रेषणं चैव कार्यशेषं तथैव च । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ।।

7.154 कृत्स्नं चाष्टविधम् कर्म पञ्चवर्गं च तत्त्वतः । अनुरागापरागौ च प्रचारं मण्डलस्य च ।।

7.155 मध्यमस्य प्रचारं च विजीगिषोश् च चेष्टितम् । उदासीनप्रचारं च शत्रोश् चैव प्रयत्नतः ।।

7.156 एताः प्रकृतयो मूलं मण्डलस्य समासतः । अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ।।

7.157 अमात्य राष्ट्र दुर्गार्थ दण्डाख्याः पञ्च चापराः । प्रत्येकं कथिता ह्य् एताः संक्षेपेण द्विसप्ततिः ।।

7.158 अनन्तरम् अरिं विद्याद् अरिसेविनम् एव च । अरेर् अनन्तरं मित्रम् उदासीनं तयोः परम् ।।

7.159 तान् सर्वान् अभिसंदध्यात् सामादिभिर् उपक्रमैः । व्यस्तैश् चैव समस्तैश् च पौरुषेण नयेन च ।।

7.160 संधिं च विग्रहं चैव यानम् आसनम् एव च । द्वैधीभावं संश्रयं च षड्गुणांश् चिन्तयेत् सदा ।।

7.161 आसनं चैव यानं च संधिं विग्रहम् एव च । कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयम् एव च ।।

7.162 संधिं तु द्विविधं विद्याद् राजा विग्रहम् एव च । उभे यानासने चैव द्विविधः संश्रयः स्मृतः ।।

7.163 समान यानकर्मा च विपरीतस् तथैव च । तदा त्व् आयतिसंयुक्तः संधिर् ज्ञेयो द्विलक्षणः ।।

7.164 स्वयंकृतश् च कार्यार्थम् अकाले काल एव वा । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ।।

7.165 एकाकिनश् चात्ययिके कार्ये प्राप्ते यदृच्छया । संहतस्य च मित्रेण द्विविधं यानम् उच्यते ।।

7.166 क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा । मित्रस्य चानुरोधेन द्विविधं स्मृतम् आसनम् ।।

7.167 बलस्य स्वामिनश् चैव स्थितिः कार्यार्थसिद्धये । द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ।।

7.168 अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः । साधुषु व्यपदेशश् च द्विविधः संश्रयः स्मृतः ।।

7.169 यदावगच्छेद् आयत्याम् आधिक्यं ध्रुवम् आत्मनः । तदात्वे चाल्पिकाम् पीडां तदा संधिं समाश्रयेत् ।।

7.170 यदा प्रहृष्टा मन्येत सर्वास् तु प्रकृतीर् भृशम् । अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ।।

7.171 यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतं च तदा यायाद् रिपुं प्रति ।।

7.172 यदा तु स्यात् परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्न् अरीन् ।।

7.173 मन्येत अरिम् यदा राजा सर्वथा बलवत्तरम् । तदा द्विधा बलं कृत्वा साधयेत् कार्यम् आत्मनः ।।

7.174 यदा परबलानां तु गमनीयतमो भवेत् । तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं नृपम् ।।

7.175 निग्रहं प्रकृतीनां च कुर्याद् यो ‘अरिबलस्य च । उपसेवेत तं नित्यं सर्वयत्नैर् गुरुं यथा ।।

7.176 यदि तत्रापि संपश्येद् दोषं संश्रयकारितम् । सुयुद्धम् एव तत्रापि निर्विशङ्कः समाचरेत् ।।

7.177 सर्वोपायैस् तथा कुर्यान् नीतिज्ञः पृथिवीपतिः । यथास्याभ्यधिका न स्युर् मित्रोदासीन शत्रवः ।।

7.178 आयतिं सर्वकार्याणां तदात्वं च विचारयेत् । अतीतानां च सर्वेषां गुण दोषौ च तत्त्वतः ।।

7.179 आयत्यां गुण दोषज्ञस् तदात्वे क्षिप्र निश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर् नाभिभूयते ।।

7.180 यथैनम् नाभिसंदध्युर् मित्रोदासीन शत्रवः । तथा सर्वं संविदध्याद् एष सामासिको नयः ।।

7.181 तदा तु यानम् आतिष्ठेद् अरिराष्ट्रं प्रति प्रभुः । तदानेन विधानेन यायाद् अरिपुरं शनैः ।।

7.182 मार्गशीर्षे शुभे मासि यायाद् यात्रां महीपतिः । फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ।।

7.183 अन्येष्व् अपि तु कालेषु यदा पश्येद् ध्रुवं जयम् । तदा यायाद् विगृह्य एव व्यसने चोत्थिते रिपोः ।।

7.184 कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । उपगृह्यास्पदम् चैव चारान् सम्यग् विधाय च ।।

7.185 संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् । सांपरायिककल्पेन यायाद् अरिपुरं प्रति ।।

7.186 शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गत प्रत्यागते चैव स हि कष्टतरो रिपुः ।।

7.187 दण्डव्यूहेन तन् मार्गं यायात् तु शकटेन वा । वराह मकराभ्याम् वा सूच्या वा गरुडेन वा ।।

7.188 यतश् च भयम् आशङ्केत् ततो विस्तारयेद् बलम् । पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ।।

7.189 सेनापति बलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यतश् च भयम् आशङ्केत् प्राचीं तां कल्पयेद् दिशम् ।।

7.190 गुल्मांश् च स्थापयेद् आप्तान् कृतसंज्ञान् समन्ततः । स्थाने युद्धे च कुशलान् अभीरून् अविकारिणः ।।

7.191 संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ।।

7.192 स्यन्दनाश्वैः समे युध्येद् अनूपे नौ द्विपैस् तथा । वृक्ष गुल्मावृते चापैर् असि चर्मायुधैः स्थले ।।

7.193 कुरुक्षेत्रांश् च मत्स्यांश् च पञ्चालाञ् शूरसेनजान् । ं:कौरक्षेत्रांश् च दीर्घांल् लघूंश् चैव नरान् अग्रानीकेषु योजयेत् ।।

7.194 प्रहर्षयेद् बलं व्यूह्य तांश् च सम्यक् परीक्षयेत् । म्भृशम् परीक्षयेत् चेष्टाश् चैव विजानीयाद् अरीन् योधयताम् अपि ।।

7.195 उपरुध्य अरिम् आसीत राष्ट्रं चास्योपपीडयेत् । दूषयेच् चास्य सततं यवसान्नोदकेन्धनम् ।।

7.196 भिन्द्याच् चैव तडागानि प्राकार परिखास् तथा । समवस्कन्दयेच् चैनम् रात्रौ वित्रासयेत् तथा ।।

7.197 उपजप्यान् उपजपेद् बुध्येत एव च तत्कृतम् । युक्ते च दैवे युध्येत जयप्रेप्सुर् अपेतभीः ।।

7.198 साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक््् विजेतुं प्रयतेत अरीन् न युद्धेन कदा चन ।। म् अरिम्

7.199 अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः । पराजयश् च संग्रामे तस्माद् युद्धं विवर्जयेत् ।।

7.200 त्रयाणाम् अप्य् उपायानां पूर्वोक्तानाम् असंभवे । तथा युध्येत संपन्नो विजयेत रिपून् यथा ।।

7.201 जित्वा संपूजयेद् देवान् ब्राह्मणांश् चैव धार्मिकान् । प्रदद्यात् परिहारार्थं ख्यापयेद् अभयानि च ।।

7.202 सर्वेषां तु विदित्वा एषाम् समासेन चिकीर्षितम् । स्थापयेत् तत्र तद्वंश्यं कुर्याच् च समयक्रियाम् ।।

7.203 प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् । रत्नैश् च पूजयेद् एनं प्रधानपुरुषैः सह ।।

7.204 आदानम् अप्रियकरं दानं च प्रियकारकम् । अभीप्सितानाम् अर्थानां काले युक्तं ।। म्कालयुक्तम् प्रशस्यते

7.205 सर्वं कर्मेदम् आयत्तं विधाने दैव मानुषे । तयोर् दैवम् अचिन्त्यं तु मानुषे विद्यते क्रिया ।। ठे fओल्लोwइन्ग् थ्रेए श्लोकस् अरे fओउन्द् ओन्ल्य् इन् एष ञ्ह’स् एदितिओन् दोएस् नोत् चोउन्त् थेम् इन् इत्स् नुम्बेरिन्ग् ओf थे तेxत्, अल्थोउघ् ंएधातिथि गिवेस् थेइर् चोम्मेन्तर्य् M7 207Ma/ दैवेन विधिना युक्तं मानुष्यं यत् प्रवर्तते । नोत् इन् K ञ्ह ‘अयुक्तं M7 207Mc/ परिक्लेशेन महता तदर्थस्य समाधकम् ।। नोत् इन् K M7 208Ma/ संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् । नोत् इन् K M7 208Mc/ विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति ।। नोत् इन् K M7 209Ma/ चन्द्रार्काद्या ग्रहा वायुर् अग्निर् आपस् तथैव च । नोत् इन् K M7 209Mc/ इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः ।। नोत् इन् K

7.206 सह वापि व्रजेद् युक्तः संधिं कृत्वा प्रयत्नतः । मित्रं हिरण्यं भूमिं वा संपश्यंस् त्रिविधं फलम् ।।

7.207 पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले । मित्राद् अथाप्य् अमित्राद् वा यात्राफलम् अवाप्नुयात् ।।

7.208 हिरण्य भूमिसंप्राप्त्या पार्थिवो न तथैधते । यथा मित्रं ध्रुवं लब्ध्वा कृशम् अप्य् आयतिक्षमम् ।।

7.209 धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिम् एव च । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ।।

7.210 प्राज्ञं कुलीनं शूरं च दक्षं दातारम् एव च । कृतज्ञं धृतिमन्तं च कष्टम् आहुर् अरिं बुधाः ।।

7.211 आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता । स्थौललक्ष्यं च सततम् उदासीनगुणोदयः ।।

7.212 क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीम् अपि । परित्यजेन् नृपो भूमिम् आत्मार्थम् अ विचारयन् ।।

7.213 आपदर्थं धनं रक्षेद् दारान् रक्षेद् धनैर् अपि । म् आपदर्थे आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ।।

7.214 सह सर्वाः समुत्पन्नाः प्रसमीक्ष्य आपदो भृशम् । संयुक्तांश् च वियुक्तांश् च सर्वोपायान् सृजेद् बुधः ।।

7.215 उपेतारम् उपेयं च सर्वोपायाम्श् च कृत्स्नशः । एतत् त्रयं समाश्रित्य प्रयतेत अर्थसिद्धये ।।

7.216 एवं सर्वम् इदं राजा सह सम्मन्त्र्य मन्त्रिभिः । व्यायंय आप्लुत्य मध्याह्ने भोक्तुम् अन्तःपुरं विशेत् ।।

7.217 तत्रात्मभूतैः कालज्ञैर् अ हार्यैः परिचारकैः । सुपरीक्षितम् अन्नाद्यम् अद्यान् मन्त्रैर् विषापहैः ।।

7.218 विषघ्नैर् अगदैश् चास्य सर्वद्रव्याणि योजयेत् । म्विषघ्नैर् उदकैश् चास्य सर्वद्रव्याणि शोधयेत् विषघ्नानि च रत्नानि नियतो धारयेत् सदा ।।

7.219 परीक्षिताः स्त्रियश् चैनम् व्यजनोदक धूपनैः । वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ।।

7.220 एवं प्रयत्नं कुर्वीत यान शय्यासनाशने । स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ।।

7.221 भुक्तवान् विहरेच् चैव स्त्रीभिर् अन्तःपुरे सह । विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ।।

7.222 अलंकृतश् च संपश्येद् आयुधीयं पुनर् जनम् । वाहनानि च सर्वाणि शस्त्राण्य् आभरणानि च ।।

7.223 संध्यां चोपास्य शृणुयाद् अन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनाम् चैव प्रणिधीनां च चेष्टितम् ।।

7.224 गत्वा कक्षान्तरं त्व् अन्यत् समनुज्ञाप्य तं जनम् । प्रविशेद् भोजनार्थं च स्त्रीवृतो ‘अन्तःपुरं पुनः ।।

7.225 तत्र भुक्त्वा पुनः किं चित् तूर्यघोषैः प्रहर्षितः । संविशेत् तं यथाकालम् उत्तिष्ठेच् च गतक्लमः ।।

7.226 एतद्विधानम् आतिष्ठेद् अरोगः पृथिवीपतिः । अस्वस्थः सर्वम् एतत् तु भृत्येषु विनियोजयेत् ।।

*********

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.