मनुस्मृतिः प्रथमोऽध्यायः

अथ मनुस्मृतिः

अथ प्रथमोऽध्यायः

(शास्त्रोपोद्घातः)

1.1 मनुम् एकाग्रम् आसीनम् अभिगम्य महर्षयः । प्रतिपूज्य यथान्यायम् इदं वचनम् अब्रुवन् ।।

1.2 भगवन् सर्ववर्णानां यथावद् अनुपूर्वशः । अन्तरप्रभवानां च धर्मान् नो वक्तुम् अर्हसि ।।

1.3 त्वम् एको ह्य् अस्य सर्वस्य विधानस्य स्वयंभुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ।।

1.4 स तैः पृष्टस् तथा सम्यग् अमितौजा महात्मभिः । प्रत्युवाच अर्च्य तान् सर्वान् महर्षीएष श्रूयताम् इति ।।

1.5 आसीद् इदम् तमोभूतम् अ प्रज्ञातम् अ लक्षणम् । अ प्रतर्क्यम् अ विज्ञेयम् प्रसुप्तम् इव सर्वतः ।।

1.6 ततः स्वयंभूर् भगवान् अव्यक्तो व्यञ्जयन्न् इदम् । महाभूतादि वृत्तौजाः प्रादुर् आसीत् तमोनुदः ।।

1.7 यो ‘असाव् अतीन्द्रियग्राह्यः सूक्ष्मो ‘अव्यक्तः सनातनः । सर्वभूतमयो ‘अचिन्त्यः स एव स्वयम् उद्बभौ ।।। एष स एष

1.8 सो ‘अभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः । अप एव ससर्ज आदौ तासु वीर्यम् अवासृजत् ।।

1.9 तद् अण्डम् अभवद्द् हैमं सहस्राम्शुसम प्रभम् । तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।।

1.10 आपो नरा इति प्रोक्ता आपो वै नरसूनवः । ता यद् अस्यायनं पूर्वं तेन नारायणः स्मृतः ।।

1.11 यत् तत् कारणम् अव्यक्तं नित्यं सद् असद् आत्मकम् । तद् विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ।।

1.12 तस्मिन्न् अण्डे स भगवान् उषित्वा परिवत्सरम् । स्वयम् एवात्मनो ध्यानात् तद् अण्डम् अकरोद् द्विधा ।।

1.13 ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे । मध्ये व्योम दिशश् चाष्टाव् अपां स्थानं च शाश्वतं ।।

1.14 उद्बबर्ह आत्मनश् चैव मनः सद् असद् आत्मकम् । मनसश् चाप्य् अहंकारम् अभिमन्तारम् ईश्वरम् ।। एष अहङ्कारम्

1.15 महान्तम् एव चात्मानम् सर्वाणि त्रि गुणानि च । विषयाणां ग्रहीत्qणि शनैः पञ्चेन्द्रियाणि च ।।

1.16 तेषां त्व् अवयवान् सूक्ष्मान् षण्णाम् अप्य् अमितौजसाम् । संनिवेश्य आत्ममात्रासु सर्वभूतानि निर्ममे ।। एष सन्निवेश्य

1.17 यन् मूर्त्यवयवाः सूक्ष्मास् तानीमान्य् आश्रयन्ति षट् । तस्माच् शरीरम् इत्य् आहुस् तस्य मूर्तिं मनीषिणः ।।

1.18 तद् आविशन्ति भूतानि महान्ति सह कर्मभिः । मनश् चावयवैः सूक्ष्मैः सर्वभूतकृद् अव्ययम् ।।

1.19 तेषाम् इदं तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्य् अव्ययाद् व्ययम् ।।

1.20 आद्याद्यस्य गुणं त्व् एषाम् अवाप्नोति परः परः । यो यो यावतिथश् चैषाम् स स तावद् गुणः स्मृतः ।।

1.21 सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक््् वेदशब्देभ्य एवादौ पृथक् संस्थाश् च निर्ममे ।।

1.22 कर्मात्मनां च देवानां सो ‘असृजत् प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ।।

1.23 अग्नि वायु रविभ्यस् तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थम् ऋच् यजुस् साम लक्षणम् ।।

1.24 कालं कालविभक्तीश् च नक्षत्राणि ग्रहांस् तथा । सरितः सागराञ् शैलान् समानि विषमानि च ।।

1.25 तपो वाचं रतिं चैव कामं च क्रोधम् एव च । सृष्टिं ससर्ज चैवेमाम् स्रष्टुम् इच्छन्न् इमाः प्रजाः ।।

1.26 कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् । K:विवेकाय द्वन्द्वैर् अयोजयच् चेमाः सुख दुःखादिभिः प्रजाः ।।

1.27 अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धम् इदं सर्वं संभवत्य् अनुपूर्वशः ।।

1.28 यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः । स तद् एव स्वयं भेजे सृज्यमानः पुनः पुनः ।।

1.29 हिम्स्राहिम्स्रे मृदु क्रूरे धर्माधर्माव् ऋतान् ऋते । यद् यस्य सो ‘अदधात् सर्गे तत् तस्य स्वयम् आविशत् ।।

1.30 यथर्तु लिङ्गान्य् ऋतवः स्वयम् एवर्तुपर्यये । स्वानि स्वान्य् अभिपद्यन्ते तथा कर्माणि देहिनः ।।

1.31 लोकानां तु विवृद्ध्यर्थम् मुख बाहूरु पादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ।।

1.32 द्विधा कृत्वा आत्मनो देहम् अर्धेन पुरुषो ‘अभवत् । अर्धेन नारी तस्यां स विराजम् असृजत् प्रभुः ।।

1.33 तपस् तप्त्वा असृजद् यं तु स स्वयं पुरुषो विराट् । तं मां वित्त अस्य सर्वस्य स्रष्टारं द्विजसत्तमाः ।।

1.34 अहं प्रजाः सिसृक्षुस् तु तपस् तप्त्वा सु दुश्चरम् । पतीन् प्रजानाम् असृजं महर्षीन् आदितो दश

1.35 मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ।।

1.36 एते मनूंस् तु सप्तान् यान् असृजन् भूरितेजसः । देवान् देवनिकायांश् च महर्षींश् चामितौजसः ।।

1.37 यक्ष रक्षस् पिशाचाम्श् च गन्धर्वाप्सरसो ‘असुरान् । नागान् सर्पान् सुपर्णांश् च पित्qणांश् च पृथग्गणम् ।। एष पित्qणां

1.38 विद्युतो ‘अशनि मेघाम्श् च रोहितेन्द्रधनूम्षि च । उल्का निर्घात केतूम्श् च ज्योतींष्य् उच्चावचानि च ।।

1.39 किन्नरान् वानरान् मत्स्यान् विविधांश् च विहङ्गमान् । पशून् मृगान् मनुष्यांश् च व्यालांश् चोभयतोदतः ।।

1.40 कृमि कीट पतङ्गाम्श् च यूका मक्षिक मत्कुणम् । सर्वं च दंश मशकम् स्थावरं च पृथग्विधम् ।।

1.41 एवम् एतैर् इदं सर्वं मद् नियोगान् महात्मभिः । यथाकर्म तपोयोगात् सृष्टं स्थावर जङ्गमम् ।।

1.42 येषां तु यादृषं कर्म भूतानाम् इह कीर्तितम् । तत् तथा वो ‘अभिधास्यामि क्रमयोगं च जन्मनि ।।

1.43 पशवश् च मृगाश् चैव व्यालाश् चोभयतोदतः । रक्षांसि च पिशाचाश् च मनुष्याश् च जरायुजाः ।। म्मनुषाश् च

1.44 अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश् च कच्छपाः । यानि चैवंप्रकाराणि स्थलजान्य् औदकानि च ।।

1.45 स्वेदजं दंश मशकम् यूका मक्षिक मत्कुणम् । ऊष्मणश् चोपजायन्ते यच् चान्यत् किं चिद् ईदृषम् ।।

1.46 उद्भिज्जाः स्थावराः सर्वे बीज काण्डप्ररोहिणः । ओषध्यः फलपाकान्ता बहु पुष्प फलोपगाः ।।

1.47 अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश् चैव वृक्षास् तूभयतः स्मृताः ।।

1.48 गुच्छ गुल्मम् तु विविधं तथैव तृणजातयः । बीज काण्डरुहाण्य् एव प्रताना वल्ल्य एव च ।।

1.49 तमसा बहु रूपेण वेष्टिताः कर्महेतुना । अन्तः संज्ञा भवन्त्य् एते सुख दुःख समन्विताः ।।

1.50 एतद् अन्तास् तु गतयो ब्रह्माद्याः समुदाहृताः । घोरे ‘अस्मिन् भूतसंसारे नित्यं सततयायिनि ।।

1.51 एवं सर्वं स सृष्ट्वा इदम् मां चाचिन्त्य पराक्रमः । आत्मन्य् अन्तर्दधे भूयः कालं कालेन पीडयन् ।।

1.52 यदा स देवो जागर्ति तद् एवं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ।।

1.53 तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः । म्स्वपति स्वकर्मभ्यो निवर्तन्ते मनश् च ग्लानिम् ऋच्छति ।।

1.54 युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि । तदायम् सर्वभूतात्मा सुखं स्वपिति निर्वृतः ।।

1.55 तमो ‘अयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः । न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ।।

1.56 यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च । समाविशति संसृष्टस् तदा मूर्तिं विमुञ्चति ।।

1.57 एवं स जाग्रत् स्वप्नाभ्याम् इदं सर्वं चराचरम् । संजीवयति चाजस्रम् प्रमापयति चाव्ययः ।।

1.58 इदं शास्त्रं तु कृत्वा असौ माम् एव स्वयम् आदितः । विधिवद् ग्राहयाम् आस मरीच्यादीम्स् त्व् अहं मुनीन् ।।

1.59 एतद् वो ‘अयं भृगुः शास्त्रं श्रावयिष्यत्य् अशेसतः । एतद्द् हि मत्तो ‘अधिजगे सर्वम् एषो ‘अखिलं मुनिः ।।

1.60 ततस् तथा स तेनोक्तो महर्षि मनुना भृगुः । तान् अब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयताम् इति ।।

1.61 स्वायंभुवस्यास्य मनोः षड्वंश्या मनवो ‘अपरे । सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ।।

1.62 स्वारोचिषश् चोत्तमश् च तामसो रैवतस् तथा । चाक्षुषश् च महातेजा विवस्वत् सुत एव च ।।

1.63 स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः । स्वे स्वे ‘अन्तरे सर्वम् इदम् उत्पाद्य आपुश् चराचरम् ।।

1.64 निमेषा दश चाष्टौ च काष्ठा त्रिंशत् तु ताः कला । त्रिंशत् कला मुहूर्तः स्याद् अहोरात्रं तु तावतः ।।

1.65 अहोरात्रे विभजते सूर्यो मानुष दैविके । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणाम् अहः ।।

1.66 पित्र्ये रात्र्यहनी मासः प्रविभागस् तु पक्षयोः । कर्म चेष्टास्व् अहः कृष्णः शुक्लः स्वप्नाय शर्वरी ।।

1.67 दैवे रात्र्यहनी वर्षं प्रविभागस् तयोः पुनः । अहस् तत्रोदगयनम् रात्रिः स्याद् दक्षिणायनम् ।।

1.68 ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः । एकैकशो युगानां तु क्रमशस् तन् निबोधत ।।

1.69 चत्वार्य् आहुः सहस्राणि वर्साणां तत् कृतं युगम् । तस्य तावच् शती संध्या संध्यांशश् च तथाविधः ।।

1.70 इतरेषु स संध्येषु स संध्याम्शेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ।।

1.71 यद् एतत् परिसंख्यातम् आदाव् एव चतुर्युगम् । एतद् द्वादशसाहस्रं देवानां युगम् उच्यते ।।

1.72 दैविकानां युगानां तु सहस्रं परिसंख्यया । ब्राह्मम् एकम् अहर् ज्ञेयं तावतीं रात्रिम् एव च ।। म्तावती रात्रिर् एव च

1.73 तद् वै युगसहस्रान्तं ब्राह्मं पुण्यम् अहर् विदुः । रात्रिं च तावतीम् एव ते ‘अहोरात्रविदो जनाः ।।

1.74 तस्य सो ‘अहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते । प्रतिबुद्धश् च सृजति मनः सद् असद् आत्मकम् ।।

1.75 मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया । आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः ।।

1.76 आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः । बलवाञ् जायते वायुः स वै स्पर्श गुणो मतः ।।

1.77 वायोर् अपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् । ज्योतिर् उत्पद्यते भास्वत् तद् रूप गुणम् उच्यते ।।

1.78 ज्योतिषश् च विकुर्वाणाद् आपो रस गुणाः स्मृताः । अद्भ्यो गन्ध गुणा भूमिर् इत्य् एषा सृष्टिर् आदितः ।।

1.79 यद् प्राग् द्वादशसाहस्रम् उदितं दैविकं युगम् । तद् एकसप्तति गुणम् मन्वन्तरम् इहोच्यते ।।

1.80 मन्वन्तराण्य् असंख्यानि सर्गः संहार एव च । क्रीडन्न् इवैतत् कुरुते परमेष्ठी पुनः पुनः ।।

1.81 चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे । नाधर्मेणागमः कश् चिन् मनुष्यान् प्रति वर्तते ।। एष उपवर्तते

1.82 इतरेष्व् आगमाद् धर्मः पादशस् त्व् अवरोपितः । चौरिकानृत मायाभिर् धर्मश् चापैति पादशः ।।

1.83 अ रोगाः सर्वसिद्धार्थाश् चतुर्वर्षशतायुषः । कृते त्रेतादिषु ह्य् एषां आयुर् ह्रसति पादशः ।। एष वयो ह्रसति

1.84 वेदोक्तम् आयुर् मर्त्यानाम् आशिषश् चैव कर्मणाम् । फलन्त्य् अनुयुगं लोके प्रभावश् च शरीरिणाम् ।।

1.85 अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे ‘अपरे । म्परे अन्ये कलियुगे न्qणां युगह्रासानुरूपतः ।।

1.86 तपः परं कृतयुगे त्रेतायां ज्ञानम् उच्यते । द्वापरे यज्ञम् एवाहुर् दानम् एकं कलौ युगे ।।

1.87 सर्वस्यास्य तु सर्गस्य गुप्त्यर्थम् स महा द्युतिः । मुख बाहूरु पज्जानाम् पृथक्कर्माण्य् अकल्पयत् ।।

1.88 अध्यापनम् अध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ।।

1.89 प्रजानां रक्षणं दानम् इज्याध्ययनम् एव च । विषयेष्व् अ प्रसक्तिश् च क्षत्रियस्य समासतः ।। म्समादिशत्

1.90 पशूनां रक्षणं दानम् इज्याध्ययनम् एव च । वणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ।।

1.91 एकम् एव तु शूद्रस्य प्रभुः कर्म समादिशत् । एतेषाम् एव वर्णानां शुश्रूषाम् अनसूयया ।।

1.92 ऊर्ध्वं नाभेर् मेध्यतरः पुरुषः परिकीर्तितः । तस्मान् मेध्यतमं त्व् अस्य मुखम् उक्तं स्वयंभुवा ।।

1.93 उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद् ब्रह्मणश् चैव धारणात् । म्ज्यैष्ठ्याद् सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ।।

1.94 तं हि स्वयंभूः स्वाद् आस्यात् तपस् तप्त्वा आदितो ‘असृजत् । हव्य कव्याभिवाह्याय सर्वस्यास्य च गुप्तये ।।

1.95 यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किं भूतम् अधिकं ततः ।।

1.96 भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ।।

1.97 ब्राह्मणेषु च विद्वांसो विद्वत्सु कृत बुद्धयः । कृत बुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ।।

1.98 उत्पत्तिर् एव विप्रस्य मूर्तिर् धर्मस्य शाश्वती । स हि धर्मार्थम् उत्पन्नो ब्रह्मभूयाय कल्पते ।।

1.99 ब्राह्मणो जायमानो हि पृथिव्याम् अधिजायते । ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ।।

1.100 सर्वं स्वं ब्राह्मणस्येदम् यत् किं चिएष जगतीगतं । श्रैष्ठ्येनाभिजनेनेदम् सर्वं वै ब्राह्मणो ‘अर्हति ।।

1.101 स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ।।

1.102 तस्य कर्मविवेकार्थम् शेषाणाम् अनुपूर्वशः । स्वायंभुवो मनुर् धीमान् इदं शास्त्रम् अकल्पयत् ।।

1.103 विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः । शिश्येभ्यश् च प्रवक्तव्यं सम्यङ् नान्येन केन चित् ।।

1.104 इदं शास्त्रम् अधीयानो ब्राह्मणः शंसित व्रतः । मनस् वाज्जेहजैर् नित्यं कर्मदोषैर् न लिप्यते ।।

1.105 पुनाति पङ्क्तिं वंश्यांश् च सप्त सप्त परावरान् । पृथिवीम् अपि चैवेमाम् कृत्स्नाम् एको ‘अपि सो ‘अर्हति ।।

1.106 इदं स्वस्त्ययनं श्रेष्ठम् इदं बुद्धिविवर्धनम् । इदं यशस्यम् आयुष्यम् इदं निःश्रेयसं परम् ।। एष इदं यशस्यं सततम्

1.107 अस्मिन् धर्मो ‘अखिलेनोक्तो गुण दोषौ च कर्मणाम् । चतुर्णाम् अपि वर्णानाम् आचारश् चैव शाश्वतः ।।

1.108 आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्माद् अस्मिन् सदा युक्तो नित्यं स्याद् आत्मवान् द्विजः ।।

1.109 आचाराद् विच्युतो विप्रो न वेदफलम् अश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाज् भवेत् ।। एष संपूर्णफलभाक् स्मृतः

1.110 एवम् आचारतो दृष्ट्वा धर्मस्य मुनयो गतिं । सर्वस्य तपसो मूलम् आचारं जगृहुः परम् ।।

1.111 जगतश् च समुत्पत्तिं संस्कारविधिम् एव च । व्रतचर्योपचारम् च स्नानस्य च परं विधिम् ।।

1.112 दाराधिगमनं चैव विवाहानां च लक्षणम् । महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ।।

1.113 वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । भक्ष्याभक्ष्यम् च शौचं च द्रव्याणां शुद्धिम् एव च ।।

1.114 स्त्रीधर्म योगम् तापस्यं मोक्षं संन्यासम् एव च । राज्ञश् च धर्मम् अखिलं कार्याणां च विनिर्णयम् ।।

1.115 साक्षिप्रश्न विधानम् च धर्मं स्त्री पुम्सयोर् अपि । विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ।।

1.116 वैश्य शूद्रोपचारम् च संकीर्णानां च संभवम् । आपद् धर्मम् च वर्णानां प्रायश्चित्त विधिम् तथा ।।

1.117 संसारगमनं चैव त्रिविधं कर्म संभवम् । निःश्रेयसं कर्मणां च गुण दोषपरीक्षणम् ।।

1.118 देशधर्माञ् जातिधर्मान् कुलधर्मांश् च शाश्वतान् । पाषण्ड गणधर्माम्श् च शास्त्रे ‘अस्मिन्न् उक्तवान् मनुः ।।

1.119 यथेदम् उक्तवान् शास्त्रम् पुरा पृष्टो मनुर् मया । तथेदम् यूयम् अप्य् अद्य मत् सकाशात् निबोधत ।।

************

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.