मनुस्मृतिः द्वादशोऽध्यायः

मनुस्मृतिः

अथ द्वादशोऽध्यायः

(कर्मफलम्, जीवगतिः.मोक्षफलककर्मणि च)

12.1 चातुर्वर्ण्यस्य कृत्स्नो ‘अयम् उक्तो धर्मस् त्वयानघः । कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ।।

12.2 स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः । अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ।।

12.3 शुभाशुभ फलम् कर्म मनो वाज्जेह संभवम् । कर्मजा गतयो न्qणाम् उत्तमाधम मध्यमः ।।

12.4 तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ।।

12.5 परद्रव्येष्व् अभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश् च त्रिविधं कर्म मानसम् ।।

12.6 पारुष्यम् अनृतं चैव पैशुन्यं चापि सर्वशः । असंबद्धप्रलापश् च वाच् मयम् स्याच् चतुर्विधम् ।।

12.7 अदत्तानाम् उपादानं हिंसा चैवाविधानतः । परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ।।

12.8 मानसं मनसैवायम् उपभुङ्क्ते शुभाशुभम् । वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ।।

12.9 शरीरजैः कर्मदोषैर् याति स्थावरतां नरः । वाचिकैः पक्षि मृगताम् मानसैर् अन्त्यजातिताम् ।।

12.10 वाग्दण्डो ‘अथ मनोदण्डः कायदण्डस् तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ।।

12.11 त्रिदण्डम् एतन् निक्षिप्य सर्वभूतेषु मानवः । काम क्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ।। म्काम क्रोधौ सुसंयम्य ततः सिद्धिं निगच्छति

12.12 यो ‘अस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतात्मा उच्यते बुधैः ।।

12.13 जीवसंज्ञो ‘अन्तरात्मान्यः सहजः सर्वदेहिनाम् । येन वेदयते सर्वं सुखं दुःखं च जन्मसु ।।

12.14 ताव् उभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ।।

12.15 अ संख्या मूर्तयस् तस्य निष्पतन्ति शरीरतः । उच्चावचानि भूतानि सततं चेष्टयन्ति याः ।।

12.16 पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् । म्पञ्चभ्य एव भूतेभ्यः शरीरं यातनार्थीयम् अन्यद् उत्पद्यते ध्रुवम् ।।

12.17 तेनानुभूय ता यामीः शरीरेणेह यातनाः । तास्व् एव भूतमात्रासु प्रलीयन्ते विभागशः ।।

12.18 सो ‘अनुभूय असुखोदर्कान् दोषान् विषयसङ्गजान् । व्यपेत कल्मषो ‘अभ्येति ताव् एवोभौ महौजसौ ।।

12.19 तौ धर्मं पश्यतस् तस्य पापं चातन्द्रितौ सह । याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम् ।।

12.20 यद्य् आचरति धर्मं स प्रायशो ‘अधर्मम् अल्पशः । म्यथाचरति तैर् एव चावृतो भूतैः स्वर्गे सुखम् उपाश्नुते ।।

12.21 यदि तु प्रायशो ‘अधर्मं सेवते धर्मम् अल्पशः । तैर् भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ।।

12.22 यामीस् ता यातनाः प्राप्य स जीवो वीत कल्मषः । तान्य् एव पञ्च भूतानि पुनर् अप्येति भागशः ।।

12.23 एता दृष्ट्वा अस्य जीवस्य गतीः स्वेनैव चेतसा । धर्मतो ‘अधर्मतश् चैव धर्मे दध्यात् सदा मनः ।।

12.24 सत्त्वं रजस् तमश् चैव त्रीन् विद्याद् आत्मनो गुणान् । यैर् व्याप्य इमान् स्थितो भावान् महान् सर्वान् अशेषतः ।।

12.25 यो यदैषाम् गुणो देहे साकल्येनातिरिच्यते । स तदा तद्गुणप्रायं तं करोति शरीरिणम् ।।

12.26 सत्त्वं ज्ञानं तमो ‘अज्ञानं राग द्वेषौ रजः स्मृतम् । एतद् व्याप्तिमद् एतेषां सर्वभूताश्रितं वपुः ।।

12.27 तत्र यत् प्रीतिसंयुक्तं किं चिद् आत्मनि लक्षयेत् । प्रशान्तम् इव शुद्धाभं सत्त्वं तद् उपधारयेत् ।।

12.28 यत् तु दुःखसमायुक्तम् अप्रीतिकरम् आत्मनः । तद् रजो प्रतीपं विद्यात् सततं हारि देहिनाम् ।। म्हर्तृ

12.29 यत् तु स्यान् मोहसंयुक्तम् अव्यक्तं विषयात्मकम् । अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् ।।

12.30 त्रयाणाम् अपि चैतेषाम् गुणानां यः फलोदयः । अग्र्यो मध्यो जघन्यश् च तं प्रवक्ष्याम्य् अशेषतः ।।

12.31 वेदाभ्यासस् तपो ज्ञानं शौचम् इन्द्रियनिग्रहः । धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम् ।।

12.32 आरंभरुचिताधैर्यम् असत्कार्य परिग्रहः । विषयोपसेवा चाजस्रम् राजसं गुणलक्षणम् ।।

12.33 लोभः स्वप्नो ‘अधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता । याचिष्णुता प्रमादश् च तामसं गुणलक्षणम् ।।

12.34 त्रयाणाम् अपि चैतेषाम् गुणानां त्रिषु तिष्ठताम् । इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ।।

12.35 यत् कर्म कृत्वा कुर्वंश् च करिष्यंश् चैव लज्जति । तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ।।

12.36 येनास्मिन् कर्मना लोके ख्यातिम् इच्छति पुष्कलाम् । न च शोचत्य् असंपत्तौ तद् विज्ञेयं तु राजसम् ।।

12.37 यत् सर्वेणेच्छति ज्ञातुं यन् न लज्जति चाचरन् । येन तुष्यति चात्मास्य तत् सत्त्वगुणलक्षणम् ।।

12.38 तमसो लक्षणं कामो रजसस् त्व् अर्थ उच्यते । सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यम् एषां यथोत्तरम् ।।

12.39 येन यस् तु गुणेनैषाम् संसरान् प्रतिपद्यते । म्येन यांस् तु तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ।।

12.40 देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः । तिर्यक्त्वं तामसा नित्यम् इत्य् एषा त्रिविधा गतिः ।।

12.41 त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः । अधमा मध्यमाग्र्या च कर्म विद्या विशेषतः ।।

12.42 स्थावराः कृमि कीटाश् च मत्स्याः सर्पाः स कच्छपाः । पशवश् च मृगाश् चैव जघन्या तामसी गतिः ।।

12.43 हस्तिनश् च तुरङ्गाश् च शूद्रा म्लेच्छाश् च गर्हिताः । सिंहा व्याघ्रा वराहाश् च मध्यमा तामसी गतिः ।।

12.44 चारणाश् च सुपर्णाश् च पुरुषाश् चैव दाम्भिकाः । रक्षांसि च पिशाचाश् च तामसीषूत्तमा गतिः ।।

12.45 झल्ला मल्ला नटाश् चैव पुरुषाः शस्त्र वृत्तयः । द्यूत पान प्रसक्ताश् च जघन्या राजसी गतिः ।।

12.46 राजानः क्षत्रियाश् चैव राज्ञां चैव पुरोहिताः । वाद युद्ध प्रधानाश् च मध्यमा राजसी गतिः ।।

12.47 गन्धर्वा गुह्यका यक्षा विबुधानुचराश् च ये । तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ।।

12.48 तापसा यतयो विप्रा ये च वैमानिका गणाः । नक्षत्राणि च दैत्याश् च प्रथमा सात्त्विकी गतिः ।।

12.49 यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः । पितरश् चैव साध्याश् च द्वितीया सात्त्विकी गतिः ।।

12.50 ब्रह्मा विश्वसृजो धर्मो महान् अव्यक्तम् एव च । उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः ।।

12.51 एष सर्वः समुद्दिष्टस् त्रि प्रकारस्य कर्मणः । म्त्रिष्प्रकारस्य त्रिविधस् त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ।।

12.52 इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च । पापान् संयान्ति संसारान् अविद्वांसो नराधमाः ।।

12.53 यां यां योनिं तु जीवो ‘अयं येन येनेह कर्मणा । क्रमशो याति लोके ‘अस्मिंस् तत् तत् सर्वं निबोधत ।।

12.54 बहून् वर्षगणान् घोरान् नरकान् प्राप्य तत्क्षयात् । संसारान् प्रतिपद्यन्ते महापातकिनस् त्व् इमान् ।।

12.55 श्व सूकर खरोष्ट्राणाम् गो ‘अजावि मृग पक्षिणाम् । चण्डाल पुक्कसानाम् च ब्रह्महा योनिम् ऋच्छति ।।

12.56 कृमि कीट पतङ्गानाम् विष् भुजाम् चैव पक्षिणाम् । हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ।।

12.57 लूताहि सरटानाम् च तिरश्चां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ।।

12.58 तृण गुल्म लतानाम् च क्रव्यादां दंष्ट्रिणाम् अपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ।।

12.59 हिंस्रा भवन्ति क्रव्यादाः कृमयो ‘अमेध्यभक्षिणः । परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः ।।

12.60 संयोगं पतितैर् गत्वा परस्यैव च योषितम् । अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ।।

12.61 मणि मुक्ता प्रवालानि हृत्वा लोभेन मानवः । विविधाणि च रत्नानि जायते हेमकर्तृषु ।।

12.62 धान्यं हृत्वा भवत्य् आखुः कांस्यं हंसो जलं प्लवः । मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ।।

12.63 मांसं गृध्रो वपां मद्गुस् तैलं तैलपकः खगः । चीरीवाकस् तु लवणं बलाका शकुनिर् दधि ।।

12.64 कौशेयं तित्तिरिर् हृत्वा क्षौमं हृत्वा तु दर्दुरः । कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ।।

12.65 छुच्छुन्दरिः शुभान् गन्धान् पत्रशाकं तु बर्हिणः । म्छुच्छुन्दरीः श्वावित् कृतान्नं विविधम् अकृतान्नं तु शल्यकः ।।

12.66 बको भवति हृत्वा अग्निम् गृहकारी ह्य् उपस्करम् । रक्तानि हृत्वा वासांसि जायते जीवजीवकः ।।

12.67 वृको मृगेभम् व्याघ्रो ‘अश्वं फल मूलम् तु मर्कटः । स्त्रीम् ऋक्षः स्तोकको वारि यानान्य् उष्ट्रः पशून् अजः ।।

12.68 यद् वा तद् वा परद्रव्यम् अपहृत्य बलाएष नरः । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतम् हविः ।।

12.69 स्त्रियो ‘अप्य् एतेन कल्पेन हृत्वा दोषम् अवाप्नुयुः । एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति ताः ।।

12.70 स्वेभ्यः स्वेभ्यस् तु कर्मभ्यश् च्युता वर्णा ह्य् अनापदि । पापान् संसृत्य संसारान् प्रेष्यतां यान्ति शत्रुषु ।। म्यान्ति दस्युषु

12.71 वान्ताश्य् उल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः । अमेध्य कुणपाशी च क्षत्रियः कटपूतनः ।। म्कूटपूतनः

12.72 मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । म्मैत्राक्षिज्योतिकः चैलाशकश् च भवति शूद्रो धर्मात् स्वकाच् च्युतः ।।

12.73 यथा यथा निषेवन्ते विषयान् विषयात्मकाः । तथा तथा कुशलता तेषां तेषूपजायते ।।

12.74 ते ‘अभ्यासात् कर्मणां तेषां पापानाम् अल्प बुद्धयः । संप्राप्नुवन्ति दुःखानि तासु तास्व् इह योनिषु ।।

12.75 तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् । असिपत्रवनादीनि बन्धन छेदनानि च ।।

12.76 विविधाश् चैव संपीडाः काकोलूकैश् च भक्षणम् । करम्भवालुकातापान् कुम्भीपाकांश् च दारुणान् ।।

12.77 संभवांश् च वियोनीषु दुःख प्रायासु नित्यशः । शीतातपाभिघाताम्श् च विविधानि भयानि च ।।

12.78 असकृद् गर्भवासेषु वासं जन्म च दारुणम् । बन्धनानि च काष्ठानि परप्रेष्यत्वम् एव च ।। म्कष्टानि

12.79 बन्धु प्रिय वियोगाम्श् च संवासं चैव दुर्जनैः । द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ।।

12.80 जरां चैवा प्रतीकाराम् व्याधिभिश् चोपपीडनम् । क्लेशांश् च विविधांस् तांस् तान् मृत्युम् एव च दुर्जयम् ।।

12.81 यादृशेन तु भावेन यद् यत् कर्म निषेवते । तादृशेन शरीरेण तत् तत् फलम् उपाश्नुते ।।

12.82 एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः । नैःश्रेयसकरं कर्म विप्रस्येदम् निबोधत ।।

12.83 वेदाभ्यासस् तपो ज्ञानम् इन्द्रियाणां च संयमः । अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ।।

12.84 सर्वेषाम् अपि चैतेषाम् शुभानाम् इह कर्मणाम् । किं चिच् श्रेयस्करतरम् कर्मोक्तम् पुरुषं प्रति

12.85 सर्वेषाम् अपि चैतेषाम् आत्मज्ञानं परं स्मृतम् । तद्द् ह्य् अग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं ततः ।।

12.86 षण्णाम् एषां तु सर्वेषां कर्मणां प्रेत्य चेह च । श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ।।

12.87 वैदिके कर्मयोगे तु सर्वाण्य् एतान्य् अशेषतः । अन्तर्भवन्ति क्रमशस् तस्मिंस् तस्मिन् क्रियाविधौ ।।

12.88 सुखाभ्युदयिकं चैव नैःश्रेयसिकम् एव च । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।।

12.89 इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते । निष् कामम् ज्ञातपूर्वं तु निवृत्तम् उपदिश्यते ।।

12.90 प्रवृत्तं कर्म संसेव्यं देवानाम् एति साम्यताम् । निवृत्तं सेवमानस् तु भूतान्य् अत्येति पञ्च वै ।।

12.91 सर्वभूतेषु चात्मानम् सर्वभूतानि चात्मनि । समं पश्यन्न् आत्मयाजी स्वाराज्यम् अधिगच्छति ।।

12.92 यथोक्तान्य् अपि कर्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ।।

12.93 एतद्द् हि जन्मसाफल्यं ब्राह्मणस्य विशेषतः । प्राप्य एतत् कृत कृत्यो हि द्विजो भवति नान्यथा ।।

12.94 पितृ देव मनुष्याणाम् वेदश् चक्षुः सनातनम् । अशक्यं चाप्रमेयम् च वेदशास्त्रम् इति स्थितिः ।।

12.95 या वेदबाह्याः स्मृतयो याश् च काश् च कुदृष्टयः । म्श्रुतयो सर्वास् ता निष् फलाः प्रेत्य तमो निष्ठा हि ताः स्मृताः ।।

12.96 उत्पद्यन्ते च्यवन्ते च यान्य् अतो ‘अन्यानि कानि चित् । म् उत्पद्यन्ते विनश्यन्ति तान्य् अर्वाक्कालिकतया निष् फलान्य् अनृतानि च ।।

12.97 चातुर्वर्ण्यं त्रयो लोकाश् चत्वारश् चाश्रमाः पृथक््् भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिध्यति ।। म्भूतम् भवद् भविष्यं च

12.98 शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः । वेदाद् एव प्रसूयन्ते प्रसूतिर् गुण कर्मतः ।।

12.99 बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् । तस्माद् एतत् परं मन्ये यज्जन्तोर् अस्य साधनम् ।।

12.100 सेनापत्यं च राज्यं च दण्डनेतृत्वम् एव च । म्सैनापत्यम् सर्वलोकाधिपत्यं च वेदशास्त्रविद् अर्हति ।।

12.101 यथा जात बलो वह्निर् दहत्य् आर्द्रान् अपि द्रुमान् । तथा दहति वेदज्ञः कर्मजं दोषम् आत्मनः ।।

12.102 वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् । इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ।।

12.103 अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ।।

12.104 तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा किल्बिषं हन्ति विद्ययामृतम् अश्नुते ।।

12.105 प्रत्यक्षं चानुमानम् च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता ।।

12.106 आर्षं धर्मोपदेशम् च वेदशास्त्राविरोधिना । यस् तर्केणानुसंधत्ते स धर्मं वेद नेतरः ।।

12.107 नैःश्रेयसम् इदं कर्म यथोदितम् अशेषतः । मानवस्यास्य शास्त्रस्य रहस्यम् उपदिश्यते ।। म् उपदेक्ष्यते

12.108 अन् आंनातेषु धर्मेषु कथं स्याद् इति चेद् भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्याद् अशङ्कितः ।।

12.109 धर्मेणाधिगतो यैस् तु वेदः स परिबृम्हणः । ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुति प्रत्यक्षहेतवः ।।

12.110 दशावरा वा परिषद्यं धर्मं परिकल्पयेत् । त्र्य् अवरा वापि वृत्तस्था तं धर्मं न विचालयेत् ।।

12.111 त्रैविद्यो हेतुकस् तर्की नैरुक्तो धर्मपाठकः । त्रयश् चाश्रमिणः पूर्वे परिषत् स्याद् दशावरा ।।

12.112 ऋग्वेदविद् यजुर्विएष च सामवेदविद् एव च । त्र्य् अवरा परिषएष ज्ञेया धर्मसंशयनिर्णये ।।

12.113 एको ‘अपि वेदविद् धर्मं यं व्यवस्येद् द्विजोत्तमः । स विज्ञेयः परो धर्मो नाज्ञानाम् उदितो ‘अयुतैः ।।

12.114 अ व्रतानाम् अ मन्त्राणाम् जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते ।।

12.115 यं वदन्ति तमोभूता मूर्खा धर्मम् अतद्विदः । तत्पापं शतधा भूत्वा तद्वक्त्qन् अनुगच्छति ।।

12.116 एतद् वो ‘अभिहितं सर्वं निःश्रेयसकरं परम् । अस्माद् अप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ।।

12.117 एवं स भगवान् देवो लोकानां हितकाम्यया । धर्मस्य परमं गुह्यं ममेदम् सर्वम् उक्तवान् ।।

12.118 सर्वम् आत्मनि संपश्येत् सच् चासच् च समाहितः । सर्वं ह्य् आत्मनि संपश्यन् नाधर्मे कुरुते मनः ।। म्मतिम्

12.119 आत्मैव देवताः सर्वाः सर्वम् आत्मन्य् अवस्थितम् । आत्मा हि जनयत्य् एषां कर्मयोगं शरीरिणाम् ।।

12.120 खं संनिवेशयेत् खेषु चेष्टन स्पर्शने ‘अनिलम् । पक्ति दृष्ट्योः परं तेजः स्नेहे ‘अपो गां च मूर्तिषु ।।

12.121 मनसीन्दुम् दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् । वाच्य् अग्निं मित्रम् उत्सर्गे प्रजने च प्रजापतिम् ।।

12.122 प्रशासितारं सर्वेषाम् अणीयांसम् अणोर् अपि । रुक्माभम् स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ।।

12.123 एतम् एके वदन्त्य् अग्निं मनुम् अन्ये प्रजापतिम् । इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ।।

12.124 एष सर्वाणि भूतानि पञ्चभिर् व्याप्य मूर्तिभिः । जन्म वृद्धि क्षयैर् नित्यं संसारयति चक्रवत् ।।

12.125 एवं यः सर्वभूतेषु पश्यत्य् आत्मानम् आत्मना । स सर्वसमताम् एत्य ब्रह्माभ्येति परं पदम्

12.126 इत्य् एतन् मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः । भवत्य् आचारवान् नित्यं यथेष्टाम् प्राप्नुयाद् गतिम् ।।

मनुः स्वायम्भुवो देवः सर्वशास्त्रार्थपारगः।
तस्यास्यनिर्गतं धर्मं विचार्य बहुविस्तरम्॥
ये पठन्ति द्विजाः केचित् सर्वपापोपशान्तिदम्।
ते गच्छन्ति परं स्थानं ब्रह्मणः सद्म शाश्वतम्॥ ॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां द्वादशोऽध्यायः॥१२।।

॥ समाप्तैषा मनुसंहिता॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.