श्री वरवरमुनिप्रपत्तिः

श्री वरवरमुनिप्रपत्तिः

शमदमगुणपूर्णं शेषभोगाच्छगात्रं

यतिपतिचरणाब्जन्यस्त-सर्वात्मभारम् ।

द्वयमननतदर्थ-ध्यानसंफुल्लवक्त्रं

वरवरमुनिवर्यं सत्त्वशुद्धं भजामः ।। (१) (सुदर्शनदासकृतिः)

वाग्भूषणं वकुळभूषणशास्त्रसारं

यो मादृशां च सुगमं व्यवृणोदयाळुः ।

रम्योपयन्तृमुनये यमिनांवराय

तस्मै नमश्शमदमादिगुणार्णवाय ।। (२) (प्रतिवादिभयङ्करम् अर्ण्णकृतिः)

मूलेऽवतीर्णमिह मूलमनूदितार्थ

तत्त्वावबोधसुखितां वसुधां विधातुम् ।

रामानुजार्य-चरणांबुज चञ्चरीकं

रम्योपयन्तृयमिनं शरणं प्रपद्ये ।। (३) (अज्ञातपूर्वाचार्यकृतिः)

श्रीमन् यतीन्द्रचरणप्रवणामलात्मन्

धीभक्तिशान्ति-करुणादिगुणामृताब्धे ।

सौम्योपयन्तृमुनिवर्य्य सतां जनानां

प्राप्यौ त्वदीयचरणौ शरणं प्रपद्ये ।। (४) (अभिरामवरार्यकृतिः)

रामानुजार्य-वरदर्शनधूर्वहेन्द्र

कामादिदोषगणमोषक-देशिकेन्द्र ।

सौम्योपयन्तृमुनिवर्य्य समस्तजीव-

बन्धो! तवैव चरणौ शरणं प्रपद्ये ।। (५) (अभिरामवरार्यकृतिः)

श्रीमत्पराङ्कुशवचोमृतसारपूर-

संसिद्धशौरि-चरणानुभवप्रवाह ।

सौम्योपयन्तृमुनिवर्य्य जगद्धिताय

भव्यौ त्वदीयचरणौ शरणं प्रपद्ये ।। (६) (अभिरामवरार्यकृतिः)

मुक्तिप्रदौ मुररिपोरिव पादपद्मे

भक्त्याद्युपायचरमस्य परं मुमुक्षोः ।

सौम्योपयन्तृमुनिवर्य्य विभो सुभोग्यौ

स्वामिंस्त्वदीयचरणौ शरणं प्रपद्ये ।। (७) (अभिरामवरार्यकृतिः)

मञ्जुप्रवाळसदृशौ मम पापिनोऽपि

संसार-सागर-समुद्धरणप्रवीणौ ।

सौम्योपयन्तृमुनिवर्य्य सदाऽनुभाव्यौ

नाथ त्वदीयचरणौ शरणं प्रपद्ये ।। (८) (अभिरामवरार्यकृतिः)

श्रीशैलवानगिरिभट्ट-मुनित्रयेण

श्रीदेवराजपरवादिभयङ्कराभ्याम् ।

वाधूलवर्यवरदेन तथेतराभ्यां

सेव्यौ तवार्य चरणौ शरणं प्रपद्ये ।। (९) (अज्ञातपूर्वाचार्यकृतिः)

देवी गोदा यतिपतिशठद्वेषिणौ रङ्गशृङ्गं

सेनानाथो विहगवृषभः श्रीनिधिस्सिन्धुकन्या ।

भूमानीळागुरुजनवृतः पूरुषश्चेत्यमीषाम्

अग्रे नित्यं वरवरमुनेरङ्घ्रियुग्मं प्रपद्ये ।। (१०) (देवराजगुरुकृतिः)

प्रादुर्भूतप्रचुरमतयो ये परब्रह्मसाम्यात्

पश्यन्तः त्वत्पदमनुपमं ये पुनश्शुद्धसत्त्वाः ।

सर्वैरेतैः वरवरमुने शश्वदभ्यर्चितं ते ।

काङ्क्षत्येतत् कथमयमहो कामकामः पदाब्जम् ।। (११) (देवराजगुरुकृतिः)

भृत्यैर्द्वित्रैः प्रियहितपरैः अर्चिते भद्रपीठे

तुङ्गं तूलासनवरमलङ्कुर्वतः सोपधानम् ।

अङ्घ्रिद्वन्द्वं वरवरमुनेरब्जपत्राभिताम्रं

मौळौ वक्त्रे भुजशिरसि मे वक्षसि स्यात्क्रमेण ।। (१२) (देवराजगुरुकृतिः)

अग्रे पश्चादुपरि परितो भूतलं पार्श्वतो मे

मौळौ वक्त्रे वपुषि सकले मानसांभोरुहे च ।

दर्शं दर्शं वरवरमुने! दिव्यमङ्घ्रिद्वयं ते

नित्यं मज्जन् अमृतजलधौ निस्तरेयं भवाब्धिम् ।। (१३) (देवराजगुरुकृतिः)

वरवरमुनिवरचरणौ तरुणसरोजात-जठरकमनीयौ ।

अपि मम शिरस्यकस्मात् करुणापरिणामदापितौ कलये ।। (१४) (वेङ्कटलक्ष्मणमुनिकृतिः)

वरवरनुनिवरचरणा-वेवाशरणस्य मे शरणम् ।

इति मनुमनुकलमनुसर मम मन इदमेव तेऽनुगुणम् ।। (१५) (वेङ्कटलक्ष्मणमुनिकृतिः)

तिरुनक्षत्रतनियन्

पाथोभावं गतायां कलियुगशरदि श्रद्धराये शकाब्दे

वर्षे साधारणेऽर्के समधिगततुले वासरे तीरसङ्ख्ये ।

वारे जैवे चतुर्थ्यां समजनि च तिथौ शुक्लपक्षे सुकर्मा

भ्रजन्मूलाख्यतारे यतिपतिरपरो रम्यजामातृनामा ।।

चरमश्लोकः

कुंभं भास्वति याति तत्सुतदिने पक्षे वळर्क्षेतरे

द्वादश्यां श्रवणर्क्षभाजि रुधिरोद्गाराख्यसंवत्सरे ।

धीभक्त्यादिगुणार्णवो यतिवराधीनाखिलात्मस्थितिः

श्रीवैकुण्ठमकुण्ठवैभवमगात् कान्तोपयन्ता मुनिः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.