[highlight_content]

श्री यतिराज वैभवम्

श्रीः

श्रीमते रामानुजाय नमः

श्री यतिराज वैभवम्

श्रीमद्वटुकपूर्णार्यविरचितम्

श्रीरामानुजयोगीन्द्रक्षीरकैङ्कर्यशालिने ।

नमः स्यादान्ध्रपूर्णाय महनीयगुणाय ते ॥

श्रीमद्यामुनदेशिकादधिगतश्रुत्यन्तयुग्माशय-

स्तत्सन्देशचिकीर्षया नियतधीश्श्रीशैलपूर्णो गुरुः ।

अन्विष्यन्ननुजाद्वयोचितवरौ श्रीवेङ्कटाद्रौ हरे

स्तीर्थम् पुष्पमपीतराण्युपहरन्नास्ते स्म सद्वृद्धये ॥ १ ॥

तत्रान्तरे मधुरमङ्गलभूतपुर्योर्नित्यस्थिती श्रुतितदङ्गविदौ कुलीनौ ।

द्वावम्बुरुण्णयनकेशवसोमयाजिनामान्वितावभजताम् परिणेतुकामौ ॥ २ ॥

श्रीशैलपूर्णस्स समीक्ष्य वर्यौ वरौ चिनिश्चित्य च तौ प्रहृष्टः ।

तत्प्रार्थितश्शङ्खरथाङ्गचिह्नमन्त्रप्रदोऽभून्नतयोस्तयोश्च ॥ ३ ॥

तामग्रहीदग्रजभूमिदेवीम् हृष्यन्मनाः केशवसोमयाजी ।

ताम् चानुजाताम् कमलाक्षभट्टः श्रीदेविकाम् तौ च तुतोष पूर्णः ॥ ४ ॥

ततस्सभार्यौ तदनुज्ञया तौ स्वम् वासमागम्य चिरम् सुशीलौ ।

श्रीशम् समाराध्य तदीयभक्तौ सह प्रियाभ्याम् मुदितौ तदास्ताम् ॥ ५॥

ततो जगन्मङ्गलपिङ्गलाब्देचैत्राख्यशुक्लच्छदपञ्चमीके  ।

आर्द्राभिधर्क्षेण युते च वारे बृहस्पतेस्सन्मृगराजलग्ने ॥ ६ ॥

वेदान्तसिद्धान्तसमर्थनाय बाह्यान्तरभ्रान्तमतापनुत्त्यै ।

शेषाम्शकः केशवयज्वदेव्याम् तेजोनिधिः कश्चिदिहाबिरासीत् ॥ ७ ॥

श्रीशैलपूर्णोप्यथ भूतपुर्यामागम्य वीक्ष्याद्भुतभागिनेयम् ।

चकार रक्षार्थरथाङ्गशङ्ख चिह्नम् च रामानुजनामकम् च  ॥ ८ ॥

ततोऽभिवृद्धस्य च तत्कटाक्षैः पितापि तस्यात्मभुवोऽब्दपूर्तिम् । चौलना तथाऽरम्भणमक्षराणाम् चकार सत्त्वोत्तरपञ्चमाब्दे ॥ ९ ॥

कृतोपनीतिस्तु ततस्सपित्रा समभ्यसन् वेदतदङ्गशास्त्रम् ।

रामानुजार्योऽभवदग्र्यतेजा महद्भिरानन्दितसत्यशीलः ॥ १० ॥

ततस्तु काञ्चित् परिणीय कन्याम् गृहस्थधर्मस्थितिराप काञ्च्याम् ।

स्वपूर्वपक्षाभ्यसनाय मायिसन्न्यासिनम् यादवसम्प्रकाशम् ॥ ११ ॥

ततः कदाचिद्धुरि यादवेन *सर्वे खलु* श्रुत्यविशारदेन ।

अपार्थ उक्ते स यथार्थमुक्त्वा रामानुजोऽदर्शयदर्थसारम् ॥ १२ ॥

श्रीरङ्गवासी स तु यामुनार्यो निशम्य रामानुजदर्शितार्थम् ।

आगम्य काञ्च्याम् वरदम् महात्मा देव्या युतम् प्राणमदन्तरङ्गैः ॥ १३ ॥

ततस्स शिष्यावृतयादवम् तम् रामानुजम् मध्यगतम् च भान्तम् ।

समीक्ष्य रामानुजशिष्य एष चेद्यादवो युक्तमितीव दध्यौ ॥ १४ ॥

श्रीवैष्णववृद्ध्यर्थमतीव भक्त्या स्वस्य प्रसीदेति स यामुनार्यः ।

भान्तम् महादेविकया शरण्यम् श्रीदेवराजम् शरणम् प्रपन्नः ॥ १५ ॥

सम्भाषितश्चेदिह पाठभङ्गस्स्यादित्यसम्भाष्य स यामुनार्यः ।

श्रीरङ्गमेवाप सशिष्यवर्गो रामानुजार्यश्च पपाठ पश्चात् ॥ १६ ॥

तद्देशभूपस्य सुते पिशाचग्रस्तेऽन्यमन्त्रैरखिलैरसाध्ये ।

भूपस्तदा यादवमन्त्रमोच्य इत्येवमाकर्ण्य तमानिनाय ॥ १७ ॥

दृष्टान्तरङ्गावृतयादवम् तम् स्मित्वा पिशाचः परिभाव्य भूरिः ।

रामानुजार्यम् शरणम् प्रपद्य राजात्मजम् स्वम् च जहौ सहाघम् ॥ १८ ॥

तद्वृत्तमत्यद्भुतमैक्ष्य भूपो रामानुजार्ये कृतसम्मतिम् सः ।

तेनार्पितम् तद्गुरुयादवाय सम्मानमत्यन्तविनीतिपूर्वम् ॥ १९ ॥

गत्वा स काञ्चीमथ यादवोऽपि रामानुजे प्रीत इवान्तरेर्ष्यः ।

तदादि तन्मानसशोधनेच्छुर्वेदान्तवाक्यार्थविचारकोऽभूत् ॥ २० ॥

कप्यासशब्दस्य वदत्यपार्थ तस्मिन्स्तदभ्यङ्गकृतः कदाचित् ।

रामानुजस्याश्रु तदूरुदाहि दृष्ट्वाशु सोऽप्युन्मुखसम्भ्रमोऽभूत् ॥ २१ ॥

इदम् किमित्युक्तवतेऽथ तस्मै कप्यासवाक्यस्य यथार्थमुक्त्वा ।

जैमिन्युपाख्यानमपि ब्रुवन्तम् रामानुजम् नात्र पठेत्यवोचत् ॥ २२ ॥

ततस्ममालोच्य सहान्तरङ्गैः प्रलोभ्य रामानुजमप्युपायैः ।

स जाह्नवीस्नाननिमित्तयात्राव्याजेन हन्तुम् कुमतिः प्रतस्थे ॥ २३ ॥

गोविन्दभट्टश्च सुतःस्वमातृष्वसुस्सुशीलस्सहपाठमित्रम् ।

मध्येवनम् प्रोच्य स दुष्टचिन्ताम् रामानुजाय स्वयमन्वगात्तान् ॥ २४ ॥

महाटवीमध्यगतस्स रात्रौ रामानुजोऽचिन्तयदार्तचेताः ।

देव्या महत्या सह भासमानम् दीनानवन्तम् वरदम् शरण्यम् ॥ २५ ॥

किरातरूपी वरदोऽथ देव्या गच्छेम रामानुज साधु काञ्चीम् ।

इत्यग्रगामी प्रियया स पीत्वा तद्दत्तकूपोदकमन्तरासीत् ॥ २६ ॥

दृष्ट्वा प्रभातेऽथ स पुण्यकोटीविमानमत्यन्त समीपवृत्ति ।

पीतोदकम् तम् वरदम् विचिन्त्य रामानुजार्योऽप्यतिविस्मितोऽभूत् ॥ २७ ॥

सन्ध्यामुपास्यान्तिकसत्तटाके सम्सेग्य देवीम् वरदम् च हृष्टः ।

नित्यम् तदङ्गीकृतकूपतीर्थै रामानुजार्यस्तमतोषयच्च ॥ २८ ॥

गङ्गातटाद्यादवमन्त्रवश्यो गोविन्दभट्टः स्वकरस्थलिङ्गः ।

स्वग्राममागम्य च कालहस्तिन्यवास्त तत्स्थानविचारकस्सन् ॥ २९ ॥

काञ्च्यामथागम्य स यादवोऽपि रामानुजम् वीक्ष्य तदागमम् च ।

श्रुत्वा तमाहूय विलोभयानस्ततः स्वशिष्यैस्सममपाठ्यच्च ॥ ३० ॥

विरुद्धमर्थम् तु कदाचिदुक्तम् सदेव सोम्येदमिति श्रुतेश्च ।

अशिक्षयत्सङ्गतमर्थमुक्त्वा रामानुजार्योऽथ तमत्यजत् सः ॥ ३१ ॥

त्यक्तस्तदा यादवमर्कटेन रामानुजाख्यो मणिरद्भुतश्रीः ।

हृद्यः करीशस्य हरेरभूदित्याकर्ण्य हृष्टस्स च यामुनार्यः ॥ ३२ ॥

रामानुजार्यनयनाय सोऽपि शिष्यम् महापूर्णमथादिदेश ।

गत्वाऽथ काञ्चीम् स च तोषयित्वा तम् स्तोत्ररत्नेन तुतोष भूयः ॥ ३३ ॥

रामानुजार्योऽपि स यामुनार्यम् सम्सेवितुम् रङ्गपुरीम् गमिष्यन् ।

प्राज्यम् महापूर्णयुतः कवेरकन्यातटे सूरिगणम् ददर्श ॥ ३४ ॥

रङ्गेशमुख्या अपि सूरयस्तौ दृष्ट्वा महापूर्णयुताय तस्मै ।

रामानुजार्याय निवेद्य शान्ताः श्रीयामुनार्याङ्गुलिमुद्रिकाम्श्च ॥ ३५ ॥

तद्व्याससूत्रम् विवरीवरिष्ये तत्तातनामापि शठारिनाम ।

युक्तम् विधास्याम्युभयोरितीव रामानुजोऽवन्दत तत्पदाब्जे ॥ ३६ ॥

क्षणेन तस्याङ्गलयश्च तिस्रः पुरेव भूतास्तदवेक्ष्य सर्वे ।

सिद्धान्तनिर्धारणसार्वभौमस्सत्यम् भविष्यत्ययमित्यवोचत् ॥ ३७ ॥

त्वरन्नसम्सेव्य स रङ्गनाथमागम्य काञ्चीम् वरदम् प्रणम्य ।

तीर्थादिकैङ्कर्यकरः कदाचित् किम् वाद्य कर्तव्यमितीव दध्यौ ॥ ३८ ॥

तत्रत्यपूर्णम् वरदान्तरङ्गम् वर्णाश्रमाचारविधायकम् तम् ।

सम्प्रार्थयश्चित्तगतम् ममार्थम् ज्ञात्वा करीशाद्वद देशिकेति ॥ ३९ ॥

श्रीमान् परम् तत्त्वमहम् मतम् मे भेदः प्रपत्तिर्निरपायहेतुः ।

नावश्यकी च स्मृतिरन्त्यकाले मोक्षो महापूर्ण इहार्यवर्यः ॥ ४० ॥

इत्यर्थषट्रकम् वरदोपदिष्टम् रामानुजार्याय स चाथ पूर्णः ।

रहस्यवादीत्स रहस्यवादी तस्माद्धि रामानुजमान्यनामा ॥ ४१ ॥

रामानुजार्योऽपि पुरम् गामिष्यन् रङ्गम् ततः श्रीमधुरान्तकस्थम् ।

श्रीभूमिनीलादियुतम् तटाकपालम् सिषेवे रघुनन्दनम् तम् ॥ ४२ ॥

सतीर्थ्यय सन्देशत आपतन्तम् दिष्ट्या महापूर्णमुदीक्ष्य तत्र ।

तत्पादपद्मे प्रणिपत्य हर्षाद्रामानुजार्यस्स च बाष्पपूर्णः ॥ ४३ ॥

परस्परादेशविचारहर्षात्तत्सन्निधौ श्रीवकुलद्रुमस्य ।

छायायुतम् तत्परमम् पदम् च ध्यात्वा महापूर्णगुरुम् स भेजे ॥ ४४ ॥

स शङ्खचक्राङ्कनपुण्ड्रयागम् मन्त्राम्स्तदर्थैरपि मन्त्ररत्नम् ।

अन्याम्श्च तत्रोपदिदेश मन्त्रान् रामानुजाचार्यवराय तस्मै ॥ ४५ ॥

तादृङमहावैभवदिव्यदेशात् काञ्च्यामथागम्य गुरुस्सशिष्यः ।

अन्वर्थनाम्ना वरदम् प्रणम्य रामानुजार्यावसथम् प्रपेदे ॥ ४६ ॥

उपादिशत्स त्रिसहस्रगाथास्तद्व्याससूत्रार्थमपि प्रहृष्टः ।

रामानुजार्यश्च गुरुम् सदारमपूजयन्नित्यमभीष्टवृत्त्या ॥ ४७ ॥

केनापि कार्येण ततः कदाचिद्रामानुजे भुतपुरम् प्रयाते ।

तत्प त्न्यधिक्षेप निकर्षबाचा रुष्टाम् स्वदेवीम् स चुकोप पूर्णः ॥ ४८ ॥

पूर्णस्सदेव्याथ जगाम रङ्गम् तच्चापि वृत्तम् स निशम्य रुष्टः ।

रामानुजार्यो गुरुभक्तिपूर्णः स्वदेविकाम् मातृ निनाय ॥ ४९ ॥

पत्नीम् परित्यज्य स वीतरागः श्रीदेवराजम् प्रणिपत्य तस्मात् ।

तुर्याश्रमम् स्वीकृतवान् ददौ स देवोऽपि तस्मै यतिराजनाम ॥ ५० ॥

ततस्त्रिदण्डी सशिखोपवीतकाषाययुक्तो मनुरत्नजप्ता ।

वर्णाश्रमाचारपरश्वकाशे रामानुजार्यो यतिसार्वभौमः॥ ५१ ॥

तत्रैयकूराधिपवात्स्यनाथवाधूलनाथाश्च समाश्रितास्तम् ।

तेभ्योऽपि रामानुजसम्यमीन्द्रस्सशङ्खचक्राङ्करहस्यदोऽभूत् ॥ ५२ ॥

ततोऽभवद्यादवसम्प्रकाशः श्रीयामुनाचार्यकटाक्षशुद्धः ।

गोविन्दयोगी यतिराजशिष्यो ग्रन्थम् स कञ्चिद्यतिधर्ममाह ॥ ५३ ॥

श्रीरङ्गराजार्यवरः कदाचिद् गत्वाथ काञ्चीम् वरदम् प्रणम्य ।

आदाय रामानुजसम्यमीन्द्रम् श्रीरङ्गमेवाप्तुमथ प्रतस्थे ॥ ५४ ॥

ततस्स कूरेशमुखान्तरङ्गैरन्यैश्च शिष्यैर्यतिराजवर्यः ।

श्रीशम् च नत्वा मधुरान्तकस्थम् श्रीरङ्गमापार्यसिसेविषुस्सन् ॥ ५५ ॥

प्रत्युद्गतै रङ्गपतेर्नियोगात्सम्मानितो माल्यमुखैर्यतीशः ।

श्रियम् प्रणम्याथ च रङ्गनाथम् श्रीकार्यनिर्वाहधुरन्धरोऽभूत् ॥ ५६ ॥

विभूतियुग्माधिपतादिकम् च सर्वम् महापूर्णकटाक्षलब्धम् ।

मत्वा स तत्पादसरोजयुग्मम् सम्सेव्य तद्वश्यतयावतस्थे ॥ ५७ ॥

ततो महापूर्णगुरोर्नियोगात्प्रणम्य गोष्ठीपुरपूर्णपादौ ।

मन्त्रार्थतच्छ्रलोकवरार्थ शिक्षाम् प्राप्याथ सोशिक्षयदप्यनेकान् ॥ ५८ ॥

ततस्स पूर्णोऽपि तदान्तरज्ञः सम्मानयम्स्तम् यतिसार्वभौमम् ।

तद्दर्शनम् चेदमितीव तुष्टः कटाक्षयन् लक्ष्मणदर्शनम् तत् ॥ ५९ ॥

ततस्स रामानुजसम्यमीन्द्रो गुरु महापूर्णमवन्दताथ ।

पुनश्च रङ्गेशगुरोग्रहीतुम् काम्श्चिद्विशेषान् स तदादिदेश ॥ ६० ॥

स तच्छठारेश्वरमप्रबन्धम् तदर्थसारम् सुकविप्रबन्धम् ।

स्तोत्रद्वयम् चार्थविशेषयुक्तम्  तस्माद्गृहीत्वा पुनराप पूर्णम् ॥ ६१ ॥

पुनर्नियुक्तः स्वगुरोर्यतीशो मालाधराचार्यवरात्सुमेधाः ।

शठारिसूक्तेः परकालसूक्तेरर्थ सहस्रस्य च सोऽव्यगृह्णात् ॥ ६२ ॥

एवम् विधोऽर्थोऽप्युचितो भवेदित्युक्तो क्वचित्तत्र यतीश्वरेण ।

श्रुत्वा गुरुः पूर्णयुगाय चाह ताभ्याम् च तेनाप्यभिनन्दितस्सः ॥ ६३ ॥

एवम् रहस्यार्थविशेषयुक्तम् वेदान्तमाचार्यगणादधीत्य ।

कूरेशवात्स्येशमुखैश्च शिष्यैरुवास रङ्गे मुदितो यतीशः ॥ ६४ ॥

ततस्तदात्रेयनतार्तिहर्ता यतीशपादाम्बुरुहम् प्रपन्नः ।

पिल्लानभिख्यम् स्वपितृष्वसुश्च श्रीशैलपूर्णस्य सुतम् निवेद्य ॥ ६५ ॥

आजानसद्वृत्तयतीशभक्ति तत्सेवनेच्छाद्यपि तत्सुतस्य ।

श्रीशैलपूर्णोक्तिमपिह्यवोचच्छ्रीवेङ्कटाद्रीशमिमम् भजेति ॥ ६६ ॥

तम् वीक्ष्य बालम् स तदैव सर्वमन्त्रान् सहार्थान् प्रणतार्तिहर्त्रे ।

दिदेश तन्मङ्गलदिव्यदेहसम्रक्षकोऽभूत्तत एव सोऽपि ॥ ६७ ॥

ततः कदाचिद्विषयुक्तभिक्षाम् ज्ञात्वा यतीशस्त्रिदिनोपवासः ।

निशम्य तद्वावपि पूर्णवर्यौ गोष्ठीपुरादापतुराशु रङ्गम् ॥ ६८ ॥

प्रत्युद्गतम् तम् प्रणतम् यतीशम् त्वद्देहमानिप्रणतार्तिहर्त्रार्जा ।

सम्शोधिताम् स्वीकृरु नित्यभिक्षामित्यूचतुस्तौ स तथाकरोच्च ॥ ६९ ॥

गोविन्द भट्टान्तर शिक्षणार्थम् स्वप्रेरिताश्चापुरथोचुरेवम् ।

श्रीशैलपूर्णाङ्घ्रि सरोजभृङ्गो गोविन्द भट्टोऽभवदस्तलिङ्गः ॥ ७० ॥

वेदार्थसङ्क्षेपमथो यतीशो वेदान्तसूत्रस्य च सारदीपौ ।

भाष्यम् च गीता विवृतिम् च कृत्वा वात्स्येशमुख्येभ्य उपादिशश्च ॥ ७१ ॥

अबाधितार्थैरनपायवाचाम् तद्व्याससूत्रस्य यथार्थभाष्यम् ।

कृत्वा यतीन्द्रो धुरि यामुनार्य मनोरथम् पूरितवान् स आद्यम् ॥ ७२ ॥

ततः कदाचित्सह रङ्गनायिका श्रीरङ्गनाथावपि फाल्गुनोत्तरे ।

मुदाभिषक्तौ स तदा प्रपद्य तौ गद्यत्रयम् चाप्यवदद्यतीश्वरः ॥ ७३ ॥

भाष्यादिभिस्तत्त्वविदोऽथ गद्यैः श्रीशम् प्रपन्नस्य तदेकवृत्तेः ।

कैङ्कर्यमाप्रापणकार्यमाह नित्याभिधग्रन्थमुखाद्यतीशः ॥ ७४ ॥

ततस्स्वशिष्यैर्बहुभिर्यतीशः काञ्च्याः पथा वेङ्कटशैलवर्यम् ।

भक्त्या भजन् तद्बहुमानितस्सन् श्रीशैलपूर्णम् प्रणतो गुरुम् तम् ॥ ७५ ॥

तद्वीक्षितस्सन् कमलानिवासम् प्रपद्य तत्पूर्णवराद्यतीशः ।

रामायणम् तद्विविधैर्महार्थैस्सम्वत्सरम् तत्र वसन्नगृहणात् ॥ ७६ ॥

पूर्णात्मजौ द्वावपि तन्नियुक्तौ यतीशमाश्रित्य समस्तमर्थम् ।

अवापतुस्तत्र सुतम् कनिष्ठम् पूर्णोप्यदात्तद्बहुमानपात्रम् ॥ ७७ ॥

पिल्लानभिख्यम् स च तेन दत्तम् गोविन्दभट्टम् निजयाचितम् च ।

सङ्गृह्य हृष्टस्समवाप रङ्गम् काञ्चीपथादेव यतीश्वरश्च ॥ ७८ ॥

गोविन्दभट्टम् च विरक्तमैक्ष्य यतिम् तमेम्बारभिधम् स चक्रे ।

ज तस्सुतो रङ्गपतेः प्रमादात्तत्कूरनाथस्य च साधुभट्टः ॥ ७९ ॥

भट्टारकम् तम् च पराशराख्यम् कृत्वा कृतम् तेन सहस्रनाम्नाम् ।

भाष्यम् प्रतिष्ठाप्य च यामुनार्यमनोरथम् पूरितवान् द्वितीयम् ॥ ८० ॥

कदाचिदन्तर्मठमर्थ चिन्ताम् दिव्यप्रबन्धस्य समाचरन्तम् ।

यतीश्वरम् वीक्ष्य च पूर्णपुत्रस्तञ्चिन्तितार्थोह्ययमित्यवोचत् ॥ ८१ ॥

तदीरितार्थम् निजचिन्तितम् तम् श्रुत्वा यतीशोऽप्यतिविस्मितस्सन् ।

नाथान्वयाद्वेद तथेति मत्वा मज्ज्ञानपुत्रेत्यभिषस्वजे तम् ॥ ८२ ॥

रामानुजार्यस्य यतीश्वरस्य ज्ञानात्मजस्तस्य च पादुकेति ।

ख्यातश्शठारेश्वरमप्रबन्धम् व्याख्यातवाम्स्तम् कुरुकेशवर्यः ॥ ८३ ॥

पिल्लानभिख्यम् कुरुकेश्वराख्यम् कृत्वा तु तम् तत्कृतषट्सहस्रम् ।

भाष्यम् प्रतिष्ठाप्य स यामुनार्यमनोरथम् पूरितवान् तृतीयम् ॥ ८४ ॥

यतीश्वरस्याप्यथ यज्ञमूर्तेर्जितो भवेत्तज्जयतो मतस्थः ।

इति प्रतिज्ञाय च रङ्गपुर्याम् प्रावर्तताष्टादशरात्रवादः ॥ ८५ ॥

स्वप्ने यतीशो वरदेक्षितस्सन् मायामतस्थापकयज्ञमूर्तिम् ।

वादेऽजयत्तम् वरदाख्ययाम् स्वम् नामाप्यधात्सोऽपि मुमोद शिष्यः ॥ ८६ ॥

ततो यतीशस्स दिशो विजेतुम् शिष्यैरनेकैस्सह तत्र तत्र ।

गत्वा विजित्यान्यमतम् समस्तम् सरस्वतीपीठमथाससाद ॥ ८७ ॥

तद्भाव्यमादाय निधाय मूर्ध्नि श्रीभाष्यमेतद्वरभाष्यकृत्वम् ।

इतीव तस्मै प्रददौ च देवी भाष्यम् हयग्रीवमपि स्वदेवम् ॥ ८८ ॥

गृह्णन् हयग्रीवमपि प्रणम्य कुलागतम् तम् वरदम् च नित्यम् ।

आराधयन्नन्यमतानि जित्वा श्रीवेङ्कटाद्रिम् पुनराससाद ॥ ८९ ॥

भक्तात्ततल्लक्षणशङ्खचक्रः श्रीश्रीनिवासश्शिव एव नान्यः ।

इतीव शैवै रचिते विवादे तत्प्रत्ययम् प्राह यतीश्वरोऽपि ॥ ९० ॥

निश्चित्य सर्वेऽष्यथ शङ्खचक्रे शूलम् च निक्षिप्य तदालयान्तः ।

कवाटमाबध्य ततः प्रभाते उद्घाट्य सर्वे ददृशुस्सहैव ॥ ९१ ॥

भङ्क्त्वा त्रिशूलम् धृतशङ्खचक्रम् श्रीश्रीनिवासम् च समीक्ष्य शैवाः ।

प्रधाविताश्चाशु यतीश्वरेण श्रीशैलपूर्णोऽपि मुमोद भूरि ॥ ९२ ॥

ततो यतीशो गुरुवीक्षितस्सन् श्रीरङ्गमागम्य समस्तशिष्यैः ।

वेदान्तसिद्धान्त विचक्षणोऽभून्मतान्तरस्थाश्च ततः कृतेर्ष्याः ॥ ९३ ॥

दुर्बोधितश्चोलनृपोऽथ साधून्  शिवात्परतरम् नास्ति लिखेति पत्रे ।

निर्बध्य चारैरपि तम् यतीशमाहूतवाम्स्तद्विदितम् च शिष्यैः ॥ ९४ ॥

काषायधृत्कूरपतिस्त्रिदण्डी प्रायान्महापूर्णयुतस्तु तत्र ।

वात्स्येशमुख्यैस्सहि तो यतीशः शुक्लाम्बरः प्राप दिशम् प्रतीचीम् ॥ ९५ ॥

तत्र क्वचित् कैश्चन शिष्यभूतैः काषायदण्डादि समर्पितम् सः ।

शास्त्रोक्तमार्गेण पुनः प्रगृह्य यथाक्रमाराधनतत्परोऽभूत् ॥ ९६ ॥

यतीश्वरम् तत्र नृपश्च कश्चित् केचिद्विजाग्र्याश्च समाश्रितास्तम् ।

निष्पिष्टदेहा अपि जैनवर्गा महान् प्रभावः प्रकटीकृतश्च ॥ ९७ ॥

नारायणः स्वप्नगतो यतीशम् श्रीयादवाद्राराविह भूतलान्तः ।

वर्ते प्रतिष्ठापय माम् मृदञ्च श्वेताम् गृहाणेत्यवदत्स तत्र ॥ १८ ॥

ततो यतीशः सहसा प्रहृष्टः कल्याणतीर्थेष्ववगाह्य शुद्धः ।

तदङ्कसम्शोधितसद्विमाने चक्रे स नारायणसुप्रतिष्ठाम् ॥ ९९ ॥

श्वेताम् मृदम् शिष्ययुतः प्रगृह्य धृत्वाथ रामप्रियविग्रहम् तम् ।

अन्विष्य दिल्लीशसुतागृहस्थम् सम्पत्सुतागच्छ ममेत्यवोचत् ॥ १०० ॥

तमागतम् रामहितम् स नीत्वा कृत्वा स नारायणमुत्सवाद्यैः ।

सम्पूजयन् मोदमवाप तत्र दिल्लीशपुत्र्यन्तरधात्तमाप्य ॥ १०१ ॥

पूर्णार्य कूरेश्वरनेत्रहानिम् श्रुत्वा तदा क्लिष्टतरो यतीशः ।

निशम्य कूरेशमरोगमाशु चोलम् तथा दुगतमाप हर्षम् ॥ १०२ ॥

तीर्थम् कल्याणमासीत्तदपि पुरवरम् तञ्च नारायणाख्यम्

श्रीशस्सम्पत्कुमारो यतिनृपतिजयस्थानमासीत्ततस्तत् ।

किञ्च श्रीमान् यतीन्द्रः स्वपदगतजनश्रेयसे स्वीयमर्च्यम्

रूपम् प्रादाञ्च तस्माद्यतिगिरिरिति तद्यादवाद्रेस्तु नाम ॥ १०३ ॥

नत्वा सम्पन्कुमारम् यदुगिरिकमलायुक्त नारायणम् तम्

शिष्यानादिश्य तत्राप्यथ कतिपयसच्छिष्यक्तो यतीशः ।

गत्वा श्रीरङ्गनाथम् ससलिलनयनः प्राणमत्तम् प्रहृष्ट-

स्तत्रत्यास्तम् तदोचुशठमथनगिरामुत्सवम् सन्निरुद्धम् ॥ १०४ ॥

तत्र श्रीमान् यतीशः कमपि शठरिपुम् सम्प्रतिष्ठाप्य तेन

श्रीरङ्गाधीश्वरस्याध्ययनमहोविम्शकम् कारयित्वा ।

पश्चात्कैश्चित्प्रबन्धैः स्वविषयककथम् तम् प्रबन्धम् मिलित्वा

रङ्ग सम्श्राव्य चक्रे स तदितरमहासूरिगोदाप्रतिष्ठाम् ॥ १०५ ॥

तद्वद्दिव्यस्थलेष्वप्यधिमहिमसु तत्सूरिगोदाप्रतिष्ठाम्

कृत्वा सर्वत्र तम् चाध्ययनमहमपि प्राज्यहैयङ्गवीनम् ।

प्राज्यक्षीरोद्गुडान्नम् वृषभगिरिपतिप्रीणनार्थम् निवेद्य

श्रीमान् रामानुजार्यः कृतबहुमतिरप्यास गोदाकटाक्षैः ॥ १०६ ॥

नीतम् गोविन्दराजम् रहसि निजतलाद्वेङ्कटाद्रेस्तु सानौ

सम्स्थाप्यार्चाश्शठारिप्रभृतिगुरुततेश्शिष्य सङ्घैर्यतीशः ।

गत्वा रङ्ग स पश्चादितरमतजनान् स्वाश्रयानेव कुर्वन्

शिष्यान् काम्श्चिद्विभज्य क्रमत इद्द तदा विज्वरस्सम्मुमोद ॥ १०७ ॥

पीठाधीशाम्श्च काम्श्चिच्चतुरधिगणनायुक्त सप्तत्यभिख्यान्

तत्राप्यग्र्याम्श्च काम्श्चिच्चतुर इह तथा भाष्यसिम्हासनेशान् ।

तत्र ज्ञानात्मजम् तम् तदुभयनिगमान्ताग्र्ययभाष्येश्वरम् च

श्रीमान् रामानुजार्यो यतिनृपतिमहादेशिकेन्द्रश्चकार ॥ १०८ ॥

सप्तत्या तैश्चतुर्भिर्यतिभिरपि तथा सप्तशत्याद्भुतश्री-

रन्यैश्चैकान्तिभिश्च द्वियुतदशमितैस्तैस्सहस्रैस्समेतः ।

ज्येष्ठान् कूरेशमुख्याननुजमपि यथाचौरसम् ज्ञानपुत्रम्

वीक्ष्य व्याप्यत्ववाहान् यतिनृपतिरपि प्रेक्ष्य सम्मोदमाप ॥ १०९ ॥

शास्त्राचारवश्यैर्विदितसुचरितैश्शिष्यवर्गैस्समेतः

कैश्चित्सम्प्रार्थितस्सन् यतिपतिरपि चालिङ्गय सद्विग्रहाम्स्त्रीन् ।

श्रीरङ्गे भूतपुर्यामपि च यदुगिरौ स्थाध्यमेतत्त्रयम् चेत्युक्त्वा

दत्वा च तेभ्यो जगदखिलमवन्माम् कटाक्षैस्स पायात् ॥ ११० ॥

सर्वत्रोत्सारयित्वाप्यपगतवसति स्स मामकार्षीर्यतस्त्व स्स

तस्मात्सम्प्राप्तकाले मतमपि भवतः क्षोभयिष्ये शपेऽहम् ।

श्रुत्वेत्युक्तिम् कलेरप्यथ यतिनृपतिः श्रीशमाद्यम् प्रपन्नो

जीयादव्याहतम् मे मतमिति च वदन् पालयेन्माम् कटाक्षैः ॥ १११ ॥

जीयाच्छ्रीयामुनार्यैस्तदुपचितमहापूर्णगोष्ठीपुरोद्य-

त्पूर्णश्रीशैलपूर्णैरपि महिमनिधी रङ्गमालाधरार्यैः ।

प्राचीनाराधनम् तम् वरदमपि हयग्रीवमाप्तम् च वाण्या

दत्वा ज्ञानात्मजाय त्रिभुवनतिलकीभूतकीर्तिर्यतीशः ॥ ११२ ॥

काम्श्चित्कस्मिन्श्चिदर्थे प्रतिनियततया सन्नियोज्यान्तरङ्गान्

तत्र क्षीरार्थकृत्ये प्रतिनियतमहो दासमप्यत्यनर्हम् ।

कुर्वन् श्रीमान् यतीशः स्वपदविनततद्दासदासानुदासम्

मामप्यत्यन्तभक्तम् स्वहितमिव सदा गोपयन् सोऽपि जीयात् ॥ ११३॥

कमलेशमुख्यगुरुपङ्क्तिवैभवप्रतिकर्मशोभि यतिराजवैभवम् ।

य इदम् पठन्ति कलिकल्मषापहम् त इमे विभूतियुगनायका ध्रुवम् ॥ ११४ ॥

॥ श्रीमते रामानुजाय नमः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.