श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
प्रथमः सर्गः
1.1 वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् ।
जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥
1.2 यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः ।
यथावत् वर्णने तस्य किमुतान्ये मितम्पचाः ॥
1.3 शक्त्या शौरिकथास्वादः स्थाने मन्दधियामपि ।
अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥
1.4 वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते ।
अन्येऽपि कवयः कामं बभूवुरनपत्रपाः ॥
1.5 स कविः कथ्यते स्रष्टा रमते यत्र भारती ।
रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः ॥
1.6 तदात्वे नूतनं सर्वमायत्याञ्च पुरातनम् ।
न दोषायैतदुभयं न गुणाय च कल्पते ॥
1.7 प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् ।
न वाचमवमन्यन्ते नर्तकीमिव भावुकाः ॥
1.8 विहाय तदहं व्रीळां(डां) व्यासवेदार्णवामृतम् ।
वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥
1.9 क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् ।
एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥
1.10 जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः ।
परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥
1.11 यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः ।
सतामाहितवह्नीनां विहारस्थेयतां ययौ ॥
1.12 समवर्धत तद्वंशः उपर्युपरि पर्वभिः ।
यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥
1.13 बभूव नहुषस्तस्मिन् ऐरावत इवाम्बुधौ ।
यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥
1.14 नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलंकृताः ।
जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥
1.15 शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टुवे ।
यथावत् साधकस्येव यावदर्था सरस्वती ॥
1.16 वीरो रस इवोत्साहान्नहुषादभ्यजायत ।
ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥
1.17 विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे ।
आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता ॥
1.18 निदेशं तस्य राजानो न शेकुरतिवर्तितुम् ।
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः ॥
1.19 तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः ।
भावा इव रसं भव्याः पार्थिवाः पर्युपासत ॥
1.20 यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः ।
समानगणनालेख्ये निस्समानैर्निषद्यते ॥
1.21 देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः ।
ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्पदैः ॥
1.22 स च वृत्तविहीनस्य न विद्यां बह्वमन्यत ।
न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥
1.23 अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः ।
अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ॥
1.24 शराणां शात्रवाणां च सन्धानेन महौजसः ।
तस्य निर्धूतलक्षेण द्विः क्वचिन्नाप्यभूयत ॥
1.25 युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् ।
दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥
1.26 यशःप्रसूनसुरभिर्यदुसन्तानपादपः ।
बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥
1.27 वंशे समभवत् तस्य वसुदेवः क्षितीश्वरः ।
जनकः प्राग्भवे योऽभूत् देवदानवयूथयोः ॥
1.28 आनकानाञ्च दिव्यानां दुन्दुभीनाञ्च निस्वनैः ।
सह जातं यमाचख्युराख्ययाऽऽनकदुन्दुभिम् ॥
1.29 तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः ।
जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥
1.30 स विष्णुरिव लोकानां तपनस्तेजसामिव ।
समुद्र इव रत्नानां सतामेकाश्रयोऽभवत् ॥
1.31 प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः ।
रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ॥
1.32 अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः ।
ऐकरस्यमभूत् पत्या गङ्गायमुनयोरिव ॥
1.33 स ताभ्यामनुरूपाभ्यां समतुष्यत् समेयिवान् ।
व्यक्तिहेतुरभूत् येन सपर्यङ्कस्य शार्ङ्गिणः ॥
1.34 अलिप्सत न साम्राज्यं सोऽर्थकामपराङ्मुखः ।
यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ॥
1.35 कयाचिदशरीरिण्या वाचा व्यवसितायतिः ।
देवकीं वसुदेवञ्च कंसः कारामयोजयत् ॥
1.36 स कालातिबलः कंसः कालनेमिरनेहसा ।
सर्वदैतेयसत्त्वानां समाहार इवोदितः ॥
1.37 एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः ।
प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥
1.38 विदितं भवतां देवाः! विश्वरूपेण विष्णुना ।
महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः ॥
1.39 अधर्मनिघ्नैरधुना धर्मसेतुविभेदकैः ।
असङ्ख्यैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः ॥
1.40 अत आलोचितजगद्धितैः सुरगणैः स्वयम् ।
न पतामि न भिद्ये च यथाऽहं क्रियतां तथा ॥
1.41 इति ते भूतधारिण्या निसृष्टार्था दिवौकसः ।
अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम् ॥
1.42 पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरस्सराः ।
दुग्धोदधिशयं देवं दूरमेत्याभितुष्टुवुः ॥
1.43 त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये ।
वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे ॥
1.44 अनन्याधीनमहिमा स्वाधीनपरवैभवः ।
दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः ॥
1.45 स भवान् गुणरत्नौघैर्दीप्यमानो दयांबुधिः ।
तनोति व्यूहनिवहैस्तरङ्गैरिव ताण्डवम् ॥
1.46 त्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदंपरैः ।
निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति ॥
1.47 अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम् ।
वितथा वेदपान्थानां यत्रसायंगृहा गतिः ॥
1.48 नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः ।
पुत्रैः पितृमतः क्रीडा कथं ते केन वर्ण्यते ॥
1.49 नटवद् भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः ।
पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥
1.50 ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् ।
सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥
1.51 निराधारनिजस्थेम्नो निरुपाधिकशेषिणः ।
निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः ॥
1.52 अनाविलधियामन्तः चिन्तामणिरिव स्फुरन् ।
दिशस्यभिमतं सर्वमतिरस्कार्यदीधितिः ॥
1.53 संसारमरुकान्तारे परिश्रान्तस्य देहिनः ।
त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम् ॥
1.54 दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः ।
समग्रगुणसंपन्नः तारकस्त्वं प्लवो महान् ॥
1.55 अपरिच्छिद्यमानस्य देशकालादिभिस्तव ।
निदर्शनं त्वमेवैकस्त्वदन्यद्व्यतिरेकतः ॥
1.56 अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम् ।
सङ्कल्पसचिवः काले(लः) शक्तिलेशः स तावकः ॥
1.57 यन्मूलमखिलं कार्यं यदमूलमधीमहे(यते) ।
लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम् ॥
1.58 त्रिवर्गमपवर्गं वा प्रतिलब्धुं प्रयस्यताम् ।
प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः ॥
1.59 यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम् ।
तारकं सर्वजन्तूनां तत् त्वं तव च वाचकम् ॥
1.60 त्वदालम्बितहस्तानां भवादुन्मज्जतां सताम् ।
मज्जतः पापजातस्य नास्ति हस्तावलम्बनम् ॥
1.61 अनन्यरक्षाव्रतिनं चातकव्रतचारिणः ।
भवन्तमवलम्बन्ते निरालम्बनभावनम् ॥
1.62 अनिदंपूर्वनिद्राणामनस्तमयभानुमान् ।
आपादयसि पुंसां त्वमपुनस्स्वापजागरम् ॥
1.63 त्वदेकशरणानां त्वं शरणागतजीवनः ।
विपदं नः क्षिप क्षिप्रं तमिस्रामिव भास्करः ॥
1.64 सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः ।
जगद्बाधाय जायन्ते जहि तान् स्वेन तेजसा ॥
1.65 स दैत्यहत्यामिच्छद्भिः सुरैरेवमभिष्टुतः ।
अनन्यदृश्यः सहसा दयया दर्शनं ददौ ॥
1.66 ततस्तं ददृशुर्देवाः शेषपर्यङ्कमास्थितम् ।
अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम् ॥
1.67 पत्न्या सह निषेदुष्या पद्मलक्षणलक्ष्यया ।
स्वेच्छयैव शरीरिण्या सूचितैश्वर्यसंपदम् ॥
1.68 सुकुमारसुखस्पर्शसुगन्धिभिरलङ्कृतम् ।
स्वविग्रहगुणारामप्रसूनैरिव भूषणैः ॥
1.69 आरञ्जितजगन्नेत्रैरन्योन्यपरिकर्मितैः ।
अङ्गैरमितसौन्दर्यैरनुकल्पितभूषणम् ॥
1.70 उत्तेजितजयोत्साहमायुधैरनघोद्यमैः ।
शौर्यविक्रमशक्त्याद्यैः सहजैः स्वगुणैरिव ॥
1.71 स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः ।
महिम्ना जातवैचित्र्यं महानीलमिवोदितम् ॥
1.72 श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना ।
स्वाङ्घ्रिसौरभदिग्धेन दत्तसङ्ग्रामदोहलम् ॥
1.73 स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन निवेदितम् ।
भक्तिनम्रेण सेनान्या प्रतिशृण्वन्तमिङ्गितैः ॥
1.74 अनपायं तमादित्यमक्षयं तारकाधिपम् ।
अपारममृताम्भोधिममन्यन्त दिवौकसः ॥
1.75 अभयोदारहस्ताग्रमनघस्वागतस्मितम् ।
अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम् ॥
1.76 तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः ।
निहताशेषदैत्याय निदानं स्वागतेः पुनः ॥
1.77 त इमे क्षत्रिया भूत्वा क्षोभयन्ति क्षमामिमाम् ।
तव तेजसि यैर्नाथ दनुजैश्शलभायितम् ॥
1.78 चतुर्णां पुरुषार्थानां प्रसवो यत्समाश्रयात् ।
हव्यकव्यप्रसूरेषा दीर्यते दैत्यभारतः ॥
1.79 जाता निखिलवेदानामुत्तमाङ्गोपधानतः ।
त्वत्पादकमलादेषा त्वदेकाधीनधारणा ॥
1.80 यदि न त्वरते नाथ! भारव्यपनये भवान् ।
प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः ॥
1.81 करुणाधीनचित्तेन कर्णधारवती त्वया ।
माऽवसीदतु पृथ्वीयं महती नौरिवाम्भसि ॥
1.82 रशनारत्नरूपेण पयोधिरशना त्वया ।
प्रशान्तदनुजक्लेशा परिष्करणमर्हति ॥
1.83 कंसप्रभृतिभिः सेयं शल्यैरिव समुद्धृतैः ।
चिरं भवतु ते पृथ्वी शेषमूर्तेश्शिखण्डकः ॥
1.84 प्रबोधसुभगैः स्मेरैः प्रसन्नैः शीतलैश्च नः ।
कटाक्षैः प्लावय क्षिप्रं कृपैकोदन्वदूर्मिभिः ॥
1.85 त्वयि न्यस्तभराणां नस्त्वमेतां क्षन्तुमर्हसि ।
विदिताशेषवेद्यस्य विज्ञापनविडम्बनाम् ॥
1.86 इत्थं वदति देवानां समाजे वेधसा सह ।
ववन्दे पृथिवी देवं विनतत्राणदीक्षितम् ॥
1.87 तनुमध्या विशालाक्षी तन्वी पीनपयोघरा ।
मायेव महती तस्य वनितारत्नरूपिणी ॥
1.88 आबद्धमण्डलैर्भृङ्गैरलकामोदमोहितैः ।
अयत्नलब्धां बिभ्राणा मायूरच्छत्रसम्पदम् ॥
1.89 प्रियसंदर्शनानन्दजनितैरश्रुबिन्दुभिः ।
न्यस्तमौक्तिकनैपथ्यैः परिष्कृतपयोधरा ॥
1.90 प्रस्फुरन्तं प्रियस्येव परिरम्भाभिलाषिणम् ।
दक्षिणादितरं बाहुं दक्षिणा बह्वमन्यत ॥
1.91 विपदञ्च जगादैषा विपञ्चीमधुरस्वना ।
विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा ॥
1.92 अथ तान् भव्यया वाचा भगवान् प्रत्यभाषत ।
प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया ॥
1.93 मा भैषुरसुरानीकात् भवन्तो मदुपाश्रयाः ।
मदाज्ञामनवज्ञातुः परिभूत्या न भूयते ॥
1.94 अवतार्य भुवो भारमवतारो ममामराः ।
अनादिनिधनं धर्ममक्षतं स्थापयिष्यति ॥
1.95 यावदिष्टभुजो यावदधिकारमवस्थिताः ।
परिपालयत स्वानि पदानि विगतापदः ॥
1.96 दमनाद्दनुजेन्द्राणां द्रक्ष्यथ त्रिदशाधिपाः ।
भूयोऽपि लघुतां प्राप्तां भुवमुल्लाघितामिव ॥
1.97 दैतेयमृगसङ्घाते मृगयारसभागिभिः ।
भवद्भिरपि मेदिन्यां भवितव्यं नराधिपैः ॥
1.98 इति ताननघादेशः समादिश्य जनार्दनः ।
अवधीरितदुग्धाब्धिर्मधुरायां मनो दधे ॥
1.99 आश्वास्य वागमृतवृष्टिभिरादितेयान्दैतेयभारनमितां पृथिवीं च देवीम् ।
प्रादुर्बुभूषुरनघो वसुदेवपत्न्यां पद्मापतिः प्रणिदधे समयं दयायाः ॥
1.100 साधूनां स्वपदसरोजषट्पदानां धर्मस्य स्थितिमनघां विधातुकामः ।
यद्गर्भे(र्भो) जगदखिलं स एव गर्भो देवक्याः समजनि देवदेववन्द्यः ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये प्रथमः सर्गः ।।