श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
द्वादशः सर्गः
12.1 तथाविधानन्दमहापयोधेस्तरङ्गवृत्त्या भजतोवतारान् ।
अशेषरूपेष्वनुरूपरूपा देवी जगन्नेतुरनुप्रजज्ञे ।।
12.2 सा तस्य नित्योदितदिव्यधाम्नः पत्युः प्रिया भानुमतः प्रभेव ।
अध्यासितुर्द्वारवतीमदूरात् व्यक्तिं शुभां प्राप विदर्भदेशे ।।
12.3 शिखण्डकं निष्प्रतिमं श्रुतीनां शृङ्गारलीलोपमविश्वकृत्यम् ।
अधीयते तन्मिथुनं स्वभावादन्योन्यजीवातुमनन्यभोग्यम् ।।
12.4 दयेव नित्यं दयिता त्रिधाम्नः सर्वेषु भावेषु समानभावा ।
परावराणां जननी प्रजानामासीत् विदर्भाधिपतेरपत्यम् ।।
12.5 महीतलान्मैथिलसीरकृष्टात् क्षीरोदधेराहितमन्थशैलात् ।
भृदूद्वहात् ख्यातिमतश्च याभूत् सा भीष्मकादभ्युदियाय भूयः।।
12.6 अमन्यतैनां तनयां स राजा रुक्मी च मोहादनुजामजन्याम् ।
यामेकपत्नीमनघस्य पुंसः प्रजासृजां मातरमामनन्ति ।।
12.7 त्यक्त्वा पराः स्त्रीर्गुणराशिरेनां शरण्यभूतां शरणं प्रपेदे।
प्रायेण दोषैरविविक्तवासाद्भीतः स्वयं भीष्मकराजकन्याम् ।।
12.8 आरब्धदेहामिव भागधेयैरक्षीणि लक्ष्यान्तरतो नियन्त्रीम् ।
सुतामिमां प्राप्य सुधामिवान्याममर्त्यकल्पौ पितरावभूताम् ।।
12.9 अनन्यवृत्त्या घनतामुपेतैरप्रौढसूर्येन्दुमयूखजालैः।
सुवर्णरत्नैरथवा प्रक्लृप्तां सुतां सुजाताकृतिमन्वभूताम् ।।
12.10 महीयसीं मङ्गलदीपमालां विद्युत्प्रकाशा विदधे कुमारी ।
आकल्परत्नांशुतिरस्करण्या दीप्त्या रजन्यामपि दीनभासम् ।।
12.11 कलामिवार्धामकठोरधाम्नः पुण्योदयानामिव पूर्वचर्याम्।
प्ररोहवेलामिव कान्तिवल्ल्याः प्रैक्षन्त शुद्धान्तमृगीदृशस्ताम् ।।
12.12 आत्माधिकारादधिकामवस्थामयत्नतो नूनमवाप्तुकामा ।
वार्तानभिज्ञे वयसि स्थितां तां वाग्देवता वन्दिमुखे ववन्दे ।।
12.13 प्रदित्समानान हरेरभीष्टं कामेन सा कल्पलतेव सृष्टा ।
पित्रोरिवानन्यदृशां प्रजानामाशंसया सार्धमवाप वृद्धिम् ।।
12.14 पद्मादिरेखाप्रथमानभूमा निर्धार्यमाणा निगमैरभिज्ञैः।
तदङ्घ्रिविन्यासमिषेण जज्ञे भूमेस्तदा भूषणपङ्क्तिरग्र्या ।।
12.15 अदृश्यभेदैरतिसूक्ष्मभावाज्जज्ञे जगन्मङ्गलतां दधानैः।
विहारलौल्याद् विषमेषु तस्या गतेषु वाक्येषु च नृत्तगीतैः।।
12.16 यदप्सरः पाणिसरोजमुक्तं प्रसूनवर्षं निपपात तस्याम् ।
अपूरि तस्यैव रजोभिरग्र्यैरपांसुला पांसुविहारवाञ्छाम् ।।
12.17 यदृच्छया तत्र परागजालैर्यानेव सा केलिगृहानकार्षीत् ।
ततः परं त्वष्टुरमी समीची महेन्द्रशालाविधिमातृकाभूत् ।।
12.18 चतुर्दशैतानि जगन्ति यस्याः क्षेमाश्रितं क्रीडनकं बभूव ।
पर्याप्तलीला मुमुदे तदैषा पाञ्चालिकापञ्जरशारिकाद्यैः।।
12.19 आस्वादनीयान्यधिकं श्रुतीनां मुग्धाभिजातानि वचांसि तस्याः।
प्रायेण लौल्यादधिकृत्य खिन्ना विधिप्रिया व्याहरतान्यभाषाः।।
12.20 अविप्लुतव्याकरणानि तस्याः क्रमेण शिक्षानियताक्षराणि ।
अनुश्रवाणामनघप्रवृत्तेरादेशदायीनि वचांस्यभूवन् ।।
12.21 विभूतयस्तत्र विशांपतीनामात्मीयया देवतयावतीर्णाः।
स्वचिह्नभेदान् परिबर्हयन्त्यः प्रपेदिरे तत्परिवारभावम् ।।
12.22 वेद्लवाले विहितस्थितिं तां रम्यप्रतानामिव रत्नवल्लीम् ।
स्तनादिलक्ष्यस्तबकादिचिह्नैराविष्कृतं यौवनमाविवेश ।।
12.23 तदीयसर्वाङ्गजुषोरगाधं सौन्दर्यलावण्यसुधास्रवन्त्योः।
ममज्जुरापत्य दृशः सखीनामन्योन्यसंभेदमपूर्वतीर्थम् ।।
12.24 निशेव चन्द्रेण घनव्यपाये नैसर्गिकी बुद्धिरिव श्रुतेन।
फलेन सा नीतिरिवाप्रमादा युक्ता बभौ नूतनयौवनेन ।।
12.25 आलक्ष्यसंलापलवैरपाङ्गैरङ्गैरनङ्गोदयपूर्वरङ्गैः।
वियातमुग्धैरपि विभ्रमैः सा विलक्षयामास विभूषणानि ।।
12.26 अमुक्तकौमारयुवत्वसीम्ना कान्त्या बभौ कल्पितरागभूम्ना ।
जरत्पलाशप्रसवानुषक्ता प्रतानिनी पल्लवसंपदेव ।।
12.27 प्रसाधनानां परिकर्म दिव्यं विजृम्भणं विभ्रमजालकानाम् ।
वयः शुभं वामदृशश्चकाशे पश्यद्दृशां भाग्यमनन्यभोग्यम् ।।
12.28 अवाप्य सा मुग्धदशामपूर्वामव्याजलीलागतिराबभासे ।
रम्या रमोत्पत्तिदशाविशेषात् जाम्बूनदी जङ्गमपद्मिनीव ।।
12.29 तस्यास्तनुं वर्णयतो ममैवं हीनोपमा दोषपदं न विन्देत् ।
निदर्शनं तैरपि नित्यदृष्टं येषां निकर्षोपि गुणो यतः स्यात् ।
12.30 तारेण तस्याश्चिकुरान्धकारे तारायितं मौक्तिकजालकेन।
प्रायेण योसौ प्रलयावसाने निशीथसृष्टेरभवन्निदानम् ।।
12.31 द्युतिं शिखारत्नसहस्ररश्मेर्ज्योत्स्नां च मुक्ताफलजालजाताम् ।
तत्कुन्तलश्रेणिमयी तमिस्रमैत्रीं दधौ मन्मथचापमौर्वी ।।
12.32 मुखाब्जसौन्दर्यमधुद्विरेफाः कान्त्यापगाशैवलपुञ्जकल्पाः।
शोणेन चूडामणिना ससंध्यां तमीमपुष्यन् अलकास्तदीयाः।।
12.33 शरत्प्रसन्नेन्दुकलाभिरामा ललाटरेखा सुदृशो रराज ।
कामेन तत्कान्तिलतासमृद्ध्यै स्वयं प्रक्लृप्तेव सुधास्रवन्ती ।।
12.34 कस्तूरिकाक्लृप्तविशेषकं तत् पश्यन् मृगाङ्को वदनं मृगाक्ष्याः।
विभाव्य तादृक्परभागशाभां कलङ्कयुक्तोपि जहौ विषादम् ।।
12.35 तारुण्यनद्यास्तनुवीचिकल्पे तद्भ्रूलते शार्ङ्गनिदानदृश्ये ।
अनङ्गवेदप्रणवस्य रत्या लेखाक्षरं न्यस्तमसूचयेताम् ।।
12.36 प्रसूतपद्मोत्पलकाननश्रीः प्रारब्धवीचीविभवा विलासैः।
दृष्टिस्तदीया ददृशे दयार्द्रा द्राघीयसी मन्मथदीर्घिकेव ।।
12.37 तद्दृष्टिरायामवती सुजाता श्यामोज्ज्वला चारुविशालमध्या ।
मन्ये समेष्यन्मधुवैरिलक्ष्या चेतोभुवः शक्तिरभूदमोघा ।।
12.38 निगृह्णती रत्नतिलप्रसूनं नासा तदीया नयनाब्धिसेतुः।
अबोधि निःश्वाससमीरगन्धैरन्तर्गतान् वेदगणान् वमन्ती ।।
12.39 नवेन्दुसंध्याप्रभृतीनि लोके निर्वर्ण्यमानानि निदर्शनानि ।
न खल्वविन्दन् कलयापि तस्याः स्मिताधरव्याप्तिकृतामभिख्याम् ।।
12.40 अहेतु रज्यन् अधरस्तदीयः प्रसूनमुक्तायितमुग्धहासः।
लक्ष्मीलताया ललितोदधेश्च प्रवालयोगं प्रथयां बभूव ।।
12.41 मुखं तदीयं विरराज मुग्धं सौरभ्यलावण्यसमुच्चयेन ।
व्यवस्थितान्योन्यविशेषलोभादेकत्वमापन्नमिवेन्दुपद्मम् ।।
12.42 वर्णानुपूर्वीसुभगेन काले भव्यां श्रुतिं भावयता यथावत् ।
तारस्य संस्थानमिवान्वकार्षीत् कण्ठेन सा काञ्चनकम्बुभासा ।।
12.43 मधुद्विषः कण्ठपरिष्क्रियार्थं कामात्मना माल्यकृतेव क्लृप्ते
बभूवतुर्बाहुलते तदीये शम्पात्विषौ चम्पकमालिके द्वे ।।
12.44 आसीदधिष्ठानविशेषसीमा वक्षोजयोरङ्कुरतोरमुष्याः।
मुकुन्दवक्षस्थलमुद्रणार्हा भव्यामवस्थामिव भावयन्ती ।।
12.45 समावृतौ हारमयूखसूत्रैस्तस्याः स्तनौ चारुतरावभूताम् ।
जिगीषतस्तत्प्रियचित्तवृत्तिं मनोभुवो मङ्गलपूर्णकुम्भौ ।।
12.46 तस्यास्तदा तद्वदलक्ष्यमध्यं तन्व्याः स्तनद्वन्द्वमवाप वृद्धिम् ।
काले यथा तत्प्रथिमप्रभूतं कृच्छ्रादभूत् कृष्णभुजान्तरालम् ।।
12.47 मध्यं क्रशिम्ना विरराज तस्या नाभिह्रदान्नालमिव प्ररूढम् ।
प्रियागमोदर्कमभूत् यदग्रे कुचात्मना काञ्चनपद्मयुग्मम् ।।
12.48 स्तोकानताङ्गी स्तनभारभूम्ना मुग्धा बभौ मुष्टिमितावलग्ना ।
भृङ्गाभिनन्द्येन गुणेन युक्ता कामस्य सा कापि धनुर्लतेव ।।
12.49 रराज लावण्यतरङ्गरम्या वलात्रयी मध्यगता मृगाक्ष्याः।
अन्तःस्थितानामिव दर्शयन्ती निवेशसीमान्तमनुश्रवाणाम् ।।
12.50 मध्येवलग्नं सुदृशो विलग्ना रोमावली कामधनुर्गुणाभा ।
जिगाय नाभीसरसः सुजातामुल्लासिनीमुत्पलरेणुपङ्क्तिम् ।।
12.51 अनुप्रयातः स्ववशामभिख्यां यूथोज्झितो यौवनगन्धहस्ती ।
तद्रोमराजिव्यपदेशदृश्यां नूनं दधौ नूतनदानरेखाम् ।।
12.52 प्रकाशितावर्तरुचिः प्रभाब्धौ नाभिः सुवृत्ता रुरुचे नताङ्ग्याः।
रोमावलीरत्नलतानुरूपं रुक्मेण निष्पन्नमिवालवालम् ।।
12.53 पृथ्वी चकाशे स्तनसंपदस्या लावण्यमम्भो नियतं च तेजः।
श्वासादयो गन्धवहः शुभाङ्ग्याः नाभिश्च मध्यं च नभो विभक्तम् ।।
12.54 गजेन्द्रहस्तादिषु तत्समत्वे दूरे सतां दोषगुणावमर्शः।
भविष्यतः शार्ङ्गभृतस्तदूरू लीलोपधाने किमतोधिकेन ।।
12.55 मनोज्ञवृत्तं मधुबुद्बुदाभं चक्षुष्मतां सादरदर्शनीयम् ।
स्वदेहकान्तेः सविशेषदृष्टौ जानुद्वयं दर्पणतामयासीत् ।।
12.56 उदेष्यतः पञ्चशरस्य तस्यामुत्पादयिष्यन् उचितं निषङ्गम् ।
विधिः स्वयं मातृकया किलार्थी जङ्घायुगं वीक्ष्य जहर्ष तस्याः।।
12.57 कलाचिकां काञ्चनसारक्लृप्तां कान्तेः शुभां कामपि काहलीं च।
शशङ्किरेनन्यसमीक्ष्यशोभां जगन्ति जङ्घामलोक्य तस्याः।।
12.58 अलक्तकादप्यधिकात्मरागा पदद्वयी पद्मदृशश्चकाशे ।
प्राचीनजन्मप्रणयानुरोधात् संभाव्यमानेव सरोजलक्ष्म्या ।।
12.59 पादाम्बुजे दत्तमधुप्रसक्तया निर्णेजयामास नखेन्दुकान्त्या ।
प्रायेण सा सत्पथमाश्रयन्ती पङ्कान् असत्सङ्गभवान् पृथिव्याः।।
12.60 तस्याः पदाम्बोजमृणालभासा प्रकाभूम्ना नखमौक्तिकानाम् ।
प्रकीर्णपुष्पाः सुधया वसिक्ताः विहारभूम्यो युगपद्बभूवुः।।
12.61 तस्याः श्रुतिश्रेणिशिखामणीनां सकेसरा दीधितिभिर्नखानाम् ।
प्रसाधिकालोचनभृङ्गलौल्यं पद्मद्वयी पादमयी निरास ।।
12.62 मुखेन्दुनिष्यन्दनिभैरमुष्याः मन्दस्मितैरिन्दुरवाप्तमान्द्यः।
प्रायः प्रभूताद्भुतकान्तिलोभात् नखात्मना तत्पदमेव भेजे ।।
12.63 अलक्षि देवैरवतारलक्ष्म्यास्तस्याः शुभा पादनखेन्दु पङ्क्तिः।
आगामिकल्पेष्वधिकारलोभात् तारावलिस्तत्पदमाश्रितेव ।।
12.64 यातेन मञ्जीररवैश्च तस्याः प्रायः पराभूतगतिप्रणादाः।
शिक्षाविशेषार्थमिवाधिचक्रुः पादानुवृत्तिं प्रणयेन हंसाः।।
12.65 रराज दिव्यैरधिराजचिह्नैः श्लाघापदं तत्पदमागमानाम् ।
अश्मानमास्थापयता परस्तात् यत् पाणिना विश्वपतेरवाप्यम् ।।
12.66 अतीत्य कृच्छ्रात् समुदायशोभां प्रत्यङ्गसौन्दर्यपरा दिदृक्षा ।
पर्यभ्रमत् प्राप्तविहारडोला पुष्पेषु भृङ्गीव मुहुः सखीनाम् ।।
12.67 शृङ्गायोनेरिव शिल्पविद्यां दिव्यां त्रिलोक्या इव दिष्टवृद्धिम् ।
सीमान्तरेखामिव संपदस्तां जगुः स्त्रियो जङ्गमरत्नसृष्टिम् ।।
12.68 वयस्ययाभीष्टवरानुयोगे सापश्यदात्मानममन्दलज्जा ।
असूचयन्नूनमनेन तस्याः स्वलक्षणं शौरिमनन्यलक्ष्यम् ।।
12.69 अलिप्सत श्वेव हविस्तदैनां दैत्यस्वभावो दमघोषजन्मा ।
तस्मै च कृष्णैकमनोरथां तां रूपाधिकां दातुमियेष रुक्मी ।।
12.70 परस्परं भूषयतः प्रतीकान् औद्वाहिकं मङ्गलमुद्वहन्त्याः।
प्रायः स्वदीप्तेरतिरोधिमिच्छन्त्यावारयन् आभरणानि तस्याः।।
12.71 लावण्यकल्पद्रुममञ्जरीं तां शृङ्गारदिग्वारणवैजयन्तीम् ।
सौन्दर्यदुग्धोदसुधाप्रसूतिं सैरन्ध्रिकाः प्रेक्ष्य मिथः शशंसुः।।
12.72 स्वभावजादभ्यधिकं तदङ्गेष्वासादितं सौरभमङ्गरागैः।
स सर्वगन्धोपि यदन्वयेन प्रभूतमामोदविशेषमृच्छेत् ।।
12.73 व्यामातिरिक्तस्तनकुम्भभूम्ना व्याप्ताकृतिं यौवनकुञ्चरेण।
प्रसाधयन्त्यः पतिदेवतास्तां नाथोचितां प्रेक्ष्य न तृप्तिमापुः।।
12.74 मौलौ सुकेश्याः स्फुटरश्मिजालं मुक्तामयं जालकमाबबन्धुः।
क्रीडोचितं कृष्णमृगं गृहीतुं तेन स्मरो वागुरिकस्तदाभूत् ।।
12.75 मुखेन्दुलावण्यसुधाप्रवाहे मुहुः प्रतीपप्लवनोद्यतेन।
तत्कर्णभूषामकरेण मन्ये मन्दीकृता मन्मथलाञ्छनश्रीः।।
12.76 अनन्यदृष्टिं विततान तामप्यादर्शसंक्रान्तिविशेषदृश्यम् ।
प्रसाधनैः प्राप्तगुणैः प्रतीक्ष्यं तस्या मुखं तामरसायताक्षम् ।।
12.77 मनुष्यताकञ्चुकितात्मभूम्नः काले चकाशे कुचकञ्चुकश्रीः।
रत्नाचले भोगिशयप्रियायाः स्वतल्पनिर्मोक इवावलीनः।।
12.78 अंसावलम्बिन्यसितेक्षणायाः कम्पोज्जवला काचन रत्नमाला ।
अलक्ष्यतोल्लासितरम्यरश्मिः कामार्पिता कान्तिविहारडोला ।।
12.79 प्रभाप्रविहोदितसैकताभे स्तनद्वये तामरसेक्षणायाः।
तत्कंधराशङ्खमतल्लिकायाः प्रसूतिराशङ्क्यत हारवृत्त्या ।।
तत्कन्धराशङ्खत एव मुक्ताप्रसूतिराशंवयत हारवृत्त्या ।।
12.80 अभासतात्मस्मितसौम्यभासा हारेण हृद्येन जगत्प्रतीक्ष्या ।
प्रियस्य चन्द्रं हृदयाद्विधातुः प्राप्तानुसारेव निसर्गशुद्धम् ।।
12.81 रराज मुक्ताभिरवाप्तफेनं रत्नाङ्गदं प्राप्तगुणं तदङ्गे ।
प्रवाहवृत्तेः परिवृत्तिभेदात् महीयसी मण्डलितेव कान्तिः।।
12.82 प्रतिक्रियामात्मतिरस्क्रियायाः प्रायः स्वयं व्यापृतया विधातुम् ।
तदङ्गयोगोज्ज्वलरत्नधाम्ना संछिदितं मेखलयान्तरीयम् ।।
12.83 शिखण्डकानि श्रुतिसुन्दरीणां चारूणि पादाभरणानि तस्याः।
पदेषु संघर्षवशादिवासन् मिथः पुरोभागिपदास्पदानि ।।
12.84 अनुक्षणं बन्धुजनैरमुष्यामामुच्यमानेषु विभूषणेषु ।
अयत्नतस्तानि तदन्तराले कृतास्पदा केवलतात्यशेत।।
12.85 अभिन्नरूपामनुवेलभिन्नात् प्रसाधनादभ्यधिकां प्रसत्तिम् ।
विलोकयन्ती जनता तदीयां व्यावर्तयामास ततो न दृष्टिम्।।
12.86 आदर्शबिम्बेन तदङ्गकान्तेरक्षाम्यता निष्प्रतिमत्ववादम् ।
प्रतिप्रवृत्तिं प्रतिमां विधाय प्रख्यापिता वृत्तवतामपीर्ष्या।।
12.87 निनीषितां देवगृहं ययैतामाकल्पलक्ष्म्या समयोजयन्त ।
मुकुन्दसंस्पर्शमवाप्तुमर्हा सैव स्थिरा धन्यतमा बभूव ।।
12.88 पतिव्रताः पार्थिवयाषितस्तां प्रत्यङ्गसौन्दर्यनिमग्नभावाः।
कृताशिषः कृष्णमनोरथस्थामारोप्य कर्णीरथमन्वगच्छन् ।।
12.89 मङ्गल्यसंगीतसमेतयात्रा मनुष्यदेवीभिरनुद्रुता सा ।
निनंसितैषा स्वयमेव देवी नान्येति सद्भिर्निरणायि नाथा ।।
12.90 भावान्तरेषु प्रतिपन्नलीला पैतामहादीनि पदानि दातुम् ।
स्वदत्तशक्तेः कुहनामनुष्या कुतश्चिदिष्टं स्वयमाशशंसे ।।
12.91 प्रणम्य मूर्ध्ना निहितोपहारामुत्तस्थुषीमुत्सवदेवतैनाम् ।
अवोचगारादशरीरिवाचा परैरजय्यं पतिमाप्नुहीति ।।
12.92 पत्या निजेन परिणीतिमवाप्तुकामा लब्ध्वा वरं ललितमुत्सवदेवतायाः।
तेनैव सा समसमीहितसिद्धिरासीत् मानाधिका जगति मन्मथमन्मथेन ।।
12.93 ऊरुः सव्यो नयनकमलं भ्रूलता चापि तस्याः
प्रावेपन्त प्रियमुपगतं सूचयन्ति स्ववृत्त्या ।
आरादासीदलघुतुलसीगन्धसौम्यः समीरः
प्रत्यासन्नं मुहुरुदचरत् पाञ्चजन्यप्रणादः।।
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये काव्यरत्ने रुक्मिण्यभ्युदयो नाम द्वादशः सर्गः