श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
द्वितीयः सर्गः
2.1 अथागमानामनघेन भूम्ना धर्मस्य पूर्णेन धनागमेन ।
दिवौकसां दर्शयता विभूतिं देवी बभौ दौहृदलक्षणेन ॥
2.2 शृङ्गारवीराद्बुतचित्ररूपं गर्भे त्रिलोकैकनिधिं वहन्त्याः।
परावरक्रीडितकर्बुराणि द्वेधाभवन् दौहृतलक्षणानि ।।
2.3 अशेषवेदैरधिगम्य भूम्ना सिद्धेन सिद्धैश्च निषेवितेन ।
अमानुषी नूनमभूदयत्नात् कृष्णेन केनापि रसायनेन ।।
2.4 शतह्रदाबन्धुरया स्वकान्त्या सञ्चारिजाम्बूनदबिम्बकल्पा।
त्रय्यन्तसिद्धेन रसायनेन कालेन भेजे कलधौतलक्ष्मीम्।।
2.5 मयूरपिञ्छद्युतिभिर्मयूखैस्तत्कान्तिरन्तर्वसतस्त्रिधाम्नः।
श्यामा बहिः मूलसिता बभासे मङ्गल्यरत्नाङ्कुरपालिकेव ।।
2.6 काले बभासे वसुदेवपत्न्याः कर्पूरलिप्तेव कपोलशोभा ।
शशिप्रभा सप्तमगर्भकान्तिः च्युतावसिष्टेव शनैरुदीर्णा ।।
2.7 नवेन्दुनिष्यन्दनिभश्चकाशे वर्णः प्रतीकेषु मधुद्रवाङ्ग्याः.।
अन्तः स्थितेन प्रथमेन पुंसा प्रवर्तितं सत्त्वमिवावदातम् ।।
2.8 करम्बिता किञ्चिदिव प्रसृप्तस्तेजोभिरन्तर्वसतस्त्रिधाम्नः।
मरीचिभिः स्वैरभवत् प्रजानां मङ्गल्यरत्नाङ्कुरपालिकेव ।।
2.9 तस्याः सुधोल्लासजुषः कटाक्षाः संक्षुब्धदुग्धोदधिसौम्यभासः।
जगत्त्रयीसौधविलेपनार्हा वितेनिरे वर्णसुधामपूर्वाम् ।।
2.10 रक्षाविधौ राक्षसदानवानां कारागृहे कंसनियोगभाजाम् ।
संपश्यमाना सकृदीक्षिता वा सङ्क्षोभयामास मनांसि सैषा ।।
2.11 भुक्ता पुरा येन वसुन्धरा सा स विश्वभोक्ता मम गर्भभूतः।
इति ध्रुवं सूचनमाचरन्ती तत्तादृशं नाटितकं ततान ।।
2.12 समाधिसुक्षेत्रकृषीवलानां सन्तोषसस्योदयमेघकान्त्या ।
चकास तस्याः स्तनचूचुकाभा गर्भत्विषा गाढमिवानुलिप्ता ।।
2.13 कस्तूरिकाकाम्यरुचिस्तदीया रम्या बभौ चूचुकरत्नकान्तिः।
तद्गर्भसन्दर्शनलोलुपानामन्तर्दृशामञ्जनकल्पनेव ।।
2.14 परावराणां प्रभवस्य पुंसः प्रकाशकत्वं प्रतिपद्यमानाम् ।
अभावयन् भावितचेतसस्तां विद्यामयीं विश्वपितामहीञ्च ।।
2.15 लिलेख विश्वानि जगन्त्यभिज्ञा लीलाहृते चित्रपटे यथार्हम् ।
प्रायः प्रजानां पतयः प्रतीताः यन्मातृकाः स्वेषु विधिष्वभूवन् ।।
2.16 निराशिषां पद्धतिमाददाना नैःश्रेयसीं नीतिमुपघ्नयम्ती ।
पुण्याशया पूर्वयुगप्ररोहमियेष देवी भुवने विधातुम् ।।
2.17 अनाप्तपूर्वं किमपेक्षितं ते (किं भुक्तपूर्वेष्वधुनोपदद्याम् ।)
किं वोपदद्यामथवाधुनेति ।
वयस्यया(अ)भावविदानुयुक्ता न किञ्चिदित्येव जगाद नाथा ।।
2.18 अनादरे देवि सखीजनानां कथं न दूयेत दया तवेति ।
उपह्वरे संल्लपिता मनोज्ञैरालोकनैरुत्तरमाचचक्षे ।।
2.19 अशेत सा काममजातनिद्रा मातुं प्रवृत्तेव पदानि चक्रे ।
अध्यास्त लोकानवधीरयन्ती भद्रासनं भावितपारमेष्ठ्या ।।
2.20 परिक्रमप्रेक्षितभाषिताद्यैरन्यादृशैराप्तविभावनीयैः ।
मदोपपन्ना मदलालसा वा जि (जा) तश्रमा वेति जनैः शशङ्के ।।
2.21 शेषे शयानां गरुडेन यान्तीं पद्मे निषण्णामधिरत्नपीठम् ।
हयाननैराश्रितवन्दिकृत्यां स्वामाकृतिं स्वप्नदृशा ददर्श ।।
2.22 अन्तःस्थितं यस्य विभोरशेषं जगन्निवासं दधती तमन्तः।
तदात्मनो विश्वमपश्यदन्तस्तर्कातिगं तूदृशमद्भुता नः ।।
2.23 सुरासुराधीश्वरमौलिघातात् विशीर्णजाम्बूनदवेत्रशृङ्गम् ।
आलक्ष्यसंतोषमलक्ष्यमन्यैरनीकनेतारमवैक्षतारात् ।।
2.24 त्रिलोकम(मा)ङ्गल्यनिधेस्त्रिवेद्याः स्जीवनीं वाचमुदीरयन्ती ।
नियोगयोग्यान् अनघप्रसादा नाकौकसां नामभिराजुहाव ।।
2.25 यदृच्छया यादवधर्मपत्नी यामाह धर्मेषु परावपेषु ।
अदृष्टपूर्वापरयापि वाचा प्रतिश्रुता नूनमभावि तस्याः।।
2.26 क्रियानुपादित्सत विश्वगुप्त्या कृतापराधेपि कृपामकार्षीत् ।
मुनीन्द्रवृत्त्या मुखरीभवन्ती मुक्तिक्षमां वक्तुमियेष विद्याम् ।।
2.27 सतां चतुर्वर्गफलप्रसूतौ नारायणे गर्भगते नताङ्गी ।
अभङ्गुरामुन्नतिमाश्रयन्ती सर्वस्य सादित्सत सर्वमेका ।।
2.28 कृशोदरी कार्श्यमतीत्य काले केनापि धाम्ना कृतवृद्धियोगा
परामभिख्यां क्रमशः प्रपेदे ताराभिनन्द्या तनुरैन्दवीव ।।
2.29 निगूढमन्तर्दधता निविष्टं पद्मापरिष्कारमणिं प्रभूतम् ।
मध्येन तस्याः प्रचितेन काले मञ्जूषया रूप्यभुवा बभूवे ।।
2.30 शनैश्शनैस्तामुपचीयमानां दर्शान्तदीप्तामिव चन्द्रलेखाम् ।
अन्तःस्थकृष्णामवलोकयन्तः चक्रुश्चकोरायितमात्मनेत्रैः।।
2.31 मयि स्थिते विश्वगुरौ महीयान् मा भूत् भुवो भार इतीव मत्वा ।
सखीजनानामवलम्ब्य हस्तान् संचारलीलां शनकैश्चकार ।।
2.32 मुकुन्दगर्भा मुकुरेषु देवी नापश्यदात्मानमवाप्तभूषा ।
नाथत्विषा नन्दकदर्पणेनादिदृक्षतात्मानमदृश्यमन्यैः
2.33 स्रजः प्रभूता न शशाक वोढुं दूरे कथा रत्नविभूषणानाम् ।
भविष्यति क्षोणिभरापनोदे प्रत्यायनं प्राथमिकं तदासीत् ।।
2.34 दिवौकसो दवकवंशलक्ष्मीं विलोक्य तां लोकनिधानगर्भाम् ।
विभूतिमग्रेसरवेदवादाः व्याचख्युरस्या विविधप्रकाराम् ।।
2.35 पतिः ससत्त्वामपि तत्प्रभावाददुःखशीलां समये भवित्रीम् ।(आलोक्य देवीम्)
सुखैकतानाम् अवलोक्य देवीं(समये भवित्रीं) स्वसंपदं सूचयतीति मेने ।।
2.36 पितृत्वमासाद्य सुरासुराणां पितामहत्वं प्रतिपत्स्यमानः ।
अनन्तगर्भामवलोक्य देवीमतुष्यदन्येषु गताभिलाषः ।।
2.37 तापोपशान्तिं जगतां दिशन्ती सन्ध्यापरा साधुजनप्रतीक्ष्या ।
तामीदृशीं विश्वपितुः प्रसूतिं संवेदयन्तीव समाजगाम ।।
2.38 सुवर्णपीतांबरवासिनी सा स्वधामसंछादितसूर्यदीप्तिः।
उपासनीया जगतां बभासे मुरद्विषो मूर्तिरिव द्वितीया ।।
2.39 प्रसक्तपातश्चरमाम्बुराशौ रक्तोरुबिम्बो रविरस्तशैलात् ।
दिनान्तनागेव दृढप्रणुन्नं मनश्शिलाशृङ्गमिवाबभासे ।।
2.40 निमज्जता वारिनिधौ सवित्रा को नाम जायेत करग्रहीता ।
तदेति संभावनयैव नूनं (इतीव संभावनयान्तरिक्षे) दूरादुदक्षेपि कराग्रमुच्चैः।।
2.41 स्फुरत्प्रभाकेसरमर्कबिम्बं ममज्ज सिन्धौ मकरन्दताम्रम् ।
सन्ध्याकुमार्या गगनाम्बुराशेः क्रीडाहृतं क्षिप्तमिवारविम्दम् ।।
2.42 फणामणिप्रेक्ष्यखरांशुबिम्बः सन्ध्यासुपर्णीमवलोक्य भीतः ।
तापाधिको वासरपन्नगेन्द्रः प्रायेण पातालबिलं विवेश ।।
2.43 प्रदोषरागारुणसूर्यलक्षात् दिशागजो दृप्त इवातिघोरः।
कालोपनीतं मधुना समेतं अभुङ्क्त मन्ये कबलं पयोधिः ।।
2.44 तदा तमः प्रोषितचन्द्रमूर्ये दोषामुखे दूषितसर्वनेत्रम् ।
वियोगिनां शेकमयस्य वह्नेरासागतो धूम इवान्वभावि ।।
2.45 सतारपुष्पा धृतपल्लवश्रीः प्रच्छायनीरन्ध्रतमःप्रताना ।
विश्वाभिनन्द्या ववृधे तदानीं वैहायसी कापि वसन्तवन्या ।।
2.46 अलक्ष्यत श्यामलमन्तरिक्षं ताराभिरादर्शितमौक्तिकौघम् ।
निवत्स्यतो विश्वपतेरवन्यां कालेन भृत्येन कृतं वितानम् ।।
2.47 अभृङ्गनादप्रतिपन्नमौना निमाषभाजो नियतं (ता) वनस्थाः।
दूरं गते स्वामिनि पुष्करिण्यस्तत्प्राप्तिलाभाय तपो वितेनुः ।।
2.48 निमीलितानां कमलोत्पलानां निष्पन्नसख्यैरिव चक्रवाकैः ।
विमुक्तभोगैर्विदधे विषण्णैर्विबोधवेलावधिको विलापः ।।
2.49 तमिस्रनीलाम्बरसंवृताङ्गी श्यामा बभौ किञ्चिदतीत्य सन्ध्याम्।
प्राचामशैले समयान्निगूढं समुद्यता चन्द्रमिवाभिसर्तुम् ।।
2.50 निशाकरेण प्रतिपन्नसत्त्वा निक्षिप्तदेहेव पयोधितल्पे ।
जगत्समीक्ष्या जहती च कार्श्यं प्राची दिशा पाण्डरतामयासीत् ।।
2.51 तमः प्रसङ्गेन विमुच्यमाना गौरप्रभा गोत्रभिदाभिनन्द्या ।
विधूदयारम्भविशेषदृश्या प्राची दिशाभासत देवकीव ।।
2.52 अपत्यलाभं यदुवीरपत्न्या महोदधौ मग्नसमुत्थितेन ।
तद्वंशमान्येन समीक्ष्य पूर्वं प्राप्तं प्रतीतेन पुरोधसेव ।।
2.53 क्ष्वेलोपमे संतमसे निरस्ता सोमं सुधास्तोममिवोद्वमन्ती ।
दुग्धोदवेलेव दुदोह लक्ष्मीमाशामनोज्ञाममरेन्द्रमान्या ।।
2.54 तमस्समाक्रान्तिवशेन पूर्वं जज्ञे निमग्नैरिव भतधात्र्याम् ।
ततस्तुषारांशुकरावगूढैरुत्तभ्यमानैरिव शैलशृङ्गैः ।।
2.55 दिशस्तदानीमवनीधराणां सगैरिकैः पारदपङ्कलेपैः ।
चकाशिरे चन्द्रमसो मयूखैः पञ्चायुधस्येव शरैः प्रदीप्तैः ।।
2.56 समुन्नमन्ती कुटिलायतात्मा शशाङ्कलेखोदयदृश्यकोटिः।
वियोगिचेतोलवने प्रवीणा कामोद्यता काञ्चनशङ्कुलेव ।।
2.57 तमांसि दुर्वारबलः स कालः प्रायो विलोप्तुं सहसा दिशां च ।
मनांसि कामश्च मनस्वनीनां प्रायुङ्क्त शैत्याधिकमर्धचन्द्रम् ।।
2.58 करेण संकोचितपुष्करेण मदप्रतिच्छन्दकलङ्कभूमा ।
क्षिप्त्वा तमश्शैवलमुन्ममज्ज मग्नो दिशानाग इवेन्दुरब्धेः ।।
2.59 मदेदयाताम्रकपोलभासा शक्रस्य काष्ठा शशिना चकाशे ।
उदेयुषा व्यञ्जयितुं त्रिलोकीं नाथस्य सा नाभिरिवाम्बुजेन ।।
2.60 समीपतः सन्तमसाम्बुराशेः बभार शङ्खाकृतिरिन्दुबिम्बः ।
पित्तोपरागादिव पीतिमानं दोषाविलप्रोषितदृष्टिदत्तात् ।।
2.61 कृशोदरीलोचनकृष्णलक्ष्मा रात्र्याः समिद्धोदयराग इन्दुः।
कस्तूरिकाकुङ्कुमचित्रितात्मा कर्पूरविन्यास इवान्वभावि ।।
2.62 प्रसादमन्तःकरणस्य दाता प्रत्यक्षयन् विश्वमिदं प्रकाशैः ।
तमश्च रागं च विधूय चन्द्रः संमो (सन्मो) दनं सत्त्वमिवोल्ललास।।
2.63 निशाकरो वारिधिनिःस्वनानां निष्पादकः कुन्दरुचिश्चकाशे ।
उदेष्यतश्चक्रभृतो नियोगात् प्रादुर्भवन् प्रागिव पाञ्चजन्यः ।।
2.64 मृगेण निष्पन्नमृगाजिनश्रीः स्वपादविक्षेपमितान्तरिक्षः ।
मुरद्विषो वामनमूर्तिभाजः पर्यायतामन्वगमच्छशाङ्कः ।।
2.65 जिगाय शङ्खाश्रितशैवलाभश्चारुद्युतेश्चन्द्रमसः कलङ्कः ।
उदीयमानस्य महोर्मियोगात् सामिच्युतं सागरमूलपङ्कम्।।
2.66 उदेत्य तुङ्गादुदयात्रिशृङ्गात् तमोगजान् अग्रकरेण निघ्नन् ।
निशाकरस्तन्मदलेपलक्ष्मा सिताभिशुः सिंहदशामयासीत् ।।
2.67 निशीथलक्ष्म्या इव पुण्डरीकं निर्वेशसिन्धोरिव फेनचक्रम् ।
तमन्ववैक्षन्त विलासतन्त्राः तारामणीनामिव सूतिशुक्तिम् ।।
2.68 उदारतारागणबुद्बुदौघश्चन्द्रेण संपन्नसुधाप्रसूतिः ।
अशेषदृश्यामधिगम्य लक्ष्मीमालोकदुग्धोदधिराबभासे ।।
2.69 प्रकाशयन् विश्वमिदं यथावत् चन्द्रोदयोद्दीपितसौम्यतारः।
आसीन्निशीथो जगतः प्रभूतादन्धस्य दैवादिव दृष्टिलाभः।।
2.70 विशोधिताद्विष्णुपदात् क्षरन्ती विष्वङ्मुखी सागरवृद्धिहेतोः(तुः)।
तमोमयीं सूर्यसुतां निगीर्य ज्योत्स्नानदी शोणमपि व्यमुञ्चत् ।।
2.71 प्रियामुखैस्तोयमधु प्रदिष्टं पीत्वा नवं प्रीत इवाम्बुराशिः।
समेत्य चन्द्रद्युतिनर्तकीभिस्तरङ्गितं ताण्डवमाततान ।।
2.72 कलङ्कचित्रीकृतमिन्दुखण्डं तमःसमध्यासितसत्त्वकल्पम् ।
अशुष्कशैवालमिवाबभासे सिद्धापगासैकतमर्धदृश्यम् ।।
2.73 स्वमध्यसंपन्नविशुद्धधामा शयामा च सा देवकनन्दनी च ।
तमः क्षिपन्त्यौ जगतां त्रयाणामन्योन्यसंवादमिवान्वभूताम् ।।
2.74 शाखावकाशेषु कृतप्रवेशैश्चन्द्रातपैराश्रितचारकृत्यः।
हतावशिष्टानि तमांसि हन्तुं स्थानं तदाक्रान्तममृग्यतेव ।।
2.75 पराकृतध्वान्तनिकायपङ्कैः पर्याप्ततारागणफेनपुञ्जैः।
अशोभत द्यौरसमायुधस्य यशःप्रवाहैरिव चन्द्रपादैः ।।
2.76 ददानया दिक्सरितां प्रसादं प्रसक्तहंसागमया स्वकान्त्या ।
अपाकृतध्वान्तघनप्रवृत्त्या शरत्त्विषा चन्द्रिकया चकाशे ।।
2.77 कलावता कामविहारनाट्ये कालोचितं कल्पयतेव नर्म ।
अमोघसायापलितंकरण्यः प्रायो दिशां दीधितयः प्रयुक्ताः।।
2.78 कदम्बमालाभिरधीतलास्यः कल्याणसंभूतिरभूतं प्रजानाम् ।
प्रियोदयस्फीतरुचो रजन्याः संतोषनिःश्वासनिभः समीरः ।।
2.79 प्रायेण हंसैरवधूतसंगा चारुस्मिता संभृतभृङ्गनादा ।
सर्वोपभोग्ये समये प्रसुप्तं कुमुद्वती कोकनदं जहास ।।
2.80 कलङ्कलक्षेण समैक्षि काचित् कस्तूरिकापत्रविशेषकान्तिः।
सुधांशुबिंबव्यपदेशदृश्ये मुग्धे रजन्या मुखपुण्डरीके ।।
2.81 तलेष्ववेपन्त महीरुहाणां छायास्तदा मारुतकम्पितानाम्।
शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः ।।
2.82 तमस्तरङ्दानवसादयन्त्या समेयुषी चन्द्रिकया महत्या ।
शयामा बभौ चान्त्रनवोत्पलश्रीः सुरस्रवन्त्येव कलिन्दकन्या ।।
2.83 स्वविप्रयोगव्यसनान्निपीतं भृङ्गापदेशेन कुमुद्वतीभिः ।
सुधाभिराप्लाव्य करस्थिताभिः प्रच्यावयामास विषं सुधांशुः।
2.84 चकाशिरे पत्रकलासमृद्ध्या व्योमोपमे वारिणि कैरवाणि ।
कलङ्कदृश्यभ्रमराणि काले स्वनथ (नाथेन) साधर्म्यमुपागतानि ।।
2.85 (सरिन्मुखैस्तोयमधु प्रदिष्टं पीत्वा नवं प्रीत इवाम्बुराशिः ।)
सरिन्मुखोपाहृतमम्बुराशिः पीत्वेव तोयं मधु जातहर्षः ।
चकार चन्द्रप्रतिबिम्बितानां करग्रहैः कामपि रासलीलाम् ।।
2.86 प्रसादभाजोरुभयोरभूतामुभावनिर्धार्यमिथोविशेषौ ।
नभःस्थले शीतरुचिः सतारे सकैरवे तत्प्रतिमा च तोये ।।
2.87 नभस्तुषारांशुमयूखयोगात् तमिस्रया मोक्षमविन्दतेव ।
अतृष्यतः(अविद्यया)तत्त्वविदो निशायामन्तर्मुखं चित्तमिवात्मयोगात् ।।
2.88 सहोदिता चन्द्रमसा बभासे ज्योत्स्ना पयोधेरुपजातरागा ।
तदातने संजननेपि शौरेः सहायिनी सागरसंभवेव ।।
2.89 प्रबुद्धताराकुमुदाब्धिचन्द्रे निद्राणनिःशेषजने निशीथे ।
स तादृशो देवपतेः प्रसूतिं पुष्यन् बभौ पुण्यतमो मुहूर्तः।।
2.90 भागेन पूर्वेण तमोमयेन प्रकाशपूर्णेन च पश्चिमेन ।
तदा निशीथः स सतां प्रसत्त्यै संसारमुक्त्योरिव सन्धिरासीत् ।।
2.91 प्रागेव जातेन सितेन धाम्ना मध्योपलक्ष्येण च माधवेन ।
प्रकामपुण्या वसुदेवपत्न्या सम्पन्नसाम्येव निशा बभासे ।।
2.92 सह प्रतिच्छन्दशशाङ्कभेदैः सरस्वतां ताण्डविनस्तरङ्गाः।
अवेक्ष्य शौरेरवतारवेलां सन्तोषनिघ्ना इव संप्रणेदुः ।।
2.93 अवादितोदीरितवाद्यघोषं (तूर्यमादं ) दिशाभिराम्रेडितदिव्यगीतम् ।
सतामुपस्थापितसत्त्वलास्यं सङ्गीतमङ्गल्यमभूत् तदानीम् ।।
2.94 प्रदीपितैः कंसगृहेषु दीपैस्तापैश्च भावेषु तपोधनानाम् ।
अलभ्यत क्षिप्रमलब्धभङ्गैरहेतुनिर्वाणदशानुभूतिः ।।
2.95 अजः स्वजन्मार्हतयानुमेने यामष्टमीं यादवभावमिच्छन् ।
द्वितीयया भावितयोगनिद्रा साभूत् तदानीं प्रथमा तिथीनाम् ।।
2.96 अथ सितरुचिलग्ने सिद्धपञ्चग्रहोच्चे व्यजनयदघानां वैजयन्त्यां जयन्त्याम् ।
निखिलभुवनपद्मक्लेशनिद्रापनुत्त्यै दिनकरमनपायं देवकीपूर्वसन्ध्या ।।
2.97 अवतरति मुकुन्दे संपदामेककन्दे सुरभितहरिदन्तां स्वादुमाध्वीकदिग्धाम् ।
अभजत वसुदेवस्थानमानन्दनिघ्नैरमरमिथुनहस्तैराहितां पुष्पवृष्टिम् ।।
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये श्रीकृष्णावतारवर्णनं नाम द्वितीयः सर्गः ।।