श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
सप्तमः सर्गः
7.1 व्रजौकसो विस्मयमन्थराक्षा बालार्कवर्णं वसनं वसानम् ।
श्यामं युवानं शतपत्रनेत्रं शैलोदितं देवमथोपसेदुः ।।
7.2 यमाहुरन्तर्बहिरप्यलक्ष्यं योगेश्वरं योगिभिरेव दृश्यम् ।
तमद्रिशृङ्गे समुदीक्षमाणा गोपं सतां गोपगणाः प्रणेमुः।।
7.3 स तान् अशेषान् सुधयेव दृष्ट्या प्रहर्षयन् प्रत्ययितप्रसादः।
सरामकृष्णान् सनकादिगम्यः स्वामी सतां स्वागतमन्वयुङ्क्त ।।
7.4 शरत्प्रवृत्त्येव शशाङ्कभासो वाचा हरेर्गोपधियः प्रसन्नाः ।
मिथोविमर्शेः कुमुदैरिवासन् मिषद्भिरासादितनिर्मलाशाः।।
7.5 विधानदक्षा विपिनाश्रयास्ते तदन्यसंराधनवीतसङ्गाः।
तमर्चयामासुरदीनसत्त्वाः संप्रीणनैः शक्रमखोपनीतैः ।।
7.6 अनन्ययोगादयजन्त चैनं कृष्णेन तेनैव कृतानुचाराः।
समेघकैलासनिभैरसंख्यैः सव्यञ्जनैः सादरमन्नकूटैः ।।
7.7 निर्धारितार्थेषु निजोपदेशात् न्यस्तोपहारेषु महीधरार्थम् ।
अर्च्यत्वमाचार्यकमप्ययासीत् गोपेषु कृष्णो भुवनेषु गोप्ता ।।
7.8 उपाहरन् यानि सभाजनार्थं बलद्विषो वल्लववंशवृद्धाः।
परेण पुंसा परिगृह्यमाणैः प्राप्तं फलं पुष्पफलादिभिस्तैः।।
7.9 मृत्युपसिक्तैर्भुवनैरशेषैरनन्यदत्तैरपि हव्यकव्यैः ।
अलब्धपूर्वामभजत् तदानीं गोपाहृतैः प्रीतिमशेषगोप्ता।।
7.10 विधिप्रयुक्ते हविषि प्रभूते संभुज्यमाने हरिणा समक्षम् ।
अनागमश्रान्तधियोपि तत्र श्रद्धामविन्दन्त समग्रतोषाः।।
7.11 अमृष्यमाणो विहतां स्वपूजामक्ष्णां सहस्रेण तदा महेन्द्रः।
अनेहसं रक्तशिलीन्ध्रजालैराकालिकैरञ्चितमन्वकार्षीत् ।।
7.12 अवञ्चितान्यूनपयः प्रदानान् आराधकान् कालमियन्तमिन्द्रः।
आहारकर्षादभिहन्तुमैच्छत्कृतानभिज्ञेषु किमानृशंस्यम् ।।
7.13 अथाजुहाव प्रतिघानुषङ्गात् घोराशयो घोषविमर्दकाङ्क्षी ।
समेष्यतां संभवमर्णवानां संवर्तकं नाम गणं घनानाम् ।।
7.14 प्रदीपितान् कोपहुताशभूम्ना पीतोदधान् वारिधरायुधौघान् ।
मरुद्भुजेन त्वरितं मरुत्वान् प्रायुङ्क्त घोषाभिमुखं सघोषान् ।।
7.15 प्रकल्पयन्तः परिवेषचक्रं बृन्दावने विह्वलगोपबृन्दे ।
समीरनुन्नाः सहसा पयोदाः शक्रस्य ते शासनमन्वतिष्ठन् ।।
7.16 तटित्सहस्रेण विदीप्तनेत्रः समेतवज्रो धृतचित्रचापः।
अतर्क्यतेन्द्रः स्वयमभ्रवाहः कालात्मना भूमिकयेव खेलन् ।।
7.17 असूयता वज्रभृता प्रयुक्तामाकालिकीं प्रावृषमादिदेवः।
आशानिरोधं जगतां दिशन्तीं निरोद्धुमैच्छन्निजया न शक्त्या ।।
7.18 वियत्पयोधिं परितः पयोदैर्वेलातमालैरिव वर्धमानैः।
जिघांसता गोपगणान् मघोना च्छन्नेन तस्थे मृगयार्थिनेव ।।
7.19 अदृशयरूपः स तदा मरुत्वान् अम्भोमुचामन्तरतोवतस्थे ।
अपारयन् द्रष्टुमिव त्रिधाम्नो दीप्तिं दिवाभीत इवातिसुर्याम् ।।
7.20 अमर्षवेगादचमत्क्रियोत्थात् जिघृक्षता वज्रमकुण्ठवीर्यम् ।
अलक्षि जीमूतरथे मघोना मोघक्रियो मुक्त इवेन्द्रचापः।।
7.21 सुतीव्रहुंकारभृतो निनादैः सौदामनीदर्शिततर्जनीकाः।
मरुत्वदाज्ञाविमुखान् अभीक्ष्णं निर्भर्त्सयामासुरिवाम्बुवाहाः।।
7.22 क्षणप्रभास्तत्क्षणमन्तरिक्षे प्रायेण गोपान् ग्रसितुं प्रवृत्ताः।
बभासिरे वासवरोषवह्नेर्ज्वालाग्रजिह्वा इव जातलौल्याः ।।
7.23 किमन्तरिक्षेण घनीबभूवे किमुत्थितं ध्वान्तमहीन्द्रलोकात्।
मूलं किमेतत् प्रलयार्णवानामितीव मेने मलिनाभ्रमाला ।।
7.24 व्रजोपमर्दं समयो विधास्यन् बभार नम्रेण पयोदमूर्ध्ना।
महीयसीं वासवचापलेखां मायाप्रदिष्टामिव माल्यशेषाम् ।।
7.25 कठोरगरिजापटहप्रणादः करप्रसूनैरवकीर्य पृथ्वीम् ।
क्षणप्रभाभिर्घटिताङ्गहारः कालः प्रतुष्टाव युगान्तनृत्तम् ।।
7.26 प्रणुद्यमानाः प्रबलैः समीरैराप्लावयामासुरमन्दघोषाः।
महीमपर्यायनिपीतमुक्तैचौदन्वतैरम्बुभिरम्बुवाहाः।।
7.27 अङ्गाररूक्षस्तनयित्नुपूर्णात् ऐरम्मदे तेजसि तप्यमानात् ।
विहायसो नूनमभूद्विलीनात् विष्वङ्मुखी वृष्टिरवारणीया ।।
07.28
प्रदीप्तविद्युद्गणदुर्निरीक्षान् सोढुं व्रजाः श्रोत्रविघातिघोषान् ।
न शेकुरावर्जितशक्रचापान् धाराशरश्रेणिमुचः पयोदान् ।।
7.29 संहुंकृता सामिनिमीलिताक्षा दीर्घोरुशृङ्गा दरभुग्नवक्त्राः।
प्रत्यग्रहीषुः प्रतिपन्नरोषा धाराः क्षणं धैर्यभृतो महोक्षाः।।
7.30 स्तनाहितस्वस्तिकबाहुबन्धाः स्त्यानालकाः संनतवक्त्रपद्माः।
विलग्नदेहा वसनैर्न्यषीदन् व्रजस्त्रियो वादितदन्तवीणाः ।।
7.31 चलद्धलाकोल्बणशङ्खमाला पयोधरव्यक्तिधरोर्मिहारा ।
प्रावृट्पुनः संववृते तिघोरा संवर्तसिन्धोरिव धर्मपत्नी ।।
7.32 गम्भीरगर्जापटहप्रणादं प्रारब्धझञ्झानिलनादगीतम् ।
तडिद्भिरापादितताण्डवं तत् कालस्य संगीतमपूर्वमासीत् ।।
7.33 विद्युद्गुणैः संदितया समन्तात् व्रजे मरुत्वान् मृगयामिवेच्छन्।
समावृणोत् सान्द्रतमिस्रधाम्ना मेघात्मना वागुरया वनाद्रीन्।
7.34 आसारधाराच्छुरितेन्द्रचापैर्मेघैर्दिशा माघवती चकाशे ।
आमुक्तमुक्तागुणरत्नदामैः सिन्धोरपत्यैरिव धीरनादैः।।
7.35 हुंकारवन्तः स्तनितैरुदारैः क्षणप्रभाकाञ्चनवेत्रभाजः।
पुरन्दरस्येव पुरःसरास्ते प्रचेरुरुत्सारितगोपवर्गाः।।
07.36
प्रकृष्टवज्रायुघचापचिह्नां पौरस्त्यवातेन कृतप्रकम्पाम् ।
कालस्य कृष्णामिव केतुमालां कादम्बिनीं प्रेक्ष्य जनश्चकम्पे ।।
7.37 पयोमुचां पङ्क्तिरसह्यधारा भूभृद्गणान् भेत्तुमिव प्रवृत्ता ।
विडम्बयामास निशेषभीमां कृतान्तकोपोल्लसितां कृपाणीम् ।।
7.38 पयोदभारैर्नमितं नभः किं शेषाहिना भूमिरुत प्रणुन्ना ।
अदूरतः संपुटभावभाजोरासीत् तयोरन्तरमल्पशेषम् ।।
7.39 प्रायः प्रकीर्णाशनिविष्फुलिङ्गैर्लोकास्तदा लोचनरोधमापुः ।
पयोदरूपेण विवर्तमानैः पर्जन्यकोपानलधूमजालैः ।।
7.40 अलातकल्पाः करकास्त्रिलोकामापूरयन् अद्भुतभीमरूपाः।
युगान्तवात्यारभसावधूताः संभूय तारा इव संपतन्त्यः।।
7.41 चकासचञ्चत्करकास्थिमाला कादम्बिनीकण्टकभीषणा द्यौः।
वज्रौघनिष्पेषमहाट्टहासा मूर्तिस्तदा मोहकरीव रौद्री ।।
7.42 शतह्रदाभिर्धृतहेमकक्ष्या धाराधराः सेन्द्रधनुष्पताकाः ।
अदभ्रघोषध्वनयोनुचक्रुः सप्तस्रुतां शक्रमतङ्गजानाम् ।।
7.43 अहीन्द्रभोगप्रतिमाः पतन्त्यो धारास्तदा घोरमरुत्प्रणुन्नाः।
अभावयन् भीमपयोदनक्रं व्योमार्णवं वीचिगणावकीर्णम् ।।
7.44 आसारदुर्लक्षतडित्प्रकाशमन्योन्यसंकीर्णहरिद्विभागम् ।
आसीदसह्यस्तनितं प्रजानामभिन्ननक्तंदिवमन्तरिक्षम् ।।
7.45 तडित्स्वभावेन तमःप्रकृत्या निर्ह्रादरूपेण जलात्मना च ।
विवर्तते विश्वमितीव गोपाः प्रायो न चिन्तार्णवपारमापुः।।
7.46 प्रवर्तमानान् प्रतिसर्गक्लृप्तौ पश्यन् घनान् पाशभृताप्यवार्यान् ।
अभीतिमुद्रामधुरेण गोपान् आश्वासयामास करेण शौरिः ।।
7.47 यदर्चनादापदियं प्रसक्ता तेनैव गोपालगणस्य गुप्तिम् ।
अरोचयत् कर्तुमशेषगोप्ता रामेण संमन्त्र्य रथाङ्गपाणिः ।।
7.48 स लीलया मेरुमिव द्वितीयं गोवर्धनं गोपकुलप्रदीपः।
नवप्ररूढं निहितैकहस्तो नागो नलस्तम्बमिवोज्जहार ।।
7.49 अधोमुखावस्थितमेरुकल्पं शैलं तमुत्खाय शरण्यगोपः।
उदञ्चयन् सत्वरमूर्ध्वमूलं चक्रे महेन्द्रं शमितार्धगर्वम् ।।
7.50 फणाभिरामप्रसृताङ्गुलीकः प्रियाङ्गरागव्यतिषङ्गपाण्डुः।
भुजस्तदीये गिरिणा बभासे भूमण्डलेनेव भुजङ्गराजः।।
7.51 आ(अ)भुग्नरक्ताङ्गुलिपञ्जरं तत् रत्नोर्मिकारश्मिशलाकमन्तः।
नवोदकक्षौमवृतं व्यभासीच्छत्रप्रकाण्डं हरिबाहुदण्डे ।।
7.52 विहारपद्मस्पृहयेव कृष्णो भुजाद्रिणा भूमिधरं दधानः।
स्वशेषभूतस्य हलायुधस्य प्राचीमवस्थां प्रथयांबभुव ।।
7.53 निवासभूते निखिलस्य तस्मिन् बालाकृतौ बिभ्रति शैलमेकम् ।
सविस्मयान् वीक्ष्य जहास गोपान् संप्रीतिलक्ष्येण तदग्रजन्मा ।।
7.54 स कालिकाकालकृपाणिकानां धाराशतैराहतसंधिबन्धः।
अवासृजत् क्षिप्रतरं क्षरद्भिर्धातुद्रवैर्नूनमसृञ्जि शैलः ।।
7.55 सगैरिकस्तस्य गिरेः समन्तात् विलम्बितो वर्षपयःप्रवाहः ।
वितानपर्तन्तजुषो वितेने विडम्बनां वर्णतिरस्करिण्याः।।
7.56 इरंमदार्चिर्व्यतिषङ्गदीप्तः पाणौ हरेरद्रिपतिश्चकाशे ।
प्रत्यस्त्रमिन्द्रेण मुमुक्षितानां प्रयुक्तमुत्खात इवाशनीनाम् ।।
7.57 स बाहुदण्डेन वहन् सलीलं प्रवालकल्पाङ्गुलिपञ्जरेण ।
महीधरच्छत्रमनन्यवाह्यं मायामयीं व्याकुरुतेव लीलाम् ।।
7.58 करालरूक्षाकृतिवर्णभेदान् कालाग्निनिर्वापणकल्यवृत्तीन् ।
रुरोध शैलीकृतया स्वशक्त्या प्रायो घनान् पर्वतकूटकल्पान् ।।
7.59 पृथ्व्या यथावद्भरितं गिरेस्तन्मूलं निवासाय गवां बभूव ।
ग्रासानुभावाग्रहणार्हमासीदग्रं च तस्यानतिविप्रकृष्टम् ।।
7.60 उदञ्चितस्याद्रिपतेरुपान्ते पयः प्रवाहा निबिडं पतन्तः ।
अतन्वत स्फाटिकवप्रशोभामन्तर्गतैरस्तभयैरवेक्ष्याम् ।।
7.61 अलब्धसूर्येन्दुकरप्रवेशे मूले गिरेरावसतां जनानाम् ।
स्वलोचनद्वंद्वविहारभेदात् नक्तंदिनान्यातनुते स्म नाथः।।
7.62 मुकुन्दगात्रं मणिदर्पणाभं छायापदेशेन विगाहमानैः।
सगोधनैस्तत्र सुरेन्द्रभीत्या गोपैस्तदा गूढमिवावतस्थे ।।
7.63 बिभर्ति कृष्णः सुकुमारगात्रः क्षमाधरं तेन विभावयामः।
तदग्रजोसौ बिभृयादशेषां बलः क्षमामित्यवदन् व्रजस्थाः ।
7.64 बभुः स्वशाखाग्रथिताग्रपादैस्तपोधनैः साकमधःशिरोभिः।
कृताभिमुख्याः कृतिनो मुकुन्दे तपःप्रवृत्ता इव तत्र वृक्षाः।।
7.65 अधोमुखस्याद्रिपतेस्तृणानि स्पृष्ट्वा मुकुन्देन निदर्शितानि ।
जातस्पृहा जग्रसिरे सहर्षं गावस्तदा किंचिदिवोन्नमन्त्यः।।
7.66 मणिप्रदीपैरतमांसि गोप्यः प्रविश्य रम्याणि गुहागृहाणि ।
अस्पृष्टशीतोष्णमयत्नलब्धं स्वस्थाशयाः स्वर्गमिवान्वभूवन् ।।
7.67 यथापुरं तत्र सपुत्रदारैरच्छिन्नगोदोहनमन्थनाद्यैः।
स्वप्नावबोधप्रभृतीनि गोपैः सिषेविरे विस्मृतपूर्ववासैः।।
7.68 अस्पृष्टधाराजलबिन्दुसेकैरकम्पमानैरपदन्तवीणैः।
गोपीजनैरादधिरे विहारा गिरीन्द्रमूले गृहनिर्विशेषम् ।।
7.69 वनेचरा गोपगणैः समेता विमुक्तपर्जन्यभया विचेरुः।
महीधरच्छत्रधरे मुकुन्दे वन्यानि सत्त्वानि च तत्र गोभिः।।
7.70 प्रभूतधाराप्रतिपन्नशैत्यं प्राप्तारमद्रिं प्रभुरद्भुतानाम् ।
सुदर्शनादप्यधिकामनैषीत् पवित्रतां पाणिसरोजयोगात् ।।
7.71 मुकुन्दहस्ताम्बुरुहाधिरोहात् प्राप्तः श्रियं मेरुमुखैरलभ्याम् ।
वर्षापदेशेन गिरिः स लेभे नगाधिपत्यार्हमिवाभिषेकम् ।।
7.72 मदोल्बणानामिव वल्लवीनां गीतं गणैः शौरिगुणानुबन्धम् ।
गुहाविशेषैर्ध्रुवमन्ववादीत् गोवर्धनो गोपगणाभिनन्द्यः ।।
7.73 कराग्रयन्त्रे घटितेन कृष्णः सवारिणा सानुमताभिगुप्तान् ।
अलम्भयत् गोपगणान् सदारान् धारागृहाभ्यन्तरवाससौख्यम् ।।
7.74 अचिन्त्यशक्तेरकुमारयूनः कौमारलीलाकवचेन गुप्तम् ।
बलं तदग्राङ्गुलिसंश्रिताद्रेस्तावत्परिच्छिन्नमबोधि गोपैः ।।
7.75 निमेषनिष्ठ्यूतयुगानि यासां येभ्यो निरोधव्यसनान्यभूवन् ।
तासां स तैः सार्धमभूत् समीक्ष्यो वामभ्रुवां वल्लवयूथनाथः।।
7.76 कृतार्थभावं भृशमादधाने कृष्णाङ्गसंस्पर्शविलोकनादौ ।
अयन्त्रिताभिश्चिरमाशशंसे वर्षानुवृत्तिर्व्रजसुन्दरीभिः ।।
7.77 धारानिपातैः स्तनतां घनानामक्षप्रमाणैरभिहन्यमानः।
आकस्मिकीमन्वभवत् स शैलो वज्रव्यथां वासवरोषजाताम् ।।
7.78 तमेकहस्ताङ्गुलियन्त्रलग्नं धाराहतं धारयतस्त्रिधाम्नः ।
अमुक्तबाल्यस्य समग्रशक्तेः क्षणार्धवत् सप्त दिनान्यतीयुः ।।
7.79 स तादृशांस्तोयभृतो युगान्ते श्वासानिलैः शोषयितुं क्षमोपि ।
महेन्द्रदर्पात्ययमात्रकाङ्क्षी प्रख्यापयामास गिरेः प्रभावम् ।।
7.80 एकत्र संरक्षति कृष्णमेघे गोत्रेण चैकेन गवां कुलानि ।
अशेषगोत्रौघभिदा नियुक्तैर्मेघायुतैर्मोघतमैर्बभूवे ।।
7.81 व्रजोपमर्दे वितथे सुरेन्द्रः स्वयंवृतोपत्रपया भिया च ।
दुनोति मामिन्द्रपदं दुरन्तं किंपौरुषं केवलमित्यदुःख्यत् ।।
7.82 निवृत्तरोषे निभृतेपि शक्रे संदर्शितस्वामिनिदेशसङ्गाः।
ववर्षुरुग्रां मुहुरश्मवृष्टिं वैरोपपन्ना इव वारिवाहाः।।
7.83 निवार्य दुर्वारजवान् पयोदान् नाथं सतां नन्दसुतं प्रपित्सुः।
करम्बितप्रीतिभयः क्षणार्धं व्यक्तिं भजन् व्योमतलेवतस्थे ।।
7.84 क्रमेण पृथ्वीमभिगन्तुकामः श्वेताभ्रपर्यायगजाधिरूढः ।
विलोचनव्यञ्जितपद्मसंपत् वर्षात्ययो मूर्त इवावभासे ।।
7.85 पुनः प्रसन्नां पुरुहूतदान्त्या पश्यन् दिवं प्राणभृतामधीशः।
तमद्रिमव्याहतदिव्यलीलः संतोलयामाय निवेशयिष्यन् ।।
7.86 विलक्षवृत्त्यै(त्ये)व तिरोहितेषु मेघेषु विश्रान्तविकत्थनेषु ।
स्थाने निवेशादचलीचकार च्छत्राचलं शौरिरखिन्नबाहुः।।
7.87 उत्क्षिप्यमाणः परिवर्त्यमानः संस्थाप्यमानोपि तथैव भूयः।
स तस्य संकल्पवशेन भेजे शैलो न शैथिल्यकथाप्रसङ्गम् ।।
7.88 व्यपेतशैलव्यवधानदृश्यो विभूषितः स्वेदकणैः स बालः।
दिशद्भिरामोदमभौमभोग्यं दिव्यैरवाकीर्यत पुष्पवर्षैः।।
7.89 निवेश्य कृष्णं शकटीरथाग्रे नाथोपचारैरुपसेदिवांसः।
सगोधनाः स्वं व्रजमाव्रजन्तः संगीतलीलामभजन्त गोपाः।।
7.90 कच्चिन्न खिन्नोसि वहन् गिरीन्द्रं कच्चिन्न विम्लायति पाणिपद्मम्।
इति ब्रुवाणाः सुहृदो मुकुन्दं पर्याकुलाः पस्पृशुरङ्गमङ्गम् ।।
7.91 अथावतीर्य स्वयमन्तरिक्षादनुज्झितैरावतदानवर्षात् ।
विलक्षचित्तो वसुदेवसूनुं वल्गुस्मितं वज्रभृदाससाद ।।
7.92 पुरोदधानः सुरभिं प्रतीक्ष्यामाजग्मुषीमात्मभुवो नियोगात् ।
अपत्रपागद्गदमाबभाषे बद्ध्वाञ्जलिं बालमुपेन्द्रमिन्द्रः।।
7.93 नाथ त्वया नर्मविहारभाजा विमोहितो विप्रतिसारितश्च।
अकिंचनस्त्वामहमाश्रितः सन् क्षिप्तापकारो न बहिष्क्रियार्हः।।
7.94 कृतापराधेष्वपि सानुकम्पं क्षेमं करं क्षेत्रविवेचकानाम् ।
विश्वोपकाराध्वरबद्धदीक्षं वेद्यं परं वेदविदो विदुस्त्वाम् (वदन्ति)।।
7.95 निगृह्णतस्ते सृजतश्च वर्षं निमित्तभावे निहितैस्त्वयैव ।
प्रवर्त(र्त्य)ते निष्प्रतिघो विहारः स्वयं प्रयुक्तैरिव यन्त्रभेदैः।।
7.96 अनन्यसाधारणपारमेष्ठ्यात् अन्यान् अशेषान् अतिसंदधानात् ।
गोपायितुं पारयति त्रिलोकीं गोपायमानादपि न त्वदन्यः ।।
7.97 व्रजौकसां नाथ दिवौकसां वा विपत्प्रसङ्गे विहितावतारः।
एकस्त्वमेव स्वयमीप्सितानां दयासहायो नियमेन दाता ।।
7.98 स्वरूपतो विग्रहतश्च विश्वं नित्यं त्वयैकेन धृतं यदेतत् ।
तदेकदेशोद्वहनादमुष्मात् न विस्मयं तत्त्वविदो भजन्ति ।।
7.99 प्रयोजितोहं त्वयि भक्तिबन्धात् गोभिः स्वलोकादुपसेदुषीभिः।
इच्छामि संरक्षितगोव्रजं त्वां स्थाने गवामिन्द्रतयाभिषेक्तुम् ।।
7.100 तिरोहितामम्भसि विन्दता गां पूर्वं त्वया पोत्रिवरेण लब्धा ।
निरुक्तनिष्णातकृताभ्यनुज्ञा व्यक्तिं पुनर्यातु शुभा त्वदाख्या ।।
7.101 उपेन्द्रभूताद्भवतोपि भूम्ना मान्यो मनुष्याभिनयं मया त्वम् ।
अभ्यर्थनामादरतस्तदेनां प्रतीच्छ विश्वंभर विश्वभूत्यै ।।
7.102 इति ब्रुवाणो मघवान् धृताद्रेः श्रान्तिं जगद्धातुरिवापनेष्यन् ।
ध्यातोपयातां त्रिदशप्रणेता दिव्यापगां दर्शयति स्म देवीम् ।।
7.103 अभौमगङ्गापयसा प्रपूर्णामावर्जयन् वारणराजघण्टाम् ।
अशेषसाम्राज्यपदाभिषिक्तं गुप्त्यै गवां गोत्रभिदभ्यषिञ्चत् ।।
7.104 तदङ्गसंस्पर्शवशेन धन्यैराप्लाव्यमानामभिषेकतोयैः।
अपेतभारामिव भूतधात्रीमुल्लाघितां प्रैक्षत नाकनाथः।।
7.105 कृताभिषेकः कृतिना मघोना गुप्तेन गोविन्द इति स्वनाम्ना ।
कृतप्रसादः प्रजिघाय कृष्णः स्वर्गाधिरोहाय पुनः सुरेन्द्रम् ।।
7.106 प्रतिगतवति यूथे पुष्कलावर्तकानां
दिवि भुवि च नियत्या दीर्घनिद्रोज्झितानाम् ।
गुणगरिमसमृद्धं गोकुलं वीक्ष्य तुष्यन्
गुरुभिरभिनियुक्तामाशिषं प्रत्यगृह्णात् ।।
7.107 मुकुलितरविधाम्ना देहदीप्त्यैव मुष्णन्
जलदकदनजातं जीवलोकस्य जाड्यम् ।
व्यचरदचलभा(भो)गे चारयन् धेनुचक्रं
पिशुनितनिजमायां भूषयन् पिञ्छमालाम् ।।
7.108 प्रणिहितमधिरोहन् प्रागिवाद्रिं पृथिव्याम्
अवमतपुरुहूतैरर्चितो गोपवृन्दैः।
व्रजपतिरुपसीदन् बालयोग्यान् विहारान्
वनचर(भव)परिबर्हो वत्सपालैः सिषेवे ।।
7.109 नाथः सोयं शिशुरपि सतां नन्दगोपस्य सूनुः
प्रायः शैलः प्रतिनिधिरसौ पद्मनाभस्य पुंसः।
किं नः साध्यं सुरपतिमुखैः किंपचानैस्तदन्यैः
साकं दारैरिति किल जगुस्तत्र संभूय गोपाः ।।
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये गोवर्धनधारणं नाम सप्तमः सर्गः ।