श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
नवमः सर्गः
9.1 अथ भोजपतिर्जगत्पतेरवतारं भुवि नारदान्मुनेः।
श्रुतवान् अतिदेवदानवं व्यथया पीतविषोपमोभवत् ।।
9.2 निहता पृथुकेन पूतना शकटं तत् परिवर्तितं महत् ।
ककुभद्वितयं निपातितं प्रहितः क्वापि निपीड्य कालियः।।
9.3 स च गोमुखवर्धनो दधे गमितः क्षोदमरिष्टपर्वतः।
प्रथितश्च बलः प्रलम्बजित् निधनं धेनुकदानवो गतः।।
9.4 दवहव्यवहश्च जग्रसे विषधृत् विन्ध्यसमो विदारितः।
इति वाम विजृम्भणो रिपोरलमेकैकमलङ्घ्यतास्थिते ।।
9.5 बहुभिः किमिह प्रतर्कितैर्बलिनः स्रोतसि धावतो विधेः।
यदतीतमतीतमेव तत् करणीयं पुनरायतिक्षमम् ।।
9.6 इति विप्रतिसारविह्वलः स्वयमुत्थापितमृत्युचोदितः।
प्रतिहन्तुमियेष चक्रिणं शलभो दीप्तमिवाशुशुक्षणिम् ।।
9.7 दिवसान्तदिवाकरोपमः श्वसितान्दोलितजीवितस्थितिः।
भयविस्मयरोषकर्बुरः स शिरःकम्पमवर्तयत् क्षणम् ।।
9.8 स च दानपतिं समादिशत् भवतो जीवतु भद्र सौहृदम् ।
अजितेन जिघांसितस्य मे भज साहायकमात्मरक्षणे ।।
9.9 अतिमानुषचेष्टितः स्वयं मधुजिन्मानुषभूमिकां वहन् ।
असुरानभिहन्तुमीहते दमनीयोयमरूढयौवनः।।
9.10 अविचारितमाशु गम्यतामधिनन्दावसथं विहारिणौ ।
बलदेवजनार्दनौ बलादुपनेयौ भवता छलेन वा ।।
9.11 सह नन्दमुखैरशङ्कितं करदानव्यपदेशवञ्चितैः।
अपरेद्युरिहोपसर्प्यतामसुरध्वंसकृदग्रजान्वितः।।
9.12 इति वायमुदीर्य दुर्मतिः स्ववधोपात्तकृपाणिकोपमाम् ।
सपदि प्रजिघाय केशिनं मधुजित्पीडनलोभमोहितः।।
9.13 स च वाजिमहासुरश्चरन् अनुबृन्दावनमद्रिसंनिभः।
समहेषत संमुखं प्रभोरशनिध्वानभयानकध्वनिः।।
9.14 कुलिशोपमदन्तपङ्क्तिकं कुटिलप्रेक्षितजातविद्युतम् ।
खुरखण्डितभूमिमण्डलं ज्वलदङ्गस्फुटविष्फुलिङ्गकम् ।।
9.15 वडवामुखवह्निदारुणं विपुलावर्तविशेषचित्रितम् ।
धृतसिन्धुतरङ्गताण्डवं मुखनिष्कासितफेनसंप्लवम् ।।
9.16 क्षितिभेदकृतक्षणैः खुरैः पटुधीरध्वनिनिर्जिताम्बुदैः।
विदधानमशेषघातिनः शमनस्येव मृदङ्गवादनम् ।।
9.17 धृतवालधिधुमसंहतिं चटुलोल्काशतचण्डकेसरम् ।
ग्रसितुं क्षममम्बुधीन् क्षणात् अनुकल्पाश्रितकल्प(चण्ड)पावकम् ।।
9.18 गरुडानिलचित्तरंहसं गतदूरान्तिकमक्रमैः क्रमैः।
मुहुरुत्प्लुतिभिन्नभास्करं निबिडास्यूतपयोदकेसरम् ।।
9.19 भ्रमणे कृतसालमण्डलं क्रमणे दिक्षु विदिक्षु च स्थितम् ।
नटवृत्तिमिवाशुनर्तने कलिताकाशमिवाङ्गधूनने ।।
9.20 मधुजिद्वहनक्षमात्मना दरनिर्भुग्नफणेन भोगिना ।
मुहुरुन्नमितामयत्नतो नमयन्तं निजभारतः क्षितिम् ।।
9.21 अचलक्षितिसंधिभेदनैरनिलस्कन्धविभागभञ्जकैः।
बधिरीकृतनिर्जरश्रुतिं बहुभिः संभ्रमहेषितोर्मिभिः।।
9.22 द्विरदायुतसारदुर्दमं द्रुतविद्रावितदिङ्मतङ्गजम् ।
असुरादिभिरप्यनास्थितं सुरसेनापरभागदर्शिनम् ।।
9.23 प्रतिकायमिवासुरश्रियः प्रथमाकल्पमिवान्तकभ्रुवः।
परिवर्तमिवामरश्रियः प्रतिघस्येव महोत्सवं नवम् ।।
9.24 उपमानमिवात्मनः स्वयं प्रतिमानेपि समे समत्सरम् ।
अवलेपमिवात्तविग्रहं द्विषदुत्पातमिव द्रुतोदितम् ।।
9.25 अचमत्कृतपञ्चवक्त्रकं कृतमन्यैरिह दुष्टसत्त्वकैः।
अपसर्पितगोकुलं भयात् अभिलीनस्थलगोपयूथपम् ।।
9.26 अवमत्य तुरङ्गदानवं शमयन् गोपगणस्य साध्वसम् ।
प्रजहास हरिः प्रतिद्रवन् प्रसभास्फोटितभावितोद्यमः।।
9.27 विवृतायतवक्त्रकन्दरं प्रतिधावन्तमिवान्तकं प्रभुः ।
भुजसानुमतः प्रवेशनादगमं वज्र इव व्यदारयत् ।।
9.28 क्रकचक्षतदारुभेदवत् समपादाक्षिललाटनासिके ।
ददतुः क्षितिकम्पमाघ्नती शकले सैन्धवदानवस्य ते ।।
9.29 विशरारुभिरस्य विश्वतः कलधौताचलखण्डपाण्डरैः।
वितता पृथिवी विदिद्युते विबुधप्रीतिलताङ्कुरैरिव ।।
9.30 तदनाधि विभूतिबन्धुरं विगतव्याधि कुलं व्रजौकसाम् ।
दमितारिगणेन दीव्यता यदुनाथेन सनाथतां ययौ ।।
9.31 त्वरितं च तदा श्वफल्कजः स्वहितं कंसनियोगमास्थितः।
दनुजान्तकदर्शनोत्सवस्थिरसंप्रीतिरिति व्यचिन्तयत् ।।
09.32
अपि नाम निशामयिष्यते निगमान्तैरिव निर्मिता स्थली ।
रमयिष्यामि चत्र मे दृशौ रसभूमा रमणीयमातृका ।।
9.33 भवदुर्गतदिव्यभेषजैः प्रचितां तत्पदपद्मरेणुभिः।
प्रणिपत्य शुभां वनस्थलीं परिपूतो भविताह(य)मप्युत ।।
9.34 रसमप्रतिमं रसायनं रमया च क्षमया च सेवितम् ।
नयने मम किं नु पास्यतो नरकातङ्कनिदानभेदनम् ।।
9.35 अपि शङ्खरथाङ्गतोरणध्वजवज्राङ्कुशमत्स्यलाञ्छनम् ।
विनिवेशयताद्विभुः स मे विनते मूर्धनि पादपङ्कजम् ।।
9.36 यदुवंशमसौ सभाजयन् बहुमानेन विहारजेन माम् ।
भुजपञ्जरमध्ययन्त्रितः पुलकोद्भासितनुं विधास्यति ।।
9.37 श्रुतिसौरभसौम्यया गिरा सुधयेवैष मुखेन्दुसूतया ।
शमयेदपि नाम संज्वरं पुरुषः पुष्करलोचनो मम ।।
9.38 अहमस्मि तवेति वादिनं प्रणयस्मेरमुखः प्रसन्नधीः।
विदितेतरवर्जितोप्यसौ विभुरक्रूर वदेति वक्ष्यति ।।
9.39 चिरशीलितसंयमक्रमैर्यतिभिर्योगदृशा दिदृक्षितम् ।
निधिमद्भुतमुज्झितावधिं परिपश्येयमहं प्रसङ्गतः।।
9.40 स दृशा सदृशान्तरोज्झितः सुमुखः स्वागतवाक्यगर्भया ।
कलुषं किमपह्नुवीत मे करुणासिन्धुसुधोर्मिकल्पया ।।
9.41 व्यथितं वृजिनेन धन्वना विषयाशीविषमोहितं च माम् ।
अपि जीवयिता पतिः सताममृतासारनिभैरवेक्षणैः।।
9.42 अलमत्र पृथग्विधैः फलैरवशादध्वनि विन्दतो मम ।
वसुधावसुदेवदेवकीतपसामेकमिदं महत् फलम् ।।
9.43 मदखेलगती महाबलौ मधुरालंकरणं विधित्सतः।
व्रजयूथपती वशानुगौ भवितारौ मम भागधेयतः।।
9.44 किमकुर्वत पुण्यमग्रियं महितास्ते मधुरानिवासिनः।
कृपयोपगतौ निरीक्षितुं कृतिनः कृष्णहलायुधावुभौ ।।
9.45 रमया क्षमया च माधवो रममाणः प्रतिगम्य तां पुरीम् ।
अपि चर्मदृशोपि मादृशान् अविसंवादयिता स्ववैभवे ।।
9.46 अवरुद्धभुजान्तरः श्रिया विदधानो वसुधाकरग्रहम् ।
अभिषेकमुपेयिवानसौ किमु नाथो भविता कुलस्य नः।।
9.47 असहिष्णुरसह्यविक्रमस्त्रिजगत्क्षोभकृदुग्रसेनजः।
बलवान् बलभद्रकृष्णयोर्हतधीर्हन्त किमाचरिष्यति ।।
9.48 अकठोरशिरीषकोमलैः कथमङ्गैः प्रतियोत्स्यते हरिः।
कुलशैलकुलीनमुष्टिभिः कुटिलैः संयति मुष्टिकादिभिः।।
9.49 उदयास्तमहीधरस्तनीं चतुरम्भोनिधिमेखलां भुवम् ।
उपभोक्ष्यत एष कंसजिन्न हि दुःसाधमचिन्त्यतेजसः।।
9.50 इति संमतसत्त्वसारथौ महितस्थेम्नि मनोरथे स्थितः।
हरिपादरजः पवित्रितं व्रजमासाद्य रथादवातरत् ।।
9.51 नवनीतमुखैरुपायनैरथ नन्दप्रमुखप्रकल्पितैः।
उचितामभिनन्द्य सत्क्रियामभितस्तान् अगवेषयत् प्रभुम् ।।
9.52 स ददर्श गवामनुप्लवं मुदितं केशिवधेन केशवम् ।
गतिमप्रतिघाध्वयायिनां गरुडच्छत्रनिवारितातपम् ।।
9.53 घनसंवृतनारदस्तुतं निगमाघ्रातनिजाङ्घ्रिसौरभम् ।
तरुणारुणताम्रवाससं शुभतापिञ्छतुलाधरद्युतिम् ।।
9.54 अभिलक्ष्यमनुश्रवेक्षणैरविपर्यस्तहिताहितक्रमैः।
परिभूषितबर्हभूषणं कमलाकौस्तुभनित्यभूषितम् ।।
9.55 अतिसूर्यसुधांशुतेजसं समहानेरुपनेयमात्मना ।
निबिडाद्भुतराशिमक्षयं निगमानामपि नित्यनूतनम् ।।
9.56 उपवीणयतस्तमर्भकान् उपगातृन् उपनृत्यतश्च सः।
तदवस्थतदर्हभूमिकान् यमिनोनन्यमतीन् अमन्यत ।।
9.57 शुभतर्णकशोभितान्तिकाः सविधे तस्य च घेनुविग्रहाः।
अनघाङ्गवतीरमन्यत श्वसितैरस्य समुत्थिताः श्रुतीः।
9.58 प्रणुनाव च भक्तिसंनतः प्रणिधानेन विना समीक्षितम् ।
हरिमद्भुतगोपखेलनं श्रि(शृ)तसर्वातिथिमागतोतिथिः।।
9.59 दुरितग्रहयोगदुःखितं त्रिगुणग्रन्थिनिबन्धनिघ्नितम् ।
पतितं निजपादपङ्कजे परिगृह्णीष्व घृणानिधान माम् ।।
9.60 स्वपदप्लवमाश्रितान् जनान् नयसे पारमपारवैभवः।
अतिवेलमहोर्मिसंकुले कलुषोदन्वति कर्णधारितः।
9.61 रमया सह राजहंसवत् परमं धाम विभूषयन् भवान् ।
प्रणिधानवतामपङ्किले पदमेतन्निदधाति मानसे ।।
9.62 अतिरोधिरसौ निधिः श्रुतेरनिमेषव्रतदेशिनी दृशोः।
तनुते तनुरीश तावकी स्मरणं विस्मरणं च दुःशकम् ।।
9.63 व्यपदिश्य मुकुन्द देवकीं विहरन्त्या वसुदेवमन्दिरे।
जनितोसि निजानुकम्पया जगतीरक्षणजागरूकधीः।।
9.64 भवतो भवनाटिकां विदन् विभवाडम्बरिणां विडम्बिनीम् ।
अनपायपदाधिरोप(ह)णादपवृत्तो(क्तो) न पुनर्निवर्तते ।।
9.65 सुधियस्तव गोपभूमिकां सुभगां कौतुकसूतिकां धियाम् ।
अनुविद्य गताग्र्यभूमिकामधिविन्देयुरनश्वरीं श्रियम् ।।
9.66 दुरितानि भजन्ति संक्षयं तपनेनेव तमांसि दीव्यता ।
हृदयानि च योगिनां त्वया कुमुदानीव विकासमिन्दुना ।।
9.67 गुणतश्च विभूतितश्च ते क्वचिदंशेपि समाधिकत्यजः।
उषमानकलाविकल्पितैरुपलक्ष्येत जगत्प्रधानता ।।
9.68 महिमार्णववर्णनोद्यताः परिमातुं गुणमेकमक्षमाः।
त्रपयेव भजन्त्यसीमनि त्वयि वाचंयमतामनुश्रवाः।।
9.69 तव विश्वविदो वदामि किं जगदेकाधिपतेर्दिशामि किम् ।
कृपणः परिपूर्णसंपदः कमिवांशं परिपूरयाम्यहम् ।।
9.70 प्रकृते किमनेन तत् प्रभो भवदाविर्भवनस्थलीं पुनः।
पदपद्मरजः पवित्रितां विदधानो जहि नात विद्विषः।।
9.71 बहुशाखविजृम्भणो महान् अवदातेन सुगन्धिनाद्य नः।
यशसा भवतु प्रसूनवान् यदुसंतानमहीरुहस्तव ।।
9.72 त्वरते रिपुरागतौ तव स्वयमेवावसरं समर्पयन् ।
नतरक्षणकिंवदन्त्यसौ न विलोपं भुवि यातु तावकी ।।
9.73 स्वयमेव समेयुषां वधे विमतानां क्षितिभारजन्मनाम् ।
मृगयामिव भावयन्त्यसौ महती संपदुपस्थिताद्य ते ।।
9.74 शतकोटिसहस्रसारवान् मथनं प्राप्स्यति मातुलस्त्वया।
व्यसनं विपदप्यनेहसा विनिपातश्च न कस्य कर्मिणः।।
9.75 अभिसंहितमौग्रसेनिना कथितं च क्रमशो व्यजिज्ञपत्।
कुलजः कुटिलाशयोज्झितः कुशलं पृष्टवते मधुद्विषे ।।
9.76 अपरेद्युरशेषतो नयन् सहसा गोपगणान् स यादवः।
स्थितमध्वनि रामकेशवौ रथमारोपयदग्र्यरंहसम् ।।
9.77 व्रजतोरथ वल्लवस्त्रियो बलभद्रस्य जनार्दनस्य च ।
अनुदुद्रुवुराशु वर्तनीं कुररीकूजितसूचकस्वनाः।।
9.78 व्यलपन्निति बाष्पगद्गदं विरहारम्भविषादविह्वलाः।
वलयैः प्रियवर्त्मपातिभिः क्षतपुष्पा इव घर्मवीरुधः।।
9.79 अपयाति सहाग्रजन्मना सहसा नन्दसुतो विहाय नः।
अनुयाम निवारयाम वा कथमस्माभिरुदास्यते मुधा ।।
9.80 श्रुतिषु ज्वलनं वमत्यसावदवीयोरथचक्रचीत्कृतिः।
द्रुतमेत्य पताम तत्पदे गुरुभर्त्रादिषु मुक्तगौरवाः।।
9.81 प्रगुणत्वमिव व्रजस्त्रियश्चलसंबन्धिनि नन्दनन्दने ।
मुदिरध्वनितां विजानते शिखिनस्तद्रथनेमिनिःस्वने ।।
9.82 अयमुद्दृतगोकुलेक्षणः कथमक्रूर इति प्रजल्प्यते ।
अथ वा भुवनेषु दारुणाः प्रथिताः पुण्यजना निशाचराः।।
9.83 बडिशामिषवत्प्रयुक्तया रिपुरक्रूरसमाख्ययान्वितः।
विभवं हरति व्रजौकसां किमिहोच्येत वदेम कस्य वा ।।
9.84 अवतारवराहरूपिणा हरिणा भूमिरुदञ्चितोदधेः।
विरहव्यसनोदधेरितः क इवोदञ्चयितुं क्षमेत नः।।
9.85 चिरसंघटितोपि नः क्षणादनुरागो बलभद्रकृष्णयोः।
अपयातमहानदीद्वयो भविता शोण इवैष निष्फलः।।
9.86 अविकल्पितबाल्ययौवनः प्रणयोस्मासु बलानुजन्मनः।
विधिना विषमप्रवाहिणा सिकतासेतुरिवैष भिद्यता ।।
9.87 अमुना शशिनेव कल्पितश्चितमस्मासु शरन्नदीष्विव ।
प्रणयः प्रतिभासजीवितः प्रतिमाचन्द्र इव प्रलीयते ।।
9.88 अहमस्मि तव त्वमेव वा मम दृष्टिस्त्वमिति प्रलोभयन् ।
विजहाति स एव वल्लवीरलमेतावदतः परेण किम् ।।
9.89 अयमेवमशुल्कदासिकाः स्वपदोपघ्नलताः स्वयं प्रभुः।
बहुमत्य जहाति निःस्पृहः कथमालेख्यगता इवाद्य नः।।
9.90 निरपेक्ष इवैष नीलया रसिकः पालिकया सराधया ।
पृथगत्र किमेतदुच्यते कुहकः कश्चिदसौ कुलस्य नः।।
9.91 अमृतस्य विषस्य च स्वयं प्रभवस्थानमभूत् पयोनिधिः।
नियतं तदनेन दर्शितं निजसंयोगवियोगदायिना ।।
9.92 मुखचन्द्रिकया मुखानि नः कुमुदानीव विकासमानयन् ।
कितवो यदुवाच सत्यवत् क्व गतं तत् क्व च तेन गम्यते ।।
9.93 यमुनापुलिनेषु दीव्यता यदुतानेन वशीकृता वयम् ।
विफलप्रणयप्रदायिना विधिना हन्त विलोभितास्ततः।।
9.95 सहजं हरता महानिधिं विवशानामिव वैरिणेव नः।
विहितः सुकृतेन कीदृशा मथुरायोषिदनुग्रहो महान् ।।
9.96 सहपांसुविहारसंभृतं जहता स्नेहमनङ्गवर्धितम् ।
अपि नागरयौवतं क्षणादमुना हन्त विलोभयिष्यते।।
9.97 नटवत् परिगृह्य मायया नतचिन्तामणिरेष नस्त्यजन् ।
अनुरूपतमास्वपि ध्रुवं नगरस्त्रीषु न सङ्गमेष्यति ।।
9.98 निजवंशनिनादतोपि यत् स्वदते श्रोत्ररसायनं वचः।
निदधीत नृशंसधीरसौ पुरयोषित्स्वपि वागुरामिमाम् ।।
9.99 इह तावदुपेक्षिता वयं वशिना लेख्यप(व)राङ्गना इव ।
विहरन् विरसेन चेतसा कितवस्तत्र किमाचरिष्यति ।।
9.100 युवतीरयमिन्दुकान्तयेत् नगरे नन्दकुमारचन्द्रमाः।
स्मितचन्द्रिकया यदीयया द्रवतामेति मनःशिलापि नः।।
9.101 अपि जह्नुरमुष्य दर्शने नवलुब्धा नगरस्त्रियः प्रियान् ।
सुलभे सुमणौ कथं मतिः क्रमते काचन काचसंग्रहे ।।
9.102 ललिताद्भुतलास्यगन्धिषु ध्रुवमङ्गेषु बलानुजन्मनः।
नवयौवनरामणीयकं नयनैः पास्यति नागरीजनः।।
9.103 विधिना विषमप्रवृत्तिना व्यपनीतोपि कदाचिदागतः।
अपि नः पुनरार्द्रयिष्यते मदनप्राणसुहृद्भिरीक्षितैः।।
9.104 इह तत्पदकांक्षिभिः स्तनैर्नयनैस्तन्मुखपद्मषट्पदैः।
श्रवणैश्च तदुक्तिजीवितैरपि जीवेम पुनस्तदादृताः।।
9.105 करुणाभरितैः कदा पुनः स्वयमुल्लाघयिता स एव नः।
अपरस्परपातिभिः शनैरगदंकारनिभैरवेक्षणैः।।
9.106 विविधारुणराजिरञ्जिते विशदस्मेरविशालशीतले ।
किमपि ब्रुवती कृतार्थतां नयने तस्य कदानुनेष्यतः।।
9.107 बधिरत्वमिवागतान्यसौ श्रवणान्यद्य पुनः समेत्य नः।
रमयिष्यति चाटुभिः कदा रतिसिन्धोरिव वीचिपङ्क्तिभिः।।
9.108 मदयन् हृदयानि विभ्रमैरवि(पि)संवादमिवाचरन् दृशा ।
अविभागमिवावहन् गुणैरपि नः प्रत्यवपत्स्यते पुनः।।
9.109 परिवर्तयिता जगत्त्रयीमपरावृत्तिरनेहसः क्रमः।
यदतीतमतीतमेव तत् पुनरेष्यत्यपि पुष्करेक्षणः।।
9.110 अथवा पुरसुन्दरीजनैः सुभगम्भाविकसौम्यवृत्तिभिः।
अवशादवरुद्धचेतसः कृतिनः कैव कथा व्रजागमे ।।
9.111 मथुरापुरमत्तकाशिनीमधुरालापविलोभिताशयः।
पुनरेष्यति नन्दनन्दनः किमिवास्मासु विचिन्त्य कारणम् ।।
9.112 बहुविभ्रमपाशबन्धुरां गुणगृह्यः स्वयमेष दुस्तराम् ।
अतिलङ्घयितुं न शक्नुयात् नगरस्त्रीजननेत्रवागुराम् ।।
9.113 न रथः परिदृश्यते महान् न च नेमिस्तनितं निशम्यते ।
न च रेणुरितो विजृम्भते तदपि भ्रश्यति जीवितं न नः।।
9.114 इति वादिनि वल्लवीजने यमुनां सत्वरसूतचोदितः।
घटयन् वसुधामनोरथं वशिनस्तस्य रथः क्षणात् ययौ ।।
9.115 स्वगुणानुभवेन सुभ्रुवां भवभोगोचितपुण्यसंचयम् ।
विरहव्यथया तु तीव्रया वृजिनाम्भोधिमशोषयत् प्रभुः।।
9.116 परवन्ति जगन्ति बाधितुं नियतिः किं न करोति निष्ठुरा।
विजहौ करुणानिधिः प्रियाः विरहे तस्य च ताभिरास्यत।
9.117 विनिवेश्य रथे सितासितौ वसुदेवस्य सुतौ स यादवः।
मणिभङ्गरुचं महापगां दिवमुष्णांशुरिव व्यगाहत ।।
9.118 अघमर्षणलीनकिल्बिषः सलिले मग्नतनुर्ददर्श तौ ।
भुजगेन्द्रभुजङ्गशायिनौ पुरुषौ किंचिदिवान्यलक्षणौ ।।
9.119 उपसृत्य च तीरमादरात् तदवस्थौ निरवर्णयत् रथे ।
स्मयमानदृशोस्तयोरसौ निभृतः स्वानुभवं न्यवीविदत् ।।
9.120 प्रणिधानबहिर्विलोचनैः प्रतिलब्धानुभवः प्रसादयन् ।
अनिनीषत तावुभौ तदा पुरमारब्धशरासनोत्सवाम् ।।
9.121 गजसिंहगती ततश्य तौ गिरितुङ्गेन रथेन तेरतुः।
गगनद्रवसंनिभां नदीमपुनःप्राप्तिभयादिवाकुलाम् ।।
9.122 अथ वियति समेतैः सिद्धगन्धर्वमुख्यैर्भुवि च भुवनगोपः संस्तुतो गोपवृद्धैः।
ललितगतिविहारो रामचन्द्रेण सार्धं रणपरिणतिकाङ्क्षी राजधानीं जगाहे ।।
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादावाभ्युदये महाकाव्ये मधुराप्रत्यागमनं नाम नवमः सर्गः ।।