श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
चतुर्विंशस्सर्गः
24.01 अथ निजविभवादजातशत्रौ प्रशमितशत्रुबले निवेश्य भूमिम् ।
परिचरणफलं प्रभुः प्रयच्छन्नमितगुणाभिररंस्त वल्लभाभिः ॥1॥
24.02 क्रतुविधिनियतोऽप्यकर्मवश्यः परिचितकामरसोऽपि वीतरागः ।
नगरवसतिरप्यशेषवासः कथमिव केन विभुः स वर्णनीयः ।।2।।
24.03 अनुगमितमिदं स्वदाररक्षामनघमनोभवतन्त्रमाननीयम् ।
निरुपाधिकरस्य नेतुरासीत् नृपतिमहर्षिभिरञ्चितं चरित्रम् ॥3॥
24.04 श्रुतिशतमहिते पदे परस्मिन् सितजलधौ रविमण्डले च सिद्धाम् ।
बहुमतिमतिशय्य सा बभासे नरकरिपोरवरोधभूमिरग्र्या ।।4।।
24.05 निधिगणमुखवान्तनिष्कराजिः प्रचितगुणा मणिभिस्स्यमन्तकाद्यैः ।
प्रमुदितमहिषीगणेन चक्रे यदुनगरी विभुना निवासभूमिः ।।5।।
24.06 अविकलविभवस्य विश्वमूर्तेरधिवसनं यदुवीरराजधान्याम् ।
अनुदिनमनपायिनीं प्रतिष्ठामभिलषतामनुचिन्तनीयमासीत् ।।6।।
24.07 सह मुनिभिरुपास्त धर्ममाद्यं व्यवहरणानि ददर्श वेदविद्भिः ।
अरमत च वधूजनैर्यथार्हं बहुतनुरक्रमतो विचित्रशक्तिः ।।7।।
24.08 अपि युगपदवाप्तनैकदेहैरुपनतयोगबलैस्स्वकर्मनिघ्नैः ।
धृतबहुवपुषा जगद्विधात्रा जितकरणेन तु भुज्यते तदर्थः ।।8।।
24.09 यदुपतिरधिरूढचन्द्रशालः सह दयिताभिरन्यमानसाभिः ।
जलनिधिमभितः प्रदर्शयंस्ताः निजमिव धाम निवेदयांबभूव ।।9।।
24.10 निजपदमनपायमाश्रितानां प्रभुरपवर्गदशामिव प्रयच्छन् ।
अमितबहुगुणामनन्यलभ्यामतनुत कामपि संपदं प्रियाणाम् ।।10।।
24.11 स्वयमुदवसिते स्ववासधन्ये त्रिषु भुवनेषु समामिवाद्भुतानाम् ।
अतनुत समवायमात्मयोगात् अतिशयिनीमथवा विभुस्समृद्धिम् ।।11।।
24.12 विधिसदनमुखेष्वदृष्टपूर्वां प्रथितपरस्परसंमि(म)तिं समृद्धिम् ।
यदुपपतिदयितागृहेषु पश्यन् मुदमभजद्भुवि नारदो मुनीन्द्रः ।।12।।
24.13 ललितरुचिषु कल्पवृक्षपोतैः उपवनराजिषु तस्य सञ्चरिष्णोः ।
अदधुरवयवैर्मुदं मुरारेः अमुकृतपुष्पफलादिकैस्तरुण्यः ।।13।।
24.14 अधिगतकुसुमावचायलीलः प्रमदवनानि विभूषयन् स्वधाम्ना ।
प्रजनितमदनो मनस्विनीभिः गुणसुरभिः सुरभिः स्वयं स मेने ।।14।।
24.16 अमृतमयपयः परिप्लुतानां विषमगुणेषु विहारवापिकानाम् ।
कमलकुवलायादिषु प्रियाणां मुखनयनस्तितकान्तिमभ्यनन्दत् ।।16।।
24.17 अवितथवमहिमा निजप्रसादादनघमनोरथतोषितासु तासु ।
स्वपरिजनतया सुरैर्नियुक्ता निरदिशदप्सपरो निदेशभाजः ।।17।।
24.18 बहिरुपनगरं बलानि दृष्ट्वा सह यदुभिस्समये निवर्तमानम् ।
ददृशुरधिगवाक्षमेकचित्ता रथतुरगादिषु रामपश्चिमं तम् ।।18।।
24.19 विधिवदनुविधाय देवयात्रां प्रतिपुरवीथिपरिक्रमेव दृश्यम् ।
पतिमनुददृशुस्तमेव दूरादचरमदेवमनन्यदेवतास्ताः ।।19।।
24.20 बहुविधमुपहारजातमग्र्यं सुरपतिभिः स्वयमाहृतं मुकुन्दः ।
अपि गगनचरैरदृष्टपूर्वं सममवरोधजनस्य संविभेजे ।।20।।
24.21 उपचितशिखरे वदान्यरत्नैः उचितगुहाश्रितहंसतूलतल्पे ।
बहुरिव स बभौ विहारशैले प्रतिमणिभित्तिविभक्तचारुबिम्बः ।।21।।
24.22 युगपदखिलमादरेण साक्षात् युवतिजनस्य निदर्शयन्मुकुन्दः ।
असकृदुपगमय्य चित्रशालामनघसमाधिदशामिवाततान ।।22।।
24.23 अनितरमनसां स्ववल्लभानां नरकजिता निरपायवैभवेन ।
भवभयविनिवारिणी स्वभक्तिः ललितविहारमुखेण लम्भिताऽभूत् ।।23।।
24.24 प्रमुदितविबुधाहृतप्रकॢप्तः कनकसरोजवनैरलंकृतानाम् ।
अतिशयमवरोधदीर्घिकाणामधिसुरसिन्धुसमीक्षितं निदध्यौ ।।24।।
24.25 विहरति वनिताजने तदीयैः अपलपितामवलोकनप्रभावैः ।
पुनरपि हरिनीलरत्नभासा दधुरसितोत्पलसंपदं सरस्यः ।।25।।
24.26 स्थिरधृतिमधिरोप्य रत्नडोलां गुणघटितामिव माधवः स्वमायाम् ।
अगमयत गतागतान्यभीक्ष्णं सुकृतजुषः स्वयमङ्गनाः स्वतन्त्रः ।।26।।
24.27 रुचिरकनकश्रृङ्गवक्त्रवान्तैः प्रतितनु कुङ्कुमवारिभिः प्रसिञ्चन् ।
अजनयदनुरागयोगमन्तः बहिरपि तोयविहारतो वधूनाम् ।।27।।
24.28 नवमणिपरिकल्पितेषु नाथः कमलवनान्तरकेलिमन्दिरेषु ।
श्रिय इव सुदृशो गृहीतपद्मा हृदि निदधे पुरुषोत्तमः प्रतीतः ।।28।।
24.29 दिशि दिशि मकरन्दवर्षदिग्धां विविधपरागविभक्तचूर्णचित्राम् ।
भुवमभजत साकमङ्गनाभिः पु(चु)लकिदृष्टिषु पुष्पमण्डलेषु ।।29।।
24.30 अनुविहितमहोत्सवो यथार्हं वितरणतोषितवन्दिबन्धुवर्गः ।
परिणयनविधिं लतावधूनामतनुत चूतवरैः प्रियार्पितानाम् ।।30।।
24.31 सुतबहुमतिभागिनां शुकानामुपहृतदिव्यरसोपभोगभाजम् ।
श्रुतिमधुरगिरां स्वशिक्षितानामतिशयसिद्धिमदर्शयत्प्रियाभ्यः ।।31।।
24.32 अनुकृतनिजशक्तिभिः प्रियाभिः सह गुणबन्धविचित्रसन्निवेशैः ।
मुहुरिह निपतद्भिरुत्पतद्भिः करणवरैरिव कन्दकैरदीव्यत् ।।32।।
24.33 निजयुवतिषु यद्यपि त्रिधामा नयनपिधानविहारमाजहार ।
न तदनुचरितं तथापि ताभिः त्रिभुवनदृष्टिनिरोधशङ्किनीभिः ।।33।।
24.34 श्रुतिविहितमवन्ध्ययन् स्वधर्मं प्रतिदिनमन्यपरो यदा बभूव ।
तदुपचरणस्तदाऽपि तासां समजनयत् प्रियभोगमेव कालः ।।34।।
24.35 मणिपरुवकमञ्जुलस्तनीभिः मधुसमयापगमे वरङ्गनाभिः ।
सितमणिविहितान् स यन्त्रधाराव्यतिकरशीतलितानभुङ्क्त सौधान् ।।35।।
24.36 स्फटिकसदनदीप्तिदत्तहस्तां मुरभिदसेवत सादरं सदारः ।
अपजलदनिशोदितस्य शोभां हलधरकान्तिजुषस्तुषारभासः ।।36।।
24.37 अगरुभिरसितैरनूरुगौरैः अपघुसृणैरपि निर्विवेश नाथः ।
हिमऋतुमवरोधसुन्दरीणां स्तनपरिरम्भसमर्पितैर्विलिप्तः ॥37॥
24.38 अनलशकटिकाभिरप्यजय्यं शिशिरसमीरणमञ्जसा जिगाय ।
अविरलपरिरम्भलम्भनीयैः स्तनकलशोष्मभिरात्मवल्लभानाम् ।।38।।
24.39 उपनिषदुपदेशसाभिलाषैरुपचरितो मुनिभिस्सनन्दनाद्यैः ।
रतिपतिसमयस्थितो वधूनां ललितकलागमदेशिको बभूव ।।39।।
24.40 कलमधुरगिरां कलाप्रसङ्गादतिमदनोपनिषत्परं रहस्यम् ।
प्रियहितरुचिराक्षरं प्रियाणां श्रुतिषु चकार शिखामणिः श्रुतीनाम् ।।40।।
24.41 निरुपधिकनिजप्रभावगर्भं परिषदि विश्वपतिर्निजप्रियाणाम् (याः) ।
किमपि निशमयांबभूव गीतं प्रमुदितकिन्नरदम्पतिप्रयुक्तम् ।।41।।
24.42 मृदुकरतललीलया मृदङ्गनामसमयनर्तितनीलकण्ठयूथान् ।
ध्वनयति दयिते विदूरभूमेः श्रियमिव ताः पुलकोद्गमैरपुष्यन् ।।42।।
24.43 करकमलपरिग्रहेण धन्यां वरतनुसंसदि वादयन्विपञ्चीम् ।
अविदितगमनाय गायकैः स्वैः उपरतगीतिभिरुन्मुखैः सिषेवे ।।43।।
24.44 श्रुतिमधुसुभगैरदीनहृद्यैः श्रुतघननादशिखण्डिनीगणश्रीः ।
मधुरिपुवनितागणः समाजे ध्वनिभिरमाद्यत दिव्यदुन्दुभीनाम् ।।44।।
24.45 सललितकरणाङ्गहारहृद्यं सह दयिताभिरुदारदिव्यनाट्यम् ।
अनुदिनमनिमेषदर्शनीयं जितमधुरप्सरसां ददर्श नृत्यम् ।।45।।
24.46 अभिनवमभिनन्द्य नर्तकीनां स्वयमुपदिष्टमलङ्घितोपदेशम् ।
पुनरपि मुदितस्तमेव युञ्जन् अविदितपूर्वमिवादरादपश्यत् ।।46।।
24.47 प्रतियुवतिगृहीतनैकरूपः प्रणयवतीभिरनन्य उत्युपेतः ।
अपहृतमणिपादुकः कदाचित् पदमपि गन्तुमशक्नुवन्निवासीत् ।।47।।
24.48 अनवहिततया सखीसमक्षं द्रुतमुपहूय समाख्ययेतरस्याः ।
रुषितमनसमद्भुतैर्विलासैरिदमपि नाम तवेत्युवाच मुग्धाम् ।।48।।
24.49 समुचितदिनलङ्घनं सपत्न्याः परिपणितं स्वयमभ्युपेत्य नाथः ।
स्मितमधुरमुखो जितः कयाचिद्विवश इवाक्षविहारतो बभूव ।।49।।
24.50 अनुगतनिजबिम्बमेनमन्या मणिमुकुरस्थमवेक्ष्य मन्दहासम् ।
न खलु तदवलोकनाय पश्चात् व्यतनुत साचिविधिं तदेकतृप्ता ।।50।।
24.51 पुलकितकुचकुड्मले परस्याः कथमपि साध्वसकम्पिताग्रहस्तः ।
स्थिरचरजगदेकदिव्यशिल्पी विषमतमं विलिलेख पत्रभङ्गम् ।।51।।
24.52 मृदुसुरभिसुजातबन्धुराभिः प्रणिदधदग्रनिबद्धपङ्कजाभिः ।
मुहुरसितदृशां स्वकण्ठयोग्यां भुजलतिकाममिमीत मालिकाभिः ।।52।।
24.53 अभजत स च ताश्च दूतिकानाममृतपरिप्लुतभेषजायमानैः ।
प्रतिदिनमिदमादिमं प्रमोदं प्रणयविरोधसितासितैर्वचोभिः ।।53।।
24.54 निजपदपरिचारकाङ्क्षिणीभिः कतिषु भवेषु समर्चिताङ्घ्रिपद्मः ।
प्रतिविधिमभजत्प्रसाधिकावत्प्रियपरिकर्मविधानतः स तासाम् ।।54।।
24.55 निजसुदयसंभवैर्निशायां प्रणयपयोनिधिवीचिकाविसर्पैः ।
प्रणतिभिरिव विभ्रमैः प्रियाणां बहुमतिभेदमवाप यादवेन्द्रः ।।55।।
24.56 शरदुपगमशोधिता इवापः तुहिनकरोदयनिर्मला इावाशाः ।
मुरभिदुपगमप्रशान्तखेदाः प्रतिययुरुन्मनसस्तमायताक्ष्यः ।।56।।
24.57 अमृतमयमिवोदधिं तमुच्चैः अनुसखि लोचनशुक्तिभिः पिबन्त्यः ।
अवशनियतचित्तवृत्तिमेकामदधुरदृष्टपरस्परामवस्थाम् ।।57।।
24.58 स्मरजनकतनुः स्वदर्शिनीनां ननु विरहः सुदृशां निमेष एव ।
इति किल विगणय्य विश्वकर्ता नियतमकल्पयदप्सरस्त्वामासाम् ।।58।।
24.59 अनुचरबहुमानमाप्तुकामैरवसरविद्भिरनुस्मृतात्मरक्षैः ।
अनुदिनमुपनीतमादितेयैः अमृतमपाययत प्रियाः प्रतीतः ।।59।।
24.60 प्रियवचनशतैरुदारवादी रहसि मनःश्रुतिरञ्जकैर्विचित्रैः ।
मुखकमलमधूपमैः प्रकामं मदमुदिता इव मानिमीरकार्षीत् ।।60।।
24.61 अतिशयितगुणैः प्रियोपभोगाद्वसनविभूषणमालिकादिभिस्ताम्(ः) ।
मुदमधिकतमां दधुस्तरुण्यः प्रणयरसो हि रसप्रकर्षहेतुः ।।61।।
24.62 अभिलपनमनस्क्रियातिपातिन्यनुबुभुजे यदुपुङ्गत्वेन तासाम् ।
अतिशयमितरेतरं प्रयच्छन्त्यभिनवयौवनसम्पदप्रकम्प्या ।।62।।
24.63 अजनिषत कुतो नु भागधेयात् त्रिभुवनमङ्गलदीपिकाः शुभाङ्ग्यः ।
यदुपतिसहधर्मचारिणीभिः सुखमनघं भुवि याभिरन्वभावि ।।63।।
24.64 अधिभुजगपति श्रियोपभुक्तं युगपरिपाकविहारिणं युवानम् ।
नरपतिबहुमानतो नताङ्ग्यः सुलभमिवान्वभवन् स्वतल्पभाजम् ।।64।।
24.65 शकयुवतिकपोलपाण्डुराभैः शशिशकलैरिव नागवल्लिपत्रैः ।
स्मरसुभटयशोनिभैरनन्दन् युवतिजनौघभृतैस्तदर्पितैस्ताः ।।65।।
24.66 जगदुपजननादिजातभूम्नः क इव वधूजनमोहनो विहारः ।
कथमिव स कुतश्च कीर्तनीयः प्रथितमनोभवतन्त्रपारदऋश्वा ।।66।।
24.67 युवतिभिरनुभूषितस्स ताभिः यदुपतिरद्भुतरूपवेषशीलः ।
निरुपधिकरसामृतौघसिन्धुः सततमपूर्वमपूर्वमन्वभावि ।।67।।
24.68 हरिपरिचरणेन ताषितानां हरिणदृशां विभवं विभावयन्तः ।
अपजहसुरवाप्तसंयमाः स्वान् अपरिमितानणिमादिसिद्धिभेदान् ।।68।।
24.69 सरित इव मृगीदृशस्तमेकं महितगुणौघमहोदधिं भजन्त्यः ।
अबिभरुरनपायमैकरस्यं मुनिगणितश्च स एव मुक्तभोगः ।।69।।
24.70 अनुभवरसतो जगत्प्रसूतेरपचितसुप्तिसुषुप्तिसंभवास्ताः ।
वितमसि विषये स्थिता इवासन् विरतिविहीनविहारजागरेण ।।70।।
24.71 प्रतिदिनमितरेतरानुगुण्यात् प्रचितमयोगवियोगसंप्रयोगैः ।
रसमधिकमवापुरायताक्ष्यः प्रणयिनि शार्ङ्गिणि भागधेयभूम्ना ।।71।।
24.72 रविरुचिरमणिप्रदीपकेषु स्फुरदसितागरुधूमधूपितेषु ।
सह युवतिजनैः क्षणोपमेयामनयत वासगृहेषु वासतेयीम् ।।72।।
24.73 पुलकितवपुषां सवेपथूनां घनरसभावितघर्मबिन्दुभाजाम् ।
श्लथमिव सुदृशाममुष्टिमेयं चिकुरमगुम्भयदद्भुतं चिरेण ।।73।।
24.74 स्ववधूरवधूतभौमभावाः स्वदमानाः स्वयमात्मनैव तृप्तः ।
अनुभूय न तृप्यति स्म नाथस्तमपि प्रेमविलीनचेतसस्ताः ।।74।।
24.75 चपलप्रतिकूलतीक्ष्णरूक्ष्णाः स्त्रिय इत्यागमिकैर्निदर्शितार्थः ।
प्रथितो यदुवीरवल्लभाभिः परिवादोऽयमपाकृतः पृथिव्याम् ।।75।।
24.76 शरणागतसर्वपापमोक्षे कृतसङ्कल्पमिहानुभूय कृष्णम् ।
परितोऽपि तथाविधानुभूतिः स्मरलब्धा प्रतिलम्भिता प्रियाभिः ।।76।।
24.77 अनघामनपायभक्तिरूपामनुभूतिं यदुवीरवल्लभानाम् ।
अनुकर्तुमपि प्रवर्तमानैरवशैरेव समाहितैरभावि ।।77।।
24.78 उदधौ बहवो रमा बभूवुर्यदि वा सैव गृहीतनैकरूपा ।
इति नाम विमर्शमादधाना दयिताः प्रेक्ष्य ननन्द देववन्द्यः ।।78।।
24.79 अजितस्य विशालतुङ्गभूम्ना भुजमध्येन पयोधरैश्च तासाम् ।
इतरेतरसंवृतत्वमासीत् परिरम्भे परितो मिथस्समत्वम् ।।79।।
24.80 परिहासकुतूहली प्रियाणां विहितद्यूतविहारकौतुकानाम् ।
उभयत्र जयं जगाद पृष्टः कितवः स्थेयपदे निवेशितस्सन् ।।80।।
24.81 स्वयमादिकविः प्रकल्पिताभिः प्रणयोल्लङ्घनरोषमुत्तितीर्षुः ।
प्रहसन् बहुशः प्रहेलिकाभिः मतिमौढ्यं विदधे मनस्विनीनाम् ।।81।।
24.82 एकीभवद्भिरयुतैरपि मन्मथानां यत्कान्तिसिन्धुपृषतानुकृतिर्न शक्या ।
संप्रेक्ष्य तं यदुपतिं यमिनोऽपि नूनं स्त्रीभावमेव मनसा बिभरांबभूवुः ।।82।।
24.83 कृष्णानुभूतिविभवेन कृतार्थभावाः तद्वल्लभास्त्रिदशमातृतया चकासुः ।
यत्पादपङ्कजपरागजुषां शशंसुः जन्माद्भुतं जगति गुल्मलतादिकानाम् ॥83॥
24.84 श्यामो बभूव किमसौ सुदृशां कटाक्षैः श्यामास्तदन्वयवशादथ वा तरुण्यः ।
ताभिः किमस्य ववृधे महिमा महीयान् तासामनेन यदि वेति बुधैश्शशङ्के ।।84।।
24.85 अग्राम्यमेव परिहासरसं वितेन नाश्लीलमाह न मृषा न च मर्मभेदि ।
धर्माविरुद्धविभवोचितकामकामः स्त्रीणां वरेण बुभुजे वरजो वरस्त्रीः ।।85।।
24.86 ताराभिरिन्दुरिव भानुरिवप्रभाभिः युक्तो वशाभिरिव वारणयूथनाथः ।
विद्याभिरात्मविदिवाभ्यधिकं विरेजे योगेश्वरो युवतिभिस्सह मोदमानः ।।86।।
24.87 पायंपायं प्रेयसः कान्तिमाध्वीं माद्यन्तीभिः लञ्जुलालापिनीभिः ।
प्रत्योकोक्तिश्लाघनप्रीणिताभिः प्रायो भोगाः पर्यवाह्यन्त ताभिः ।।87।।
24.88 करणव्यापायसमये पुनर्भवं विनिवर्त्य शाश्वतसुखं प्रदास्यता ।
स्वपदानुभूतिरुरपादि तादृशी सुदृशां स्वसंमतिभृता गदाभृता ।।88।।
24.89 तद्गतेन मनसा विवशानां तन्मयीकृतधियामिव तासाम् ।
अप्रलुप्तरहसामभजेतां स्वप्नजागरदशे न विशेषम् ।।89।।
24.90 श्रियमनपायिनीं वसुमतीमिव दत्ताकारां सह महिषीगणेन विभुरेक इवानुभवन् ।
यदुभिरनन्तार्क्ष्यपृतनेशनिभैस्सहितो निजपदमस्मरन्निह निवासमरोचयत ।।90।।
24.91 उपचितचित्रधर्ममुशान्तविपक्षभयं मुदितवधूजनं स मुखरं निगमध्वनिभिः ।
बहुविधरत्नशालि बहुमान्यसमग्रगुणं वलयसमं भुजस्य वसुधावलयं बभुजे ।।91।।
24.92 अनितरजनलभ्यां प्रीतमासेदुषीभिः सुचिरमनुबभूवे स्वर्गमोक्षीतिशायी ।
निरुपधिकरसाब्धिं निर्विशन्तीभिराद्यं कलयुवतिभिरित्थं कोऽपि श्रृङ्गारभूमा ।।92।।
24.93 सहजबलसमेतः शत्रुपूर्वैरजेय्यः समुदितविषमास्त्रस्तादृशानन्दहेतुः ।
अविदितरचनेन स्वेन पार्थाय गीतः स्वयमजनि स कामः कोऽपि धर्माविरुद्धः ।।93।।
24.94 स्वपदनलिभाजां स्वर्गमोक्षौ यतार्हं करणविगमकाले कल्पयिष्यन् क्रमेण ।
मधुरिपुरिह नूनं मन्दपुण्यैरलभ्यौ समतनुत विहारैस्तावुभौ संप्रयुक्तौ ।।94।।
24.95 नारीदृष्ट्या नियमितधियो नाकनाथेश्वरत्वं संभोगे च प्रणवमनसः शाश्वतं ब्रह्मचर्यम् ।
अत्रैकस्यां पुरि निवसतः सर्वलोकाधिपत्वं निध्यायन्तस्त्वरितमतरन् दुस्तरां तस्य मायाम् ।।95।।
24.96 आसीदेवं परिणतमधि(तिमति)द्वारकं द्वापरान्ते व्यासप्रख्याविभजनभवद्वेदशाखोपमानम् ।
चिन्तातीतं यदुपतिमनः प्रीतिचिन्तामणीनामेकं तासां भवरसभुजां भाग्यमेकातपत्रम् ।।96।।
24.97 गुरुभिरनघचित्तैराहितोदारभूमा सुरभितरसमेतत् सूनृतं वेङ्कटेशः ।
व्यतनुत यदुवीरप्रीतिमिच्छन् प्रभूतां कविकथकमृगेन्द्रः क्षेमदं काव्यरत्नम् ॥97॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयनाम्नि काव्यरत्ने भोगाभ्युदयो नाम चतुर्विंशस्सर्गः ।।
परिपूर्णमिदं महाकाव्यरत्नम् ।।