श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
चतुर्थः सर्गः
4.1 मनीषितं कैतवमानुषस्य श्रुत्वा भयक्रोधपरिप्लुतात्मा ।
कंसश्चिरं प्राग्भवकालनेमिः चिन्तार्णवे मग्न इवावतस्थे ।।
4.2 सदुर्दमानासुरसत्त्वभेदान्नेता समाहूय नृशंसचेताः ।
प्रस्थापयामास परैरधृष्यं नन्दास्पदं नाथविहारगुप्तम् ।।
4.3 कदिचिदन्तर्हितपूतनात्मा कंसप्रयुक्ता किल कापि माया ।
निद्रापराधीनजने निशीथे व्रजं यशोदाकृतिराविवेश ।।
4.4 स्तन्येन कृष्णः सह पूतनायाः प्राणान्पपौ लुप्तपुनर्भवायाः।
यदद्भुतं भावयतां जनानां स्तनंधयत्वं न पुनर्बभूव ।।
4.5 निशम्य तस्याः परुषं निनादं रूक्षं यशोदा रुदितं च सूनोः ।
ससंभ्रमावेगमुपेत्य भीता तमग्रहीद्दुर्ग्रहमागमानाम् ।।
4.6 नन्दश्च तीव्रेण भयेन सद्यः समेत्य पश्यन्ननघं कुमारम् ।
तेनैव तस्य त्रिजगन्नियन्तुः प्रायुङ्क्त रक्षां परमार्थवेदी ।।
4.7 गोपाश्च संभूय गुहोपमाक्षीं स्वघोषनिर्ह्रादितविश्वघोषाम् ।
गतासुमैक्षन्त निशाचरीं तां भीमाकृतिं भीमरथीमिवान्यां ।।
4.8 परश्वधैस्तत्क्षणशातितैस्तां विच्छिद्य विन्ध्याचलसानुकल्पाम् ।
अनःप्रवृत्या बहिराशु निन्युः क्रव्याद्बलिं प्राज्यमिव क्षिपन्तः ।।
4.9 ग्रहादिदोषानपहन्तुकामा गोप्तुः सतां गोपतयः समेताः
सुवर्णसूत्रग्रथिताभिरामां पञ्चायुधीमाभरणं बबन्धुः ।।
4.10 रम्याणि रत्नानि रथाङ्गपाणेराकल्पतां नूनमवाप्नुवन्ति ।
तदङ्गसंस्पर्शरसात्प्रकामं रोमाञ्चितान्यंशुगणैरभूवन् ।।
4.11 स शायिनः क्षेमविदाजनन्या पर्यङ्किकायां प्ररुदन्कुमारः ।
चिक्षेप तुङ्गं शकटं पदाभ्यां गाढाभिघातेन गिरीन्द्रसारम् ।।
4.12 विदारितस्तस्य पदाग्रयोगाद्विकीर्यमाणो बहुधा पृथिव्याम् ।
शब्दायमानः शकटाख्यदैत्यः संक्षोभयामाय जगन्त्यभीक्ष्णम् ।।
4.13 यदृच्छयोत्क्षिप्तपदे कुमारे शैलोपलक्ष्ये शकटे निरस्ते ।
सरोजगर्भोपमसौकुमार्यं पस्पर्श तत्पादतलं यशोदा ।।
4.14 अथाङ्गणे जानुपदाग्रहस्तैश्चक्रायुधे चङ्क्रमणप्रवृत्ते ।
प्रायो धरित्री परिषस्वजे तं सापत्रपा सान्द्ररजश्छलेन ।।
4.15 निर्व्याजमन्दस्मितदर्शनीयं नीराजितं कुण्डलरत्नभासा ।
नन्दस्तदानीं न जगाम तृप्तिं मुग्धाक्षरं प्रेक्ष्य मुखं तदीयम् ।।
4.16 विश्वानि विश्वाधिकशक्तिरेको नामानि रूपाणि च निर्मिमाणः ।।
नामैकदेशग्रहणेपि मातुर्बभूव कृण्णो बहुमानपात्रम् ।।
4.17 तरङ्गितानुश्रवगन्धमादौ तस्याद्भुतं संलपितं सखीभिः।
वर्णस्वरादिव्यवसायभूम्ना शिक्षाविदां शिक्षणमग्र्यमासीत् ।।
4.18 तमीषदुत्थाय निलीनमारात्संप्रेक्ष्यदन्ताङ्कुरचारुहासम् ।
सनातनीं दृष्टिमनन्यदृष्टिः सानन्दमालोकत नन्दपत्नी ।।
4.19 पदैस्त्रिभिः क्रान्तजगत्त्रयं तं भव्याशया भावितबालभावम् ।
करेणसंगृह्य कराम्बुजाग्रं संचारयामास शनैर्यशोदा ।।
4.20 स्खलद्गतिं द्वित्रपदप्रचाराज्जानुक्रमे जातरुचिं कुमारम् ।
भुग्ने समावेश्य वलग्नभागे स्तन्यं मुदा पाययते स्म धन्या ।।
4.21 क्रमेण भूयोपि विहारकाङ्क्षी नन्दस्य दारैरभिनन्द्यमानः।
नित्यानुभूतं निगमान्तभृङ्गैर्निजं पदाब्जं निदधे पृथिव्याम् ।।
4.22 स संचरन्साधुजनप्रतीपैर्मा भुज्यतां सेयमितीव मत्वा ।
चक्रादिभिः पादसरोजचिह्नैरामुद्रयामास महीमनन्यैः ।।
4.23 आलम्ब्य मातुः करपल्लवाग्रं शनैः शनैः संचरतो मुरारेः ।
बभार चित्रामिव पत्ररेखां धन्या पदन्यासमयीं धरित्री ।।
4.24 अकर्मनिघ्नो भुवनान्यजस्रं संकल्पलेशेन नियम्य दीव्यन् ।
प्रचारितः प्रस्नुतया जनन्या पदे पदे विश्रममाचकाङ्क्ष ।।
4.25 सुरप्रसूनैः सुरभीकृतानामारोहणान्यङ्गणवेदिकानाम् ।
तमारुरुक्षुं तरलाङ्घ्रिपद्मं धातारमारोहयदाशु धात्री ।।
4.26 तलेषु तस्याङ्गणपादपानां तालानुकूलेषु गतागतेषु ।
व्रजस्थिताः स्वर्गसदामशृण्वन्दूरोदितान्दुन्दुभितूर्यनादान् ।।
4.27 य एष लोकत्रयसूत्रधारः पर्यायपात्राणि चराचराणि ।
आनर्तयत्यद्भुतचेष्टितोसौ ननर्त खेलं नवनीतकाङ्क्षी ।।
4.28 गृहेषु दध्नो मथनप्रवृत्तौ पृषत्कणैरुत्पतितैः प्रकीर्णः।
निदर्शयामास निजामवस्थां प्राचीं सुधाशीकरचोगचित्राम् ।।
4.29 त्रस्यन्मुकुन्दो नवनीतचौर्यान्निर्भुग्नगात्रो निभृतं शयानः।
निजानि निःशब्ददशां ययाचे बद्धा़ञ्जलिं बालविभूषणानि ।।
4.30 आरण्यकानां प्रभवः फलानामरण्यजातानि फलान्यभीप्सन् ।
विस्रंसिधान्याञ्जलिना करेण व्याधात्मजां विश्वपतिः सिषेवे ।।
4.31 सुजातरेखात्मकशङ्खचक्रं ताम्रोदरं तस्य करारविन्दम् ।
विलोकयन्त्याः फलविक्रयिण्या विक्रेतुमात्मानमभूद्विमर्शः ॥
4.32 अपूरयत्स्वादुफलार्पणेन क्रीडाशिशोर्हस्तपुटं किराती ।
रत्नैस्तदा कौस्तुभनिर्विशेषैरापूरितं तत्फलभाण्डमासीत् ।।
4.33 मुहुः प्रवृत्तं नवनीतचौर्ये वत्सान्विमुञ्चन्तमदोहकाले ।
उलूखले कुत्रचिदात्तपुण्ये बन्धुं सतां बन्धुमियेष माता ।।
4.34 आनीतमग्रे निजबन्धनार्थं दामाखिलं संहितमप्यपूर्णम् ।
निरीक्ष्य निर्विण्णधियो जनन्याः संकोचशक्त्या च बभूव बन्ध्यः ॥
4.35 बद्धं तथा भावयतां मुकुन्दमयत्नविच्छेदिनि कर्मबन्धे ।
तपस्विनी तत्क्रतुनीतिराद्या सव्रीडमारण्यकथासु तस्थौ ॥
4.36 उलूखलप्रग्रथितेन दाम्ना निबद्धमास्राविललोलनेत्रम् ।
सहासमैक्षन्त जनाः समन्तादालानितं नागमिवानभिज्ञाः ।।
4.37 अनादराकृष्टमुलूखलं तद्यावर्जुनौ शैलनिभौ बभञ्ज ।
बभूवतुर्ब्रह्मसुतस्य शापान्मुक्तौ मुनेर्यक्षवरौ तदा तौ ।।
4.38 शापावधिं ब्रह्मसुतेन दत्तं संप्राप्य तौ शौरिसमागमेन।
देहेन दिव्येन विदीप्यमानौ स्तुत्वा हरिं धाम समीयतुः स्वम् ।।
4.39 अदृष्टपूर्वं भुवि पूतनादेरुदन्तमुत्पातमुदीक्षमाणाः ।
समेत्य गोपाः सह माधवेन बृन्दावनं सत्वरमभ्यगच्छन् ।।
4.40 येनौषधीनामधिपं पुरस्तादाह्लादहेतुं जगतामकार्षीत् ।
तेनैव दध्यौ मनसा वनं तत्कृष्णो गवां क्षेमसमृद्धिमिच्छन् ।।
4.41 अनुग्रहाब्धेरिव वीचिभेदैराप्याययामास शुभैरपाङ्गैः ।
वनं पृथिव्या इव यौवनं तद्गोप्ता सतां गोधनवंशचन्द्रः ।।
4.42 आसीन्निषेव्या पृथिवी पशूनां पुण्ड्रेक्षुरम्याणि तृणान्यभूवन् । तस्मिन्नरण्ये तरुभिः प्रपेदे कल्पद्रुमाणामनुकल्पभावः।।
4.43 अदृष्टपूर्वैरधिकां विशेषैरालक्ष्य वन्याममरेन्द्रमान्याम् ।
नन्दोपनन्दप्रमुखैर्ननन्दे नाकाधिरूढैरिव नाथभूम्ना ।।
4.44 दैत्यैस्तृणावर्तमुखैरयत्नान्मुहुर्निरस्तैर्मुदितो मुकुन्दः।
अभुङ्क्त रामेण सहाद्भुतं तत्पुण्यं वनं पुण्यजनेन्द्रमान्यम् ।।
4.45 सपक्षकैलासनिभस्य गोपा बकस्य पक्षानभिता बबन्धुः ।
वने तदन्यानपि घोरवृत्तीन्क्षेप्तुं प्रवृत्ता इव केतुमालाः ।।
4.46 पुरस्कृतं मंगलगीतवाद्यैः पुंसः प्रसत्त्यै जगतां प्रसूतेः।
कयापि तत्र स्पृहयान्वतिष्ठन्कन्याव्रतं किंचन गोपकन्याः।।
4.47 निशात्ययस्नानसमुद्यतानां निक्षिप्तमाभीरकिशोरिकाणाम् ।
कूलादुपादाय दुकूलजालं कुन्दाधिरूढो मुमुदे मुकुन्दः।।
4.48 सचैकहस्तप्रणतिं विधून्वन्क्षौमार्थिनीनां हरिरङ्गनानां ।
अन्योन्यहस्तार्पणसंप्रवृत्तमासां जहासाञ्जलिमप्यपूर्वम् ।।
4.49 स चात्मचण्डातकमात्रभाजां क्षौमार्थिनीनां स्वयमर्थ्यमानैः।
अनन्यहस्तार्पणसंप्रवृत्तैस्तासां जहासाञ्जलिभिस्तदीयैः।।
4.50 प्रसुप्तमुद्बोधयता परत्वं वीरश्रियो विभ्रममण्डनेन ।
नीलादिनिर्वेशनिधानधाम्ना नाथो बभासे नवयौवनेन ।।
4.50 प्रसुप्तमुद्बैधयता परत्वं वीरश्रियो विभ्रममण्डनेन ।
नीलादिलुर्वेशनिधानधाम्ना नाथो बभासे नवयौवनेन ।।
4.51 विहारपर्वक्रमचारु शौरेः कल्यं वयः कामदृहीतियोग्यम् ।
मनोभिरास्वाद्यतमं प्रपेदे माधुर्यमिक्षोरिव मध्यभागः।।
4.51 स चात्मचणडातकमात्रभाजां क्षौमार्थिनीनां स्वयमर्थ्यमानैः।
अनन्यहस्तार्पणसंप्रवृत्तैस्तासां जहासाञ्जलिभूस्तदीयैः ।।
4.52 वंशस्वनो वत्सविहारपांसुः संध्यागमस्तस्य च वन्यवेषः।
आयाति कृष्णे व्रजसुन्दरीणामासीच्चतुःस्कन्धमनङ्गसैन्यम् ।।
4.53 समाश्रितां विभ्रमसैन्यभेदैः कान्त्या स्वया कल्पितचारुवप्राम्।
व्रजस्त्रियः कृष्णमयीं व्यजानन्क्रीडार्गलां क्षेमपुरीमपुर्वाम् ।।
4.54 अनुश्रवाणामवतंसभूतं बर्हावतंसेन विभूषयन्ती ।
अदिव्यया चर्मदृशैव गोपी समाधिभाजामभजत्समाधिम् ।।
4.55 कलापिना कल्पितमाल्यभावैः पत्रैस्तदा पत्रलदेहकान्तिम् ।
अवाप्य संचारितमालमाद्यं छायात्मतां प्रापुरिवास्य गावः।।
4.56 वितन्वता मान्मथमिन्द्रजालं पिञ्छेन तापिञ्छनिभो बभासे ।
अनेकरत्नप्रभवेन धाम्ना शारात्मना शैल इवैन्द्रनीलः ।।
4.57 मुहुः स्पृशन्ती मुमुदा यशोदा मुग्धाङ्गनामोहनवांशिकेन ।
मनीषिणां माङ्गलिकेन यूना मौलौ धृतां मण्डनबर्हमालाम् ।।
4.58 कृतास्पदा कृष्णभुजान्तराले प्रालम्बबर्हावलिराबभासे ।
विशुद्धहेमद्युतिरब्धिकन्या श्यामायमानेव तदङ्गकान्त्या ।।
4.59 साचीकृतानि प्रणयत्रपाभ्यां व्यावृत्तराजीवनिभानि शौरिः ।
सभ्रूविलासानि ददर्श तासां वक्त्राणि वाचालविलोचनानि ।।
4.60 निरङ्कुशस्नेहरसानुविद्धान्निष्पन्दमन्दालसनिर्मिमेषान् ।
वंेन कृष्णः प्रतिसंबभाषे वार्ताहरान्वामदृशां कटाक्षान् ।।
4.61 अशिक्षितं तुम्बुरुनारदाद्यैराभीरनाट्यं नवमास्थितेन ।
जगे सलीलं जगदेकधाम्ना रागाब्धिना रञ्जयतेव विश्वम् ।।
4.62 अपत्रपासैकतमास्थितानां रागोदधौ कृष्णमुखेन्दुनुन्ने ।
हस्तावलम्बो न बभूव तासामुत्पक्ष्मणामुत्कलिकाप्लुतानाम् ।।
4.63 अयन्त्रितस्वैरगतिः स तासां संभावितानां करपुष्करेण ।
प्रस्विन्नगण्डः प्रणयी चकाशे मध्ये वशानामिव वारणेन्द्रः ।।
4.64 विमोहने वल्लवगेहिनीनां न ब्रह्मचर्यं बिभिदे तदीयम् ।
संपत्स्यते बालकजीवनं तत्सत्येन येनैव सतां समक्षम् ।।
4.65 स्वसंभवं कृष्णमवेक्षमाणो बन्धुप्रसूतं च बलं व्रजेशः ।
निसर्गमैत्र्या नियतैकभावौ न्ययुङ्क्त तौ वत्यकुलानि गोप्तुम् ।।
4.66 अनन्यतन्त्रः स्वयमेव देवान्पद्मासनादीन्प्रजनय्य रक्षन् ।
स रक्षकः सीरभृता सहासीन्नेता गवां नन्दनियोगवर्ती ।।
4.67 कथं व्रजेच्छर्करिलान्प्रदेशान्पद्भ्यामसौ पल्लवकोमलाभ्याम् ।
इति स्नुतस्तन्यरसा यशोदा चिन्तार्णवे न प्लवमन्वविन्दत् ।।
4.68 विहारवित्रासितदुष्टसत्त्वौ मृगेन्द्रपोताविव धीरचेष्टौ ।
बभुवतुः शाश्वतिकेन भूम्ना बालौ युवानाविव तौ बलाढ्यौ ।।
4.69 सिन्दूरितौ वत्सपरागजालैः सितासितौ बालगजाविव द्वौ ।
उदारलीलावुपलक्ष्य गोप्यः सर्वास्तदानन्यवशा बभूवुः ।।
4.70 गोपायमाने पुरुषे परस्मिन्गोरूपतां वेदगिरो भजन्त्यः ।
भव्यैरसेवन्त पदं तदीयं स्तोभप्रतिच्छन्दनिभैः स्वशब्दैः ।।
4.71 अबालिशो बालिशवत्प्रजानां प्रख्यापयन्नात्मनि पारतन्त्र्यम् ।
न्यदर्शयद्विश्वपतिः पशूनां बन्धे च मोक्षे च निजं प्रभुत्वम् ।।
4.72 आत्मोपमर्देप्यनुमोदमानादात्माधिकं पालयतश्च वत्सान् ।
गावस्तदानीमनघामविन्दन्वात्सल्यशिक्षामिव वासुदेवात् ।।
4.73 योसावनन्तप्रमुखैरनन्तैर्निर्विश्यते नित्यमनन्तभूमा ।
वैमानिकानां प्रथमः स देवो वत्सैरलेलिह्यत वत्सलात्मा ।।
4.74 महीयसा मण्डितपाणिपद्मं दध्यन्नसारेण मधुप्लुतेन ।
दृष्ट्वा ननन्दुः क्षुधयान्वितास्तं वत्सानुचर्यासु वयस्यगोपाः।।
4.75 स्वादूनि वन्यानि फलानि तैस्तैः स्निग्धैरुपानीय निदर्शितानि ।
रामाय पूर्वं प्रतिपाद्य शेषैः स पिप्रिये सादरभुज्यमानैः ।।
4.76 ताभ्यां तदा नन्दनिदेशिताभ्यां रक्षावतीं रामजनार्दनाभ्याम् ।
विशेषभोग्यामभजद्विभूतिं बृन्दावनं व्यापृतधेनुबृन्दम् ।।
4.77 अगाधकासारमहीनशष्पमतीक्ष्णसूर्यं तदचण्डवातम् ।
प्रच्छायनिद्रायितधेनुवत्सं प्रौढे निदाघेपि बभूव भोग्यम् ।।
4.78 न व्याधिपीडा न च दैत्यशङ्का नासीद्गवां व्याघ्रभयं च तस्मिन् ।
स्वबाहुकल्पेन बलेन सार्धं नारायणे रक्षति नन्दलक्ष्मीम् ।।
4.79 निरीतयस्ते निरपायवाञ्छा निःश्रेयसादप्यधिकप्रमोदाः।
प्रपेदिरे पूर्वयुगानुभूतिँ गोपास्तदा गोप्तरि वासुदेवे ।।
4.80 वत्सानुचर्याचतुरस्य काले वंशस्वनैः श्रोत्रसुधां विधातुः।
गतागतप्राणदशामविन्दन्गोपीजनास्तस्य गतागतेषु ।।
4.81 आघ्रातवर्त्मानमरण्यभागेष्वारण्यकैराश्रितधेनुभावैः।
केनापि तस्यापहृतं किरीटं प्रत्याहरन्प्रैक्षत पत्रिनाथः।।
4.82 देवस्य दुग्धोदशयस्य दैत्याद्वैरोचनाद्व्यालभुजोपनीतः।
कृष्णस्य मौलौ कृतबर्हचूडे न्यस्तः किरीटो निबिडीबभूव ।।
4.83 समीहितैरग्निषु यायजूकैराधीयमानानि हवींषि भोक्ता ।
भक्तैकलभ्यो भगवान्कदाचित्पत्नीभिरानीतमभुङ्क्त भोज्यम् ।।
4.84 कराम्बुजस्पर्शनिमीलिताक्षानामर्शमैराकलितार्धनिद्रान् ।
वत्साननन्याभिमुखान्स मेने प्रह्वाकृतीन्भक्तिभरावनम्रान् ।।
4.85 रोमन्थफेनाञ्चितसृक्विभागैरस्पन्दनैरर्धनिमीलिताक्षैः।
अनादृतस्तन्यरसैर्मुकुन्दः कण्डूयितैर्निर्वृतिमाप वत्सैः।।
4.86 सिषेविरे शाद्वलितान्प्रदेशान्कृष्णस्य धाम्ना मणिमेचकेन ।
वसुन्धरायामपि केवसायां व्यापारयन्तो वदनानि वत्साः ।।
4.87 नवप्रसूताः स तदा वनान्ते पयस्वनीरप्रतिमानदोहाः।
परिभ्रमश्रान्तपदानदूरात्प्रत्यागतान्पाययते स्म वत्सान् ।।
4.88 निविश्य मूलेषु वनद्रुमाणां निद्रायितानां निजतर्णकानाम् ।
अङ्गानि गाः सादरमालिहन्तीरमंस्त संभाव्यगुणाः स्वमातुः।।
4.89 स नैचिकीः प्रत्यहमातपान्ते प्रत्युक्तघोषा इव वत्सनादैः ।
मधूनि वंशध्वनिभिः प्रयच्छन्निनाय भूयोपि निवासभूमिम् ।।
4.90 समाव्रजन्विश्वपतिर्व्रजान्तं गोभिः समं गोपविलासिनीनाम् ।
उल्लासहेतुः स बभुव दूरादुद्यन्विवस्वानिव पद्मिनीनाम् ।।
4.91 निवर्तयन्गोकुलमात्तवंशो मन्दायमाने दिवसे मुकुन्दः।
प्रियादृशां पारणया स्वकान्त्या बर्हावृतं व्यातनुतेव विश्वम् ।।
4.92 बालं तरुण्यस्तरुणं च बालास्तमन्वरज्यन्त समानभावाः ।
तदद्भुतं तस्य विलोभनं वा तस्यैव सर्वार्हरसात्मता वा
4.93 अवेदिषातां पृथुकौ पितृभ्यां तारुण्यपूर्णौ तरुणीजनेन ।
वृद्धौ पुरावृत्तविशेषविद्भिः क्लृप्तेन्द्रजालाविव रामकृष्णौ ।।
4.94 अथापदानं मदनस्य दातुमादातुमालोकयतां मनांसि ।
नवं वयो नाथसमं प्रपेदे गुणोत्तरं गोपकुमारिकाभिः ।।
4.95 अनङ्गसिन्धोरमृतप्रथिम्ना रसस्य दिव्येन रसायनेन ।
महीयसीं प्रीतिमवाप तासां योगी महान्यौवनसंभवेन ।।
4.96 विजृम्भमाणस्तनकुड्मलानां व्यक्तोन्मिषद्विभ्रमसौरभाणाम् ।
मधुव्रतत्वं मधुराकृतीनां लेभे लतानामिव वल्लवीनाम् ।।
4.97 अतिप्रसङ्गादवधीरयन्त्या प्राचीनया संयमितो नियत्या ।
पाञ्चालकन्यामिव पञ्चभुक्तां धर्मः सतीरादृत तादृशीस्ताः ।।
4.98 दिशागजानामिव शाक्कराणां शृङ्गाग्रनिर्भिन्नशिलोच्चयानाम् ।
स तादृशा बाहुबलेन कण्ठान्निपीड्य लेभे पणितेन नीलाम् ।।
4.99 करेण दम्भोलिकठोरतुङ्गान्देहान्पृथून्दानवदुर्वृषाणाम् ।
विमृद्य नूनं विदधे मुकुन्दः प्रियास्तनस्पर्शविहारयोग्याम् ।।
4.100 आत्मीयपर्यङ्कभुजङ्गकल्पावक्षेप्यरक्षापरिघौ पृथिव्याः।
नीलोपधानीकरणात्स मेने भूयिष्ठधन्यौ भुजपारिजातौ ।।
4.101 रागादिरोगप्रतिकारभूतं रसायनं सर्वदशानुभाव्यम् ।
आसादनुध्येयतमं मुनीनां दिव्यस्य पुंसो दयितोपभागः ।।
4.102 अनुद्रुता नूनमनङ्गबाणैः सुलोचना लोचनभागधेयम् ।
प्रत्यग्रहीषुः प्रतिसंनिवृत्तं त्यक्तेतरैरक्षिभिरात्मना च ।।
4.103 व्रजोपकण्ठे विबुधानुभाव्यो गोपीजनैरात्मगुणावदातैः।
समावृतो नन्दसुतश्चकाशे तारागणैरिन्दुरिवान्तरिक्षे ।।
4.104 हत्वा सयूथं तृणराजषण्डे रामाच्युतौ रासभदैत्यमुग्रम् ।
अतोषयेतां भृशमात्मभृत्यान्स्वाद्यैः सुधापिण्डनिभैः फलौघैः ।।
4.105 कदाचिदासादितगोपवेषः क्रीडाकुले गोपकुमारबृन्दे ।
स्कन्धेन संगृह्य बलं बलीयान्दैत्यः प्रलम्बो दिवमुत्पपात ।।
4.106 पपात भूमौ सहसा स दैत्यस्तन्मुष्टिना ताडितशीर्णमौलिः।
महेन्द्रहस्तप्रहितेन पूर्वं वज्रेण निर्भिन्न इवाचलेन्द्रः ।।
4.107 स्ववाससा क्लृप्तकलङ्कलक्ष्मीः कान्त्या दिशश्चन्द्रिकयेव लिम्पन् ।
रराज रामो दनुजे निरस्ते स्वर्भानुना मुक्त इवोडुराजः।।
4.108 विनैव रामेण विभुः कदाचित्संचारयन्धेनुगणं सवत्सम् ।
वनश्रिया दूरविलोभिताक्षः कंचिद्ययौ कच्छमदृष्टपूर्वम् ।।
4.109 यदृच्छया चारितधेनुचक्रः कूलान्तिके विश्वजनानुकूलः।
कलिन्दजां कालियपन्नकस्य क्ष्वेसोद्गमैः कज्जलितां ददर्श ।।
4.110 विषाग्निना मुर्मुरितप्रताने वैरोचनीतीरवनावकाशे ।
अहीन्द्रमास्कन्दितुमध्यरुक्षत्काष्ठाकृतिं कंचन नीपवृक्षम् ।।
4.111 मधुद्रवारुल्बणहर्षबाष्पारोमाञ्चिता केसरजालकेन ।
पत्राङ्कुरैश्चित्रतनुश्चकाशे कृष्णाश्रिता शुष्ककदम्बशाखा ।।
4.112 निपत्य संक्षिप्तपयोधिकल्पे महाह्रदे मन्दरपोतरम्यः।
विषव्यपोहादमृतं विधातुं स्वादूदयं क्षोभयति स्म सिन्धुम् ।।
4.113 कृताहतिः कृष्णनिपातवेगादानद्धरूपा विततैस्तरङ्गैः।
सर्पापसारौषधिसंप्रयुक्ता भेरीव सा भीमतरं ररास ।।
4.114 प्रसक्तकृष्णद्युतिभिस्तदीयैः पृषत्कणैरुत्पतितैः प्रतूर्णम् ।
अदृश्यताद्योतितमन्तरिक्षं पीतान्धकारैरिव तारकौघैः ।।
4.115 उदग्रसंरम्भमुदीक्ष्य भीतास्तार्क्ष्यध्वजं तार्क्ष्यमिवापतन्तम् ।
प्रपेदिरे सागरमाश्रितौघाः काकोदराः कालियमात्रशेषाः।।
4.116 अथाम्भसः कालियनागमुग्रं व्यात्ताननं मृत्युमिवोज्जिहानम् ।
भोगेन बध्नन्तमपोह्य शौरिः प्रह्वीकृतं तत्फणमारुरोह ।।
4.117 सद्यो महानीलमयीं मुकुन्दः सपद्मरागामिव पादपीठीम् ।
क्रामन्फणां कालियपन्नगस्य ग्रस्तोदितो भानुरिवावभासे ।।
4.118 फणामणीनां प्रभयोपरक्ते खेलन्प्रभौ चक्रिणि चक्रपाणिः ।
प्रदोषसिन्दूरितमम्बुवाहं प्राचेतसो नाग इवोपमृद्गन् ।।
4.119 प्रणेमुषां प्राणभृतामुदीर्णं मनो विनेष्यन्विषमाक्षवक्त्रम् ।
अकल्पयत्पन्नगमर्दनेन प्रायेण योग्यां पतगेन्द्रवाहः ।।
4.120 तद्भोगबृन्दे युगपन्मुकुन्दश्चारीविशेषेण समैक्षि नृत्यन् ।
पर्याकुले वीचिगणे पयोधेः संक्रान्तबिम्बो बहुधेव चन्द्रः ।।
4.121 तदुत्तमाङ्गं परिकल्प्य रङ्गं तरङ्गनिष्पन्नमृदङ्गनादम् ।
प्रशस्यमानस्त्रिदशैरकार्षीदव्याहतामारभटीमनन्तः।।
4.122 एकेन हस्तेन निपीड्य वालं पादेन चैकेन फणामुदग्राम् ।
हरिस्तदा हन्तुमियेष नागं स एव संसारमिवाश्रितानाम् ।।
4.123 स पन्नगीनां प्रणिपातभाजां द्रवीभवन्दीनविलापभेदैः।
प्रसादितः प्रादित भर्तृभिक्षां किमस्य नः स्यादपदं दयायाः ।।
4.124 लोलापतच्चरणलीलाहतिक्षरितहालाहले निजफणे
नृत्यन्तमप्रतिघकृत्यं तमप्रतिममत्यन्तचारुवपुषम् ।
देवादिभिः समयसेवादरत्वरितहेवाकघोषमुखरै
र्दृष्टावधानमथ तुष्टाव शौरिमहिरिष्टावरोधसहितः ।।
4.125 हरिचरणसरोजन्यासधन्योत्तमाङ्गः शमितगरुडभीतिः सानुबन्धः स नागः।
युगविरतिदशायां योगनिद्रानुरूपां शरणमशरणः सन्प्राप शय्यां तदीयाम् ।।
4.126 विविधमुनिगणोपजीव्यतीर्था विगमितसर्पगणा परेण पुंसा ।
अभजत यमुना विशुद्धिमग्र्यां शमितबहिर्मतसंप्लवा त्रयीव ।।
4.127 अवधूतभुजङ्गसङ्गदोषा हरिणा सूर्यसुता पवित्रिता च ।
अपि तत्पदजन्मनः सपत्न्या बहुमन्तव्यतरा भृशं बभूव ।।
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये निर्बाधगोचारणं नाम चतुर्थः सर्गः ।।