श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
त्रयोदशः सर्गः
13.1 प्रसादभाजः प्रतिनिर्गतां तां प्रासादतो वासववल्लभायाः ।
समग्रशक्तिः समयोपयातः प्राणेश्वरीं प्राप्तुमियेष शौरिः ॥ १ ॥
13.2 तामद्भुतां सिद्धिमिवाद्भुतानां सौभाग्यविद्यामिव सद्गुणानाम् ।
सत्तामनन्यामिव सद्गुणानां यथाश्रुतं प्रैक्षत यादवेन्द्रः ॥ २ ॥
13.3 अङ्गैरवज्ञातकदम्बगोलैरस्पन्दमन्देन विलोचनेन ।
लीलोपशान्त्या लिखितेव साऽभूत् दामोदरे दृष्टिपथं प्रयाते ॥ ३ ॥
13.4 पद्माकराणां परिषन्निवेशे पर्याप्तचन्द्रायुतकान्तिपू(सा)रे ।
अनन्यलभ्यां लभते स्म तृप्तिं तस्या मुखे दृष्टिरतीव शौरेः ॥ ४ ॥
13.5 वाचस्पतित्वं च वनस्पतीनां दिव्येतरेषां च दिवस्पतित्वम् ।
दातुं क्षमाया दयिते तदानीमाज्ञापको नूनमभूदनङ्गः ॥ ५ ॥
13.6 तस्मिन् द्वितीयामिव वैजयन्तीं सा च प्रिये साचिविशेषरम्याम् ।
कटाक्षमालां निबबन्ध कृष्णे कामाधिके कौतुकमेदुराक्षी ॥ ६ ॥
13.7 अलक्ष्यभेदत्रिविधाम्बुजाभैरालक्ष्यशृङ्गारगुणानुबन्धैः ।
स्वयंवरस्रग्भिरभावि तस्याः कालोदिते कंसरिपौ कटाक्षैः ॥ ७ ॥
13.8 स वैजयन्त्यादिविभावशाली निर्व्याजनिष्पन्ननिजानुभावः ।
शृङ्गारवीराद्भुतचित्रितात्मा रम्यस्तया निर्विविशे रसोऽन्यः ॥ ८ ॥
13.9 आकेकराणामनघस्तदानीमेकक्षणं लक्ष्यमभूत् बहूनाम् ।
तस्याः स्थिरानन्दपरिप्लुतानामर्थस्पृशामर्धविलोकितानाम् ॥ ९ ॥
13.10 तस्याश्चिराकाङ्क्षितलाभधन्यैरपत्रपामन्थरितैरपाङ्गैः ।
बभार भूयो बहुमानपूर्वं बाल्ये धृतां बर्हिकलापभूषाम् ॥ १० ॥
13.11 सन्तानसौभाग्यघनेन यूना सिक्ता सुधासारनिभैरपाङ्गैः ।
उद्भिन्नरोमाञ्चततिर्बभासे कान्तप्ररोहा कलमस्थलीव ॥ ११ ॥
13.12 स्वकान्तिसाम्यादिव जातसङ्गैः शौरिस्तदा स्वागतसूक्तिगर्भैः ।
प्रियासखीनामभजत् प्रहृष्टैरुद्वीक्षणैरुत्पलपुष्पवृष्टिम् ॥ १२ ॥
13.13 स रुक्मिणीनेत्रचकोरचन्द्रः सा तत्प्रहर्षाम्बुजपूर्वसन्ध्या ।
तदद्भुतद्वन्द्वमवेक्ष्य सद्यो (प्रापु)ययुस्तुलामप्सरसामनूनाम् ॥ १३ ॥
13.14 तयैव तादात्म्यमिवाऽऽगतानां तस्याः सखीनां सममाविरासन् ।
परस्य वीक्षां प्रतिसल्लपन्तो वक्रोक्तिगर्भा इव मन्दहासाः ॥ १४ ॥
13.15 स कौस्तुभाभ्यर्णनिवेशयोग्यं कन्यामयं कामपयोधिरत्नम् ।
परीतमारात् प्रतिहारपालैः पश्यन् क्षणं पान्थ इवावतस्थे ॥ १५ ॥
13.16 तं माल्यभूषापरिकर्मिताङ्गं धारातटित्वन्तमिवाम्बुवाहम् ।
समीक्ष्य बाला तदनन्यदृष्टिश्चर्यामवालम्बत चातकानाम् ॥ १६ ॥
13.17 तलोदरीं तालफलस्तनीं तां ताम्राधरां चारुनवोत्पलाक्षीम् ।
किं नाम भावीति विभावयन्तीं कृष्णस्तदा किञ्चिदिवाऽऽससाद ॥ १७ ॥
13.18 दुर्दर्शमध्यां द्विरदेन्द्रयातां व्यूहक्रमव्यक्तविचित्रगात्रीम् ।
परैरभेद्यां प्रतिजग्मुषीं तां कान्तात्मिकां कामचमूं स मेने ॥ १८ ॥
13.19 स चन्द्रिकां चन्द्र इवाभियातश्चन्द्राननां यादववंशचन्द्रः ।
निर्वेशनीयः सविशेषमासीत् नेदीयसां नेत्रचकोरबृन्दैः ॥ १९ ॥
13.20 अहं त्वया दूतमुखेन दूरात् साध्व्या समाहूत इहोपयातः ।
मा ते भयं भूदिति मञ्जुभाषी तामग्रहीदग्रकरे मुकुन्दः ॥ २० ॥
13.21 प्रियेण सा तेन गृहीतहस्ता तद्वक्त्रदिव्याम्बुजषट्पदेन ।
विलोचनेन व्यवृणोत् सखीभ्यः कृतार्थतां क्षीबदशोल्बणेन ॥ २१ ॥
13.22 प्राचोऽवतारान् अतिशय्य भूम्ना सा रुक्मिणी तेन वृता चकाशे ।
तस्यैव रूपान्तरदूरवृत्तिः कन्दर्पजन्मानुगुणेव कान्तिः ॥ २२ ॥
13.23 मल्लीविकासोज्ज्वलमन्दहासा रोमोद्गमैराहितकोरकश्रीः ।
समेयुषी सन्ददृशे तदा सा वसन्तलक्ष्मीरिव माधवेन ॥ २३ ॥
13.24 अघर्मजस्वेदकणावकीर्णामभीतिजं वेपथुमुद्वहन्तीम् ।
अनुष्णबाष्पोदयमन्थराक्षीं विलोक्य देवीं विभु(हरि)रभ्यनन्दत् ॥ २४ ॥
13.25 हरिप्रियां केसरिणीमिवैनां दुरासदामन्यनृपद्विपेन्द्रैः ।
सखीजनः प्रीतमना निदध्यौ ययौ च खेदं निजविप्रयोगात् ॥ २५ ॥
13.26 मिथो गुणैस्तन्मिथुनं निबद्धं वियोगवैदेशिकसंप्रयोगम् ।
अजायतान्योन्यनिलीनभावं सखीदृशां सादरदर्शनीयम् ॥ २६ ॥
13.27 जगत्त्रयार्तिप्रशमाय जातां विहारसंक्षोभितवैरिसिन्धुः ।
देवेषु पश्यत्स्विव पूर्वमेनां जग्राह तां जाग्रति राजलोके ॥ २७ ॥
13.28 स पुष्पकं राम इव प्रियां स्वामुत्तारितां शत्रुभयादुदीर्णात् ।
मनोजवं सत्यमनोरथस्तामारोपयामास रथं रथाङ्गी ॥ २८ ॥
13.29 सा चामरौघैरुपचर्यमाणा वातावधूतैरिव काशजालैः ।
रराज नाथेन रथोदयाद्रौ चन्द्रेण पूर्णेन शरन्निशेव ॥ २९ ॥
13.30 परस्परप्राप्तगुणेन भासा बर्हावृतं व्योम विभावयन्तौ ।
विरेजतुस्तुङ्गरथाश्रयौ तौ विद्युत्पयोदाविव मन्दरस्थौ ॥ ३० ॥
13.31 प्रभेव देवेन तमोपहेन प्रत्यग्दिशं तेन सह प्रयान्ती ।
नित्यानपायित्वमजानतीनां सत्यापयामास निजं प्रजानाम् ॥ ३१ ॥
13.32 तामुद्वहंस्तामरसायताक्षो रत्नौघदीप्तेन रथेन देवीम् ।
आत्मानमेवार्यममण्डलस्थं विद्यासखं व्यञ्जयति स्म वीरः ॥ ३२ ॥
13.33 अतीतदर्शामिव चन्द्रलेखां शान्तोपरोधामिव शारदीं द्याम् ।
अमंस्त निर्विघ्नफलामिवेच्छां शोकत्यजं शूरकुलेश्वरस्ताम् ॥ ३३ ॥
13.34 समेत्य सिंहीमिव तामनन्यां यानोद्यतं यादवपञ्चवक्त्रम् ।
आघुष्य गोमायुरिवामिषार्थी चैद्यः क्रुधा दीप्तमुखोऽन्वधावत् ॥ ३४ ॥
13.35 रुक्मी च तूर्णं प्रतिपन्नरोषः पुरो भवन् भूमिभृतां सखीनाम् ।
पराभवस्य प्रतिकारमिच्छन् जग्राह पार्ष्णिं जगदेकनेतुः ॥ ३५ ॥
13.36 जिघांसिते भ्रातरि जातखेदैः कान्ताभिलापैः कतकैरिवाम्भः ।
मनः प्रपेदे सहजां प्रसत्तिं सत्त्वाधिकं(कां) सात्त्वतवंशगोप्तुः ॥ ३६ ॥
13.37 स वीक्षमाणः सविलासनेत्रं वल्गुस्मितं वामदृशो मुखाब्जम् ।
तदुक्तिभिः स्वादुतमाभिरासीदाप्यायितो नूनमनाविलाभिः ॥ ३७ ॥
13.38 अनुद्रुतां वैरिचमूं स वीरो बलेन रुद्ध्वा निजबाहुनैव ।
विनिर्दिशन् मार्गभवान् विशेषान् विश्वासयामास विदर्भकन्याम् ॥ ३८ ॥
13.39 प्रियासहायः पदवीं स गच्छन् द्राघीयसीं दारुकसारथिस्ताम् ।
उदग्रवेगान् उदधेरनूपे वीतीन् क्षणं विश्रमयांबभूव ॥ ३९ ॥
13.40 भयार्णवादुद्धृतया स्वयाऽसौ श्रियेव साक्षादनुभूयमानः ।
पयोधिरूपां परिघां विलङ्घ्य द्युसंमितां द्वारवतीमयासीत् ॥ ४० ॥
13.41 परिष्कृतां काञ्चनतोरणैस्तां वल्गुध्वजां वन्दनदामचित्राम् ।
रामासहायः प्रसमीक्ष्य रेमे रम्यप्रसूनाञ्चितराजवीधीम् ॥ ४१ ॥
13.42 महीयसां मङ्गलदुन्दुभीनां नादैरवज्ञातपयोधिशब्दा ।
श्रुतोत्सवानां विदधे पुरी सा स्वर्गौकसां श्रोत्रसुधामपूर्वाम् ॥ ४२ ॥
13.43 प्रत्येयुषां कंसरिपुर्यदूनां देवद्रुमाणामिव जङ्गमानाम् ।
अनर्घरत्नाभरणप्रधानान् आदत्त दिव्यान् उपदाविशेषान् ॥ ४३ ॥
13.44 तस्मिन् महानीलमणिप्रकाशे तां रुक्मिणीमाहितरुक्मकान्तिम् ।
पुराङ्गनाः प्रेक्षितुमीहमानाः स्वर्गाधिकान् आरुरुहुः स्वसौधान् ॥ ४४ ॥
13.45 कलक्वणन्नूपुरचारुवाद्यं कर्णावतंसोदितभृङ्गगीतम् ।
कस्याश्चिदन्वागतनाट्यवेदं लीलागतं लास्यमभूदपूर्वम् ॥ ४५ ॥
13.46 परिच्युतं किञ्चिदिवान्तरीयं काचित्समालम्ब्य सहैव काञ्च्या (कान्त्या) ।
क्षिप्तेव तीव्रेण कुतूहलेन क्षणेन वातायनमाससाद ॥ ४६ ॥
13.47 आमुच्य ताटङ्कमनङ्गचक्रं सव्येतरे सत्वरमाव्रजन्ती ।
अन्येन काचिद्भृशमाबभासे कर्णेन कैवल्यविभूषणेन ॥ ४७ ॥
13.48 उदञ्चिता बाहुलतेतरस्या मौलिस्रजा हस्तगृहीतयाऽऽसीत् ।
जगज्जिगीषोर्मदनस्य जैत्री पताकयेवाद्भुतकेतुयष्टिः ॥ ४८ ॥
13.49 प्रकोष्ठभाजः प्रियशारिकायाः पयः स्वयं सादरमर्पयन्ती ।
गवाक्षमागम्य गजेन्द्रयाता काचित् (वि)प्रसस्मार कृतावशेषम् ॥ ४९ ॥
13.50 प्रचारवेगात् त्रुटितेन चक्रे हारेण मुक्ताफलवर्षिणाऽन्या ।
अदूरतः सन्निहितस्य शौरेराचारलाजाञ्जलिपूर्वरङ्गम् ॥ ५० ॥
13.51 स्तनांशुकं स्रस्तमबुध्यमाना सखीजने सस्मितमीक्षमाणे ।
परामृशन्ती विततान काचित् प्रतिक्रियां पाणिनखांशुजालैः ॥ ५१ ॥
13.52 सखीधृतैश्चामरतालवृन्तैराश्यानतां प्रापितमङ्गरागम् ।
विलोकिते शार्ङ्गिणि विह्वलाऽन्या श्वासानिलैः शोषमिवानिनीषत् ॥ ५२ ॥
13.53 प्रसाधयन्तीम् अवधीर्य (अपवार्य?) धात्रीमङ्गैरसम्भावितभूषणाऽन्या ।
समीक्ष्य कृष्णं सहसोपजातैः परिष्क्रियामाद्रियतेव भावैः ॥ ५३ ॥
13.54 भ्रुवा स्फुरन्त्या मदनस्य मौर्वीं (र्वी)ज्याघातरेखामभि(पि?)दर्शयन्ती ।
अन्यानुषक्तेऽपि हरौ वियातां प्रायुङ्क्त दूतीमिव दृष्टिमन्या ॥ ५४ ॥
13.55 समेयुषीमप्रतिमेन यूना तां रक्मिणीं वी(प्रे)क्ष्य विलीनभावा ।
भाग्यं किमस्या इति भावयन्ती तदात्मतां नूनमलिप्सतान्या ॥ ५५ ॥
13.56 तदीक्षणे भर्तुरिव स्मरन्त्या कन्यादशां कामवशाद्भजन्त्या ।
स्वयंवरार्हे स्वयमेव तस्मिन् कयाचिदाधायि कटाक्षमाला ॥ ५६ ॥
13.57 कक्ष्यानिबन्धच्यवने सलीलं स्तनाहितस्वस्तिकबाहुबन्धा ।
जगत्पतौ पश्यति जातभीषा प्रायस्तदालिङ्गनमभ्यनैषीत् ॥ ५७ ॥
13.58 रथेन तं राजपथे प्रयान्तं निर्व्याजसङ्गेन निशामयन्ती ।
त्यक्ता निमेषैरपराऽन्वकार्षीत् चित्राङ्गनानां सुरयोषितां च ॥ ५८ ॥
13.59 समीक्षितस्यापि सहत्वसङ्गात् दुष्प्रापलोभादपि दूयमाना ।
गलद्भिरन्या वलयप्रसूनैरभ्यर्चनामातनुतेव शौरेः ॥ ५९ ॥
13.60 समानकान्त्या प्रियया समेते दृष्टे जगद्धातरि जातरागा ।
प्रणामयोग्येयमितीव मत्वा प्राप्तं पदं मेखलया परस्याः ॥ ६० ॥
13.61 तासां तदेकोत्सुकदर्शनानां समाधिभाजामिव शेमुषीणाम् ।
अलं प्रभुस्सोऽपि न मातुमासीदपारहर्षादनघामवस्थाम् ॥ ६१ ॥
13.62 अवारुणीसम्भवसौरभैस्तैरनन्यसाध्याधरबिम्बरागैः ।
निरञ्जनोपस्थितनेत्रशोभैः स पिप्रिये पौरवधूमुखाब्जैः ॥ ६२ ॥
13.63 स पौरकन्याकरविप्रकीर्णान् प्रायः प्रतीच्छन् उपचारलाजान् ।
अचीचरत् स्यन्दनमब्जनेत्रः सव्यापसव्येन गतेन वीधी(ध्या?)म् ॥ ६३ ॥
13.64 कह्लारपद्मोत्पलकान्तिचोरैः कटाक्षणैः पौरवधूजनानाम् ।
मुग्धेन्दुहासो मुमुदे मुकुन्दः पश्यन् प्रियां प्रापितपुष्पवृष्टिम् ॥ ६४ ॥
13.65 कृष्णस्य तां स्कन्धमुपघ्नयन्तीं सुरद्रुमस्येव सुवर्णवल्लीम् ।
अवेक्ष्य नूनं चतुरः पुमर्थान् अनन्यलभ्यानलभन्त पौराः ॥ ६५ ॥
13.66 वक्त्रैः सुधासोदरकान्तिपूरैः कस्तूरिकापत्र(ङ्क)कलङ्कदृश्यैः ।
अलक्ष्यदेहा विदधुर्मृगाक्ष्यः प्रत्युप्तपूर्णेन्दुशतान् गवाक्षान् ॥ ६६ ॥
13.67 शुचिस्मिताः सौधतलान्तरस्थाः पद्मेक्षणं प्रेक्ष्य परिस्फुरन्त्यः ।
शरत्पयोदोदरसंश्रितानां क्षणद्युतीनां द्युतिमन्वविन्दन् ॥ ६७ ॥
13.68 अपाङ्गजालैरसितोत्पलाभैः कृष्णात्मकं भावमिवोद्वमन्त्यः ।
वितेनिरे राजपथे मृगाक्ष्यः तदादृतां बर्हवितानशोभाम् ॥ ६८ ॥
13.69 हरेरभिख्यामनुपाधि(मनपाय)रम्यां विलोचनैर्वीतनिमेषविघ्नैः ।
आस्वादयन्त्यः सुदृशस्तदानीमयत्ननिष्पीतसुधा इवाऽऽसन् ॥ ६९ ॥
13.70 अम्भोरुहाणामवलेपसीमां कर्णोत्पलानामपि कान्तिकक्ष्याम् ।
विलङ्घयन्तः सुदृशां कटाक्षा विलिल्यिरे कृष्णमवाप्य लक्ष्यम् ॥ ७० ॥
13.71 तमात्मवन्तं परविद्ययेव पराक्रमं तत्परयेव लक्ष्म्या ।
तमेव देवं दययेव जुष्टं संमेनिरे तत्त्वविदः सभार्यम् ॥ ७१ ॥
13.72 तां प्राप्य चित्रामिव तारकेशः स्तव्यैः स्तुतो वन्दिगणैरभौमैः ।
विवेश धाम स्वमुदीर्णधामा वैवाहिकीं सम्पदमाप्तुमिच्छन् ॥ ७२ ॥
13.73 विहारयोगेन विभज्य युक्तं मिथोऽनुरूपं मिथुनं तदाद्यम् ।
उपाचरन् व्योमचरा यथार्हं संप्रीणनैरुत्सवसंविधानैः ॥ ७३ ॥
13.74 सदाऽभिगम्यैरभिगम्यमानं विश्राणने वैश्रवणात् प्रभूतम् ।
तं शङ्खपद्मप्रमुखा महान्तः सिषेविरे शेवधयः समेताः ॥ ७४ ॥
13.75 अकृत्स्नसंवेदिनि जीवलोके सङ्ग्राहयन् धर्ममथात्मवृत्त्या ।
प्रत्यर्चयामास मुनीन् उपेतान् प्रभुः स्वयं प्रेष्य इवोपचारैः ॥ ७५ ॥
13.76 अपत्रपाविप्लुतचेतसो ये त्यक्त्वा विपक्षं तरसोपसेदुः ।
यथाक्रमं सात्यकिरुत्सवादौ संभावयामास सभासदस्तान् ॥ ७६ ॥
13.77 शुभंयवः स्वामिमहोत्सवेन स्वाराज्यमक्षय्यमिवाप्तवन्तः ।
दत्तोपचारा वसुदेवदारैः पुण्याशयाः पौरजनाः जहर्षुः ॥ ७७ ॥
13.78 सहोदरन्यस्तभरस्तदात्मा रुक्माणि रत्नानि च रौहिणेयः ।
अदत्त सन्तोषवशादभीक्ष्णं वाञ्छाधिकं वन्दिवनीपकानाम् ॥ ७८ ॥
13.79 अनन्यभक्तैरनुभाव्यभूम्ना दत्ते(त्त)क्षणो दानपतिस्त्रिधाम्ना ।
समाहितैः संमतमुद्धवाद्यैः पुरोधसां पूजनमाचचार ॥ ७९ ॥
13.80 आहन्यमाना धृतहेमकोणैः गन्धर्वमुख्यैरिव गाढविद्यैः ।
जातानुनादा जगतां त्रयाणां दोषच्छिदो दुन्दुभयः प्रणेदुः ॥ ८० ॥
13.81 विभावितं शिक्षितनाट्यवेदैरुद्वाहसङ्गीतमुदारकॢप्तम् ।
प्रसादनं दृष्टिमनश्श्रुतीनामदिव्यमास्कन्दितदिव्यमासीत् ॥ ८१ ॥
13.82 लावाण्यपूरं ललिताङ्गयष्टेः कार्त्स्न्येन निर्वेष्टुमपारयन्त्यः ।
अङ्गानि वध्वाः कुलवृद्धनार्यः प्रसाधनैरन्तरयांबभूवुः ॥ ८२ ॥
13.83 प्रयुज्यमानानि तयोर्यथार्हं म(मा)ङ्गल्यमाल्याभरणाक्षतानि ।
प्रायेण लोकाभ्युदयं प्रदातुं तत्सङ्गमात् तादृशतामकाङ्क्षन् ॥ ८३ ॥
13.84 अरातिपक्षार्णवमन्दराभे हस्ते हरेर्यत्तदबन्धि सूत्रम् ।
तदाददे स्थानवशादभिख्यां संवीतनागेन्द्रनिदर्शनीयाम् ॥ ८४ ॥
13.85 समेधितस्तस्य विवाहवह्निः पुरोधसा पुण्यकृदग्रिमेण ।
प्रदक्षिणावृत्त(वर्त)शिखाकलापः प्रायेण नीराजनमाततान ॥ ८५ ॥
13.86 आशास्य लाजाञ्जलिहोमभाजा क्षेमाशिषा किञ्चिदशेषहृद्यम् ।
अन्योन्यमाकेकरसस्मिताक्षावपश्यतामादिमदम्पती तौ ॥ ८६ ॥
13.87 वैलक्ष्यडोलामिव संश्रितानां विलोचनानां ववृधे विहारैः ।
तयोरनन्यादृशवैभवानामन्योन्यराजीवमधुव्रतानाम् ॥ ८७ ॥
13.88 परस्परं पाणिसरोजयोगात् बभूवतुस्तौ पुलकाञ्चिताङ्गौ ।
अस्विद्यतां च ज्वलनस्तु मन्दैरसूत धूमैरधिवासमात्रम् ॥ ८८ ॥
13.89 समन्त्रकं साक्षिणि हव्यवाहे सख्योचितां सप्तपदीं भजन्तौ ।
स्वशासनेन स्वयमन्वयातामाचारमागन्तुकदम्पतीनाम् ॥ ८९ ॥
13.90 अन्वेतु विष्णुः स्वयमित्युदीर्य प्रियां पराधीन इवानुगच्छन् ।
जायापतीनां जगदुद्भवानां भव्यां दशां भावयति स्म नाथः ॥ ९० ॥
13.91 आत्मानमेव स्वयमग्निरूपं परिक्रमैः पर्यचरत् स देवः ।
विश्वस्य बाह्यान्तरनित्यवृत्त्या न कर्म कर्ता च य एव येषाम् ॥ ९१ ॥
13.92 प्रदक्षिणेन क्रमणेन ताभ्यां दत्तार्चनो दिव्यवधूवराभ्याम् ।
नूनं तथाऽऽनर्च विघूर्णनेन स्वान्तःस्थितौ वह्निरपि स्वयं तौ ॥ ९२ ॥
13.93 तस्याः सलीलं चरणारविन्दं कामी गृहीत्वा करपङ्कजाभ्याम् ।
आस्थापयत् यां दृषदं मुकुन्दः साऽभूत् स्वयं मौलिमणिः श्रुतीनाम् ॥ ९३ ॥
13.94 यदत्र कर्मण्ययथाकृतं तत् स्विष्टं क्रियादग्निरिति ब्रुवाणः ।
स्वतेजसा भावितविश्वतेजाः स्वाहासखं देवमुपास्त देवः ॥ ९४ ॥
13.95 रामस्य सीतेव रमेव विष्णोरमुष्य भूयास्त्वमिहैकपत्नी ।
इत्यूचिषो यादववृद्धदारान् प्रीताशया प्रैक्षत सा सनाथा ॥ ९५ ॥
13.96 वरेण वन्द्येन सुरासुराणां मङ्गल्यसीमान्तभुवा च वध्वा ।
समीक्षिता ब्रह्मसुतस्य पत्नी सर्वैरभूत् सादरदर्शनीया ॥ ९६ ॥
13.97 तदेकभावा तमनन्यभावं नाथप्रिया नाथमनुव्रजन्ती ।
अभीष्टसिद्धेरधिदेवतेयं यद्वा सवित्रीति यथार्थमूचे ॥ ९७ ॥
13.98 मनुष्यतां मानयतो विहारैः स्वामेव देवीमुपयच्छतस्ते ।
समेधतां मङ्गलमित्युशन्तः सत्याशिषस्तं मुनयः शशंसुः ॥ ९८ ॥
13.99 कृताशिषं कृष्णगृहेश्वरीं तां पुरोधसा पुण्यमनोरथेन ।
सकौतुकां कौतुकिनः सुरत्नैरभ्यर्चयामासुरमात्यवृद्धाः ॥ ९९ ॥
13.100 प्रदाय ताभ्यामुपदाः समीचीः प्रत्यागताः स्वानि गृहाणि पौराः ।
आशापतीनां विभवादनूनां तत्रैव ते सम्पदमन्वभूवन् ॥ १०० ॥
13.101 स्त्रीपुंसनाम्ना बहुधा विभक्तं विश्वं ययोरेव विभूतिमाहुः ।
नयो जहौ द्वारवतीं न ताभ्यामङ्गीकृतामादिमदम्पतिभ्याम् ॥ १०१ ॥
13.102 वधूसखे तत्र जगन्निवासे वसत्यमर्यादगुणानुभावे ।
तस्मिन्निवाऽऽसीदनपायभावा तस्यां नगर्यामपि रुक्मिणी श्रीः ॥ १०२ ॥
13.103 तस्याः कटाक्षैर्विहिताभिषेकः तद्बाहुना कल्पितकण्ठमाल्यः ।
अवाप शोभामधिकां मुकुन्दः सौभाग्यसिंहासनसार्वभौमीम् ॥ १०३ ॥
13.104 कदम्बगोलश्रियमाक्षिपन्तं कन्दर्परूपोदयपूर्वरूपम् ।
प्रियापरिष्वङ्गरसेन धन्यं प्रीताशयो बह्वमताऽऽत्मदेहम् ॥ १०४ ॥
13.105 तां प्राप्य कृष्णः प्रभुतामिव स्वां मनःप्रसूतेरिव मन्त्रसिद्धिम् ।
आसीदभीतैः सहसाऽभिगम्यो मित्त्रैरमित्त्रैरपि सापराधैः ॥ १०५ ॥
13.106 श्रीवत्ससंस्थानजुषा प्रकृत्या स्थानेन चिह्नेन च लक्षणीयौ ।
दृष्टावभीष्टं भजतां ददाते जगत्पती ताविह दम्पती द्वौ ॥ १०६ ॥
13.107 न ते मनुष्या न च देवतास्ते प्रायेण तावेव तथाभवन्तौ ।
यैरेवमन्योन्यविभूषितं तत् द्वन्द्वातिगं द्वन्द्वमवैक्षि धन्यैः ॥ १०७ ॥
13.108 अथ समुदितहर्षैरादृतो मन्त्रिवृद्धैः
सुरपतिदयिताभिः स्तूयमानापदानः ।
रुचिमिव निरपायां रुक्मिणीं प्राप्य हृष्यन्
यदुपतिरधिचक्रे यायजूकाधिकारम् ॥ १०८ ॥
13.109 सुभगमुपलबिम्बे शातकुम्भेऽपि रत्नं
कनति विपिनभागे कालकण्ठेऽपि गङ्गा ।
वशिकनृपगृहे सा वासुदेवेऽप्यदीव्यत्
न हि भवति विशेषः क्वापि नित्योन्नतानाम् ॥ १०९ ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्भेकटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये रुक्मिणीपरिणयो नाम त्रयोदशः सर्गः ।।