[highlight_content]

यादवाभ्युदयः सर्गः-8

श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्

।। यादवाभ्युदयः ॥

अष्टमः सर्गः

8.1       अथ प्रसूनायुधभागधेयान्यारब्धमन्दानिलसौतिकानि ।

मधुप्रसङ्गान्मधुराणि यूनामनुष्णशीतान्यभवन् दिनानि ।।

8.1       अनेकरूपैः स्वयमेकरूपः कालात्मकं रूपमकालकाल्यः।

ऋतुप्रभेदैरनुभूय रेमे रामासखो राममनुप्रयातः।।

8.3       हेमन्तपूर्वः शिशिरान्तिमश्च शरच्च संभूय वसन्तवृत्त्या ।

शनैश्शनैः शान्तिमुपेयिवांसस्तद्वैभवातं तन्मयतामिवा पुः।।

8.4       प्रायेण पञ्चायुधपञ्चवक्त्रः पलाशकोशाकृतिमाददानैः।

मनस्विनीमानगजेन्द्रभेदात् सशोणितैः पाणिरुहैश्चकाशे ।।

8.5       जगन्ति पुण्ड्रेक्षुशरासनेन प्रसूनबाणैरपि जेतुमिच्छोः।

असूचयन् आत्मभुवः स्वनादैरव्याहतामाशिषमन्यपुष्टाः ।।

8.6       वराङ्गनावक्त्रपदाम्बुजानां स्वाभाविकीं सौरभरागलक्ष्मीम् ।

प्रपित्समानौ प्रसवैस्तदर्हं द्वेधा द्रुमौ दोहदमन्वभूताम् ।।

8.7       तीक्ष्णारुणाग्राण्यचिरप्ररोहाच्चकाशिरे चम्पककुड्मलानि ।

दत्तानि कामोत्सवमङ्गलार्थं दीपाङ्कुराणीव वसन्तलक्ष्म्या ।।

8.8       मुक्तापगामग्नसमुत्थितात्मा भूयो भजन् पुष्परजोभिषेकम् ।

चचार मन्दं मलयाद्रिवातश्चेतोभुवो दृप्त इवौपवाह्यः।।

8.9       पुष्पेषु संयोगवियोगवृत्त्या क्रमाद्भजन्ती नतिमुन्नतिं च ।

वनान्तरे षट्पदपङ्क्तिरासीन्मञ्जुस्वना मन्मथचापमौर्वी ।।

8.10     वसन्तक्लृप्तान् मदनस्य बाणान् आन्दोलयन् नूनमनोकहेषु।

दिनेदिने दक्षिणमातरिश्वा गतागताभ्यां गणयांचकार ।।

8.11     आघूर्ण्यमानैरभितो नभस्वान् कान्तैः प्रदीपैरिव कर्णिकारैः।

वनश्रियो माधवसंगमार्हं मङ्गल्यनीराजनमाचचार ।।

8.12     प्रसूनहासाधरपल्लवानां किञ्जल्करोमाञ्चजुषामभुङ्क्त ।

मन्दानिलैराहितवेपथूनां कान्तिं वसन्तो वनवल्लरीणाम् ।।

8.13     विहारयोग्यामथ वीक्ष्य वन्यां रमापतिं रामसखं विशन्तम् ।

नभश्चरैः साकमनोकहास्तं नाथं प्रसूनोर्मिभिरभ्यषिञ्चन् ।।

8.14     पुष्करेण प्रतिपन्नशोभं बृन्दावनं नन्दितगोपवृन्दम् ।

प्रदर्शयन् प्रापितधेनुवत्सं रामानुजो राममिदं बभाषे ।।

8.15     मनोभुवो मूर्तमिवावलेपं मान्यं मनस्कारम्व त्वदीयम् ।

चिरं त्वया सेव्यमिहार्य मन्ये चित्रं वनं चैत्ररथाभिनन्द्यम् ।।

8.16     अमानुषप्राप्यमरण्यमेतत् प्राप्तस्य ते पादरजःप्रभावात् ।

सत्त्वोपपन्ना न भजन्ति सत्त्वाः शान्ताशयाः शाश्वतिकं विरोधम् ।।

8.17     अचिन्त्यभूम्नस्तव संनिधानादन्योन्यजातीयदशां दधानाः ।

सिंहीवशास्तन्यविदो भजन्ते सुभ्रातृतां केसरिदन्तिपोताः।।

8.18     त्वदर्पितस्वादुतृणादिनीनां त्वद्वंशनादामृतपायिनीनाम् ।

मन्ये गवां वत्सगणावृतानां विष्वग्वनं विश्रमयोग्यमेतत् ।।

8.19     वसन्तलक्ष्म्या इव वासभूमिं संकल्पयोनेरिव शिल्पशालाम् ।

रतेरिवारामविभूतिमन्यां वन्यामिमां वेद्मि तवोपका(क)र्याम् ।।

8.20     वनस्थलीयं मकरन्दवर्षैरतोयकर्मान्तिकमात्तसेका ।

प्रस्तौति पर्याप्तपरागजाला समीहितं संचरणोत्सवं ते ।।

8.21     नभःस्पृशामत्र महीरुहाणां नीडादमी निष्पतिताः सलीलम् ।

प्रयुञ्जते स्वागतमञ्जसा ते प्रायः शुभालापजुषः शकुन्ताः।।

8.22     वातावधूतास्तरवः स्वमूर्ध्ना संतानसांतानिकसंपदस्ते ।

प्राज्यैरमी पुष्पफलैश्च नूनं वितन्वते वन्दनमर्हणां च ।।

8.23     आस्वाद्य चूताङ्कुरमन्यपुष्टाः प्रायः स्वनैः पञचममुद्गिरन्तः।

आकारयन्तीव वनं गतं त्वां दिव्यानमी दर्शयितुं प्रदेशान् ।।

8.24     त्वत्पादविन्यासविशेषधन्यामापादयिष्यन्त इवात्मधात्रीम्.।

एनां स्वशाखाग्रकरप्रयुक्तैः प्रचिन्वते भूमिरुहाः प्रसूनैः।।

8.25     निशामयन्त्यो वनदेवतास्त्वां चकोरसंमोहनचारुदीप्तिम् ।

प्रीतिं प्रभूतां परिवाह्य गीतैः शीताश्रुणा शेषमिवाद्वमन्ति ।।

8.26     रसालरम्भादिभवैरिहैताः फलद्रवैः पिच्छिलपार्श्वभागाः।

वत्सावगाह्या वनराजिमध्ये पूर्णाः सुधाया इव भान्ति कुल्याः।।

08.27

कल्हारपद्मोत्पलकान्तिभिस्ते कटाक्षविक्षेपगुणं भजन्त्यः।

अरण्यभागान् अभितः प्रवाहैराप्याययत्याप इमाः प्रसन्नाः।।

8.28     त्वद्वक्त्रपद्मप्रतिमासहस्रैः संसृज्यमानेव सपुष्करासौ ।

प्रभावतः ख्यापितपुष्करश्रीः पुण्योदका पुष्करिणी विभाति ।।

8.29     संचारजातैः श्रमवारिलेशैरालक्ष्यमुक्तागुणमण्डनं त्वाम् ।

व्यक्तं नदी वीजयतीयमारादम्भोरुहैराश्रितवीचिहस्तैः।।

8.30     सहन्ति वाता(शीता)तपवर्षवातांस्तोयेषु तिष्ठन्ति रविप्रतीक्षाः।

तपस्यतस्त्वन्मुखकान्तिलोभात् पद्मानिमान् पश्चिमराम मन्ये ।।

8.31     तरङ्गिणीभिः परिरभ्य मुक्तः संलापवान् भृङ्गरवैरधीरैः।

आपृच्छते नूनमतः प्रयान्तं मन्दीभवन् कुन्दसमीरणस्त्वाम् ।।

8.32     मनः प्रसादं तव दर्शयन्ती प्रालेयसंघातनिभैः पयोभिः।

शुद्धा नवेन्दीवरनीलवासाश्छायेव ते शैवलिनी विभाति ।।

8.33     सह प्रयच्छन्ति तव प्रियाभिश्चञ्चूर्यमाणा इह चक्रवाकाः।

आहूय दातार इवातिथेयाः कालोचितां कस्त्वमितीव वाचम् ।।

8.34     विधूतविलव्यजनाः स्वपक्षैश्चारुस्वनापादितचाटुवादाः ।

अभिन्नवर्णाः प्रतियन्त्यमी त्वां राजोपचारैरिव राजहंसाः ।।

8.35     दिवापि गोवर्धननिर्झराणां संछादिते व्योम्नि तुषारजालैः ।

इहातपश्चान्द्रमसेन धाम्ना विकल्प्यते बोधितपङ्कजोपि ।।

8.36     अतर्कितप्राप्तमवेक्ष्य कान्त्या मेघंकरं मेचकमम्बरं ते ।

निनादनिष्पादितषड्जगीता नृत्यन्त्यमी सानुषु नीलकण्ठाः ।।

8.37     नदीभिरारब्धतरङ्गलास्यं नादैर्युतं निर्झरदुन्दुभीनाम् ।

गायद्विरेफं गिरिणा त्वदर्थं प्रायेण संगीतमिह प्रयुक्तम् ।।

8.38     कलिन्दजाकच्छभुवां सखीभिः प्रच्छायवन्याभिरधित्यकाभिः ।

सूते गिरिः सूचि(दि)तनन्दनोसौ स्वर्गौकसां स्वैरविहारवाञ्छाम् ।।

8.39     अभ्यागतं वीक्ष्य भवन्तमारात् साला इमे सामिनताग्रशाखाः।

सुधारसस्वादुतमानि भक्त्या स्वयं प्रयच्छन्ति फलानि धन्याः।।

8.40     पात्रीभवन्तस्तव वीक्षणानां पद्मालयावासविकल्पितानाम् ।

चराचराः कानि कियन्ति वैते तपांस्यतप्यन्त भवान्तरेषु ।।

8.41     विजानतां सत्पुरुषप्रभावम पुंसाममी पुण्यतमीभवन्तः।

प्रायस्त्वदङ्गीकरणात् प्रयास्यन्त्याराध्यतामद्रिवनावकाशाः।।

8.42     संस्कारपूताभिरितीव वाग्भिः संमोदयन्नग्रजमादिदेवः।

विजातलीलो विजहार हृष्यन् वन्द्यः सतां वत्सगणानुयायी ।।

8.43     स्वयंवृतः स्वैरविहारलक्ष्म्या मुहुर्वितेने विपिने मुकुन्दः।

स्थानान्तरप्राप्तिविभावितानि स्थितेरभिन्नानि गतागतानि ।।

8.44     प्रभूतया पुष्पफलप्रसूत्या वदान्यवृत्तीनि वनानि दृष्ट्वा ।

सस्मार चिन्तावशवर्तिनीनां व्रजस्थतानां वरवर्णिनीनाम् ।।

8.45     प्रायस्तदाह्वानविधौ नियोक्तुं प्रगृह्य वेणुं प्रतिपन्नदूत्यम् ।

न्यवेशयत् कुड्मलिते सलीलं बिम्बाधरे सूचितचित्तरागे ।।

8.46     सामोपपन्नान् क्रमशः स्वरन्ध्रैः सप्त स्वराम् सप्तभिरुद्वमन्तम् ।

प्रचक्रमे वादयितुं वनान्ते वंशं प्रियो वल्लववंशजानाम् ।।

8.47     मुकुन्दवक्त्रानिलवाद्यमानो वेणुर्बभौ वेद इव द्वितीयः।

रागावधीनां रहसां यदेकं गीतात्मनां तस्य निदानमासात् ।।

8.48     तद्वंशनादः सुभगोनुगच्छन् अग्रेसरं सौरभभागमानाम् ।

अयत्ननिष्पन्नमनस्समाधीन् आब्रह्मकान् आतनुतेव जन्तून् ।।

8.49     शृण्वद्भिरुद्धान्तमधुप्रवाहं वंशस्वनं तस्य सुधैकवंशम् ।

सयूथ्यतां नूनमवाप्य सर्वैः सत्त्वैः स्थितं सामिनिमीलीताक्षैः ।।

8.50     मधुद्रवैरुल्बणसंमदाश्रूण्यालेख्यनिष्पन्दमृगद्विजानि ।

उदग्रकोशोत्पुलकानि कृष्णो वंशीनिनादेन वनान्यकार्षीत् ।।

8.51     आस्वाद्य तद्वंशनिनादमाध्वीमाघ्राय तत्संचरसौरभं च ।

भुक्तामृतानां भुवि सौरभेय्यः क्षिप्तेतरां क्षीबदशामवापुः।।

8.52     वंशस्वनास्वादवशीकृतानां व्यक्तोदयानां वनदेवतानाम् ।

स कर्बुरः स्निग्धतमैः कटाक्षैः सेन्द्रायुधो मेघ इवावभासे ।।

8.53     आध्मापयामास स शृङ्गमग्र्यं शङ्खं तथाभूतमिवात्मयोगात् ।।

जगौ च गेयानि बहूनि येषां गान्धर्ववेदोपि न पारदृश्वा ।।

8.54     त्रिस्थानयुक्तस्वरभूषितं तत् त्रिधा स्थितं ग्रामविश्षयोगात् ।

अरञ्जयत् सप्त जगन्त्ययत्नात् गीतं हरेराहृतकिंनरौघम् ।।

8.55     विलासवाक्यैरिव वेणुनादैर्दिव्येव गीतेन च दैत्यहन्तुः।

निवेदितार्थाः सुदृशः स्ववासादाजग्मुराकर्षणमन्त्रतीक्ष्णैः।।

8.56     अनिष्टशब्दैर्वलयैरपोढाः काञ्च्याप्यवज्ञातपदोपगत्या ।

गुणावकृष्टाः प्रियमाप्तुमीषुः कामोपदिष्टेन महापथेन ।।

8.57     आदिश्यमानां प्रियवंशनादैराशां निजाशामिव निर्विघाताम् ।

तदास्थितां प्रास्थिषताशु धन्यामासन्नसंध्याधिकरागभाजः ।।

8.58     मधुव्रताघिज्यशरासनेन पुष्पात्मकं संदधता पृषत्कम् ।

अनुप्लवेन व्रजता बभूवे तासामनङ्गेन तदोद्यतानाम् ।।

8.59     आदेशयोगैरथ तत्र गोप्यो निवार्यमाणा अपि दुर्निवाराः।

आनिन्यिरे रागमयैर्महौघैः क्लेशापहं कृष्णसुधापयोधिम् ।।

8.60     त्वरासखीनां पुरतः प्रचेले तरस्विना निःश्वसितेन तासाम् ।

सदागतिप्रार्थनया समेतं दूरस्थितं कृष्णमिवोपनेतुम् ।।

8.61     प्रायेण वेगात् सुदृशां विभिन्नः प्रकीर्णमुक्ताफलपुष्पजालः।

प्रस्तावयन् कामविहारनाट्यं हारः समालक्ष्यत सूत्रधारः।।

8.62     अवस्थितं क्वापि कदम्बमूले वल्गुस्मितं वादितमञ्जुवेणुम् ।

साचीकृताक्षं ददृशुस्तरुण्यः स्वाद्यं सतां स्वस्तिकचारुजङ्घम् ।।

8.63     तदङ्गशोभामवलोक्य दिव्यां विस्मेरभावं व्रजतेव दूरात् ।

अमोहयत् यौवतमादिधूर्तः संतोषदिग्धेन समीक्षणेन ।।

8.64     द्रुतागतिव्याकुलभूषणास्ताः किंचित्समुच्छ्वासितनीविबन्धाः।

पर्याकुलाक्ष्यः परिवार्य तस्थुः कृष्णं कृपाधीनदृशं कृशाङ्ग्यः।।

8.65     स वल्लभः संसदि वल्लवीनां बर्हस्रजा दर्शितदानराजिः।

उदग्रशृङ्गध्वनिराबभासे दृप्तो वशानामिव वारणेन्द्रः।।

8.66     अवृद्धिसंकोचमिवेन्दुमन्यमकार्मुकं काममिवात्तवेणुम् ।

तमद्भुतानामिव राशिमेकं गोप्यस्तदात्मान इवान्वभूवन् ।।

8.67     सुराङ्गनाभिः समये धृतायां स्वेनैव गोपाकृतिभूमिकायाम् ।

अकर्मवश्यस्य विभोस्तदासीदर्चाफलस्पर्शनमात्रलीला ।।

8.68     न खल्वमुष्य प्रमदामदान्ध्यं न कुत्सनं तत्तदभीष्टदातुः।

न धर्मसंस्थापनबाधगन्धः शुद्धानुचिन्त्या हि शुभस्य लीला ।।

8.69     अनागमप्रत्ययसंभवानां गुरुत्यजां गोपकुमारिकाणाम् ।

अनन्यसंगात् स दयालुरासीदसङ्गघण्टापथसार्थवाही ।।

8.70     पुष्पावचायप्रवणेन गोप्यः प्रसाधितास्तेन स च प्रियाभिः ।

अभिन्नबाह्यान्तरमैकरस्यादामोदमन्योन्यसगन्धमापुः।।

8.71     स्वलालनादापतितं स तासां सौभाग्यदुर्मानमदं विनेष्यन् ।

पुष्पावचायव्यपदेशलौल्यादासीत् दवीयानबहिःस्थितोपि ।।

8.72     अविप्रकर्षेपि तिरस्करण्या क्लृप्तावृतिं कृष्णमनीक्षमाणाः।

भीमैरदूयन्त भृशं तरुण्यः क्षणैः स्वनिःश्वाससमीरदीर्घैः।।

8.73     पुष्पावकीर्णेषु वनद्रुमाणां मूलेषु मोहालसचेतसस्ताः।

कृतासिकाः कृष्णवियोगखेदात् कामास्त्रपर्यङ्कगताः इवासन् ।।

8.74     विलीनचित्ता विषमास्त्रतापात् विलापयन्त्यो वसुधां विलापैः।

अदृश्यरुपस्य हरेरगायन् गुणांश्चरित्राणि च गोपकन्याः।

8.75     मुकुन्दविश्लेषविमोहितानां संश्रूयमाणानि मुहुर्वनान्ते ।

शमप्रदान्यात्मविदामभूवंस्त्रय्यन्तगन्धीनि वचांसि तासाम् ।।

8.76     स माययात्मानमसौ परेषां प्रच्छाद्य संदर्शयति प्रसाद्त् ।

इतीममर्थं प्रथयन् प्रयाणां दृष्टिं शुभां दातुमियेष तासाम् ।।

8.77     तासामथ स्मेरमुखाम्बुजेन श्यामेन पीताम्बरचित्रितेन ।

आविर्बभूवे सहसा पुरस्तात् मधुद्विषा मन्मथमन्मथेन ।।

8.78     तमेकचित्ताः प्रतिसंनिवृत्तं यातेन नृत्यन्तमिवाद्भुतेन ।

गोप्यः पुनर्जातमिवात्मनैव प्रैक्षन्त संमोदपयोधिमग्नाः।।

8.79     नवेन्दुरेखाकृशपाण्डुराङ्गीस्तापाश्रुसंदर्शितवह्नितोयाः।

ददर्श गोपीरवतारगोपः श्वासैस्त्रिलोकीमिव(मुप)शोषयन्तीः।।

8.80     अविध्यतैकः प्रणयापराधी योगैरलक्ष्यो युगपत् प्रयुक्तैः।

आवर्जितभ्रूधनुषाममोघैरेणीदृशामीक्षणचित्रपुङ्खैः।।

8.81     प्रसादजीवातुभिरङ्गनानां प्रत्येकमन्याभिरलक्षणीयैः।

विलासचाटूक्तिविलोकनाद्यैरानन्दयन् सान्त्वनमाचचार।।

8.82     तासां तदङ्गव्यतिषङ्गलोभात् सैरन्ध्रिकावृत्तिमुपेयुषीणाम् ।

विरक्तनिध्येयपदः स रागी रागधिकां प्रास्तुत रासलीलाम् ।।

8.83     तदग्रहस्तग्रहणार्थिनीनां स सव्यतो दक्षिणतश्च तिष्ठन् ।

बभार विद्युद्व्यवधानभाजां वात्याजुषां वारिमुचामभिख्याम् ।।

8.84     द्वयोर्द्वयोरेकतया स तासां मध्ये स्थितो मण्डलरासनृत्ते ।

करद्वयस्पर्शरसेन कान्ताः प्रत्येकमानन्द्य भृशं ननन्द ।।

8.85     अपारमावर्तयता रसाब्धिं रामानुजो रासजवेन दीव्यन् ।

पदाश्रितानां भ्रमशान्तिहेतुः प्रियासहस्रं भ्रमयाञ्चकार ।।

8.86     स्वमायया घूर्णयतो महत्या विश्वानि भूतानि विभोरजस्रम् ।

रामाजनं रासवशं विधाय स्वस्य स्वयं प्राप निदर्शनत्वम् ।।

8.87     स्वपादपांसुस्नपिताकृतीनां स्विद्यन्मुखीनां व्रजसुन्दरीणाम् ।

लम्बालकानां ललितस्मितानां लाभात् स्वयं लब्धमनोरथोभूत् ।।

8.88     सनृत्तगीतेन विहारयूना गोपीजनैरन्तरितेन बद्धम् ।

तदद्भुतप्रस्थिति रासचक्रं जवादलक्ष्यान्तरमावभासे ।।

8.89     जगुः सहर्षं दिवि देवकन्याः दिव्यास्तदा दुन्दुभयः प्रणेदुः।

पपात कल्पद्रुमपुष्पवृष्टिः सदर्चिते संश्रितरासलीले ।।

8.90     गृहीतहस्तद्वितयाः सलीलं मिथ्याभुजङ्गेन मृगीदृशस्ताः।

परिभ्रमन्त्यो विपरीतवृत्त्या प्रक्रान्तरासां भुवमभ्यजानन् ।।

8.91     मनोज्ञमल्लीरसितेन तासां रम्येण कृष्णो रजनीमुखेन ।

अन्यादृशीं प्रीतिमनन्ययोगादापादयिष्यन् विरराम रासात् ।।

8.92     उद्भिन्नघर्माम्बुकणं विहारात् तासां करस्पर्शरसेनचैनम् ।

लतागृहे नन्दनगर्भशोभिन्यासीनमन्वासत गोपकन्याः।।

8.93     स्वलम्भितैश्चित्रपलाशपुष्पैः संवीज्यमानो विटपैः प्रियाभिः।

निदर्शयामास वनान्तराले नीलाद्रिमुद्भ्रान्तमयूरवृन्दम् ।।

8.94     विचित्रलीलाहितवेपथूनां तासामनासादितविश्रमाणाम् ।

तापोपशान्त्यै तपनात्मजासामाह्लादनीमद्भिरियेष लीलाम् ।।

8.95     मुखेन तस्य द्विजराजभासा ताराभिरामेण तमोपहेन ।

प्रेमोदधिं वर्धयता प्रियाणां संचिक्षिपे तत्र सरोजकान्तिः।।

8.96     संध्याघनाभः स तदा प्रियाणां मध्ये बभौ वारिजरेणुताम्रैः।

शृङ्गारदिग्धैरिव दृष्टिपातैः शृङ्गोदकैराप्लुतचित्रदेहः।।

8.97     स पद्मिनीनां सलिलस्थितानां चकार संमीलनमाशु तासाम् ।

तुषारजालैस्तुहिनांशुसौम्यः कामोपनेता करयन्त्रमुक्तैः।।

8.98     पटीरपाङ्कैः प्रतिपन्नगङ्गां शेणान्वितां कुङ्कुमसंगमेन ।

कस्तूरिकाभिः प्रचितात्मवर्णां कृष्णप्रियाः कृष्णनदीं वितेनुः ।।

8.99     अकालजातप्रतिमेन्दुजालान् आकीर्णमिथ्याशफरांस्तरङ्गान् ।

वक्त्राक्षिवक्षोरुहबिम्बयोगादकल्पयन् कल्पितचक्रवाकान् ।।

8.100   सविभ्रमा चारुपयोधराभा ताभिः समं सूर्यसुता प्रपेदे ।

अलब्धपूर्वं तदनन्यलभ्यं कृष्णोपभोगेन कृतार्थभावम् ।।

8.101   नितम्बवक्षोजनिरूढवृद्धिर्मध्ये कृशा संश्रितनिम्ननाभिः।

विलोलपद्माग्रतरङ्गहस्ता तासामभूदन्यतमेव सापि ।।

8.102   असूययेव प्रमदाजनानां लाक्षाञ्जनादीनि विलोपयन्ती ।

निसर्गशोभातिशयप्रकाशात् कृतोपकारेव नदी बभूव ।।

8.103   चिरप्रवृद्धं दयितेनुरागं चित्ते दुरासेधमिवोद्वमन्ती ।

प्रायेण तत्कान्तिमधूपभोगात् दृष्टिस्तदा रागमुवाह तासाम् ।।

8.104   अनङ्गरागोज्ज्वलचित्तदेहा विश्वाधिकं विव्यधुरायताक्ष्यः।

कह्ला(ल्हा)रशोभारचितैः कटाक्षैः कामस्य बाणैरिव तापदीप्तैः।।

8.105   विगाहनात् गोपनितम्बिनीनां संवर्धमाने सहसाम्बुपूरे ।

तद्वक्त्रशोभाविजितैः सरोजैरन्तर्हितं नूनमवाप्तलज्जैः।।

8.106   कृष्णाम्बुदः कल्पितहस्तयन्त्रश्चकार गोपीनयनोत्पलेषु ।

धाराम्बुसेकादुपसंभवन्त्या रागश्रिया रक्तसिलीन्ध्रशोभाम् ।।

8.107   मुहुः प्रयुक्तां मुखपुण्डरीके कदर्थयन्त्या करयन्त्रघाराम् ।

कान्ते कयाचित् दधिरे कराभ्यां गतागतान्युत्पलकाननानाम् ।।

8.108   प्रयापिते गोपिकया कयाचित् कृष्णाननं कीचकयन्त्रतोये ।

निमीलनोन्मीलनतस्तदीयात् नक्तंदिवं तत्क्षणदृश्यमासीत् ।।

8.109   तमार्द्रभावान्निबिडान्तरीयं लम्बालकं राशिमिवाद्भुतानाम् ।

पश्चादुपेता परिरभ्य तस्थौ काचित् प्रिया कामवधूरिवान्या ।।

8.110   अभङ्गुरप्रेमबलेन तस्या बद्धं प्रियं बाहुलताद्वयेन।

समीक्ष्य कामार्पितपाशमन्याः संप्लावयामासुरपेतशङ्काः।।

8.111   यदङ्घ्रियोगाज्जगतां त्रयाणां मन्दाकिनी मान्यतमा बभूव ।

तयापि संभाव्यतमा तदसीत् कृष्णेन सा तेन कृतावगाहा ।।

8.112   अथोपचारान् उपपादयन्ती दिव्येन देहेन दिनेशकन्या ।

आनर्च पादार्पितरत्नपुष्पा गोपीसखं गोपकुमारमाद्यम् ।।

8.113   सरिद्भिरन्याभिरपि प्रभावात् प्रायेण गोपीतनुमाश्रिताभिः।

तोषादुदन्वत्सुतयोपभोग्यस्तोयोपचारेण विभुः सिषेवे ।।

8.114   तमुत्तरन्तं सरितः प्रवाहादुत्तारकं पङ्कमयात् पयोधेः।

मरुत्प्रयुक्ता वसनाङ्गरागैराकल्पयन् अप्सरसस्तदर्हैः।।

8.115   व्रजाङ्गनाश्च त्रिदशाङ्गनाभिः प्रसाध्यमाना बहुमानपूर्वम् ।

रमासहायप्रणयानुरूपां संमाननां साधुजनेष्वविन्दन् ।।

8.116   विहृत्य तस्मिन् व्रजसंमुखीने चक्रं गवां शैलवनान्निवृत्तम् ।

उपाद्रवत् कश्चिदरिष्टनामा कैलासपर्यायतनुः ककुद्मान् ।।

8.117   खुराग्रवज्रेण विदारयन् क्ष्मां विषाणनिर्भिन्नविमानमूलः।

दुर्वारवेगो ददृशे स दुरान्मृत्योरुपक्रान्तमहो महोक्षः।।

8.118   शृङ्गावरुग्णैः शकटैः प्रकीर्णं वृषान्तरैराशु विमुक्तमार्गम् ।

व्रजं तदा विप्लुतगोपवर्गं त्यक्त्वा स कृष्णाभिमुखं जगाम ।।

8.119   तमापतन्तं प्रतिसंजिहानो निर्ह्रादवित्रासितदीनधेनुम् ।

विषाणयुग्मग्रहणेन शोरिश्चक्रे विनिष्पीडितपीनकण्ठम् ।।

8.120   अपहत्य दुर्जयमरिष्टदानवं जगतामरिष्टमिव जातविग्रहम् ।

व्रजसद्भिरद्भुतविहारतोषितैः सुरसत्तमैरपि समं स तुष्टुवे ।।

8.121   अन्यैरप्यसुरमलिम्लुचैरनेकैरातङ्कान् स्थिरचरसूतिभिः प्रसूतात् ।

गोपानां प्रतिविदधे गवां च काले रामेण स्तुतचरितो रथाङ्गपाणिः।।

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये अष्टमः सर्गः ।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.