[highlight_content]

यादवाभ्युदयः सर्गः-14

श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्

।। यादवाभ्युदयः ॥

चतुर्दशः सर्गः

14.1     अथैकदा रोधसि पश्चिमोदधेरदभ्रसत्राजितभक्तियन्त्रितः ।

त्रयीमयश्चन्द्रसमीकृतद्युतिः प्रसेदिवान् प्रादुरभूत् दिवाकरः (प्रभाकरः?) ॥ १ ॥

14.2     अनल्पतेजोनिधिमप्रमाद्यतां प्रसूतिमिष्टस्य धनस्य भूयसः ।

स्वकण्ठलग्नं द्युमणिः स्यमन्तकं महामणिं भूमिभृते वरं ददौ ॥ २ ॥

14.3     तमुग्रसेनार्थमियेष कंसजित् न वार्यते राजनि रत्नहारिता ।

प्रतीत्य सत्राजित एतदप्रियं क्वचिन्निचिक्षेप गुणाधिके(कं?) मणिम् ॥ ३ ॥

14.4     यदेकमेकेन च लब्धमेकतो रसेन रत्नामिषमर्थकाङ्क्षिणा ।

बभूव तत् बन्धुविरोधमादधत् क्रमात् बहूनां विनिपातकारणम् ॥ ४ ॥

14.5     स्यमन्तकोदन्तविशेषसंभवां मृषाभिशस्तिं शमयन्नथात्मनः ।

प्रसेनविध्वंसकसिंहघातिनो बिलं ययौ जाम्बवतो बलानुजः ॥ ५ ॥

14.6     स्तनन्धयोपान्तनिबद्धगीतया ददर्श धात्र्या विधृतं करेँण सः।

धनाष्टभारप्रसुवं दिनेदिने मणीश्वरं दर्शितकौस्तुभश्रियम् ।।

14.7     जिघृक्षया दत्तदृशं च तत्र तं जरानिरुद्धोपि जवेन जाम्बवाम् ।

अरोधनीयं विबूधैरपि स्वयं रुरोध नैसर्गिकसत्त्वरोषितः।।

14.8     मलिम्लुचं कञ्चिदिवागतं हरिं वनेचरः प्रेक्ष्य तदर्हविक्रियः।

अहेतिहस्तं स्वयमप्यनायुधः पेरसह्य तं साधयितुं प्रचक्रमे।।

14.9     अनन्यतन्त्रस्य पितुः पितामहः सुतस्य चारबधमवेक्ष्य संयुगम् ।

समीहितोदर्कमिदं द्वयोरिति प्रबुध्यमानो न निरोधमादधे ।।

14.10   मिथस्तयोरस्तदयं विमथ्नतोरनायुधं युद्धमपेतकैतवम् ।

अकल्पितप्राश्निकमन्ववैक्ष्यत स्वयं चतुर्भिर्दशभिश्च साक्षिभिः।।

14.11   अरिष्टचाणूरमुखेष्वलक्षितं प्रदर्शयन् ऋक्षपतेः पराक्रमम् ।

चिरं ददौ युद्धमचिन्त्यचेष्टितो मनस्विनस्तस्य मधुप्रभञ्जनः।।

14.12   प्रकीर्यमाणा निजमुष्टिमुद्गरक्षताकृतेर्जाम्बवतः क्षतोद्भवैः।

रराज रामावरजस्य सा तनुः सशक्रगोपा वसुधेव शाद्वला ।।

14.13   स ऋक्षराजः क्षतजैर्जयश्रियः कुचार्पितैः कुङ्कुमकर्दमैरिव ।

परिष्कृताङ्गः प्रचितोन्नताकृतिः सगैरिकक्ष्माधरसंपदं दधौ ।।

14.14   अशेषयज्ञाग्रहरं समागतं जिगीषयानुव्रतया स दीक्षितः।

अतोषयत् संयुगसप्ततन्तुना विभाव्यऋत्विग्विधिना भुजादिभिः।।

14.15   तलप्रहारैरथ मुष्टिपातनैः पदाभिघातैर्भुजयन्त्रपीडनैः।

मिथः प्रतिक्षेपपुनर्गृहीतिभिः नियद्धचर्यानिपुणौ निजघ्नतुः।।

14.15   परिपणमिव मन्मथोत्सवानां प्रथमविकस्वरपद्मदर्शनीयम् ।

अनुदिनबहुविभ्रमं वधूनामभिनवयौवनमन्वभुङ्क्त नाथः ।।15।।

14.16   कृतप्रतीकारविशेषतोषितौ परस्परच्छिद्रनिवेशितेक्षणौ

दिशागजेन्द्राविव दर्पदुर्मदौ दिनानि तौ निन्यतुरेकविंशतिम् ।।

14.17   अहीयत प्रत्यहमृक्षभूपतिः स्वलीलया कंसरिपुः समैधत ।

तमःप्रकाशाविव तौ दिनागमे बभूवतुः संयति पूर्वपश्चिमौ ।।

14.18   स तेजसा यादवतिग्मतेजसः समिध्यमानेन निवारितोन्नतिः।

शरन्नदीपूरइव स्फुटाशयः शनैश्शनैः शान्तिमवाप जाम्बवान् ।।

14.19   वलीभिरापादतलं तरङ्गितः सिरालुदेहः पलितैस्सितासितः।

चिरप्रवृत्ताहवसम्भृतश्रमो न चेतसा ऋक्षपतिः प्रचुक्षुभे ।।

14.20   स्वविक्रमादप्रतिमात् सुरद्विषां भयानकात् आनकदुन्दुभेस्सुतः।

अबिभ्यतं प्रेक्ष्य तमृक्षपुङ्गवं महासुरं केवलमस्मरन्मधुम् ।।

14.21   युगान्तदम्भोलिनिपातभीषणैर्निहन्यमानं निजमुष्टिमुद्गरैः।

स्वनाभिपद्मोद्भवजृम्भिकासुतं बलानुजन्मा युधि बह्वमन्यत ।।

14.22   दशाननायोधनकेलिक्ङ्करं परामृशन् ऋक्षपतिं परः पुमान् ।

बलीयसस्तस्य बहूपकारवित् बभञ्ज दर्पं भुजयन्त्रलीलया ।।

14.23   तमादितो मानुषमात्रमागतं सदृक्षमृक्षाधिपतिस्ततः परम् ।

अथाधिकं सामिनिरुद्धपौरुषः क्रमादमीमांस्यममंस्त कर्मभिः।।

14.24   उवाच चैनं विधिवक्त्रसंभवः स्वविक्रमप्रीतमनुक्रमात् विदन् ।

सगद्गदं संनमितेन मौलिना नखत्विषा पुष्पितमञ्जलिं वहन् ।।

14.25   अहो महत् सत्त्वमहो पराक्रमस्त्वमीश्वरो नूनमहो निरीश्वरः।

अतीतदेवासुरनागनैर्ऋतः पतिः पतीनां प्रतिभाति मे भवान् ।।

14.26   अनेकमन्वन्तरदर्शिना मया न खल्वरामो ददृशे भवादृशः।

निजौजसा नैर्ऋतयूधघातिनं नियोधयन् यन्निभृतः प्रवर्तसे ।।

14.27   गुणैरपि प्रत्यवमृश्यते भवान् दशानाद्यैर्युधि दृष्टवैभवः।

श्रुतं मया सिद्धजनादिह स्वयं गुहाशयः प्राप्स्यति ते गुहामिति ।।

14.28   वनं तदेतन्महितं तपोवनं गिरिं च वेद्मि त्रिदिवेश्वरालयम् ।

पचेलिमं किन्नुतपो बिलस्य मे प्रसाधितं यत् तव पादपांसुभिः।।

14.29   स्वनाभितः सप्तमजन्मभागिनो विजृम्भमाणस्य विधेर्यदृश्छया ।

त्वमेव मां वेदमधुव्रताश्रितान्मुखाब्जतः स्वानुचरं व्यजीजनः।।

14.30   त्रिभिः क्रमैर्दीव्यति दिव्यवामने स्वमायया मोहितदानवे त्वयि ।

जगन्ति विश्वानि मितानि विष्णुनेत्यघोषयं द्रागिव जैत्रघोषणाम् ।।

14.31   जिघांसिते देव दशानने त्वया हतारिसङ्घैर्हरियूथपैर्वृतः।

अवर्तयत् सूर्यसुतस्य सन्निधावयं जनः किङ्करवृत्तिमाहवे ।।

14.32   गतेषु सुग्रीवमुखेषु तावकं पदं तदप्राप्यमहं त्विह स्थितः।

त्वदीक्षणात् प्राप्तफलोस्मि साम्प्रतं जरन् पुनर्यौवनमाप्तवानिव ।।

14.33   न तादृशाः सम्प्रति सन्ति भूतले ऋते भवत्तः प्रतिसन्धिभावनैः।

हनूमतैकेन विभीषणेन वा मयापि वा सोयमिति त्वमूह्यसे ।।

14.34   रसावहैरेकधियां रसायनैः शुभैः श्रुतिश्रेणिशिरोविभूषणैः।

अपेतभाराम् अतिदेवमानुषैर्विहारभेदैरवनीं विधास्यसि ।।

14.35   विशुद्धमिश्रैश्चतुरश्रवृत्तकैरगाधतुङ्गैः प्रमितामितक्रमैः।

अनन्यभावान् अनुकम्पते भवान् अचिन्त्यचिन्त्यैरवतारनाटकैः।।

14.36   न वर्धसे कर्मभिरीश साधुभिः म हीयसे च त्वमसाधुभिः कृतैः।

जगत्परित्राणपरेण केवलं विधिर्निषेधश्च न लङ्घ्यते त्वया ।।

14.37   गुणोदधिस्त्वं गुणकर्बुरात्मना तिरस्करिण्या पिहितात्मदृष्टिभिः।

न दृश्यसे देव सदा सहैव सन् दिदृक्षमाणैरपि देवदानवैः।।

14.38   जगत् तवान्तर्बहिरप्यमुष्य च त्वमेवमेवंविधचित्रवैभवः।

समाधिदृष्ट्या मुनिभिः समीक्ष्यसे सनातनो नूतनभूमिकाश्रितः।।

14.39   तवैव सङ्कल्पकलांशतः क्वचित् समर्थवादाः परमेष्ठिनामपि ।

त्वयि प्रतिद्वन्द्विनि कस्य किं बलं क एव जेता न भवेत् त्वदीक्षितः।।

14.40   असह्यमेतन्मधुकैटभादिभिः स्वतल्पसारोल्बणबाहुना त्वया ।

निपीडनं यन्निबिडं विषह्यते मयाल्पसत्त्वेन तवैव तद्बलम् ।।

14.41   त्वया जितोहं क इवाजितः परो न रुध्यसे नाथ मया न किं परैः।

दयालुनापास्यत दर्प एव मे भुजाहवे च व्युदपादि भूष्णुता ।।

14.42   न नीतिवर्तन्यतिलङ्घिता मया न च त्वदादेशविपर्यये स्थितम् ।

तथापि सर्वाधिकसत्क्रियोचिते विरुद्धचेष्टा विदधे विमोहतः।।

14.43   जगत्पते जाम्बवतीमिहार्हणां गृहाण पत्नीं गृहमागतः स्वयम्।

मणिं च दिव्यं द्युमणेः स्यमन्तकं युतं धनैर्यौतकमर्पयामि ते ।।

14.44   ममात्मजापि श्रियमेवमप्सरःप्रसूतिरेषा वहती श्रिया समाम् ।

त्वदर्हशीलादिगुणप्रसाधिता स्वयं वृणीतेद्य भवन्तमेकधीः।।

14.45   त्वदागमात् ऋक्षबिलं परं पदं त्वदीक्षणात् सूरिगणा इमे वयम् ।

त्वदाश्रयात् सिन्धुसुतैव मत्सुता त्वया धृतोसौ मणिरस्तु कौस्तुभः।।

14.46   त्वदाहुतस्वातिशयैः स्वयोगतः परत्र साध्योतिशयः स्थिरत्रसैः।

अनन्यसाध्यातिशयस्य तस्य ते स्वशेषतासौ न विघातमर्हति ।।

14.47   स्वयोगभूम्ना चुलकीकृताखिलैः मुकुन्द देवैरपि किं न मुह्यते ।।

विवेकवैराग्यविदेशवर्तिना वनौकसा मांसदृशा मया न किम् ।।

14.48   अभार्गवो नापनयेत न क्वचित् न वक्त्यसाधून्यबृहस्पतिर्न च ।

अवासवो न च्यवते न चाहवादते च ते तद्वदहं तु किं पुनः।।

14.49   भवार्णवे कर्मविपाकवात्यया भवद्भिरावर्तगणैः परिभ्रमन् ।

कृतोपराधः कृपया त्वदीयया भवत्पदं कूलमिव प्रपद्यते ।।

14.50   अविन्दतस्त्वाममितामृतोदधिं विगाढतृष्णाविवशान्तरात्मनः।

विगाहनीयाः प्रतिभान्ति वीचिता मरीचिकानामिव भोगसम्पदाम् ।।

14.51   गुणोदधिं यः प्रमितप्रमाणया गिरा त्वदीयं परिमातुमिच्छति ।

स पातुमीहेत समग्रचापलः पयोजनालेन पयःपयोनिधिम् ।।

14.52   अकर्मतन्त्रस्य जगन्ति कर्मभिर्निबध्यमानानि विमुञ्चतस्तव ।

अलीकलेशैरनुपप्लुता स्तुतिः तथाप्यकल्येयमयावदुक्तितः।।

14.53   अजानतत्वन्महिमानमद्भुतं विमोहितं देव तवैव मायया ।

कृतापराधं कृपया वशीकृतः क्षमस्व मामित्यपतत् क्षमातले ।।

14.54   विलूनमूलद्रुमसन्निभं स तं विलक्षमुत्थाप्य विहारयादवः।

प्रियाङ्गरागव्यतिहारगन्धिना भुजान्तरेणोपजुगूह सादरम् ।।

14.55   स कन्यकारत्नमचिन्त्यवैभवं वदान्यरत्नं च समं समर्पयन् ।

सरस्वतीवल्लभवक्त्रसम्भवो महामनाः पूर्णमनोरथोभवत् ।।

14.56   वनौकसां पत्युरहीन्द्रशोभिना विमथ्यमानादचलेन बाहुना ।

ननन्द लब्ध्वा हृदयाङ्गमां प्रियां मणिं च दिव्यं मधुकैटभान्तकः।।

14.57   स्तनापदेशस्तबकावभासिनी विलासभेदैरभिनीतपल्लवा ।

रमापतौ गारुडभूधरद्युतौ रसाधिका रत्नलतेव सा बभौ ।।

14.58   सविस्मया पूर्वमथ प्रमोदिनी ततो मदारम्भमिवाभिजग्मुषी ।

तदन्यसंस्कारनिरोधतः क्रमात् तदीक्षणे तन्मयतामवाप सा ।।

14.59   स पर्यणैषीत् त्रिदशैरुपस्थितो विधिर्यदाज्ञा विधिजन्मनस्सुताम् ।

बिले तदीये विबुधालयोपमे विकल्प्यमानाकृतिमप्सरोगणैः।।

14.60   अवाप्य जामातरमादिपूरुषं जगत्प्रतीक्ष्यत्वमवाप जाम्बवान् ।

विदर्भराजेन विदेहभूभृता समक्रमं दुग्धपयोधिना च सः।।

14.61   मनुष्यङभावाभिनयव्यवस्थितां कुशीलवार्हां कुहनां वहन् प्रभुः।

पुनस्तमृक्षेन्द्रपदानुभूतये परं च भोक्तुं पदमन्वमन्यत ।।

14.62   प्रहृष्यता जाम्बवता निवेदितां प्रवालजाम्बूनदरत्नसंहतिम् ।

प्लवङ्गभल्लूकगणैरनुप्लवारविप्लवां द्वारवतीमजीगमत् ।।

14.63   ततस्तमामन्त्र्य चतुर्मुखात्मजं प्रतिप्रयातः स्वपुरीं प्रियासखः।

स्यमन्तकं संसदि दानवान्तकः स्वतोनघः स्वामिवशे न्यवीविशत् ।।

14.64   जगत्पतिं जाम्बवतीसखं तदा नियुद्धचिह्नैः परिकर्मिताकृतिम् ।

निरीक्ष्य तं द्वारवतीनिवासिनो ननन्दुरानन्दजलाविलेक्षणाः।।

14.65   अपेतसम्मोहमिवात्मवेदिनं दिवाकरं राहुमुखादिवोद्गतम् ।

अमंस्त नागेन्द्रमिवास्तशृङ्खलं प्रशान्तवाच्यं प्रकृतिर्यदूद्वहम् ।।

14.66   जाताहितो जाम्बवतीनिषेवितः स तत्र सत्राजितसात्कृते मणौ।

स्वचौर्यदुर्वादममार्जयत् स्वयं न विद्यते यस्य न किञ्चिदण्वपि ।।

14.67   स्यमन्तकस्य द्युमणेरिव त्विषा निमेषमापुः कुमदाकरा इव ।

ह्रिया च मिथ्यापरिवादिनस्तदा परे च पद्मा इव तद्विपर्ययम्

14.68   स्वगोचरानेवमगोचरो गिरं बलानुजो बालधियामपाहरत् ।

रहस्सु रथ्यासु च लब्धसम्भवान् अवर्णवादान् अनघो गुणार्णवः।।

14.69   अकीर्तिरारोप्यत कीर्तिरागता यदप्रियं प्रोचुरिदं प्रियाप्तये।

न कर्मतन्त्रेषु मतेरमोहता न च स्वतन्त्रे स्युरनिष्टहेतवः।।

14.70   प्रशान्तखेदः प्रतिलभ्य सन्मणिं जगद्विनेतुर्वसुदेवजन्मनः।

ददो धरित्रीमिव सद्गुणाधिकां स सत्यभामां तनयां नयाम्बुधिः।।

14.71   यथा गिरीशो गिरिराजसम्भवां पुलोमकन्यां च दिवौकसां पतिः।

सवयं च दुग्धोदसुतां सुधासखीं तथा स रेमे सदृशीमवाप्य ताम् ।।

14.72   अनुव्रता कामकलास्वधीतिनी विचित्रशस्त्रास्त्रविहारवेदिनी ।

बहुप्रियस्यापि हरेरतीव सा बभूव देवी बहुमानगोचरः।।

14.73   यथा न खेदाय गतः क्षणो भवेत् यथा च तन्वीत न भीतिमायतिः।

अनन्तनिष्कम्पगुणामनुक्षणं प्रियः प्रियां प्रीतिमलम्भयत् तथा ।।

14.74   स वल्लभाभिस्तिसृभिः प्रकाशयन् परत्वमाद्यं प्रतिपन्नषड्गुणः।

नयो महीयानिव शक्तिभिस्समं समेतसिद्धिः प्रचिकाय सम्पदम् ।।

14.75   स्वदिव्यदेहप्रकृतीरिवापराः पराश्च देवीरवृणीत पञ्च सः।

यथार्हसेवावसरे प्रमाद्यतां यदन्वितस्सन् अभिगम्यतां ययौ ।।

14.76   अखण्डिताशोक्तिभिरेकवृत्तितः स ताभिरन्योन्यसमन्वितात्मभिः।

विभूषयामास विभूतिवैभवं दिशाभिरष्टाभिरिवात्मनः पदम् ।।

14.77   अवाप्य देव्यः पतिमग्र्यनायकं महौजसं मन्नथसूत्रसंयताः।

उदग्नसद्वंशभुवो मिथस्समाः सुवृत्तमुक्तावलिसौम्यतां ययुः।।

14.78   आदौ लक्ष्मीरभजत हरिँ रुक्मिणीरूपदृश्या

प्रापुस्तस्याः प्रतिनिधिपदं तत्प्रियाः सप्त देव्यः।

सिद्धीरष्टौ दधदिव तदा सेवितस्ताभिरेकः

क्रीडायोगी निरवधिमसौ निर्वृतिं निर्विवेश ।।

14.79   प्राचीनासु प्रकृतिषु यथा प्रादुरासन् प्रजौघाः

तद्वज्जाताः सममिव जगन्नेतुरष्टासु तासु ।

पश्चात्प्राप्तेप्रणयिनि तथा षोडशस्त्रीसहस्रे

तेषामेकः किमयमथवा तत्समानो बभूव ।।

14.80   शमितनिगमखेदैः साधुभिः श्लाघनीयं चरितमिदमुदारं शास्तृचाणूरहन्तुः।

श्रुतमनुकथितं वा शुद्धिमग्र्यां दधानं समतनुत पृथिव्यां शाश्वतं धर्मसेतुम् ।।

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमवेंकटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये स्यमन्तकमूलस्त्रीपरिणयो नाम चतुर्दशः सर्गः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.