श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
त्रयोविंशः सर्गः
23.1 अथाधिकारच्यवनात् य इन्द्राः पञ्चाभवन् पाण्डुसुताः पृथिव्याम्।
जयार्थिनस्ते जगदेकनाथं प्रपेदिरे सत्त्वधनाः सदाराः।।
23.2 तमोपहैस्तत्त्वविदामृषीणां वाक्यैस्त्रिवेदीमनुसञ्जिहानैः।
कृष्णं यथावत् कृतिनो विदन्तः तस्याभवन् प्राणसमाः सखायः।।
23.3 तदाश्रयास्तत्प्रणिधेयकृत्याः तेनैव नाथेन सदा सनाथाः।
अपारयन् योगिभिरप्यजय्यान् बाह्यान्तरान् जेतुमरातिवर्गान्।।
23.4 प्रतिक्रियाः प्राग्भवदुष्कृतानां प्राणोपरोधेपि निरुद्धपापाः।
धीरास्त्रिलोकीसुहृदः प्रसादात् विपाकरम्या विपदः प्रसेहुः।।
23.5 अलङ्घयन् विश्वपतेः प्रसादात् वृत्तिं पराचीमिव वीतरागाः।
अरातिभिश्छद्मविधिप्रवीणैः आपादितामग्निजलादिपीडाम्।।
23.6 कलिङ्गनीतिं कलहैकतानां कर्णे च पार्थेन निबद्धवैरम्।
आस्थाय दुश्शासनपूर्वजन्मा धर्मोत्तरान् जेतुमियेष पार्थान् ।।
23.7 स राजसूयक्रतुधर्मपत्नीं भीमेन गाण्डीवभृता च मान्याम्।
द्यूतच्छलप्रापितदासभावां साध्वीं मुधा पर्यभवत् सभायाम् ।।
23.8़ अनन्यनाथां स्थितिमाप्नुवत्या नाथः स्वसम्बोधननामगर्भम्।
शुश्राव दूरान्तरितोपि शौरिः प्राक्रोशनं पार्थपतिव्रतायाः।।
23.9 मिथ्याविचारान्मिषतां गुरूणां प्रभुः सतां पाण्डवधर्मपत्नीम्।
दुश्शासनव्याकुलितोत्तरीयामक्षय्यकौशेयवतीमकार्षीत् ।।
23.10 अवाप्तकामाः प्रबलैरमित्रैः अक्षच्छलेनापहृतं स्वराज्यम्।
निक्षिप्तकर्तव्यभरा बभूवुः सत्त्वाधिकाः सात्वतयूथनाथे ।।
23.11 स्वान्त्र्यगन्धद्विरदाङ्कुशेन स्वेनैव शीलेन विनीयमानः।
अनन्यलभ्यं प्रतिलम्भितोभूत् प्रभुः स्वयं पाण्डवदूतभावम्।।
23.12 स तादृशीमाद्रियत त्रिधामा प्रेष्यक्रियां प्रेषितदेववृन्दः।
ननु प्रभूणां निरपेक्षभूम्नां प्रसाधनं भक्तजने गुणत्वम्।।
23.13 अपि प्रभूतानुगुणक्रियाभ्यः श्लाघापदं तत्त्वविदां बभूव।
अनन्यतन्त्रस्य विभोस्तदेतत् नाथोचितं नन्तृषु पारतन्त्र्यम्।।
23.14 तपस्यतः पुत्रसमुद्भवार्थं मार्गागतं मोचयतः पिशाचम्।
अजन्मनो जन्मभृतश्च शौरेः स्वामित्वसंवादि बभूव दूत्यम्।।
23.15 सरोषसीरायुधहेतिशक्त्या साचीकृतां कौरवराजधानीम्।
अद्यापि गङ्गासलिलप्रवाहे प्रक्रान्तपातामिव सम्प्रपेदे।।
23.16 खद्योतवत् दर्शितखञ्जदीप्तीन् प्रज्ञादृशो भूमिभृतः सभायाम्।
प्राप्तोदयो भानुरिव त्रिधामा प्रच्छादयामास कुरून् स्वधाम्ना।।
23.17 तदागन्म प्रतिपन्नहर्षाः तद्दर्शनेनाहितपारवश्याः।
अतर्कितप्रस्मृतवैरबन्धाः वृत्तिं द्विषन्तो विदधुर्यथार्हम् ।।
23.18 उलूखले भक्तगुणे च बद्धं गुणोत्तरे गोपवधूस्तने च ।
इयेष बन्धुं जगदेकबन्धुं दुर्योधनो दुस्त्यजमृत्युपाशः।।
23.19 प्रकाशयन् किञ्चिदिवाप्रमेयः प्रभावमात्मीयमनन्यवेद्यम् ।
मुहुः प्रतीपाचरणोत्सुकानां मोघाशतां मूढधियामकार्षीत् ।।
23.20 स्ववेदितं संसदि धार्तराष्ट्रे सन्धित्सतो धर्मसुतस्य वाक्यम्।
अनाददाने मुरभिन्निवृत्तः सामुग्रहो विग्रहमन्वमंस्त।।
23.21 नरांशजुष्टेन धनञ्जयेन रथी भवन् सारथिरात्मना च ।
धनुर्भृता तोत्रभृता च भेजे पृथक्त्वमैक्यं च यथाप्रमाणम्।।
23.22 रथाधिरूढं च रथं च रक्षन् यथार्थतो दर्शयति स्म यन्ता।
23.23 पुरःस्थिते गोप्तरि विश्वहेतौ पश्चादवस्थायिनि तत्प्रवर्त्ये ।
अनन्ययोगात् स रथो बभार प्राधीतवेद्यां प्रणवप्रवृत्तिम्।।
23.24 प्रभुर्बभौ प्रग्रहतोत्त्रपाणिः कालात्मना भावितपाशदण्डः।
यदा तदा देवगणेन मेने शान्तं बलं शान्तनवप्रधानाम्।।
23.25 धुरन्धरः स्वर्गनिकेतनानां धुर्योत्थितैर्धूसरितो रजोभिः।
रराज मध्ये रथयूथपानां गोष्ठे पशूनामिव गोपवेषः।।
23.26 समुद्रसङ्घातनिभे नृपाणां सैन्यद्वये संयति संप्रवृत्ते।
अस्थानकारुण्यवशान्निवृत्तं धनञ्जयं वीतशुचं वितेने ।।
23.27 फलादपि स्वादुतमप्ररोहं प्रोत्साहने सख्युरिवोद्यतः सः।
जगद्धितार्थाय जगौ दयावान् अन्यैरविज्ञेयमनन्यधर्मम्।।
23.28 चिरन्तनस्नेहदयादिमूलं चिन्तार्णवं निस्तरतो दुरन्तम् ।
किरीटिनः केशवसूक्तिरासीत् कालोचिता काचन पोतपात्री।।
23.29 अभङ्गुरैर्धौतफलानुषङ्गात् विद्याशरैर्विश्वगुरोरुपात्तैः।
विवेकधन्वा विषमान् अजैषीत् अन्तस्स्थितान् जिष्णुररातिसङ्घान्।।
23.30 उपघ्नभूतां श्रुतिवल्लरीणामुपास्त तुष्यन् उपदेशमुद्राम्।
नखांशुभिः क्षिप्ततमः कलङ्कां नाथस्य पार्थो नतपूर्वभागः।।
23.31 विभकातसामान्यविशेषधर्मा प्रादुर्बभूवोपन्षत् प्रभोर्या।
स एव तां व्यासमुनिः समीचीं पर्यग्रहीत् भारतवेदवक्ता।।
23.32 अभञ्जनीयां परधर्मसत्तां अनश्वरीं भारदसूर्यदीप्तिम्।
विदुः श्रुतीनामनघां वयस्यां गीतामसम्मूढजनाविगीताम्।।
23.33 कपिधवजस्तस्य विभोरपश्चत् तदर्पितं चक्षुरवाप्य दिव्यम्।
विरिञ्चिपूर्वैरपि दुर्निरीक्षं विश्वाश्रयं रूममशेषमूर्तेः।।
23.34 तस्मिन् अभिव्याप्तसमस्तलोके स तत्स्वरूपेण विकल्प्यमाने।
विडम्बितान् गोपुरधारिबिम्बौः देवान् विभोरैक्षत दिव्यदेहे।।
23.35 प्रख्यातदीक्षं प्रणतार्तिभङ्गे पार्थस्तदा दैत्यरिपं प्रपन्नः।
विनाशयामास बलं रिपूणां विपत्प्रतीकारपरेण सख्या।।
23.36 स्वहस्तपद्माञ्चिततोत्रपाशः स्वच्छन्दलीलासहधर्मचारी।
गतागतैरप्रतिमैः स चक्रे जयश्रियो जैत्ररथेन डोलाम्।।
23.37 सविस्मयः संयति सव्यसाची तत्तादृशा सारथिना समेतः।
मनोजवानां निजसायकानामग्रेसरं स्यन्दनमन्वपश्यत् ।।
23.38 यथा नियच्छत्ययनिन्द्रियाश्वान् जीवाश्रमे देहरथे निबद्धान्।
तथार्जुनस्यन्दनधुर्यनेता बभूव नान्येन निदर्शनीयः।।
23.39 यदेकदेशे निखिलं तदन्यत् तद्देहभागेषु च संविभक्तम्।
23.40 निवर्तितं वैरिजनोपमर्दात् न्यस्तं रथे चक्रमुपाददानः।
नतप्रतिज्ञानुपरोधहेतोः आत्मप्रतिज्ञामजहात् स्वतन्त्रः।।
23.41 द्विषत्प्रयुक्तं दुरपोहमस्त्रं भुजान्तरालेन विभुः प्रतीच्छन्।
विधाय वैकल्पिकवैजयन्तीं प्रच्छादितं प्राणयति स्म पार्थम्।।
23.42 निवेशितां तस्य पदे च पूजां निशाम्य गङ्गामिव चन्द्रमौलौ।
अनन्यसामान्यममंस्त सख्युः सङ्कोचवैदेशिकमीश्वरत्वम्।।
23.43 दिवाकरेनस्तमितेतिघाढं तमः सृजंस्तामसमोहनार्थम्।
प्रपन्नरक्षाप्रतिपन्नदीक्षः सत्याभिसन्धं विदधे सखायम्।।
23.44 सुरैरशेषैरपि जातरोषैः स दुर्जयान् भीष्ममुखान् जिगाय।
सहायशक्त्या युधि सव्यसाजी किं दुष्करं केशवमाश्रितानाम्।।
23.45 स्वप्नः किमाशीदथवेन्द्रजालं बभूव गन्धर्वपुरी किमेषा ।
इतीव शङ्कां विदधे प्रलीना पताकिनी कौरवपाण्डवानाम्।।
23.46 आकृष्टदेवासुरसाम्परायैः ओजस्विनां शस्त्रभृतामुदन्तैः।
प्रायस्तदा प्रत्यवहारलीलां आकालिकीं विश्वभुगन्वभुङ्क्त।।
23.47 जिघांसुरष्टादश सम्पतन्तीः अक्षौहिणीरद्भुतभीमरूपाः।
स्वतन्त्रयामाय मिथःप्रतीपान् सूत्रावसक्तानिव दारुमर्त्यान्।।
23.48 कृषीवलः स्थावरजङ्गमानां क्षेत्रे कुरूणां समकालपाकान्।
अनीकशालीन् भुजशालिवर्गैः फलोपपन्नान् प्रभुरित्यलावीत्।।
23.49 निस्तीर्य सङ्ग्राममहासमुद्रं संसारपोतेन परेण सख्या ।
धनञ्जयस्तत्पदमेव भेजे निर्धूतनीहारदिवाकराभः।।
23.50 द्रौणिस्तदा सौप्तिकमाददानः कृपेण सार्धं कृतवर्मणा च ।
हताहितैः पाण्डुसुतैरवाप्तं सैन्यावशेषं शमयां बभूव।।
23.51 इत्थं दशाष्टौ च निपात्य भूमावक्षौहिणीरद्भुतभीमरूपाः।
सतां पतिः सत्त्वसमृद्धिरोगात् उल्लाघितामातनुतेव पृथ्वीम्।।
23.52 विभुः स्वसङ्कल्पहतान् विनिघ्नन् धर्मैकतानेन धनञ्जयेन ।
प्रतोदसन्दंशिकयोदहार्षीत् पाञ्चालकन्यापरिभूतिशल्यम्।।
23.53 परास्त्रविस्रंसितमुत्तरायाः पद्मासनाद्यैरपि पूजितेन।
गङ्गाधरणयोः प्रभवेन गर्भं पस्पर्श पादेन परावरेशः।।
23.54 विप्लोषितं द्रौणिशरेण बालं सञ्जीवयन् पादरजः प्रभावात्।
वधूकृतक्षुद्रशिलाविशेषं रामानुजो राममिवान्वकार्षीत्।।
23.55 तस्य श्रुतिश्रेणिशिरोधृतानां स्पर्शः प्रजेशादिभिरीप्सितोभूत्
परीक्षिदुत्थानपरीक्षितानां अघच्छिदामङ्घ्रिरजःकणानाम्।।
23.56 अजातदीनां कालस्य दीप्तामिव खड्गरेखाम्।
विपक्षसंहारमहाभुजङ्गीं वेणीं प्रियैः संयमयांबभूव।।
23.57 पितामहाय प्रततान पार्थः शरप्रयुक्तं शयनं यदग्र्यम्।
योगासनं योजितचित्तधैर्यं तदेव पर्याप्तगुणं तदासीत्।।
23.58 विन्यस्य धर्मतनये विजयाधिकारं सख्यार्जुनेन यशसेव धनुर्धराणाम्।
दध्मौ स दैत्यमथनो युधि पाञ्चजन्यं वृष्ण्यन्धकादिपरिशेषितभूमिभारः।।
23.59 प्रत्यानिनाय रथमात्तजयः स जन्यात् धन्यावलोकनधनञिजयदर्शनीयः।
सारथ्यसंविदवधीरितहेतिजुष्टः सेनापरागपरिधूसरकुन्तलश्रीः।।
23.60 आलिङ्ग्य गाढमवगाढरसं रणाब्धौ वीरव्रणैः कृतविभूषणमिन्द्रसूनुम्।
अन्यावतारपरिकल्पनकेलिलोभात् ऐक्यं निनाय निजमंशमिवान्यनिष्ठम्।।
23.61 रणभुवि शरतल्पे लीलया शायितेन स्वपदसमुदितायाः सूनुना सिद्धसिन्धोः।
अनतिचिरविलम्बादाप्तकामं धरित्रीं कलिमिव शमयिष्यन् ख्यापयामास धर्मान्।।
23.62 अप्रत्यूहितसार्वभौमविभवैरभ्यर्चितः पाण्डवैः
प्रत्यावृत्तिमहोत्सवेन मुदितां प्राप्तः पुरीं द्वारकाम्।
प्रत्यक्षं प्रथयाम्बभूव विहरन् प्रीतः प्रियाभिः समं शुद्धः सामपदागमैरधिगतां स्वाधीनतां श्रीपतिः।।
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयनाम्नि महाकाव्ये भूभारहरणं नाम त्रयोविंशः सर्गः ।।