[highlight_content]

यादवाभ्युदयः सर्गः-5

श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्

।। यादवाभ्युदयः ॥

पञ्चमः सर्गः

5.1       ततः समानीतरसालपाकः संवीजयन् पाटलगन्धवाहैः।

निरूढमल्लीविभवो निदाघः सीरायुधं शौरिसखं सिषेवे ।।

5.2       अबिभ्रतीनां कुचकुम्भकक्ष्यामालिप्तकर्पूरहिमोदकानाम् ।

स सुभ्रुवां देहगुणेन यूनामासीत् वसन्तादपि माननीयः ।।

5.3       विहारयूना भजता स्वयं तत् व्रजाङ्गनाविभ्रमकिंकरत्वम् ।

नितान्तधन्याः स्वगुणैरभूवन् निर्विश्यमाना ऋतवः क्रमेण ।।

5.4       कृतावसेका इव कृष्णगीतैर्वनद्रुमा वर्धिततुङ्गशृङ्गाः ।

अयत्नलब्धानि गवां बभूवुः स्थायीनि वर्षातपवारणानि ।।

5.5       बभञ्ज वातः प्रबलो न वृक्षान् न तिग्मरश्मिः सलिलं तताप ।

ददाह वन्यां न च तत्र दावः संरक्षिता यत्र गवां स देवः।।

5.6       गावो महिष्यश्च गभीरनादाः संचारिताः शार्ङ्गभृता यथार्हम् ।

कलिन्दकन्यामवगाह्य काले घर्मापदा संपदमेव भेजुः ।।

5.7       गतेपि भूयिष्ठगुणे वसन्ते गोपाः सुखं चारितगोधनास्ते ।

कलिन्दजानूपसमीपभाजः कालं कठोरातपमत्यनैषुः ।।

5.8       वितेनिरे जङ्गमधामकल्पैरनोभिरध्यासितचत्वराणि ।

निदाघवर्षानुगुणानि गोपा स्थानानि गोवत्सगुणोचितानि ।।

5.9       अकालकाल्येन परेण पुंसा साम्यं गतानामिव वल्लवीनाम् ।

सुखाय सर्वे समया बभूवुः स्वैः स्वैरविच्छिन्नगुणैर्विशेषैः ।।

5.10     सुधाप्लवस्वैरसखीमभिख्यां वनाश्रिते वर्षति कृष्णनेघे ।

मध्यन्दिनेप्याददिरे विहारान् गावः प्रकामं गतघर्मतापाः ।।

5.11     तापापहन्तुः स्वपदाश्रितानां तत्तादृशा तस्य समीक्षणेन ।

न तस्य गोपाध्युषितस्य जज्ञे वनस्य वातातपवह्निपीडा ।।

5.12     प्रसाधिताः पाटलपुष्पजालैः प्रच्छायनिद्राशमितोपतापाः।

दिनावसानस्नपनेन शीता गोप्यः प्रियैर्निर्विविशुर्निशीथान् ।।

5.13     निदाघतैक्ष्ण्यादिह दुष्टसत्त्वाः क्षोभं गवां कुर्युरतिक्षुधार्ताः ।

इतीक्षमाणः सहजेन सार्धं व्यधत्त नाथो मृगयाविहारम् ।।

5.14     प्रसक्तगङ्गायमुनानुषक्तया भासा तयोराहितगाढमोहाः।

अयत्नलभ्योपगमास्तदासन् व्यालाः क्षणादर्भकवेधयोग्यः।।

5.15     अनुप्रयातैरिव देवमायामच्छेदनीयैरपि दिग्गजानाम् ।

वनं तदन्तर्गतसत्त्वजातं पाशैरवारुन्धत वत्सपालाः ।।

5.16     अनन्तलीलोचितभूमिकाप्तैपरावेदितान् वेदवनेचरेन्द्रैः ।

पथः समास्थाय गृहीतचापा गुप्तस्थितिं गोपसुता वितेनुः ।।

5.17     क्षणादनिर्धार्य निदानभेदं दत्तापहासैर्वनदेवताभिः ।

मृगायितं तत्र मृगेन्द्रमुख्यैः सिंहायितं गोकुलसारमेयैः ।।

5.18     परिस्फुरत्कृत्रिमसत्त्वजातैः प्रसारितैः श्यामपटैर्वनान्ते ।

स्वयं तिरोधाय तदर्हशब्दा गोपा मृगान् गूढचराश्चकर्षुः ।।

5.19     शतावरीदामनिबद्धमूर्ध्नः शार्ङ्गध्वनित्रासितसिंहयूथान् ।

अनीकनाथप्रमुखानकार्षीदग्रेसरान् व्याधतनूननन्तः ।।

5.20     विमुक्तपाशा मधुवैरिभृत्यैर्जिह्वालदुर्दर्शकरालवक्त्राः ।

निपेतुरन्योन्यविमुक्तरोषाः श्वानो वराहेषु निशातदंष्ट्राः ।।

5.21     संभृत्य गोपाः प्रसभं प्रयुक्तैः सत्त्वानि वन्यानि समग्रसत्त्वाः ।

गुहामुखाम्रेडिततीव्रघोषैः कोलाहलाराकुलयांबभूवुः ।।

5.22     अमृष्यतो मानुषसिंहनादं गिरीन्द्ररौधैरपि दुर्निरोधान् ।

बभ़ञ्ज दृप्तो बलभद्रसिंहः सिंहान् द्विपेन्द्रानिव दुर्निवारः ।।

5.23     गुञ्जाकलापप्रतिनद्धकेशैरागुल्फमालम्बितपिञ्छजालैः।

निषङ्गिभिश्चारुपृषत्कचापैर्गुप्तो बभौ गोपसुतैर्मुकुन्दः ।।

5.24     आक्रान्त्यकम्पेषु नगेषु धैर्यं शौर्यक्रमं श्वापदविक्रमेषु ।

अशिक्षयत् क्षेमविदात्मभृत्यान् विहारगोपो मृगयापदेशात् ।।

5.25     आदाय लूनानि मुकुन्दबाणैः शृङ्गाणि शीघ्रं वनकासराणाम् ।

शार्ङ्गप्रमाणानि शनैरकार्षुः तैरेव चारूणि धनूंषि बालाः।।

5.26     मनुष्यमांसस्पृहया सरोषं गुहान्तरादुत्पतितुं प्रवृत्तान् ।

शिलीमुखैः कीलितशैलकण्ठान् कृष्णस्तदा केसरिणश्चकार ।।

5.27     नवाहृतैर्नाथपरिष्क्रियार्हां गुञ्जास्रजं गोपकुमारवीराः।

विभिन्नवन्यद्विपकुम्भमुक्तैर्मुक्ताफलैरन्तरयांबभूवुः ।।

5.28     शराहतानां विपिने मृगाणामार्द्राहृतैश्चर्मभिरात्तहर्षाः ।

अकल्पयन् आस्तरणानि गोपाः संवेशयोग्यानि सहायिनीनाम् ।।

5.29     अभिन्नपार्श्वेष्ववकाशभेदात् भिन्नस्थतीन् भीतिमपोह्य वत्सान् ।

निरस्तसिंहेषु गुहागृहेषु न्यवीविशन् नाथनियोगभाजः ।।

5.30     अयातयामैरचिरप्रतापात् सुमृष्टपाकैरधिशल्यशृङ्गम् ।

मांसैर्मृगाणां मधुनावसिक्तैर्नन्दस्य भृत्या विपिने ननन्दुः ।।

5.31     निवेद्यमानान् वनदेवताभिः संगृह्य वन्यान् उपदाविशेषान् ।

समं सुहृद्भ्यः सहसा विभेजे रामानुरोधेन रमासहायः ।।

5.32     त्राणं सतां दुष्कृतिनां विनाशं तन्वन्नभीष्टं मृगयाच्छलेन ।

स्वच्छन्दचर्यानुगुणं गवां तच्चक्रे वनं शान्तमृगावशेषम् ।।

5.33     निसर्गकारुण्यतरङ्गवृत्त्या निर्वैरतां नैगमगोपदृष्ट्या ।

संप्रापिताः प्रापुरिवैकजात्यं केचिद्गवां केसरिदन्तिमुख्याः ।।

5.34     विधून्वता धूलिकदम्बरेणून् धाराकदम्बांकुरकारणेन ।

निन्युः श्रमं निर्झरबिन्दुभाजा नभस्वता नन्दसुतानुयाताः ।।

5.35     अमर्त्ययक्षेश्वरधामभाजोः आरामयोरेकमिवावतारम् ।

प्रशान्तघर्मातिशयं प्रभावात् बृन्दावनं नन्दसुतो वितेने ।।

5.36     दिशं समाक्रम्य करैरुदीचीं देवे रवौ दक्षिणतः प्रवृत्ते ।

निदाघक्लृप्त्या निगृहीतदेहां वृष्टिं पुनः स्रष्टुमियेष शौरिः ।।

5.37     अथाविरासीदपसारयन्ती तापं गवां चण्डकरप्रसूतम् ।

विचित्रसस्योदयमेचकाङ्क्षी मेघाविला माधवयोगवेला ।।

5.38     महीभृतः संभृततीर्थतोयारम्भोधरैराचरिताभिषेकाः।

प्रयुक्तविद्युद्वलयैः पुनस्तैः प्रायेण नीराजनमन्वभूवन् ।।

5.39     धौतावदातैः क्रकचच्छदानां पत्रैरविश्रान्तषडङ्घ्रिनादैः।

व्यदारयत् पुष्पशरः प्रतूर्णं मानग्रहं मानवतीजनानाम् ।।

5.40     पयोमुचा सेकवतां स्थलानां वीरुत्प्ररोहा विविधा बभूवुः ।

समीक्षितानां मधुसूदनेन श्रद्धादयाद्या इव सद्गुणौघाः।।

5.41     शितेन पञ्चेषुशरेण भिन्नात् वियोगिनीमानसतो विकीर्णाः ।

तदेन्द्रको(गो)पत्वमिवाधिजग्मुः शोणाः क्षितौ शोणितबिन्दुभेदाः ।।

5.42     मधुद्रुतेरुल्बणदन्तवीणा मेघानिले मेदुरबिन्दुजाले ।

प्रभूतकम्पाः प्रथयाम्बभूवुः शीतालुतां कण्टकिनः कदम्बाः ।।

5.43     शतह्रदाशस्त्रविलासदीप्ता धीरप्रणादा धृतचित्रचापा ।

कनद्बलाकाध्वजपङ्क्तिरासीत् कादम्बिनी कामचमूरपूर्वा ।।

5.44     मृदङ्गधीरस्तनितो विहायाः सौदामनीसंभृतचारुलास्यः।

बभौ नवानां प्रभवो रसानां रतिप्रियस्येव नटस्य रङ्गः ।।

5.45     अचिन्तितोपस्थितजीवनानामासेदुषामभ्यधिकां समृद्धिम् ।

तोयाशयानां परिवाहजन्या स्वगुप्तिरन्योपचयप्रदाभूत् ।।

5.46     गुहासु गोवर्धनसंभवासु प्रकामविस्तीर्णसमस्थलीषु ।

गुणाधिको विशवसृजा प्रवर्षे वासः समाधीयत वल्लवानाम् ।।

5.47     दरीषु गोप्यः प्रसमीक्ष्य कृष्णं दिशासु जीमूतगणं मयूर्यः ।

अग्रे पतीनामधिगीतिनादं वितेनिरे चारु विहारलास्यम् ।।

5.48     पयोदलक्ष्य(क्ष) प्रहिताग्रहस्तां कृष्णः स्वनेत्रे इव चन्द्रसूर्यौ ।

तिरोदधानां प्रतिरोद्धुमैच्छत् स्वैरी स्वलीलामिव वर्षवेलाम् (जातलीलाम्)।।

5.49     अथाञ्जनस्निग्धनभः प्रकाशाः क्षणत्विषां कल्पितलास्यभङ्गाः।

दिशामूखोल्लासनदृष्टदाक्ष्या दीनाम्बुवाहा दिवसा बभूवुः।।

5.50     अलक्ष्यतीव्रातपमन्तरिक्षं सितासितैरम्बुधरैश्चकाशे ।

विवेकमासादयतामिवादौ चित्तं वितर्कैरनिवर्तमानैः ।।

5.51     विहाय सद्यः कुटजार्जुनादीन् विप्लावितान् कालविपर्ययेण ।

पुनर्बबन्धुः प्रणयं द्विरेफाः कोशोपपन्नेषु कुशेशयेषु ।।

5.52     तरङ्गलोलाम्बुजतालवृन्ता बर्हातपत्रायितभृङ्गयूथाः।

विधूतहंसावलिचामरौघा नद्यः समातन्वत नाथसेवाम् ।।

5.53     तापानुबन्धप्रशमाय पुंसां शय्यार्थिना शार्ङ्गभृतोपहूता ।

पयोदमालाव्यपदेशदृश्या प्रायस्तिरोधीयत योगनिद्रा ।।

5.54     इतस्ततः प्राप्तशरद्विहारं गोपीसखं द्रष्टुमतीव हर्षात् ।

अशोभि नेत्रैरिव जृम्भमाणैः शीणैर्धरित्री शिखिनां कलापैः ।।

5.55     चराचरेष्वाहितजीवनानामनुज्झतां सत्पथमम्बुदानाम् ।

शुचित्वमन्तर्बहिरप्ययत्नादभ्यागतैर्हंसगणैः शशंसे ।।

5.56     संस्कारभेदैः कलमादिकानां क्रमेण लब्धोपचयस्थितीनाम् ।

धर्मं निजं साधयितुं क्षमाणां समुन्नतिः सन्नतिहेतुरासीत् ।।

5.57     विहारगोपस्य गुणान् गृणद्भिः क्षीबाशया गीतपदैरुदारैः

चकासुरासादि(शिरे सधि)तभक्तिभेदाः सामोपशाखा इव शालिगोप्यः।।

सामोपशाखा इव शालिगोप्यो चकासुरासादितभक्तिभेदाः ।।

5.58     विकस्वरेन्द्रायुधबर्हदाम्नः श्यामीकृतं कृष्णघनस्य धाम्ना ।

शरत्प्रसङ्गेपि तदा तदासीत् बृन्दावनं बद्धमयूरलास्यम् ।।

5.59     समग्रबन्धूकरजःसमेतं स्मेरातसीमेचकमन्तरिक्षम् ।

पीताम्बरेण प्रभुणा तदानीमयत्नसंभूतमवाप साम्यम् ।।

5.60     समग्रसप्तच्छदरेणुकीर्णैः स्रोतोभिरुन्नीतमदप्रवाहः।

स्वकानने स्वैरजुषां गजानां गोवर्धनो यूथपतिर्बभूव ।।

5.61     अधोमुखैश्च प्रतिबिम्बरूपैरभ्युन्नतैरात्मभिरप्यशंसन् ।

त्रिविक्रमस्य स्थितमुन्नतं च पदद्वयं पाथसि रक्तपद्माः ।।

5.62     पङ्कक्षये प्राक्तनवर्तनीनां वक्रेतरा व्यक्तिरभूत् पृथिव्याम् ।

बहिर्मतप्रत्ययिनां व्यपोहे वेदोदितानामिव सत्क्रियाणाम् ।।

5.63     मदप्रभूतध्वनयो महोक्षा रोधोविभेदोल्बणतुङ्गशृङ्गाः

दर्पस्य देहा इव योगसिद्धाः दन्तावलान् अन्तरयांबभूवुः

5.64     सरोरुहां रक्तसितासितानां श्रिया बभौ शारदवासरश्रीः।

विहारभाजा गुणभेदयोगात् व्यक्तीकृता विश्वनृजेव माया ।

5.65     आरक्तकल्हारविलोचनश्रीः क्लान्ता भृशं केलगतिः स्खलन्ती।

उन्नालनालीकमधूपभोगात् मत्तेव मार्ता(र्त)ण्डसुता बभासे ।।

5.66     वलग्नलग्नोर्मिवलीविभङ्गां काले यथास्थानगृहीतकार्श्याम् ।

अरंस्त पश्यन् अनघोनुरूपां श्यामां सुदृष्टामपि सूर्यकन्याम् ।।

5.67     शोणाकृतिं कोकनदैरुदारैरिन्दीवरैराकलितात्मकान्तिम् ।

सिताम्बुजैः सूचितजाह्नवीतामेकामनेकामिव तामभुङ्क्त ।।

5.68     कुमुद्वतीं प्रेक्ष्य कलिन्दकन्यां तारापरिष्कारवतीं त्रियामाम्।

नभःस्थलीं च स्फुटहंसमालां नाथस्त्रिधाभूतममन्यतैकम् ।।

5.69     बन्धूकजालैः परिधानशोभामिन्दीवरैरप्रतिमामभिख्याम् ।

मुखश्रियं तामरसैर्मुरारेः संभृत्य लेभे शरदानुरूप्यम् ।।

5.70     पयोधराणां पलितंकरण्या दिवश्च तारुण्यमिवार्पयन्त्या ।

विचित्रभूम्ना शरदा स्वशक्तिं विख्यापयामास विहारगोपः।।

5.71     कुमुद्वतीकल्पितभृङ्गगीतः संदर्शयन् दर्पणमिन्दुबिम्बम् ।

सचामरश्चन्द्रिकया सिषेवे तमीश्वरं तत्र शरत्प्रदोषः।

5.72     सरोरुहां रक्तसितासितानां स्थानेषु भृङ्गध्वनिभिः प्रतेने ।

जिगीषतः पञ्चशरस्य विश्वं तूर्णं प्रवृत्तैरिव तूर्यघोषैः ।।

5.73     निर्मुक्तभोगीन्द्रनिभैः पयोदैर्नभःस्थली व्याप्ततनुर्बभासे ।

अनङ्गयोग्यैर्हरिनीलभूमिर्धौतप्रकीर्णैरिव चामरौघैः।।

5.74     विभाव्य बन्धूकविभातसंध्यां कालोचितं कल्पयितुं विहारम् ।

द्विजारुपाधिविनिसर्गशुद्धैरङ्गीकृतानाविलतीर्थतोयैः ।।

5.75     अनिन्दितां ग्लानिमिवोद्वहन्त्यो वितेनिरे मन्दतरान् प्रचारान् ।

वर्षानिशीथे दयितेन भुक्ताः श्रान्तिं प्रयाता इव शैवलिन्यः ।।

5.76     श्रिया समं भावितपद्मभूम्ना घनागमादुल्लसितः पयोधेः ।

रराज नीले रविरन्तरिक्षे मणीश्वरो माधववक्षसीव ।।

5.77     अवाप्य संकोचमतीव भूयः कालागमादुन्मिषतो नभस्तः ।

विभागमापुर्विदिशो दिशश्च प्रजाः प्रसन्नादिव विश्वधाम्नः ।।

5.78     समुद्यतस्तिग्मरुचो घनाब्देरुन्निद्रतां पूर्वमुपाजगाम ।

रथाङ्गपाणेरिव सिन्धुजन्मा सरोजिनी चारुसरोजलक्ष्या ।।

5.79     उत्सारयन् जीर्णसिलिन्ध्र(शिलीन्ध्र)जालं प्रयो मदैः पेचकिनां प्रसिञ्चन् ।

चकार सप्तच्छदरेणुजालैः कालो महीं कामविहारयोग्याम् ।।

5.80     कृतादयाः कृष्णवलाहकेन स्रोतोवहाः स्वैरविहारभाजः ।

त्रपामिव स्थानगतिप्रतीक्ष्याः स्वाभाविकीं स्वच्छदशामवापुः ।।

5.81     सुखावगाह्यैः सुदृशामतुष्यत् स्वादोत्तराः शौरिरपेतपङ्कैः ।

प्रसन्नशीतैरनघैः पयोभिः स्वभक्तचित्तैरिव यामुनीयैः ।।

5.82     अनुल्बणैरन्वहमूर्मिभेदैः संपन्नरेखाः सरितामधोधः ।

श्रियो दधुः पद्मवनावतारे सोपानतां सैकतसंनिवेशाः।।

5.83     प्रसादभाजा समयेन दत्तास्त्रैलोक्यलक्ष्म्यास्तरलस्वभावाः ।

पयोधरस्थानगता विरेजुर्हाराः प्रभूता इव हंसमालाः।।

5.84     जलातपत्यागसमागमाभ्यां प्राचीमवक्त्रां प्रकृतिं भजन्त्यः।

तदन्वयत्यागवशादवाप्तैः पङ्कैरमुच्यन्त शनैः पदव्यः ।।

5.85     स्थाने विनिद्राः स्थलपद्मकोशाः प्रायो गतिं पान्थजनस्य रोद्धुम् ।

अरुंतुदान् आमुमुचुः परागान् आश्यानपङ्केषु महापथेषु ।।

5.86     पतत्रलीलाहतपुष्करान्तैः पद्मालयानूपुरसौम्यनादैः ।

शुभैरभावि स्वपतस्त्रिधाम्नः प्रत्यूषतूर्यैरिव राजहंसैः ।।

5.87     कल्हारपिष्पादितकर्णपूरा वितीर्णबन्धूकविशेषकश्रीः ।

आमुक्तपद्मोत्पलरेणुरासीत् सैरन्ध्रिका कापि शरत् त्रिधाम्नः ।।

5.88     सरोजकोशान्मिषतः प्रभुग्नान् शालीन् विपाकानतपिञ्जराग्रान् ।

शुकांश्च तेष्वापततोनुमेने शौरिः सयूथ्यानिव शोणतुण्डान् ।।

5.89     स्ववेगसंछन्नगभीरभावं स्रोतस्विनीनामपहाय तोयम् ।

कालुष्यमायोधनकालयोगात् वीराङ्गनानां हृदयं विवेश ।।

5.90     नवप्ररूढैर्नसिनीपलाशैः शारिणि वेशन्तजलान्यवापुः ।

स्फुरत्कलङ्कस्य तुषारधाम्नश्छायाभिरन्याभिरिवाविशेषम् ।।

5.91     वर्षायसीनामपि पद्मिनीनां सौम्येन वर्षान्तरसायनेन ।

सामोदमन्दस्मितहार्यभृङ्गं युक्तं श्रिया यौवनमाविरासात्।।

5.92     शरद्विभूतिं कुमुदावदातां संवीतनीलाम्बरदर्शनीयाम् ।

अमंस्त निर्धूतघनप्रलम्बां मूर्तिं बलस्येव शुभां मुकुन्दः।।

5.93     निद्रायितेव प्रथमं पयोदैः प्रशान्तनिद्रेव शरत्प्रसादात् ।

जगत्त्रयी तद्व्रतिनीव भेजे जातोद्यमं जागरणे मुकुन्दम् ।।

5.94     निद्रापदेशेन जगद्विभूतिं विभावयन् नित्यविधूतनिद्रः ।

प्रबुद्यमानः स विभुः प्रजानां प्रादात् स्वधर्मानुगुणं प्रबोधम् ।।

5.95     अव्यासङ्गं जलधिशयनादुत्थितस्यात्मधाम्नः।

पत्युः पुण्यं प्रथमनयनस्पन्दितं प्राप्तुकामा ।

नित्यापुर्वश्रुतिपरिमलं न्यस्तलीलारविन्दा

पादाम्भोजं सह वसुधया धारयामास पद्मा।।

5.96     अनुचरितविधिज्ञैरादृतां पूर्वपूर्वैर्महद्दमनपायं मङ्गलं मन्यमानाः।

प्रचितविविधभोग्यां प्रारभन्त प्रतीतां वलमथनसपर्यां वल्लवा नन्दमुख्याः।।

5.97     वाहेषु गोषु द्विरदेषु चाग्र्यां तज्जन्यया जीविकयोपपन्नाः।

तदर्हसंभारवतीं सपर्या क्षिप्तापदं क्षेमविदो वितेनुः।।

5.98     आबालप्रेक्षणीयं प्रणतमनिमिषैरद्भुतानां प्रधानं

धूतत्रैलोक्यदोषं ध्वजममरपतेस्तूर्णमुत्थापयन्तः ।

घृष्टीनामर्चनाभिः स्तुतिगुणनिकया गीतनृत्तोपहारै रुद्वेलप्रीतिलोला विदधुरविकलैरुत्सवं गोपवृद्धाः।।

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये महाकाव्ये पञ्चमः सर्गः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.