[highlight_content]

यादवाभ्युदयः सर्गः-11

श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्

।। यादवाभ्युदयः ॥

एकादशः सर्गः

11.1     तदद्भुतं क्रीडितकं क्रमेण श्रुत्वा हरेरप्रतिमानशक्तेः।

महाबलान् कंसवधादिजन्मा मन्युः प्रपेदे मगधेन्द्रमुख्यान् ।।

11.2     गोपालडिम्भो नरपालहन्ता कुले यदोरञ्चितमातपत्रम्।

अन्यच्च भूम्यामधरोत्तरत्वं हन्तेति वादान् प्रभूरभ्यनन्दत् ।।

11.3     हलादिभिर्हेतिवरैर्यथार्हं रथाङ्गमुख्यैरपि रामकृष्णौ ।

स्ववृत्तियोग्यावसरोपयातैः प्राचीं श्रियं प्रदुरभावयेताम्।।

11.4     स दैत्यजित् वध्यवरूथिनीनां संप्रापकं सारथिमात्रश्षम् ।

पुनः प्रवृत्तानुशयं पुरीं स्वां निन्ये जरासंधम् अहार्यसंधः।।

11.5     समाहृतैः सैन्यमहासमुद्रैरायातमष्टादश सांपरायान् ।

देहावशेषं प्रजिघाय दीनं देहेन भीमेन विभेत्तुमिच्छन् ।।

11.6     स्वदत्तशक्तया मुचुकुन्ददृष्ट्या भस्मावशेषो भविता द्रुतं यः।

कलेरिवात्मानमनन्तदोषं यं कालपुर्वं यवनं प्रचख्युः।।

11.7     बलस्य च स्वस्य च बाहुभूम्ना यदाहृतम्लेच्छमृगाधिपानाम् ।

सहस्रकोटीगुणितं सहस्रं पञ्चत्वमायास्यति पञ्चसंख्यम् ।।

11.8     तदागमे यादवपुंगवानां विप्रावमानोपनतं विषादम् ।

निवारमास न वासुदेवः प्रख्यापयन् ब्राह्ममृषेः प्रभावम् ।।

11.9     निसर्गनिध्येयपरावरः स संमन्त्र्य सार्धं यदुवंशवृद्धैः।

विहातुमिच्छन् मधुरां शुभंयुः संकल्पयामास पुरीं तदन्याम् ।।

11.10   स्वयं प्रवृत्तैरपि वृष्णिवीरैस्त्रातुं क्षमां त्रासितदैत्यलोकः।

अनन्यसाधारणशक्तिरन्यां संकल्पयामास पुरीमपूर्वाम् ।।

11.11   जहौ धरित्रीमिव जामदग्न्यः कौलीमयोध्यामिव कोसलेन्द्रः।

अचिन्त्यवृत्तिर्मधुरामनिन्द्यां तज्जन्मजातो महिमा तु नैनाम् ।।

11.12   परित्यजन्नप्यभिमत्य तिष्ठन् व्याप्तः शुभं व्यक्तिपदं तदग्र्यम् ।

अनन्यभाजामभजत् स देवस्तस्मिन् सतां प्रगिव संनिधानम् ।।

11.13   अहंसपद्मामिव वाहिनीं तां वीतेन्दुतारामिव वासतेयीम् ।

समाप्तकार्यामिव सत्रशालां शून्यां पुरीं प्रेक्ष्य जगाम शौरिः।।

11.14   चित्रावशेषद्विरदाश्वयोधा शुकादिसंभाषणशेषसूक्ता ।

मणिप्रभाशेषितदीपिका सा नाम्नैव माधुर्यवती तदासीत् ।।

11.15   प्राचीमनादृत्य निवासभूमिं प्रत्यङ्मुखीं पद्धतिमाददाना ।

स्थिरं पदं प्राप्तुनियेष सेवा सत्त्वाधिका धीरिव सात्त्वतानाम् ।।

11.16   उत्सारयन् धूलिमिवाग्रयायी विनिर्दिशन् वासमिवातिदूरात् ।

प्रत्युद्गमाय त्वरयन्निवाब्धिं मरुद्ववौ मन्दविधूतकेतुः।।

11.17   प्रभूतभीमोन्नतनागनक्रा पारिप्लवैरूर्मिमती तुरंगैः।

अपूर्ववारांनिधिमाव्रजन्ती स्वयं तथा शौरिचमूरभूत् सा ।।

11.18   समेति मां सात्त्वतवाहिनीयं सिष्णासया हन्त जिगीषया वा ।

इति प्रभूताद्भुतवैभवां तामुपेन्द्रनाथामुदधिः शशङ्के ।।

11.19   गतागतैर्योद्धुमिव प्रवृत्तैरासीदतामद्भुतभीमवेगौ ।

मिथःप्रतिच्छन्दतया प्रतीक्ष्यौ वेलावने सैन्यमहासमुद्रौ ।।

11.20   महीयसा सैन्यरवेण सद्यः पयोधिरन्तर्हिततीव्रघोषः।

प्रकम्पमानो भृशमाबभासे भयेन तूष्णीमिव भाव्यमानः।।

11.21   प्रतीक्ष्य सेनामुपधावमानां पत्या नदीनां प्रणिधीयमानः।

प्रकाशयन् सर्वजनानुकूल्यं समीरणो मन्दतरं चचार ।।

11.22   वदन्निव स्वागतमागतेभ्यः प्रभूतसंतोषभवैः प्रणादैः।

तरङ्गहस्तप्रहितैः सरस्वान् अभ्यर्चयामास यदून् पयोभिः।।

11.23   चिरप्रयातं परिहृत्य शय्यामभ्यागतं वारिधिरादरेण ।

मिथः समायोजितवीचिहस्तः प्रायः प्रभुं प्रार्थयत प्रसादम् ।

11.24   निवेश्य सेनामुदधेः समीपे तालाङ्कसंभावितराजताले ।

दयार्द्रमेघोपमदेहभूमा विश्वंभरो विश्रमयांचकार ।।

11.25   कदाचिदात्मानमवाप्तरत्नं कपालिनं चन्द्रकलावतंसम् ।

क्षमं सुभिक्षां च दिवं विधातुं ध्यातागतं सिन्धुमथादिदेश।।

11.26   अनारतप्राप्तजयोद्यमानां धर्मं निजं धारयतां यदूनाम् ।

अपत्यरक्षोचितमन्तरीपं दिव्योपमं देयमिह त्वयेति ।।

11.27   स तस्य दिक्पालनिवासकल्पां विधित्सतो वृष्णिपुरीं विशालाम् ।

अगाधपाथःपरिखाभिगुप्तं द्वीपं ददौ दुर्गविधानयोग्यम् ।।

11.28   बलोत्तराणामपि बह्वमित्रं स्फीतं यदूनां कुलमीक्षमाणः।

अवन्ध्ययन् विश्ववित् अर्थशास्त्रं दुराक्रमं दुर्गमियेष कर्तुम् ।।

11.29   स शासिता शास्त्रमनुप्रतस्थे कर्माददे कर्मफलप्रदाता ।

प्रभुः स्वबुद्ध्यैव जगन्ति गोप्तुं कुर्वीत बाह्यैरपि किं न गुप्तिम् ।।

11.30   प्रभूतरत्नद्युतिकेसरं तत् प्रवालपत्रौघपरीतपार्श्वम् ।

स्थानं हरेरिष्टतमं तदासीत् संभूतिराजीवमिवेन्दिरायाः।।

11.31   प्रचोदितस्तत्र च विश्वकर्मा नाथप्रसत्त्यै नलिनासनाद्यैः।

रथ्यादिवैचित्र्यवतीं वितेने रिशिं गुणानामिव राजधानीम् ।।

11.32   स शिल्पविद्यां विधिनोपदिष्टामशेषतो नूनमधीत्य दाक्ष्यात् ।

शुभानि तस्यां भवनानि कर्तुं सौधेषु दिव्येषु चकार योग्याम् ।।

11.33   गतागतार्थं हरिवाहिनीनां सेतुं च योगेन बबन्ध सिन्धौ ।

चकार दिग्भागविमूढतां यः प्रत्यर्थिनां चक्रधरप्रभावात् ।।

11.34   नलेन पूर्वं स्वसुतेन सृष्टात् नवीनमन्यूनतरं स्वक्लृप्तम् ।

समीक्ष्य तुष्यन्नपि विश्वकर्मा नाथाय रोचेत न वेत्यताम्यत्।।

11.35   स सेतुरास्कन्दितकूलयुग्मः संकल्पितो वासवलोकतक्ष्णा।

महापुरीं तां च महीं च मातुं मध्ये तुलादण्ड इवार्पितोभूत् ।।

11.36   निवेदितां निर्जरशिल्पिनैव स्वयं चमत्कारवता सुक्लृप्ताम् ।

अदृष्टपूर्वामिव विश्वदर्शी दृष्टिः सतां द्रष्टुमियेष नाथः।।

11.37   निजप्रतिच्छन्दनिदर्शनीयां मृग्योपमानान्तरमृष्टकान्तिम् ।

उदन्वता दत्तकरेण देवः प्रदर्शितां पूर्वमवैक्षतैनाम् ।।

11.38   अनन्यदृष्टिं नगरी नवीना विस्मेरतां विश्वपतिं निनाय ।

स्वयंप्रभैः सौधभरैरुदारैस्तुङ्गैः सुमेरोरिव रत्नशृङ्गैः।।

11.39   तामद्भुतां तारकिताग्रसौधां धर्मस्य पूर्णामिव योगसिद्धिम् ।

सपौरभृत्यः समयान्ववेक्षी विवेश वृष्ण्यन्धकयूथनाथः।।

11.40   परेण नाकं प्रलयानभिज्ञामधीयते यस्य पुरीमचिन्त्याम् ।

स लोकनाथो विदधे सनाथां दूराधिकां द्वारवतीं दिवोपि ।।

11.41   विधाय तस्यां विदितैः स्वचिह्मैर्यदून् यथास्थाननिवेशतुष्टान् ।

तामेव नाथस्त्रिदशाभिनन्द्यां त्यक्तामयोध्यां मधुरां च मेने ।।

11.42   उदन्वति व्योमतले च लग्नां दृष्टोभयाः दर्पणदर्शनीये ।

यामद्भुतामात्मपुरीं च देवाश्छायाममन्यन्त मिथः समीक्ष्याम् ।।

11.43   प्राकारचक्रं पृथुभिस्तरङ्गैरास्फालयन् अम्बुधिरात्तवेगः।

अमर्त्यमुख्यैरपि जातकोपैरक्षोभ्यतां व्याकुरुतेव यस्याः।।

11.44   यत्सौधपर्यङ्कजुषां वधूनां संगृह्य निःश्वासगुणं समीरः।

पद्मेषु नूनं प्रदिशन् प्रभाते गतागतं याति गवाक्षवर्त्मा ।

11.45   जालानि यत्रागुरुधूमजालैः संदिग्धपारावतसंनिधानैः।

अवासयन् नूनमहार्यगन्धान् आसेदुषां नाकसदां विमानान्।।

11.46   परार्थ्यरत्नप्रचितात्मभिर्या प्रासादमालाभिरलंकृताङ्गी ।

नाथोपभोगानुगुणां पयोधौ ननन्द दृष्ट्वैव निजामभिख्याम् ।।

11.47   मणिप्रदीपप्रशमप्रयुक्ते विहारचूर्णे विफले वधूनाम् ।

अपत्रपायाः समयेपि यस्यामभूदनास्था परमार्थदीपे ।।

11.48   प्रायेण यत्र प्रमदाजनानां नित्यं गुणैरप्रतिमैर्निरुद्धाः।

संस्कारयोगादपि लब्धसत्त्वाश्चित्रार्पिता नाकसदो न चेरुः।।

11.49   यदन्तरे यामिकवारणानामासेदुषामम्बुनिधेरभिख्याम् ।

कराभिमर्शेषु पुनश्चकासुः कल्लोललग्ना इव कर्णशङ्काः।।

11.50   सौधेषु यस्यांं युवसेवितेषु त्रिविष्टपादप्यधिकोन्नतेषु ।

व्रीलातिभारान्नमिता इवासन् वैमानिकैरध्युषिता विमानाः।।

11.51   न षड्भिरासन् व्यसनानि पुंसां यद्वासिनामीतिभिरूर्मिभिर्वा ।

अयोगयत्नेन विनैव चान्ते जज्ञे जगद्धातरि बुद्धिरेका ।।

11.52   अदेशकालप्रविभागभाजा भूम्ना जगद्धातुरचिन्त्यभूम्नः।

यस्यां विहारोपवनान्यभूवन् समाधियोग्यानि तपोवनानि ।।

11.53   अनंहसामध्वरदीक्षितानामाह्वानतः प्रागपि संनिधानात्।

अभूङ्क्त कृत्स्नानि हवींषि नित्यं यत्र स्वयं यज्ञतनुः स देवः।।

11.54   रतिप्रसूता इव राजकन्या रसोदधेरूर्मिपदं भजन्त्यः।

विरक्तभाव्यं तमवाप्य यस्यां रागोपपन्ना रमयांबभूवुः।।

11.55   प्रवालचित्रीकृतजालकश्रीः सालावृता संभृतपत्रजाला ।

परिष्कृता भद्र मृगादिभिर्या बभौ स्मरस्येव विहारवन्या ।।

11.56   ध्वजाग्रभिन्नाति तुहिनांशुबिंम्बादनुक्षरन्त्या सुधयानुलिप्तैः।

चिरप्रक्लृप्तैरपि यत्र सौधैर्नित्यं नवीनैरिव निर्बभासे ।।

11.57   स्ववैभवैरप्रतिरूपशोभैः व्यक्तश्रियो वाङ्मनसानिवृत्तैः।

तिरोदधुर्यत्र नरेन्द्रवासाः स्वयंप्रभां देवसभां सुधर्माम् ।।

11.58   विभूतिभेदैरनुपप्लवैर्या भोगार्थिनां भूमिगताप्यभौमैः।

निवारयामास तपोधनानां वासादरं वासवराजधान्याम् ।।

11.59   यत्सौघरत्नप्रकरेषु विष्वक् प्रसारितैरन्वहमैकमुख्यात् ।

करैः सहस्रेँण गृहीतदीप्तिः प्रद्योतते नूनमतीव भास्वान् ।।

11.60   यच्चन्द्रशालसु निषेदुषीणां मृगीदृशां हारमणिप्रकाशैः।

तिरस्क्रियां प्राप्य विलज्जमानास्तारागणा नूनमधश्चरन्ति ।।

11.61   गृहेषु यस्यां मणिभित्तिभागे प्रतिक्षणं दृष्टमुखेन्दुबिम्बः।

वधूजनः केवलमग्रहस्तैरादत्त मङ्गल्यतयात्मदर्शम् ।।

11.62   अनन्तचित्रप्रतिमाभिरामैरजस्रमाक्रान्तदिशावकाशैः।

अभावयत् गोपुरवैभवैर्या विश्वप्रसूतेरिव वैश्वरूप्यम् ।।

11.63   सरोभिरुल्लासितपुष्करश्रीः सङ्गोज्झितैः संगमितप्रयागा ।

प्रभासिता रत्नगणांशुभिर्या धर्माश्रयाणामिव संसदासीत् ।।

11.64   हसद्भिरुच्चैःश्रवसं हयाग्र्यैरैरावतं दन्तिवरैश्च दृप्तैः।

नरोत्तमैर्नाकसदश्य याभूत् सुभ्रूभिरप्यप्सरसः स्वयं द्यौः।।

11.65   वप्रेषु यस्याः स्फटितप्रदेशान् द्वाराभिमानात् द्रुतमापतन्तः।

अवापुरागन्तुजनाः सलीलैरन्तःस्मितैर्नागरकैर्निरोधम् ।

11.66   पयोभिरच्छस्फटिकद्रवाभैः दवीयसां दर्शनमादधानैः।

सुधाधिकस्वादुरसैरविन्दन् स्वान्तोपमां यत्र सतां सरस्यः।।

11.67   यामेकचित्तः प्रसमीक्ष्य तुष्यन् यादोनिधेराहितदिष्टिवृद्धिम् ।

लज्जामयासीदिव विश्वकर्मा लङ्कादिनिर्माणकथाप्रसङ्गे ।।

11.68   समग्ररत्नौघशुभाकृतिं यां सनायकां मध्यजुषा त्रिधाम्ना ।

हृद्यामजस्रं हृदयेन भूषां रत्नाकरो नूनमधत्त रम्याम् ।।

(रम्यां हि हृद्यां हृदयेन नूनं रत्नाकरो रत्नमधत्त भूषाम् ।।

11.69   अभिन्नसत्त्वान्नभसः परस्मात् क्षीरोदधेरंशुमतश्च बिम्बात् ।

रमासखस्य प्रणिधानभाजां याभूत् प्रियं व्यक्तिपदं पृथिव्याम् ।।

11.70   यत्सौधभाजो निशि सुन्दरीणां मुखेन्दुभिश्चूषितकान्तिमिन्दुम् ।

सद्यः स्वनिष्यन्दसुधाप्रवाहैराप्याययामासुरिवेन्दुकान्तः।।

11.71   उद्वेलचञ्चत्तुरगोर्मिमालामुद्घोषितामुत्सवतूर्यघौषैः।

प्रभूतरत्नौघनिधिं पयोधिर्यामद्भूतां या च तमन्वकार्षीत् ।।

11.72   यद्वप्रशैलेषु दिवापि सिन्धोरास्फालनादुत्पतितैः पृषद्भिः।

उत्क्षिप्तमुक्ताफलदर्शनीयैरालक्ष्यतारौघमभूत् विहायः।।

11.73   कलत्रपुत्रादिजुषामजस्रं दीर्घायुषां यत्र सतां जनानाम् ।

धर्मैकभाजामितरे पुमर्थाः प्रायः स्वयं संनिदधुः स्वभूत्यै ।।

11.74   रराज सा रामजनार्दनाभ्यां प्राप्तप्रकाशापि यद्प्रवीरैः।

सत्येव तारानिकरे त्रिलोकी चक्षुष्मती चन्द्रदिवाकराभ्याम् ।।

11.75   प्रभुणा सहस्रवदनेन वर्ण्यतां द्विगुणैरमुष्य नयनैरवेक्ष्यताम् ।

श्रुतिभिश्च तस्य बहुधा निशम्यतामधिकां ततः श्रियामवाप सा पुरी ।।

11.76   स्वयमजनि किमत्र श्वेतमेवान्तरीपं परिणतमुत किंचिद्भागधेयं पृथिव्याः।

वरुणनगरमन्यत् वारिधेरुत्थितं वा किमिदमिति पुरं तत् कीर्तयन्ति स्म पौराः।।

11.77   रामप्रष्ठैरधिवसति सा राजधानी जगाहे

लोकिधीशे सह बहुमतैर्लोकपालैरिवान्यैः।

आशचर्याणां प्रकृतिरियमित्यद्भुतावेशयोग्याम्

अप्रत्यूहामनितरतुलारोहणीयामभिख्याम् ।।

11.78   तन्मध्ये विरचितशिल्पमेरुकल्पं वैचित्र्यादपहृतवैजयन्तगर्वम् ।

प्रस्पष्टं निजमिव पारमेष्ठ्यमुर्व्यां प्रासादं प्रभुरधिवासयाञ्चकार ।।

11.79   रामः पुनर्व्रजमुपेत्य विहारभेदैराश्वासयन् सहचरैः सुहृदश्च सर्वान् ।

विश्राणितां दुहितरं वरुणेन विन्दन् सीरावकृष्टयमुनास्नपितो विजह्रे ।।

11.80   प्रत्यञ्चमब्धिमवधूतवतोतिदूरं दग्धुश्च कूलमिव दक्षिणमस्त्रभूमा ।

आकर्षतश्च सरितं सवितृप्रसूतां रामस्य तस्य शुशुभे रसिकस्य लीला ।।

11.81   पद्मयोनिवचनादुपनीतां प्राक्तनीं प्रियतमामिव कान्तिम् ।

रेवतस्य तनयामनुरूपां रेवतीं च परिणीय स रेमे ।।

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु यादवाभ्युदये काव्यरत्ने द्वारकाधिष्ठानं नाम एकादशः सर्गः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.