श्री:
कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम्
।। यादवाभ्युदयः ॥
विंशस्सर्गः
20.1 अथोपहूतैः पुरुहूतजेता सेनेश्वरैरप्रतिमानवीर्यैः।
अभीषुभिः सूर्य इवाभिदीप्तः कुबेरगुप्तां ककुभं प्रतस्थे ।।
20.2 प्रयाणतूर्णतूर्यध्वनिरस्य भूयान् घर्मान्तजीमूतरवानुकारी।
अनर्तयद्धर्ममयूरमाद्यं प्राप्तस्थितिं पादयुगेन भूम्याम् ।।
20.3 नभः पृथिव्योरुपदिष्टकम्पे नाथस्य यात्रापटहप्रणादे ।
उषेतरासां नयनं चकम्पे वामेतरं बाणपुराङ्गनानाम्।।
20.4 तस्येन्दुबिम्बं सितमातपत्रं भास्वान् मणीन्द्रो महनीयतेजाः।
ताराश्च मुक्तावलया विरेजुः शिखी रथाङ्गाकृतिरात्मधाम्नः।।
20.5 अग्रे मुकुन्दस्य तदग्रजन्मा दैत्यैस्समं जन्यविहारमिच्छन् ।
अवाहयद्यादवभूपतीनां वरूथिनीं शम्बरवैरिपूर्वाम् ।।
20.6 कथंचिदुत्क्षिप्तकरेँ सोढं भुग्नाग्रभोगं भुजगेश्वरेँण।
आसन्नभारात्ययजातहर्षा विश्वंभरा सैन्यभरं विषेहे।।
20.7 प्रस्थानभाजि प्रथमे यदूनां पृथ्वी स्वयं तद्बलरेणुलक्षात्।
भारावतारप्रियवादलुब्धा प्रायो ययौ पद्मभुवस्सकाशम् ।।
20.8 अशेषतशछादयता दिगन्तान् आरोहता भूमिभृतां च मुर्ध्नः।
प्रायेण सेनारजसा स्वमेव प्रादुष्कृतं लाघवमुल्बणेन ।।
20.9 रथादिघोषैरथ शार्ङ्गपाणेः कल्पात्ययैकार्णवनादकल्पैः।
वित्रासितेव त्रिदशारिलक्ष्मीः इयेष गन्तुं यदुवीरदुर्गम् ।।
20.10 अथ क्षणादात्मभुवं प्रयान्तं परिष्कृतं पञ्चभिरायुधाग्र्यैः।
आशाबलेन स्वयमुत्तराशा प्रायः प्रतीयाय जगत्प्रतीक्ष्यम् ।।
20.11 पुरं ततः शोणितपूर्वमग्रे ददर्श दैत्याधिपदर्पहन्ता ।
स्वगेन्द्रपक्षानिलतीव्रघातात् त्रासादिवोत्कम्पितकेतुहस्तम् ।।
20.12 पुरोपकण्ठे पुरभिननियोगात् प्राकारभावं प्रमथा भजन्तः।
प्रलम्बहन्तुः प्रसमीक्ष्य वेगं भीताः पलायन्त भृशार्तनादाः।।
20.13 इतस्ततस्संपततां यदूनां व्यक्तानुबन्धं बिरुदैरुदारैः।
सुरद्विषः शश्रुवुरेकतानं कलध्वनिं काञ्चनकाहलीनाम् ।।
20.14 कशाग्रसंस्पर्शममृष्यमाणैः समीरवेगैः समरावलुप्ताः।
उदग्रहेषामुखरैस्तुरङ्गैः वृष्ण्यन्धका वैरिपुरीमवृण्वन्।।
20.15 उद्वेलवेगान् स्तनतो गभीरं और्वप्रतिच्छन्दविदीप्तदृष्टीन् ।
अचोदयन् दानववप्रभङ्गे स्तम्बेरमान् सागरपोतकल्पान् ।।
20.16 प्राकारभङ्गे प्रसभं प्रयुक्ताः दम्भोलिभीमायतदन्तकाण्डाः।
ऊर्ध्वप्रवृत्तैर्निजहस्ततालैः उत्तम्भयामासुरिवान्तरिक्षम् ।।
20.17 असह्यवेगैः सहसा बलोघैराक्रम्यमाणा बलिना यदूनाम् ।
प्रचक्षुभे दैत्यपुरी प्रभूता संवर्तभिन्नेव समुद्रवेला ।।
20.18 यथार्थशौर्या यदुवीरयोधाः स्थानानि चित्तानि च दानवानाम् ।
व्यकम्पयन् विक्रमसत्कथानां सिद्धान्तभागैरिव सिंहनादैः।।
20.19 जहार चित्तानि बिभेद सौधान् श्रोत्राण्यरीणां बधिरीचकार ।
अनन्यशब्दं च जगद्वितेने घोरस्तदा यादवसैन्यघोषः।।
20.20 विमथ्यमानात् स्वपुराहयदूनां मन्थाचलेनेव महाबलेन ।
विनिष्पपात त्रिदशारिनेता काले समुद्रादिव कालकूटः।।
20.21 स रोषरूक्षो बहुदीप्तहेतिः दिशो दिधक्षन्निव दैत्यवह्निः।
कृष्णाम्बुवाहप्रमुखं प्रतस्थे तापच्छिदा तेन शमं प्रयास्यन् ।।
20.22 सरित्पतीनामिव सन्निपाते वार्ष्णेयदैतेयबलोदधीनाम् ।
अदभ्रसङ्घोषमभूतपूर्वं युगान्तसंवादि बभूव युद्धम् ।।
20.23 बलद्वयक्षुण्णमहीतलोत्थं रजस्ततदा संवृतसर्वलोकम् ।
अकल्पयत् स्वेतरतत्त्वलोपात् अपञ्चभूतामिव विश्वसृष्टिम् ।।
20.24 प्रथीयसा सूक्ष्मनिरन्तरेण क्षौमाभिरामेण परागभूम्ना ।
प्रच्चछन्नसेनाङ्गतया तदानीं आसीज्जयश्रीरवकुण्ठितेव।।
20.25 रजोनुबन्धादभिसंवृताङ्गी भास्वत्करस्पर्शमनश्नुवाना।
निवारिताशाविततिस्तदा़सीत् नभस्स्थली नाकिभिरप्यदृश्या ।।
20.26 रणाख्यदर्शे रजसोत्थितेन प्रचच्छाद्यमाने तमसेव भानौ ।
निस्त्रिंशधारासलिले निमग्नाः शुद्धिं परामन्वभवन् सुयोधाः।।
20.27 असृक्छटासारवशात् ध्वजिन्या रजस्समेते तमसि प्रशान्ते ।
सत्त्वानुरूपं विदधे प्रमोदं समान् मिथस्संमुखयन् प्रकाशः।।
20.28 ततो हरस्त्रातुमनाः स्वभक्तं दत्ताभयं दानवसार्वभौमम्।
अनुद्रुतो भूतगणैरनन्तैः प्रत्युद्ययौ विश्वपतिं प्रकुप्यन् ।।
20.29 तमुन्मदोतदग्रवृषाधिरूढं सिताचले मेरुमिव ज्वलन्तम् ।
शरैः प्रतिप्रास्थित शार्ङ्गधन्वा देवं सुधासूतिकलावतंसम् ।।
20.30 शिलीमुखैः शौरिधनुर्विमुक्तैः विस्मारितान् पूर्वविकत्थनानि ।
पलायमानान् प्रमथान् अशेषान् मेने पशूनेव पतिः पशूनाम् ।।
20.31 आस्वादनीं दानवशोणितानां अकुण्ठितामद्रिविदारणेपि ।
अनाहतास्त्रो युधि शम्बरारिः संस्तम्भयामास गुहस्य शक्तिम् ।।
20.32 क्लेशादिदोषैरपराहतेन क्रीडामनुष्येण जनार्दनेन ।
ज्वरे निरस्ते गिरिशप्रयुक्ते वीतज्वरं विश्वमिदं बभूव ।।
20.33 अथ प्रयुक्तान् असुरेन्द्रगुप्त्यै प्रसह्य वह्नीनपि पञ्च जित्वा ।
अजृम्भयद्भावितजृम्भणास्त्रो वृषध्वजं विष्णुरचिन्त्यभूमा ।।
20.34 शरव्ययभूतत्रिपुरेप्यमोघं शूल्युधे शौर्यमवेक्ष्य शौरेः।
पुरन्दरप्रत्युपरोघजातं व्ययोजयन् विस्मयमादितेयाः।।
20.35 बाणः सहस्रेण भुजैः समाद्यन् आत्मानुरूपैरसुरैः समेतः।
असह्यशस्त्रास्त्रबलो बलादीन् प्रत्यग्रहीत् प्रत्ययितप्रभावान् ।।
20.36 स वज्रनिर्घोषनिभाट्टहासो गोत्रेण रुन्धन् गगनावकाशम् ।
उदग्रधन्वा शरवृष्टिमुग्रां उत्पातजीमूत इवोज्जगार।।
20.37 शरासनैरर्धसहस्रसङ्ख्यैः योद्धुं प्रवृत्तो युगपत्प्रकृष्टैः।
प्रतिद्रुतान् प्रार्दयत प्रकुप्यन् एकः समस्तानपि यादवाग्र्यान् ।।
20.38 अथ क्षणादन्तरितान्तरिक्षा वात्या विहङ्गेन्द्रविहारजाता ।
अलातचक्रप्रतिमान् अकार्षीत् बाणाशनान् बाणघनप्रसूतान् ।।
20.39 गरुत्मतः पक्षमरुत्प्रचारात् दूरीकृतो वारुणनागपाशैः।
उषासहायः सरथः सधन्वा जग्राह दैतेयबलस्य पार्ष्णिम् ।।
20.40 विनिघ्नतो दैत्यबलौघमग्रे चापाभियोगो युधि शम्बरारेः।
चकार चक्रीकृतचन्द्रलेखं शम्भोश्शिरःकम्पमनन्यलभ्यम् ।।
20.41 रामोपि लङ्काधिपतेस्समानान् मुसल्यवृत्तीन् मुसलेन भिन्दन् ।
चमत्कृतिं चक्रधरस्य कुर्वन् आदत्त सङ्ग्रामविहारमग्र्यम् ।।
20.42 उदग्रशृङ्गोल्बणबाहुभूम्ना सञ्चारिकैलासनिभेन तेन।
अमृष्यता क्षिप्रमकारि सैन्यं नागाधिपेनेव वनं नलानाम् ।।
20.43 स लाङ्गलाकर्षणनिर्विचेष्टान् निष्पिष्य नागान् निषधप्रमाणान् ।
रणक्षितिं शोणितमांसपङ्कैः आमग्ननिस्पन्दरथान् अकार्षीत् ।।
20.44 हलायुदोत्क्षिप्तरथौघपूर्णं समीक्ष्य देवाः सहसान्तरिक्षम् ।
आशङ्क्य दैतेयबलोपयानं दृढार्गलं देवपुरीमकुर्वन् ।।
20.45 प्रभूश्च किञ्चित् प्रथयन् अमर्षं क्रीडोचितान् प्रेक्ष्य कृताभियोगान् ।
विव्याध बाणानुचरान् अयोघ्यःशार्ङ्गोदधेरूर्मिनिभैः शरौघैः।।
20.46 अरदृष्टतूणीरमनुप्लवान्यैः अग्राह्यसन्धानविमोक्षबाणम्।
अमंसतैनं स्थिरचापचक्रं प्रत्येकमात्माभिमुखं प्रतीपाः।।
20.47 निषङ्गदत्ताग्रकरे मुरारौ निर्भिद्य दैत्यान् भुवमाविशन्तः।।
लक्ष्याणि दूरादलभन्त बाणाः रसातलस्थैरपि दानवेन्द्रैः।।
20.48 न सेहिरे शार्ङ्गपयोदजातां नाराचवृष्टिं दनुजेन्द्रयोधाः।
अमोघवाचा कविना प्रयुक्तां अन्तर्वतीं सूक्तिमिवानभिज्ञाः।।
20.49 यतोयतो दानवसैन्यमासीत् ततस्ततो दैत्यचमूरपायात् ।
गतानि तेजस्तमसोरिवारात् आशाविकल्पेन तयोरभूवन् ।।
20.50 अशूरसंदर्शनतापशान्त्यै स्वहेतिधारगृहमाश्रयन्तीम् ।
विहारयामासुरिव स्ववृत्त्या वीरश्रियं वृष्णिकुलप्रवीराः।।
20.51 कृपाणभिन्नद्विपकुम्भमुक्ता मुक्ताः पतन्त्यो रणवप्रभूमौ।
प्ररोहतां वीरयशस्तरूणां बीजान्यभूवन् बहुधा विकीर्णाः।।
20.52 द्विपाचलेभ्यः शरवृष्टिपातैः आपातितानां रुधिरापगानाम् ।
अकल्पयन् योधमुखेन्दुक्लृप्ताः कौमुद्वतीं संपदमट्टहासाः।।
20.53 अदृश्यतान्योन्यविलूनशीर्षैरारब्धमन्योन्यकृतप्रशंसैः।
अनेकरूपैकसुराङ्गनाप्तैः अपास्तवैरं रणरङ्गनृत्तम् ।।
20.54 प्रयोजितैः प्राणतृणैः प्रगल्भा रथ्याभिगम्येषु रणापणेषु ।
क्षणप्रभालोलतरैरविन्दन् यावद्युगान्तानि यशोधनानि ।।
20.55 कृतापदानाः कृशजीविताशाः स्वनाथनामाङ्कजयोक्तिमन्तः।
जयश्रियं दोष्णि निवेशयन्तः कीर्तिं दिगन्तावसथामकुर्वन् ।।
20.56 अमोघशस्त्रास्त्रतरङ्गभीमे वैरोपसन्दर्शितबाडवाग्नौ ।
विकत्थनं संपति विक्लवानां वीरोदधौ गोष्पदवद्विलिल्ये।।
20.57 जिगीषुभिर्जीवितसंशयाख्या दोलाधिरूढा दृढवैरबन्धा ।
अदूरतो यादवमर्षवेगं मिथः प्रतिक्षेपशतानि चक्रे।।
20.58 शरप्रयोगोचितविप्रकर्षं सम्पादयिष्यन्त्यपराङ्मुखानाम् ।
प्रशंसनीयानि बभूवुराजौ पश्चात्प्रयातानि धनुर्धराणाम् ।।
20.59 प्रतीपवृत्त्या प्रतिगृह्य शूराः शत्रुप्रयुक्तां शरवृष्टिमुग्राम् ।
त्रिविष्टपानोकहपुष्पवृष्टिं वैमानिकैरन्वभवन् विमुक्ताम् ।।
20.60 तस्मिन् अघच्छेदिनि धर्मयुद्धे कालत्यजां कृष्णसमीक्षितानाम्।
सुहृद्द्विषद्भेदवतां समोभूत् स्वर्गापवर्गान्तगतिः सुपन्थाः।।
20.61 बभूव कीर्त्या धृतकेतकश्रीः निस्त्रिंशधाराधरपङ्क्तिनीला।
रणस्थली यादवदानवानां आकालिकी प्रावृडिवास्त्रवर्षैः।।
20.62 अलङ्घनीया रथवारणाद्यैः आ सागरादप्रतिघप्रवाहाः।
उदग्रभूभृत्प्रभवाः पृथिव्यां उत्तस्थिरे शोणितशैवलिन्यः।।
20.63 ज्वलत्प्रतापानलजातदीप्तिः समिद्वती सैन्ययुगस्य लीला।
जयश्रिया वीरपतिंवराया वैवाहिकी सम्पदिवाबभासे ।।
20.64 अमर्षवैश्वानरधूमलेखां अन्योन्यसंहारनिशां कृपाणीम् ।
अवेक्ष्य मृत्योर्भ्रुकुटीमनन्दन् वीराः स्वविक्रान्तिशिरीषमालाम् ।।
20.65 मनस्विनः संयति वीरशय्यामभूषयन् प्रीतिकृतः शिवानाम् ।
सुखावहाः स्वर्गविलासिनीनां विहारशय्यामपि वीरलोके ।।
20.66 समाश्रितैराहवसत्रदीक्षां कुर्वद्भिरन्योन्यमिवोपकारम् ।
अलभ्यत श्लाघितमप्सरोभिः दैत्यैर्मनुष्यैरपि देवभूयम् ।।
20.67 पर्यस्तपादं पतितैः पृथिव्यां वज्राहतैरद्रिगणैरिवान्यैः।
द्विपेन्द्रयूथैर्द्रुतसर्षिणीनां द्वीपायितं शोणितवाहिनीनाम् ।।
20.68 हतावशिष्टा दनुजेन्द्रभृत्याः प्रद्युम्नविक्रान्तिभयान्निवृत्ताः।
तत्केतुचिह्नस्मरणेन बिभ्युः निशाम्य दृष्टीर्निजवल्लभानाम् ।।
20.69 स्वकोपचापेन ततः प्रणुन्नो महेश्वरानुग्रहसंहितात्मा ।
अतीत्य मौर्वीमिव दैत्यसेनां बाणः स्वयं शौरिबलं विवेश।।
20.70 व्यभज्यत व्याप्तहयोर्मिजालं बलं यदुनां बलिनन्दनेन।
एकेन पर्याप्तभुजाद्रिभूम्ना नाथो नदीनां नलसेतुनेव ।।
20.71 अस्त्राणि तेन प्रहितानि तूर्णं विहारभूम्ना वितथानि कृत्वा ।
युगान्तसूर्यायुतयोगदीप्तं रामानुजन्मा जगृहे रथाङ्गम् ।।
20.72 अथाच्छिनद्भीषणसत्त्वसारां भुजाटवीं भूतपतेस्समक्षम् ।
चक्रेण सङ्कल्पनिभेन कृष्णः किं वा विधौ वैरिणि केन रक्ष्यम् ।।
20.73 अवृण्वत क्ष्मां हरिचक्रलूना महत्तरा बाणभुजाः पतन्तः।
महेन्द्रहस्तप्रहितेन पूर्वं वज्रेण भिन्ना इव सानुमन्तः।।
20.74 अमर्त्यशत्रोरवलेपहेतौ बहिर्द्वये बाहुवले विलूने ।
दयाधनः संयति दैत्यहन्ता प्रदीप्तमस्त्रं प्रतिसञ्जहार।।
20.75 अनीकिनीमाश्रितदीर्घनिद्रां बाणो निकृत्तामपि बाहुपङ्क्तिम् ।
अजातखेदो बुबुधे न नूनं विपद्भिरश्रान्तधियो हि वीराः।।
20.76 अशान्तदर्पस्त्वसुरो भुजाभ्यां विकृष्टधन्वा विससर्ज बाणान् ।
तदैनमन्वीक्ष्य निहन्तुमैच्छत् जन्योद्धतं दैत्यमनन्यजन्यः।।
20.77 ततस्तमव्याहतदिव्यशक्तिं मध्याह्नमार्ताण्डविदीप्तहेतिम् ।
पश्यन् मुकुन्दं प्रतिबोधभूम्ना जयोक्तिपूर्वं गिरिशो जगाद ।।
20.78 मैवं प्रभो मत्परिवारभूतं बलेस्सुतं बाधितुमर्हसि त्वम् ।
मयैष रक्ष्यो दनुजस्त्वयापि स्वभक्तबुद्द्यैव समीक्षणीयः।।
20.79 त्वमादिदेवः त्रियुगस्त्रिधामा शुद्धामशुद्धां च विभाव्य सृष्टिम् ।
अकर्मतन्त्रैरवतारभेदैः क्रीडस्यनन्तैरपि जन्तुजातैः।।
20.80 अयं स ते वेदमयो गरुत्मान् वेदैरशेषैरपि वेद्यसे त्वम् ।
विभागमृच्छन्त्यमरास्त्वदन्ये शाखैकदेशेषु शकुन्तकल्पाः।।
20.81 सिसृक्षतस्ते भुवनानि सप्त प्रसादतो नाथ बभूव वेधाः।
संहर्तुकामस्य तवैव कोपात् अहं त्वया दत्तनिजाधिकारः।।
20.82 अविक्रियश्चेष्टयसि त्वमेको विश्वानि भूतानि विहारशक्त्या ।
अचेष्टमानप्रकृतीन्ययांसि स्थाताप्ययस्कान्त इवाभिमुख्यात्।।
20.83 अलङ्ध्यमायागुणजालभीतान् अनन्यचित्तान् अनुकम्पमानः।
स्वदत्तयैव स्वपदाब्जभाजा भक्त्या स्वयं तारयसे भवाब्धिम् ।।
20.84 भारावताराय भुवोवतीर्णं भवन्तमन्तर्हितदिव्यभावम् ।
संस्थापयन्तं नियमेन धर्मं धर्मं परं वेदविदो विदुस्त्वाम् ।।
20.85 विधाय दैत्यप्रकृतीन् अशेषान् नामावशेषान् नरलोकपालान् ।
करिष्यसि त्वं करुणार्द्रचेतां नाथ क्षितिं नावमिवास्तभाराम् ।।
20.86 दयाक्षमाभ्यामिह दीव्यसि त्वं लक्ष्मीमहीभ्यामिव लालितात्मा।
तत् क्षम्यतामस्य मदेकभक्तेः आजानतः स्वात्मचमत्क्रियेयम् ।।
20.87 नाथो यदुनामिति भूतनाथे स्वभक्तरक्षामभियाचमाने ।
अतर्कितप्रत्युपकारलेशामाकस्मिकीमाद्रियतानुकम्पाम् ।।
20.88 प्रविश्य देहं पुनरुत्पतन्त्या स्वमौलिभाजेव सुरस्रवन्त्या ।
वाचा मनः प्रीतिमिवोद्वमन्तं शौरिस्तदा शूलिनमित्युवाच ।।
20.89 तवैष भक्तो मम चेति मन्ये क्षान्तस्ततो नित्यमसौ मयापि ।
न चास्ति बन्धोरपि साम्पराये वीरव्रतं धारयतोपकारः।।
20.90 विहारवृत्तानि वितन्वतस्ते वल्गुध्वनिं वादयिता मृदङ्गम् ।
भजत्वविच्छिन्नधृतिर्भवन्तं दत्ताभयो दैत्यपतिर्मयासौ ।।
20.91 अथान्वमंस्त त्रिजगन्नियन्ता पत्युः पशूनां प्रणयानुरोधात् ।
बाणावरोधप्रमताजनानां स्थायीनि मङ्गल्यविभूषणानि ।।
20.92 ततोसुरेन्द्रः प्रणिपातपूर्वं जगत्परित्राणरतं जगाद ।
उषानिरुद्धान्वयतः समीक्ष्याः भृत्या वयं प्रीतधिया त्वयेति ।।
20.93 हिरण्यरत्नानि हिरण्यपूर्वैः बलादुपात्तान्युपदाय बाणः।
निरोधखिन्नावुचितोपचारैः आनर्च सस्नेहमुषानिरुद्धौ ।।
20.94 सम्बन्धिभावप्रतिपत्तिभाजा सन्धाय बाणेन स सत्यसन्धः।
उषापतेर्यौतकलाभलक्ष्यात् जेता जहारैव विपक्षलक्ष्मीम्।।
20.95 हरेण दत्तां हरिणापि बाणः स्थिरीकृतामप्रतिघामभीतिम् ।
तनुत्रयन् वर्जितलेखवैरः शमान्वितामास्थित शम्भुसेवाम् ।।
20.96 यथार्थनामानमथानुरुद्धं कृत्वा सभार्यं कृतकृत्यचेताः।
सबन्धुसैन्यः सविशेषदृश्यां प्रत्याययौ विश्वपतिः पुरीं स्वाम् ।।
20.97 देवाः सहस्रनयनं दनुजेन्द्रमन्ये निर्धूतमानमनघेन निशामयन्तः।
कूपोदकप्रभवकूर्मनयेन जातां अस्वामिकप्रभुपरिग्रहबुद्धिमौज्झन् ।।
20.98 नीतस्त्रिलोकपतिना निजराजधानीं भूयः प्रजात इव पौरजनैः प्रतीतः।
दैत्येश्वरस्य सुतया सहितः स रेमे रागाधिको रतिपतेरनघः कुमारः।।
20.99 अथ तमुषासहायमुपयातमुपायनवान् जनपदपत्तनप्रभृतिकादुपगम्य जनः।
उपचरति स्म सम्यगुपपन्नधृतिर्बहुधा यदुनगरे विवाहविजयोत्सवयन्त्रितधीः।।
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु यादवाभ्युदयनाग्नि महाकाव्ये उषाविवाहो नाम विंशस्सर्गः ।