॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
सम्बन्धाधिकरणम् ॥ ७ ॥
*य एष एतस्मिन्मण्डले पुरुषो यश्चायम् दक्षिणेऽक्षन्नि*(बृह.५-५-२)त्यादिना अक्ष्यादित्यवर्तितया व्याहृतिशरीरकतया चोपास्यत्वे-नोपदिष्टस्य ब्रह्मणः *तस्योपनिषदहरित्यधिदैवतम्*(बृह.७-५-३) *तस्योपनिषदहमित्यध्यात्ममि*(बृह.७-५-३)ति ये अहरित्यहमिति च रहस्यनामनी उपदिष्टे किम् स्थानविशेषनियते अतश्चाहरिति नाम आदित्यमण्डलस्थानविशिष्टस्यैव अहमिति च नामाक्षिस्थपुरुषस्यैवेति नियमोऽस्ति उत नेति चिन्तायाम् पूर्वपक्ष उच्यते –
सम्बन्धादेवमन्यत्रापि ॥३-३-२०॥
यथा मनोमयत्वादिविशिष्टस्यैकत्वादुपास्यैक्येन विद्यैक्यात् शाण्टडिल्यविद्यायाम् गुणोपसम्हारः, एवमक्ष्यादित्यसम्बन्धिनो ब्रह्मण-स्सत्यस्य व्याहृतिशरीरकस्यैकत्वेन विद्यैक्यात् तत्सम्बन्धिनोर्नाम्नो-रप्यनियमेन स्थानद्वयेऽप्युपसम्हार इति । एवम् प्राप्त उच्यते –
न वा विशेषात् ॥ ३-३-२१ ॥
*य एष एतस्मिन्मण्डले पुरुषो यश्चायम् दक्षिणेऽक्षन् पुरुषः तावेता-वन्योन्यस्मिन् प्रतिष्ठितावि*(बृह.५-५-२)ति द्वित्वसङ्ख्यया प्रधानो-पास्यभेदप्रतीतेः, आदित्याक्षिस्थानभेदेन रूपभेदाच्च विद्याभेदान्न नाम्नोरनियमेन स्थानद्वयेऽप्युपसम्हारः ।
दर्शयति च ॥ ३-३-२२ ॥
तस्यैतस्य तदेव रूपम् यदमुष्यरूपमि*(छान्.१-७-५०)त्यादि-छान्दोग्यश्रुतिरेव स्थानभेदे परस्परगुणाप्राप्तिम् दर्शयति हि चाक्षुषे पुरुषे आदित्यपुरुषरूपाद्यतिदेशेन । यदि हि स्थानभेदेऽपि परस्परगुणप्राप्तिः तर्ह्यतिदेशानर्थक्यमेव स्यात् । अत आदित्यस्थानविशिष्टस्यैवाहरिति नाम अक्षिस्थस्यैवाहमिति नामेति व्यवस्थेति स्थितम् ॥
इति सम्बन्धाधिकरणम् ॥