॥श्रीशारीरकशास्त्रार्थदीपिका ॥
श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥
श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥
शब्दाभेदाधिकरणम् ॥२४॥
नानाशाखागतानाम् मोक्षैकफलानाम् सद्विद्याभूमविद्यादीनाम् किमेक-विद्यात्वम् उत विद्याभेद इति सम्शये सर्वासु विद्यासु वेद्यस्य ब्रह्मण एकत्वेन रूपभेदाभावात् विद्यैक्यमिति पूर्वपक्षे प्राप्त उच्यते –
नाना शब्दादिभेदात् ॥ ३-३-५६ ॥
विद्याः परस्परम् विभिन्ना एव पूर्वकाण्डोदितशब्दान्तराभ्यासादि-विधेयभेदापादकहेतुसद्भावात् । यद्यपि वेद उपसीतेत्यादि शब्दानाम् पर्यायत्वेनाविच्छिन्नस्मृतिसन्ततिरूपैकार्थबोधकत्वात् तादृशस्मृतीनाम् च ब्रह्मैकविषयत्वम् तथापि तत्तद्विद्याप्रकरणप्रतिपादितजगदेककारणत्वा-पहतपाप्मत्वादिविभिन्नविशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्तिबोधकत्वेन विद्यानाम् परस्परभेदस्यावश्याभ्युपयेत्वात् ॥
इति शब्दाभेदाधिकरणम् ॥ २४ ॥