श्रीभाष्यम् 03-03-02 अन्यथात्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अन्यथात्वाधिकरणम्॥२॥

(उद्गीथप्राणविद्या उद्गातृप्राणविद्या च छा.उ. 1-2 बृ.उ. 3-3)

(अधिकरणार्थः – वाजसनेयक-छान्दोग्यगतयोः उद्गीथविद्ययोर्नानात्वम्)

३६०. अन्यथात्वं शब्दादिति चेन्नाविशेषात्

(अवान्तरसङ्गतिः)

एवं चोदनाद्यविशेषाद्विद्यैकत्वम्, एकत्वे च गुणोपसंहार: कर्तव्य इत्युक्तम्; अत: परं काश्चन विद्या  अधिकृत्य प्रत्यभिज्ञाहेतुभूतचोदनाद्यविशेषोऽस्ति, नेति निरूप्य निर्णीयते।

(विचारणीयविषयोपस्थापने तच्छुद्धीकरणं च)

अस्त्युद्गीथविद्या वाजिनां छन्दोगानां च । वाजिनां तावत्  द्वया प्राजापत्या देवाश्चासुराश्च (बृ.३.३.१) इत्यारभ्य  ते देवा ऊचु: हन्तासुरान्यज्ञ उद्गीथेनात्ययाम (बृह.३.३.१) इत्युद्गीथेनासुरविध्वंसनं प्रतिज्ञायोद्गीथे वागादिमन:पर्यन्तदृष्टौ असुरैरभिभवमुक्त्वा  अथ इममासन्यं प्राणमूचु: (बृ.३.३.७) इत्यादिना उद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा (बृ.३.३.७)  भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति एवं वेद (बृ.३.३.७) इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टिर्विहिता । एवं छन्दोगानामपि  देवासुरा वै यत्र संयेतिरे (छां.१.२.१) इत्यारभ्य  तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिहनिष्याम: (छां.१.२.१) इत्युद्गीथेनासुरपराभवं प्रतिज्ञाय तद्वदेवोद्गीथे वागादिदृष्टौ दोषमभिधाय  अथ एवायं मुख्य: प्राणस्तमुद्गीथमुपासाञ्चक्रिरे (छां.१.२.७) इत्यादिना उद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा  यथाऽश्मानमाखणमृत्वा विध्वंसते एवं है विध्वंसते एवं विदि पापं कामयते (छां.१.२.८) इति शत्रुपराभवाय उद्गीथे प्राणदृष्टिर्विहिता। वेदनविषयविधिप्रत्ययाश्रवणेऽपि फलसाधनत्वश्रवणाद्वेदनविषयो विधि: कल्प्यते। उद्गीथविद्याया: क्रत्वर्थत्वेन क्रतुसाद्गुण्यफलत्वेऽप्यार्थवादिकमपि फलं तद्विरुद्धं ग्राह्यमेवेति देवताधिकरणे प्रतिपादितम् ।

(अधिकरणीयः संशयः)

तत्र संशय्यते – किमत्र विद्यैक्यम्, उत नेति।

(सिद्धान्तांशस्य पूर्वपक्षतयोल्लेखः पूर्वपक्षिणः)

किं युक्तम्? विद्यैक्यमिति। कुत:? उभयत्रोद्गीथस्यैव अध्यस्तप्राणभावस्योपास्यत्वश्रवणात् चोदनाद्यविशेषात्। फलसंयोगस्तावच्छत्रु-परिभवरूपो न विशिष्यते। रूपमप्यध्यस्तप्राण-भावोद्गीथाख्योपास्यैक्यात् अविशिष्टम्। चोदना च विदिधात्वर्थगताऽविशिष्टा। आख्या चोद्गीथविद्येत्यविशिष्टा। अत्र राद्धान्तिच्छायया परिचोद्य परिहरति – अन्यथात्वं शब्दादिति चेन्नाविशेषात् – इति।

(सूत्रार्थविवरणं स्वोक्त्या)

यदुक्तं विद्यैक्यमिति, तन्नोपपद्यते, रूपभेदात्; रूपान्यथात्वं हि शब्दादेव प्रतीयते; वाजसनेयके हि अथ हेममासन्यं प्राणमूचुस्त्वं उद्गायेति तथेति तेभ्य एष प्राण उदगायत् (बृ.३.३.७) इत्युद्गानस्य कर्तरि प्राणदृष्ट्या असुरपराभवमुक्त्वा छान्दोग्ये  अथ एवायं मुख्य: प्राणस्तमुद्गीथमुपासाञ्चक्रिरे (छां.१.२.७) इत्युद्गानस्य कर्मण्युद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा  य एवं वेद इति कर्तर्येव प्राणदृष्टिरेवं शब्दादवगम्यते ।  छान्दोग्ये अथ ह य एवायं मुख्य: प्राणस्तमुद्गीथमुपासाञ्चक्रिरे इति उद्गानस्य कर्मण्युद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा, य एवं विदि पापं कामयते इत्येवं शब्दात् कर्मण्येवोद्गीथे प्राणदृष्टिर्विहिता। अत एकत्र कर्तरि प्राणदृष्टिशब्दादन्यत्र कर्मणि प्राणदृष्टिशब्दाच्च रूपान्यथात्वं स्पष्टम् । रूपान्यथात्वे च विधेयभेदे सति केवलचोदनाद्यविशेषोऽकिञ्चित्कर इति विद्याभेद इतिचेत् –

(उक्तार्थनिरसनेन पूर्वपक्षिणा विद्यैक्यदृढीकरणम्)

तन्न,  अविशेषात् –  अविशेषेण ह्युभयत्र उद्गीथसाधनकपरपरिभव उपक्रमे प्रतीयते; वाजसनेयके  ते देवा ऊचुर्हान्तासुरान्यज्ञे उद्गीथेनात्ययाम (बृ.३.३.१) इत्युपक्रमे श्रूयते; छान्दोग्येऽपि तद्ध देवा उद्गीथमाजह्रु: अनेनैनानभिहनिष्याम: (छा.१.२.१) इति। अत उपक्रमाविरोधाय  तेभ्य एष प्राण उदगायत् (बृ.३.३.७) इत्यध्यस्तप्राणभाव उद्गीथ उद्गानकर्मभूत एव पाकादिष्वोदनादिवत्सौकर्यातिशयविवक्षया कर्तृत्वेनोच्यते; अन्यथोपक्रमगत उद्गीथशब्द: कर्तरि लाक्षणिक: स्यात्, अतो विद्यैक्यम् ॥६॥

(सिद्धान्तार्थकथनम्)

इति प्राप्ते प्रचक्ष्महे –

३६१. वा प्रकरणभेदात्परोवरीयस्त्वादिवत्

नवेति पक्षं व्यावर्तयति; नचैतदस्ति, यद्विद्यैक्यमिति; कुत:? प्रकरणभेदात्

(सिद्धान्तार्थसाधकप्रकरणभेदविशदीकारः)

ओमित्येतदक्षरमुद्गीथमुपासीत (छा.१.१.१) इति प्रकृतमुद्गीथावयवभूतं प्रणवं प्रस्तुत्य  एतस्य वा अक्षरस्योपव्याख्यानं भवति (छा.१.१.१०) देवासुरा वै यत्र संयेतिरे (छा.१.२.१) इत्यारभ्य  अथ एवायं मुख्य: प्राणस्तमुद्गीथमुपासाञ्चक्रिरे (छा.१-२-७) इत्युद्गीथावयवभूतप्रणवविषयमुपासनं छन्दोगा अधीयते; वाजिनस्तु तादृशप्राचीनप्रकरणाभावात्  हन्तासुरान्यज्ञ उद्गीथेनात्ययाम (बृ.३.३.१) इति कृत्स्नमुद्गीथं प्रस्तुत्य  अथ हेममासन्यं प्राणमूचुस्त्वं उद्गाय (बृ.३.३.७) इत्यादि कृत्स्नोद्गीथविषयमधीयते; अत: प्रकरणभेदेन विधेयभेद:, विधेयभेदे च रूपभेद इति न विद्यैक्यम्;

(सूत्रे वाशब्दप्रयोगात् रूपभेद इति)

किञ्च  अथ एवायं मुख्य: प्राणस्तमुद्गीथमुपासाञ्चक्रिरे (छां.१.२.७) इति पूर्वप्रकृत: उद्गीथावयवभूत: प्रणव एवाध्यस्तप्राणभावश्छन्दोगानामुपास्य:; वाजिनां तु कृत्स्नस्योद्गीथस्य कर्तोद्गाथा प्राणदृष्ट्योपास्य इति।  अथ हेममासन्यं प्राणमूचुस्त्वं उद्गायेति तथेति तेभ्य एष प्राण उदगायत् (बृ.३.३.७) इत्युद्गातरि प्राणाध्यासं निर्दिश्य  एवं वेद (बृ.३.३.७) इत्युद्गातैवाध्यस्तप्राणभाव उपास्यो विधीयते; अतश्च रूपभेद:।

(उक्तार्थे उपक्रमविरोधशङ्का-तत्परिहारौ)

न चोद्गातर्युपास्ये विहिते उद्गीथेनात्ययाम (बृ.३.३.१) इत्याख्यायिकोपक्रमविरोधः शङ्कनीय:, उद्गातुरुपासने उद्गीतस्योद्गानकर्मभूतस्य अवश्यापेक्षितत्वात् तस्यापि परपरिभवाख्यं फलं प्रति हेतुत्वात्। अतो रूपभेदाद्विद्याभेद इति चोदनाद्यविशेषेऽपि न विद्यैक्यम्। परोवरीयस्त्वादिवत् – यथैकस्यामपि शाखायामुद्गीथावयवभूते प्रणवे परमात्मदृष्टिविधानसाम्येऽपि हिरण्मयपुरुषदृष्टिविधानात्परोवरीयस्त्वादि गुणविशिष्टदृष्टिविधानमर्थान्तरभूतम् ॥७॥

(उक्ते सिद्धान्ते कर्मकाण्डार्थसादृश्यवर्णनम्)

३६२. संज्ञातश्चेत्तदुक्तमस्ति तु तदपि

उद्गीथविद्येति संज्ञैक्यात् तत् – विद्यैक्यमुक्तं चेत् तत् – संज्ञैक्यं विधेयभेदेऽप्यस्त्येव; यथा  अग्निहोत्रसंज्ञा नित्याग्निहोत्रे, कुण्डपायिनामयनाग्निहोत्रे च; यथा चोद्गीथविद्येति छान्दोग्ये प्रथमप्रपाठकोदितासु बह्वीषु विद्यासु ॥ ८॥

(सामञ्जस्यतः उक्तार्थदृढीकारः)

३६३. व्याप्तेश्च समञ्जसम् (सि)

छान्दोग्ये प्रथमप्रपाठके उत्तरास्वपि विद्यासूद्गीथावयवस्य प्रणवस्य प्रथमप्रस्तुतस्योपास्यत्वेन व्याप्तेश्च तन्मध्यगतस्य  तद्ध देवा उद्गीथमाजह्रु: (छा.१.२.१) इत्युद्गीथशब्दस्य प्रणवविषयत्वमेव समञ्जसम् । अवयवे च समुदायशब्द: पटो दग्ध: इत्यादिषु दृश्यते। अतश्चोद्गीथावयवभूत: प्रणव एवोद्गीथशब्दनिर्दिष्ट इति स एव प्राणदृष्ट्योपास्यश्छान्दोग्ये प्रतिपत्तव्य:। वाजसनेयके तु कृत्स्नोद्गीथविषय उद्गीथशब्द इति कृत्स्नोद्गीथस्य कर्तोद्गाता प्राणदृष्ट्योपास्य इति विद्यानानात्वं  सिद्धम्॥९॥

इति श्रीशारीरकमीमांसाभाष्ये अन्यथात्वाधिकरणम्॥२॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.