श्रीभाष्यम् 03-03-16 कामाद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कामाद्यधिकरणम्॥१६॥

(अधिकरणार्थः – छान्दोग्य-वाजसनेयकप्रतिपन्नयोर्दहरविद्ययोः रूपाभेदादभेदः)

३९२. कामादीतरत्र तत्र चायतनादिभ्य: ३८

(विचारणीयं विषयवाक्यम्)

छान्दोग्ये श्रूयते  – अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यम् (छा.८.१.१) इत्यादि; वाजसनेयके च  वा एष महानज आत्मा योऽयं विज्ञानमय: प्राणेषु एषोऽन्तर्हृादय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशान: (बृ।६-४-२२) इत्यादि।

(विचारौपयिकः संशयः)

तत्र संशय: – किमनयोर्विद्याभेद:, उत नेति।

(सहेतुकः पूर्वः पक्षः)

किं युक्तम्? भेद इति कुत:? रूपभेदात्; अपहतपाप्मत्वादिगुणाष्टकविशिष्ट आकाश: छान्दोग्ये उपास्य: प्रतीयते; वाजनेयके त्वाकाशे शयानो वशित्वादिगुणविशिष्ट उपास्य: प्रतीयते; अतो रूपभेदाद्विद्याभेद:

(सूत्रतः सिद्धान्तार्थः)

इति प्राप्ते प्रचक्ष्महे – न भेद इति। कुत:? रूपाभेदात् – इतरत्र तत्र च कामाद्येव हि रूपं – वाजसनेयके छान्दोग्ये च सत्यकामादिविशष्टमेव ब्रह्मोपास्यमित्यर्थ:। कुत एतदवगम्यते? आयतनादिभ्य: – हृदयायतनत्वसेतुत्वविधरणत्वादिभिस्तावदुभयत्र सैव विद्येति प्रत्यभिज्ञायते; वशित्वादयश्च वाजसनेयके श्रुता: छान्दोग्यश्रुतस्य गुणाष्टकान्यतमभूतस्य सत्यसङ्कल्पत्वस्य विशेषा एवेति सत्यसङ्कल्पत्वसहचारिणां सत्यकामत्वादीनामपहतपाप्मत्वपर्यन्तानां सद्भावमवगमयन्ति; अतो रूपं न भिद्यते। संयोगोऽपि  परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८-३-४)  अभयं वै ब्रह्म भवति (बृ.६-४-२५) इति ब्रह्मप्राप्तिरूपो न भिद्यते। आकाशशब्द: छान्दोग्ये परमात्मविषय इति,  दहर उत्तरेभ्य: (शारी.१-३-१३) इत्यत्र निर्णीतम्। वाजसनेयके त्वाकाशे शयानस्य वशित्वादिश्रवणात्तस्य शयानस्य परमात्मत्वे सति तदाधाराभिधायिन आकाशशब्दस्य  तस्यान्ते सुषिरं सूक्ष्मम् (तै.ना.११.अनु) इति हृदयान्तर्गतस्य सुषिरशब्दवाच्यस्याकाशस्याभिधायकत्वमवगम्यते । अतो विद्यैक्यम् ॥३८॥

(वशित्वादीनां गुणानामपारमार्थिकत्वात् उपासनानन्वयशङ्का)

अथ स्यात् – यदुक्तं वाजसनेयके वशित्वादिभिस्सह सत्यकामत्वादि सद्भावोऽवगम्यते – इति; तन्नोपपद्यते, वशित्वादीनामेव तत्र परमार्थतस्सद्भावाभावात्; तदभावश्च  मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन। मृत्योस्समृत्युमाप्नोति य इह नानेव पश्यति (बृ.६-४-१९) एकधैवानुद्रष्टव्यमेतदप्रमेयं ध्रुवम् (बृह.६-४-२०) इति प्रकृतेन वाक्येन  एष नेतिनेत्यात्मा (बृ.६-४-२२) इत्युत्तरेणचोपास्यस्य ब्रह्मणो निर्विशेषत्वप्रतीतेरवगम्यते; अतो वशित्वादयोऽपि स्थूलत्वाणुत्ववन्निषेध्या इति प्रतीयन्ते, अत एव छान्दोग्येऽपि सत्यकामत्वादयो न ब्रह्मण: पारमार्थिका गुणा उच्यन्ते; अतोऽपारमार्थिकत्वादेवंजातीयकानां गुणानां मोक्षार्थेषूपासनेषु लोप इति; तत्राह –

(उक्तायाः शङ्कायाः सूत्रतो निरासः)

३९३. आदरादलोप: ३९

ब्रह्मगुणत्वेन प्रमाणान्तराप्राप्तानां गुणानामेषां सत्यकामत्वादीनां  तस्मिन्यदन्तस्तदन्वेष्टव्यम् (छा.८.१.१) एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपास: सत्यकामस्सत्यसङ्कल्प: (छा.८.१.५)  सर्वस्य वशी सर्वस्येशान: (बृ.६.४.२२)  एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय (बृ.६.४.२२) इत्यादिभिरनयो: श्रुत्योरन्यासु च मोक्षार्थोपासनोपास्यब्रह्मगुणत्वेन सादरमुपदेशादेषामलोप:;  अपितूपसंहार एव कार्य:।

(सूत्रोक्तस्य ब्रह्मगुणेष्वादरस्योपपादनम्)

छान्दोग्ये तावत्  तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति (छा.८.१.६) इति सत्यकामत्वादिगुणविशिष्टस्य ब्रह्मणो वेदनमभिधाय  अथ य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवति (छां.८.१.६) इत्यवेदननिन्दा क्रियमाणा गुणविशष्टवेदनस्यादरं दर्शयति। तथा वाजसनेयके  सर्वस्य वशी सर्वस्येशान:,  एष सर्वेश्वर एष भूताधिपितरेष भूतपाल: (बृह.६.४.२२) इति भूयोभूय ऐश्वर्योपदेशाद्गुणेष्वादर: प्रतीयते। एवमन्यत्रापि ।

(शास्त्रस्यापारमार्थिकार्थानुपदेशकता)

 (निषेधस्य अब्रह्मात्मकत्वविषयता च)

न च मातापितृसहस्रेभ्योऽपि वत्सलतरं शास्त्रं प्रतारकवत् अपारमार्थिकान्निरसनीयान् गुणान् प्रमाणान्तराप्रतिपन्नानादरेणोपदिश्य संसारचक्रपरिवर्तनेन पूर्वमेव बम्भ्रम्यमाणान्मुमुक्षून् भूयोऽपि भ्रमयितुमलम् । नेह नानाऽस्ति किञ्चन (बृ.६.४.१९)  एकधैवानुद्रष्टव्यम् (बृ.६.४.२०) इति तु सर्वस्य ब्रह्मकार्यत्वेन तदात्मकत्वादेकधाऽनुदर्शनं विधायाब्रह्मात्मकत्वेन पूर्वसिद्धनानात्वदर्शनं निषेधतीत्ययमर्थ: प्रागेव प्रपञ्चित: ।  एष नेतिनेत्यात्मा (बृ.६.४.२२) इत्यत्र च, इति शब्देन प्रमाणान्तरप्रतिपन्नं प्रपञ्चाकारं परामृश्य न तथाविधं ब्रह्मेति सर्वात्मभूतस्य ब्रह्मण: प्रपञ्चविलक्षणत्वं प्रतिपाद्यते; तदेव चानन्तरमुपपादयति  अग्राह्यो हि गृह्यते अशीर्यो हि शीर्यते असङ्गो हि सज्यते अव्यथितो व्यथते रिष्यति (बृ.६.४.२२) इति। प्रमाणान्तरग्राह्यविसजातीयत्वात्प्रमाणान्तरेण न गृह्यते; विशरणीयविसजातीयत्वान्न विशीर्यते; एवमुत्तरत्रानुसन्धेयम् । छान्दोग्येऽपि  नास्य जरयैतज्जीर्यति वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरमस्मिन् कामास्समाहिता: (छा.८.१.५,६) इति सर्वविसजातीयत्वं ब्रह्मण: प्रतिपाद्य तस्मिन्सत्यकामत्वादयो विधीयन्ते ॥३९॥

(ब्रह्मप्रेप्सूनां उपासने गुणानामनुपसंहार्यत्वशङ्का)

नन्वेवमपि  तद्य इहात्मानमनुविद्य व्रजन्त्येताश्च सत्यान् कामांस्तेषां सेर्वषु लोकेषु कामचारो भवति यदि पितृलोककामो भवति (छां.८.१.५) इत्यादिना सत्यकामादिगुणविशिष्टवेदनस्य सांसारिकफलसम्बन्धश्रवणान्मुक्षोर्ब्रह्मप्रेप्सोर्न सगुणं ब्रह्मोपास्यम्; परविद्याफलं च  परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.३.४) इतीदमेव। अतस्सत्यकामत्वादयो ब्रह्मप्रेप्सोर्नोपसंहार्या इति; अत उत्तरं पठति –

(प्रसक्ताशङ्कायाः उत्तरपरं सूत्रम्)

३९४. उपस्थितेऽतस्तद्वनचात् ४०

उपस्थिति: – उपस्थानम्, ब्रह्मोपसम्पन्ने सर्वबन्धविनिर्मुक्ते स्वेन रूपेणाभिनिष्पन्ने प्रत्यगात्मनि अत एव – उपसम्पत्तेरेव हेतोस्सर्वेषु लोकेषु कामचार उच्यते  परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते उत्तम: पुरुष: तत्र पर्येति जक्षत्क्रीडन्रममाण: स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरिन्नदं शरीरं स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति (छा.८.३.४) इति तदेतच्चतुर्थे निपुणतरमुपपादयिष्यते। अतस्सर्वेषु लोकेषु कामचारस्य मुक्तोपभोग्यफलत्वात् मुमुक्षोस्सत्यकामत्वादयो गुणा उपसंहार्या: ॥४०॥

इति श्रीशारीरकमीमांसाभाष्ये कामाद्यधिकरणम्॥ १६॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.