शतदूषणी असत्यात्सत्यसिद्धिभङ्गवादः(30)

शतदूषणी

।। अथ असत्यात्सत्यसिद्धिभङ्गवादः त्रिंशः ।।30।।

सत्यैरेव सदातनोक्तिनिवहैस्सत्यप्रमाहेतुभिस्सत्यं ज्ञानमनन्तमेकममलं यद्ब्रह्म निर्दिश्यते ।

तत्सत्यैःपरिकर्मितं गुणगणैस्सत्यादिसन्धिक्रियं सत्यानन्दविभूतिकं विचिनुमस्सत्यस्य सत्यं महः ।।

योऽयमसत्यप्रलापः -असत्यादपि शास्त्रादेस्सत्यस्य ब्रह्मणः सिद्धिस्संभवति । अस्ति चासत्यात्सत्योत्पत्तेस्सत्यप्रतिपत्तेश्च लोके बहुलमुपलम्भः; आरोपितैरेव शुक्तिरजतरज्जुसर्पशङ्का विषभावितगरुडादिभिः सत्यस्य हर्षभयमरणगरलहरणादेर्दर्शनात् । तथा स्वाप्नार्थेन शुभादिः, प्रतिबिम्बेन बिम्बतत्त्वम्, लिप्यक्षरैरक्षराणि, रेखागवयादिभिस्सत्यगवयादिः, चित्रपुरुषदिभिः पुराणवृत्तान्तादिः, नादविशेषोपाधिकशब्दनानात्वेनार्थभेदश्चेति असत्यैरेव सत्यानि निश्चीयन्ते । तथा वाष्पारोपितधूमादिभिर्यदृच्छासन्निहितधूमध्वजादिसिद्धिः । न चात्र सर्वत्र तत्तत्संवित्स्वरूपमेव सत्यं कारणमिति वाच्यम्; ज्ञप्तिस्वरूपमात्रम्य कारणत्वे ज्ञप्त्यन्तरादपि तदुत्पत्तिप्रसङ्गात् । विषय विशेषविशेषितायास्तु कारणत्वोक्तौ नागृहीतविशेषणन्यायेन विषयस्यापि कारणत्वावश्यम्भावात् । नचासत्यात्सत्यसिद्धौ लिङ्गविभ्रमात्साध्यसिद्धिप्रसङ्ग इति वाच्यम्, यादृच्छिकसंवाददशायामिष्ट प्रसङ्गत्वात् । तत्सिद्धिनियमः प्रसज्यत इति चेन्न; तदनियमस्यासत्यत्वप्रयुक्तत्वाभावात्, अपि त्वव्याप्तिनिबन्धनत्वात् । व्याप्तं हि साधनम् । नह्यसन्धूमाभासो वह्निव्याप्तः । बहुलत्वोद्धवत्वादिवत्त्वादनारोपितत्वस्यापि व्याप्त्युपयोगितयाऽन्वयव्यतिरेकसिद्धत्वात् । प्रतिबिम्बादेश्चासत्यस्यापि सत्यमुखादिसिद्धौ अन्वयव्यतिरेकाभ्यां व्याप्तिसिद्धेः । प्रतिबिम्बस्यासत्यत्वेऽपि बिम्बप्रतिबिम्बयोव्यार्प्तिस्सत्या, तद्वशात्तत्र बिम्बसिद्धिरिति चेन्न; व्याप्तिर्हि सम्बन्धत्वाद्धाप्य व्यापकसापेक्षा, कथं तयोरन्यतराभावे सा सत्या भवेत्? अतो व्याप्यं प्रतिबिम्बादिकमसत्यमेवेति तद्गता व्याप्तिरपि तद्गतमालिन्यादिवदसत्यैव । न च विषयमिथ्यात्वे तद्विषयज्ञप्तिसत्यत्वसिद्धिः, न हि नभःप्रसूनमिथ्यात्वे तत्परिमलपारमार्थ्यम् । अतश्शास्त्रादेर्मिथ्यात्वनिश्चयेऽपि ततः परमार्थनिर्विशेषब्रह्मनिश्चय उपपद्यते । नच सहसा शास्त्रस्यासत्यताधियमधिरोहति, स्वजन्यविश्वनिवर्तकाद्वैतबोधजन्मनः प्राक् सत्यतयैवावभासात् । अतो बोधनदशायां स्वयमपि सदित्यवभासात् स्वजन्यबोधसामर्थ्यादेव स्वस्यापि निवृत्तिसिद्धौ पुनः बोधान्तरस्यानपेक्षितत्वेन तदुत्पादकत्वाभावाच्च न कश्चिद्विरोधः । न च वाच्यं सत्यतया प्रत्यक्षादिसिद्धस्यापि प्रपञ्चस्य शास्त्रेणेव शास्त्रसिद्धसत्यत्वस्यापि ब्रह्मणः केनचिद्बाधे मिथ्यात्वं संभवतीति, अदर्शनादेव तन्निरासात् । न च कारणदोषनिश्चयात् फलितः प्रतीतिविषयबाधः, यादृच्छिकसंवादिलिङ्गविभ्रमादिभिरेवानैकान्त्यात् । अतो वस्तुतो मिथ्याभूतादपि शास्त्रादेः परमार्थसद्वितीयब्रह्मनिश्चय उपपद्यत इति ।

अत्रोच्यते -यदुक्तमसत्यात्सत्योत्पत्तिर्दृश्यत इति, तदसत्, सत्यैर्ज्ञानादिभिरेव तत्र तत्र तत्सिद्धेः । यत्तत्रोक्तम् -ज्ञप्तिस्वरूपमात्रस्य कारणत्वे ज्ञप्त्यन्तरादपि तत्सिद्धिप्रसङ्ग इति, तदपि मन्दम्, ज्ञप्तिस्वरूपाणां परस्परविचित्रशक्तित्वात् ।

विषयविशेषमन्तरेण वैचित्र्यं कुतस्सिद्धमिति चेत्, किमयमुत्पत्तिप्रश्नः? उत ज्ञप्तिप्रश्नः? आद्ये तत्सामग्रीवैचित्र्यमेवोत्तरम् । तदेव च कुतस्सिद्धमिति चेन्न; सामग्रीवैचित्र्यपारवश्यस्य सार्वत्रिकत्वात् । सामग्री वैचित्र्यादेव हि तत्तद्विषयत्वनियमोऽपि संविदः । न च तत्तद्विषयत्वमेव सामग्र्यधीनो विशेष इति वाच्यम्, एकविषयत्वेऽपि सामग्रीविशेषात्प्रत्यक्षत्वपरोक्षत्व -स्मृतित्वानुभवत्वगरल निवर्तकत्वतदशक्तत्वादिविशेषदर्शनात् । न च विषयोऽपि ज्ञप्तिसामग्र्यनुप्रविष्ट इति वाच्यम्, अतीतानागतानुमानादिषु तदयोगात् । अस्मदादिप्रत्यक्षज्ञानमात्रे त्विन्द्रियसंप्रयोगाधारतया तस्य कारणत्वमिष्यते । न च मिथ्याभूतस्य विषयस्य संप्रयोगाधारता, प्रकाशात्पूर्वं तत्स्वरूपाभावात् । प्रकाशस्य च संप्रयोगसमनन्तरभावित्वेन चक्रकाश्रयप्रसङ्गात् । द्वितीयेऽपि स्वयंप्रकाशादनुव्यवसायादेर्वा यथाभिमानं तत्सिद्धिः । तथाऽप्यवान्तरवैचित्र्योपलम्भे विषयविशेष एव कारणमिति चेन्न; विषयविशेषस्यैव तत्र तदवान्तरवैचित्र्यरूपत्वात्; तत्प्रकाशं प्रति सत्यस्य दोषादेरेव प्रयोजकत्वात् । मिथ्याभूतस्य विषयस्यैव च तत्प्रकाशप्रयोजकत्वे सत्यादसत्यप्रतीतिमात्रसिद्धेः । तदुलपक्षितस्य ज्ञानस्य च हर्षभयानुव्यवसायादिहेतुत्वेऽप्युपलक्षणस्य तस्य हेतुत्वाभावात् । न हि कारणोपलक्षणमपि तत्कार्यकारणं भवति, अतिप्रसङ्गात् । अन्वयव्यतिरेकाभ्यां नातिप्रसङ्ग इति चेन्न; विषयस्यैव निरपेक्षहेतुत्व विवक्षायामप्रतीयमानादपि सर्पादेर्भयादिप्रसङ्गात् । ज्ञप्तिसापेक्षत्वविवक्षायां तदुपलक्षणमात्रेणान्वय व्यतिरेकयोरन्यथासिद्धेः ।

तर्हि ज्ञप्तेरपि निरपेक्षाया हेतुत्वे ज्ञप्त्यन्तरादपि तदुत्पत्तिप्रसङ्गः, सविषयाया हेतुत्वे विषयोपलक्षणत्वमिति विपरिवर्तप्रसङ्ग इति चेन्न; ज्ञप्तेरुपलक्षणत्वे तदुपलक्षितस्य विषयस्याज्ञायमानदशायामपि भयादिहेतुत्वप्रसङ्गात् । कार्योत्पत्तिदशायामपि कारणोपलक्षणावस्थाना पेक्षायां नामान्तरेण तस्यापि कारणत्वस्वीकारात् । न चैवं विषयेऽप्यस्त्विति वाच्यम्, विषयोल्लेखमन्तरेण विषयिणो ज्ञानस्यावस्थानाभावादेव केवलज्ञानात्तदुत्पत्ति प्रसङ्गस्यानवतारात् । अप्रसृतनिर्विषयाभ्युप गमपक्षेऽपि प्रसरावस्थाविशेषविशिष्टस्य कारणत्वस्वीकारात् । ज्ञानमन्तरेण विषयस्याप्यवस्थानं कथमिति चेन्न; क्षणभङ्गात्मख्यात्यादिप्रसङ्गात् त्वयाऽपि तत्प्रतिक्षेपात् । तथाऽपि लिङ्गतज्ज्ञानयोरिवात्रापि विषयविषयिणोर्द्वयोरपि कारणत्वमस्त्विति चेन्न; तत्र द्वयोरप्यनन्यथासिद्धान्वयव्यतिरेकवत्वात्, अत्र तु विषयस्यान्यथासिद्धत्वाद्विषयिणश्च हेतुताया दुस्त्यजत्वात् । लिङ्गज्ञानेऽपि विषयस्योपलक्षणत्वमस्त्विति चेन्न; लिङ्गभ्रमेऽप्युपलक्षणत्वसिद्धेः तदुपलक्षितेन ज्ञानेन लिङ्गिसिद्धिनियमप्रसङ्गात् . अतो न लिङ्गज्ञाने विषयोपलक्षणत्वम् । अत्रापि तर्हि विषयान्तरोपलक्षितज्ञानेऽप्युपलक्षणत्वं सिद्धमिति ततो हर्षादिसिद्धौ घट्टकुट्यां प्रभातमिति चेन्न; तद्विषयोपलक्षणज्ञप्तिस्वरूपविशेषस्यैव तत्कारणत्वस्वीकारात् । यथा गुणविशेषोपलक्षितजात्यादिस्वरूपस्य वाच्यत्वे गुणस्य वाच्यबर्हिभावः, तथाऽत्रापि विषयस्य कारणबहिर्भावः । भवतु वा परमार्थधूमाद्युपलक्षितं ज्ञानं कारणमिति, तथाऽपि भवतो न कश्चिल्लाभः, तत्रापि विषयस्याकारणत्वात्, सर्वत्र ज्ञानस्य सत्यस्य कारणत्वसिद्धेः ।

किंच “कार्यकारणभावे हि पौर्वापर्यमुदीर्यते । असत्यत्वे कथं पूर्वभावित्वं कस्यचिद्भवेत् ।।”

ननु तत्तद्विषयाणां मिथ्याभूतानामपि कारणत्वं शास्त्रतस्सिध्यति; स्वप्नेष्वगम्यागमनं च धन्यमित्यादिभिस्तद्विषयाणामेव हि शुभाशुभादिसिद्धिहेतुत्वं स्वप्नाध्यायादिषु पठ्यते इति चेन्न; उपचारादपिप्रयोगसंभवात्, तद्भ्रमस्यैव तत्र हेतुत्वात्तस्य च सत्यत्वात् । स्वाप्नार्थनामीश्वरसृष्टत्वपक्षे तन्मिथ्यात्वासिद्धेश्च ।

यत्तु लिप्यक्षरैरक्षरग्रहणमिति, तत्र लिपिस्वरूपं सङ्केतो वर्णबुद्धिश्च न मिथ्याभूताः । न च वर्णबुद्धिरेव तद्वर्णबुद्धिहेतुः, आत्माश्रयप्रसङ्गात् । न च लिपिषु वर्णभ्रमः सत्यवर्णधीहेतुः, गौरवात् । सङ्केतवशादेव तत्सिद्धौ वर्णभ्रमस्य कारणत्वकल्पने प्रमाणाभावात् । भावेऽपि तत्पारमार्थ्यस्योक्तत्वाच्च ।

रेवागवयेऽपि सत्यादेव रेखासन्निवेशसादृश्यमात्रात् पूर्वानुभूतगवयस्य पुरुषस्य प्रथमं गवयस्मृतिः । अननुभूतगवयस्य तु न गवयस्मृतिरपि, रेखासादृश्याबोधनात् । कदाचिदाप्तवाक्येन गवयोपलक्षणात्पश्चाद्रेखायामपि कस्यजिद्गवयभ्रमस्संभवेदपि, तस्यापि न ततः परं किमपि ततस्सत्यगवयज्ञानमिति समस्तीति नासत्यात् सत्यधीः ।

चित्रपुरुषादिभिः पुराणवृत्तान्तादिज्ञानेऽपि उपदेशो वा, प्रत्युत पुरुषलिखितत्वव्यवसाये सति लिङ्गं वा निदानम्; न तु चित्रगोचरः पुरुषभ्रमः ।

नादविशेषोपाधिकशब्दनानात्वेऽपि तत्तन्नादाभिव्यक्तरूपेण संबन्धग्रहणसहकृतशब्द स्वरूपमेवार्थधीहेतुः । तच्च विशेषणेन सह सत्यमेव । न चौपाधिकं शब्दनानात्वम्, एकरूपस्य शब्दस्यानुपलम्भात्, कल्पकाभावाच्च । क्रमयौगपद्यादिविकल्पदुःस्थत्वेन वर्णानां बोधकत्वे निरस्ते बोधकान्तरं किंचित्कल्प्यते; तच्च सामर्थ्यादिशालिभिः प्रत्यक्षयितुमपि शक्यते; “स्फोटस्त्वं वर्णसंश्रय” इति महाभारतेऽप्युच्यत इति चेन्न; वर्णानां स्फोटव्यञ्जकत्वेऽपि क्रमयौगपद्यादिविकल्पावतारप्रसङ्गात् । परिहारस्य च समत्वात् । “स्फोटस्त्वं वर्णसंश्रय” इत्यस्य वर्णानामेव स्फुटीकरणशक्तिमात्रविषयत्वात् । समाधिग्रन्थेष्वपि शब्दब्रह्मापरनाम्नो वाचकेतरस्यैव कस्यचिद्वाचकहेतोः परब्रह्मानुसन्धानोपकारकतयाऽनुसन्धेयत्वविधेः, तावत एव च योगिभिस्साक्षात्कारणात् । स्फोटदूषणविस्तारस्त्वाचार्यादिग्रन्थेष्वनुसन्धेयः ।

वाष्पारोपितधूमेन यादृच्छिकाग्निसिद्धिस्तु नभ्रमसामर्थ्याधीना, अन्यथा सर्वत्र तद्भ्रमे तत्सिद्धिप्रसङ्गात् । अत एव हि तत्र प्रामाण्यमपि नाङ्गीक्रियते । अत्रापि यादृच्छिकब्रह्मासद्बावे शास्त्रादेस्स्वयमप्रमाणत्वात्प्रमाणान्तरासंभवाच्च, न तत्सत्यत्वव्यवसायः शक्यः ।

तदेवं लोकदृष्ट्या अस्मद्दृष्ट्या च सत्यादेव सत्यस्य सिद्धिः । भवद्दृष्ट्या त्वसत्यादसत्यस्यैव सिद्धिरिति न कथञ्चिदप्यसत्यात्सत्यसिद्धिरुदाहर्तुं शक्यते । असत्यस्यापि प्रतीतिः सत्यादेव दोषादेर्भवति, किं पुनस्सत्यस्य ।

ननूपलक्षणत्वं नाम ज्ञाप्यबहिर्भावेऽप्युपलक्ष्यज्ञानहेतुत्वम्, तथा च मिथ्याभूतस्य विषयस्य उपलक्षणत्वाङ्गीकारे पुनरपि हेतुत्वं सिद्धमिति चेन्न; उपलक्षणं हि न स्वरूपेण ज्ञापयति, अपि तु स्वज्ञानेन; तथा च ज्ञानगतमेव हेतुत्वं न पुनर्विषयगतम्, विषयस्य मिथ्यात्वेन हेतुत्वायोगात् । अन्यथाकुलालविज्ञानविषयभूतस्यागामिघटस्य घटं प्रति हेतुत्वं स्यात् । न च तद्युज्यते, नियतपूर्ववृत्तित्वाभावात् । न च तावता विषयस्य हेतुत्वाभावे कुविन्दज्ञानस्यापि हेतुत्वं स्यादित्यतिप्रसङ्गश्शक्यते वक्तुम् । तद्वदत्रापि । कार्यस्य कारणकालासन्निधानात्तत्राहेतुत्वमिति चेत्तुल्यम्, अविशेषादसान्निध्यस्य । अथाप्यत्र पुनः अतिप्रसङ्गात् तत्परिहारर्थं विषयस्यापि हेतुत्वमकामेनापि स्वीकर्तव्यमिति चेत्, तर्हि कर्तृज्ञानविशेषणे घटादावपि किं न स्वीकार्यम् । कार्यकारणभावनियमस्यावश्याङ्गीकार्यत्वात् कारणायत्तमेव वैषम्यं तेषुतेषु स्वीक्रियत इति चेत्, तुल्यमत्रापि । तर्ह्यसत्त्वेऽपि कारणत्वमस्त्विति चेन्न; व्याघातात् । नियतपूर्वभावित्वं हि कारणत्वम् । व्यावहारिकमपि कारणत्वं तेनैव रूपेण निर्वहन्ति दुर्वैतण्डिकाः । पूर्वभावित्वं हि पूर्वकालसत्त्वमेव । कारणं हि पूर्वावधिः । अवधित्वं च स्वसद्भावेनैव । कारणानां नियतपूर्वत्वमिति सामान्यनिर्देशेऽपि तत्र सद्भावोऽसद्भावो वा कश्चिदेकः परिशिष्यते, परस्परविरोधात् । तत्रासद्भावपक्षस्त्वकारणलक्षणत्वादवधूयते । सद्भावपक्षस्त्ववशिष्यते । अतो नागामिनःकारणत्वम् । नाप्यत्यन्तासतः । तेन सत्यादेव कारणात्कार्यस्य, ज्ञापकाद्वा ज्ञाप्यस्य सिद्धिः । श्रुतिरपि – “कथमसतस्सज्जायेतेति,” (छांदोग्य -6 -2 -2) “सन्मूला” (छांदोग्य -6 -8 -6) इति सदेव सोम्येदमग्र (छांदोग्य 6 -2 -1) इति च ।

ननु मिथ्यार्थज्ञानस्योपलक्ष्यज्ञानहेतुत्वेऽपि तज्ज्ञानोपलक्षणार्थंमिथ्यार्थस्य हेतुत्वमिति चेन्न; तत्रापि तज्ज्ञानस्यैव हेतुत्वात् । तथा चानवस्थेति चेन्न, अवश्यवेद्यत्वा -भावात् । तथा च सत्यस्यैव ज्ञानस्य हेतुत्वमिति नासत्यात्सत्यसिद्धिः ।

किंच प्रतिबिम्बाद्बिम्बसिद्धौ विप्रतिपन्नः प्रतिबिम्बोबिम्बपूर्वकः प्रतिबिम्बत्वादिति वा, प्रतिबिम्बज्ञानं बिम्बज्ञानपूर्वकं प्रतिबिम्बज्ञानत्वादिति वा अनुमानप्रकृतिः । उभयत्रापि सत्यादेव ज्ञाप्यसिद्धिः,प्रतिबिम्बत्वस्य ज्ञानस्य च सत्यत्वात् । नहिचन्द्रत्वादित्यनुमानं प्रयुज्यते, व्यभिचारात् । अपि तु चन्द्रत्वेनारोपितत्वादिति । चन्द्रत्वेनारोपितत्वं सत्यमेव । यथा रजतत्वेनारोपितमिदमिति ज्ञानं परमार्थविषयमेव; बाधकज्ञानत्वात्; तथा प्रतिबिम्बचन्द्रोऽयमिति ज्ञानं परमार्थविषयमेव । ततो वानासत्यात्सत्यसिद्धिः । किंचासत्यत्वेऽपि प्रतिबिम्बादेर्ज्ञातृत्वज्ञानाद्यनेकसत्योपश्लेषेणैव सत्यबुद्धिहेतुत्वसिद्धिः ।

यत्तूपलक्ष्यबहिर्भूतत्वे सत्युपलक्ष्यप्रतीतिजनकत्वमुपलक्षणत्वम्, ततश्च ज्ञानोपलक्षणतया विषयो यद्यभिमतस्स्यात्तर्हि तत्रैवासत्यात्सत्यप्रतिपत्तिरिति,तन्न; वस्तुतो विषयस्योपलक्षणत्वमपि नाभ्युपगच्छामः, स्वेनैव वा स्वविषयज्ञानान्तरेण वा सविषयज्ञानस्वरूपप्रकाशस्य प्रागेवोक्तत्वात् । अभ्युपगम्यापि वदामः . न हि भ्रमविषयस्यापि सर्वथा मिथ्यात्वं ब्रूमः, सामान्यरूपेण देशकालान्तरादिषु सत्त्वाभ्युपगमात् । रजतज्ञानमिति तेन रूपेण उपलक्षणे तु सत्यमेवोपलक्षणम् । शुक्तिरजतज्ञानमिति प्रबुद्धपरामर्शेऽपि शुक्तिरजतत्वतत्संसर्गाणां स्वरूपतः सत्यत्वात्, शुक्तिगतात्यन्ताभावप्रतियोगिनोऽपि रजतत्वस्य शुक्तिनिष्ठतया प्रतीयमानताया अपि सत्यत्वात् । शुक्तिनिष्ठतया प्रतीयमानत्व -विशेषितरजतज्ञानमिति विशिष्टरजतेनोपलक्षणेऽपि न विशेषणविशेष्यतत्सम्बन्धादेरसत्यत्वं प्रपश्यामः । अतो न क्वचिदपि असत्यात्सत्यसिद्धिः ।

यद्यपि चासत्यानां केषांचिदन्वयव्यतिरेक -नियमात्सत्यसिद्धिहेतुत्वनियमः,तथाऽपि नासत्यादेव सत्यब्रह्मसिद्धिनियमो व्यवहर्तुं शक्यते,अदर्शनादन्वयव्यतिरेकासिद्धेः । सम्भावनामात्रेऽपि यादृच्छिकसंवादिलिङ्गविभ्रमादिवत् प्रमाणत्वाभावात् । असत्यात्सत्यसिद्धिनिर्णायकस्यापि प्रमाणत्वानुपगमेन विवक्षितासिद्धेश्च । बाधाभावस्य च परिहरिष्यमाणत्वात् ।।

यत्तूक्तम् विषयमिथ्यात्वे तद्विषयज्ञप्तेरपि सत्यत्वं न सिध्यतीति, तदपि हास्यम् । कारणमिथ्यात्वे कार्यमिथ्यात्वस्य च तुल्यन्यायतया दुस्त्यजत्वेनासत्यात्सत्योत्पत्तिभङ्गात् । एवं ज्ञापकमिथ्यात्वे ज्ञाप्यमिथ्यात्वमपि स्यात् । इदं च स्वसिद्धान्तोच्छेदनमनवेक्षमाणैरुच्यते, मिथ्याभूतप्रपञ्चसिद्धिरूपस्य ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गात् । ब्रह्म स्वप्रकाशात्मकमेव, तथाऽपि साक्षिप्रकाशो वृत्तिप्रकाशो वा प्रपञ्चसिद्धिरूप इति चेन्न; तयोर्ब्रह्मव्यतिरेकेण सत्यत्वे भेदवादावतारात् । अव्यतिरेकेण सत्यत्वे तूक्तदोषानतिक्रमात् । असत्यत्वे तु तयोरपि ब्रह्माधीनसिद्धित्वेन तत्रैवोक्तदोषप्रसङ्गात् । अस्तु ब्रह्मणोऽपि मिथ्याविषयत्वं मिथ्यावेद्यत्वं च, तथाऽपि बाधाभावात् सत्यत्वमिति चेत्, तुल्यम् । सविषयावृत्तिस्तत्र बाध्यत इति चेन्न; स्वप्नादिषु दर्शनमस्त्येव, अर्थास्तु न सन्तीत्येव बाधकप्रत्ययोदयात् । विषयाभावे कथं विषयित्वम्, विषयित्वाभावे च कथं ज्ञानत्वमिति चेन्न; अतीतविषयानुमानादिषु विषयाभावेऽपि विषयित्वदर्शनात् । यद्देशकालादिवृत्तितया यस्य प्रतिभासः, तद्देशकालादिवृत्तितया तस्य सद्भावे कथं तत्र विषयाभाव इति चेन्न; अत्रापि यथाकथञ्चिद्विषयस्य विद्यमानत्वात् । तदुक्तम् –

जन्मन्येकत्र भिन्ने वा तथा कालान्तरेऽपि वा । तद्देशे वान्यदेशे वा स्वप्नज्ञानस्य गोचरः” ।। इत्यादि । तथाऽपि प्रतिपन्नोपाधिसंभेदेन विषयस्य विद्यमानत्वं नास्तीति चेन्न; तावताऽपि तद्विषयत्वस्यानपायात् । प्रामाण्यमात्रमेव हि ततो निवर्तते । अख्यात्यादिपक्षे च क्वचिदपि विषयमिथ्यात्वानभ्युपगमात्, विषयमिथ्यात्वस्य च दूरतो निरस्तत्वात्; असत्ख्यातित्वस्यैवान्ततस्सत्त्वात्; तदसत्त्वे तत्पक्षाङ्गीकारस्यैवानुपपन्नत्वात्; उपपन्नत्वाङ्गीकारे चानियमात्, न कथञ्चिदप्यसत्यात्सत्यप्रति पत्तिरुदाहर्तुं शक्यते । यत्तु वस्तुतोऽसत्यस्यापि न सहसा पुनश्शास्त्रस्यासत्यता धियमधिरोहतीति । किं ततः?निर्विशेषबोधकत्वव्यवसायोपपत्तिरिति चेन्न; तदुपपत्तावपि तत्प्रमात्वसिद्धेः । आरोपितलिङ्गेन लिङ्गबुद्धिवत् । ततश्च सत्यब्रह्मव्यवसायासिद्धिः । न च शास्त्रस्यासत्यता सहसैव धियं नाधिरोहति, ब्रह्मव्यतिरिक्तसमस्तमिथ्यात्वश्रवणवेलायामेव शास्त्रस्य तत्प्रामाण्यस्याप्येकप्रहारेण बाध्यमानत्वात् । अन्यथा सजातीयविजातीयादिसमस्तभेदशून्यब्रह्मप्रतीत्यनुदयप्रसङ्गात् । एतेन प्रमाणस्वरूपमिथ्यात्वेऽपि प्रामाण्यमस्तीति विप्रलम्भव्यवहारोऽपि दत्तोत्तरः । न च बाधितानुवृत्त्या सदिति प्रतीत्यनुवृत्तेः शास्त्रस्य कारणत्वम्, वाष्पादौ बाधितानुवृत्त्या धूमादिभ्रमे वर्तमानेऽपि धूमध्वजानुमानाद्यदर्शनात् ।

यत्तु मिथ्याभूतशास्त्रप्रतिपन्नस्यापि ब्रह्मणो बाधो न दृश्यत इति, तदसत्, कारणदोषनिश्चयादेव बाधसिद्धेः । तदुक्तम् – “दुष्टकारणबोधे तु सिद्धेऽपि विषयान्तरे । अर्थात्तुल्यार्थतां प्राप्य बाधो गोदोहनादिवत्” इति । यत्तत्रानैकान्त्यमुक्तम्, तदपि मन्दम्, संवादकान्तराभावसहकृतकारणदोषनिश्चयस्य बाधाव्यभिचारित्वात् । शून्यमेव तत्त्वमिति माध्यमिकवाक्येन च साक्षाच्च बाधो दृश्यते । तद्वाक्यं दोषमूलत्वेनाप्रमाणत्वान्न बाधकमिति चेत्, तर्हि वेदान्तवाक्यान्यपि दोषमूलत्वेन भवतैवाभ्युपगतानि न विश्वबाधकानि स्युः । दोषावान्तरभेदकल्पनं चाप्रयोजकमेव । व्यावहारिकव्यवस्थया वेदान्तानां प्रामाण्यसिद्धिरिति चेत्, किं तद्व्यावहारिकत्वम्? अप्रामाणिकत्वेऽपि प्रामाणिकवत्प्रतिभासमानत्वमिति चेन्न; माध्यमिकैरपि तच्छास्त्रस्य तथैव प्रामाण्याभ्युपगमात् । त्वदनभ्युपगमस्य प्रयोजकत्वे तदनभ्युपगमस्यापि तत्प्रसङ्गाच्च । एवमनुपपन्नत्वेऽप्यनुपपन्नवद्भासमानत्वमित्यादीन्यपि लक्षणानि निरस्तानि । व्यावहारिकव्यवस्थया वेदप्रामाण्यं च त्वया दुरुपपादमिति स्थितमन्यत्र । अतस्स्वपक्षस्थापकप्रमाणपारमार्थ्यानभ्युपगतौ न कथञ्चिदपि स्वसिद्धान्तस्थितिरिति सिद्धं सत्यादेव सत्यस्य ब्रह्मणस्सिद्धिरिति ।। ।

।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यामसत्यासत्यसिद्धिभङ्ग वादः त्रिंशः ।।30।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.