शतदूषणी निवर्तकानुपपत्तिवादः(43)

शतदूषणी

अथ निवर्तकानुपपत्तिवादः त्रिचत्वारिंशः ।।43।।

अनन्यानां पुंसामनवधिकभक्तिस्थितिजुषामविद्याध्वंसे यच्चरणवरिवस्यापरिणतेः ।

तदेकं सत्संवित्सुखमवधिदूरीकृतगुणं हताशेषावद्यं हयवदनमीडीमहि महः ।।

प्रतिष्ठितोऽयमर्थः प्रमाणपरतन्त्राणां – यदुत कर्मयोगज्ञानयोगपरिशोधितान्तः करणस्य तत्तद्वर्णाश्रमोचितनित्यनैमित्तिकोप संहृतिनिषिद्धपरिहारनिष्ठस्य अनवरतविहितध्यानार्चनादि क्रमपरिणत निरतिशयप्रीतिरूपतापन्ननिदिध्यासन निरुद्धसुहृद्विषत्संक्रमणीयपूर्वोत्तरपुण्यपापस्य, फलोन्मुखकर्मपर्यवसाननिर्मुक्तस्थूलसूक्ष्माचित्संसर्गस्य तथाविधभजनाराधितपरमपुरुषप्रसादादेव सार्व यापरपर्याया निश्शेषाविद्यानिवृत्तिरिति । ये पुनरद्धैतविज्ञानादेव ब्रह्माज्ञाननिवृत्तिरिति जल्पन्ति, तान्प्रति ब्रूमः कथंभूतमिदमद्वैतज्ञानमिति । कि ब्रह्मस्वरूपभूताज्ज्ञानाद्भिन्नम्, उताभिन्नम्, यद्वा भिन्नाभिन्नम्, उतानुभयात्मकम्, उताशक्यवेदनकथम्बावं किञ्चिदिति ।

न प्रथमः, तद्वि निर्विषयम्, सविषयं वा? पूर्वत्र ज्ञानत्वमेव हीयेत । वृत्तिरूपं हि ज्ञानं सविषयमेवेति भवतामपि सिद्धान्तः । उत्तरत्रापि कस्तस्य विषयः? किं ब्रह्मस्वरूपम्, उत तदेवाविद्याशबलम्, यद्वा तद्धतिरिक्तं तस्य मिथ्यात्वं वा, अथवाऽन्यदेव किञ्चिदिति । नाद्यः, आत्मस्वरूपस्येव ज्ञानस्य तस्यापि भ्रमनिवर्तकत्वायोगात्, उभयोरपि यथावस्थितब्रह्मस्वरूपप्रकाशरूपत्वाविशेषात् । ननु स्वरूपप्रकाशोऽध्यासौपाधिकाधिष्ठानप्रकाशात्मकः, यथेदं रजतमित्यत्र इदमर्थप्रकाशः, विषयप्रकाशस्त्वध्यासनिवर्तकः, यथेदमर्थस्य शुक्तिरिति प्रकाशः,इति चेन्न; दत्तोत्तरत्वात् । नदीदमिति प्रकाशस्यशुक्तिरिति प्रकाशस्य चात्यन्तसमानविषयता, इदमिति प्रकाशस्य शुक्तिरजतसाधारणाकारविशिष्टगोचरत्वात्; शुक्तिरिति प्रकाशस्य रजतव्यावर्तकशुक्तित्वविशिष्टविषयत्वात् । अन्यथा तस्यापि भ्रमानिवर्तकत्वप्रसङ्गात्क । नचात्राप्याकारभेदोऽधिको वृत्तिज्ञानेन बोध्यत इति वाच्यम्; तस्याकारस्य सत्यत्वे सगुणसिद्धान्तोररीकरणप्रसङ्गात् । मिथ्यात्वे भ्रान्तिज्ञानत्वादेव सुतरामनिवर्तकत्वप्रसङ्गात् । वसुन्धरारन्ध्रबोधे मालाभुजङ्गनिवृत्तिवदुपपद्यत इति चेन्न; तस्यैव भ्रमरूपत्वेन तद्वदेव स्वयं स्वविषयाबाधकत्वात् सर्वत्र भ्रमनिवृत्त्यसिद्धिप्रसङ्गात् । बाधकान्तरगवेषणायामनवस्थानात् । स्वपरनिर्वाहकसमाधेरपि बाधकज्ञानविषयीभूतप्रपञ्चविरोधिमिथ्याकाराध्याससह स्वरूप प्रकाशातिरिक्तप्रकाशाभावेन तस्याकारस्य बाध्यत्वासिद्धेरेवेति परिहृतत्वात् । स्वस्यैव स्वविषयार्थबाधकत्वेव्याघाताच्च ।

अस्तु तर्ह्यभिज्ञाप्रत्यभिज्ञयोरिव स्वरूपतद्विषयज्ञानयोस्साध्यभेद इति चेन्न; दत्तोत्तरत्वात् । तत्रैतत्स्यात्, यथा देवदत्तगोचरत्वाविशेषेऽप्यसावित्यवगाहमानाभिज्ञा न देवदत्तभेदभ्रमं निवर्तयति, सोऽयमिति प्रत्यभिज्ञाबुद्धिस्तु तत्प्रतिक्षेपाय प्रगल्भते । तद्वदत्रापि स्वरूपप्रकाशसोऽहमिति कल्पिताकारप्रकाशश्चेति चेन्न; दत्तोत्तरत्वात् । तत्राप्यभिज्ञाप्रत्यभिज्ञयोः प्रकाश्याकारभेदोऽस्ति । अन्यथा अभिज्ञाप्रत्यभिज्ञयोर्भेदासिद्धिप्रसङ्गात् । को वा भवन्तमन्तरेण स इत्यादिकोल्लेखिनीं प्रत्यभिज्ञामसावित्येतावन्मात्रोल्लेखिन्याऽभिज्ञया सह धारावाहिकवदत्यन्तसमानविषयामभिमन्येत । अत्रापि आकारातिरेकाभ्युपगमे तु दत्तमुत्तरम् । प्रकाशातिरेकिविषयित्वतदभावाभ्यां वैषम्यमिति चेत्; किं ततः? बाधकत्वाबाधकत्वे प्रत्यप्रयोजकत्वात् । वृत्तिज्ञानस्य हि बाधकत्वं यथावस्थित ब्रह्मस्वरूपप्रकाशात्मकत्वेन, नतु वृत्तित्वाद्याकारेण, तथासति विरोधिप्रकाशातिरिक्तवृत्तित्वाद्या कारबाध्यत्वेन मुद्गरादिनिवर्त्यसत्यसर्पघटादेरिव प्रपञ्चस्यापि सत्यत्व प्रसङ्गात् ।

एतेनाविद्याशबलं तदेव विषय इति दत्तोत्तरम्, साक्षिप्रत्यक्षवदेव भ्रमोपकारकत्वप्रसङ्गात् । अन्यथा साक्षिप्रत्यक्षस्यापि भ्रमनिवर्तकत्वप्रसङ्गेन प्रपञ्च (प्रति) निर्भासस्याप्यनुदयप्रसङ्गात् । साक्षिप्रत्यक्षमपि हि अविद्याप्रकाशात्मकं स्वप्रकाशं च । ब्रह्मव्यतिरिक्तमात्रगोचरत्वपक्षे स्वयं तद्भ्रमरूपत्वात्तद्बाधकरूपत्वसंभावनापि नास्ति । नहि शुक्तिकलधौतधीरेव कलधौतधियमवधुनोति ।

तन्मिथ्यात्वविषयपक्षस्तु तदा शोभते, यद्यधिष्ठानयाथात्म्यग्रहणमन्तरेणापि तन्मिथ्यात्वं सुग्रहं स्यात् । याथात्म्यग्रहरूपता च दूषितैव । किंच, इदं निवर्तकज्ञानं स्वविषयं ब्रह्मव्यतिरिक्तमिथ्यात्वं किं मिथ्यात्वेन गृह्णाति उत सत्यत्वेन, उतानिर्द्धारितविशेषात्मनेति ।

आद्ये व्याघातः, मिथ्यात्वस्य च मिथ्यात्वग्रहणे प्रपञ्चस्य सत्यत्वेन प्रकाशप्रसङ्गात्; स्वप्नावगतपितृमरणमिथ्यात्वेन पितृसत्यतावत्, सम्यग्रजतमिथ्यात्वमिथ्यात्वेन रजतसत्यतावच्च । ब्रह्मव्यतिरिक्तत्वोपाधिक्रोकारवशत् प्रपञ्चस्य तन्मिथ्यात्वस्य च मिथ्यात्वमेकहेलया लभ्यते, यथा भवतां प्रपञ्चस्य तत्सत्यत्वस्य च सत्यत्वमिति चेन्न; विरोधाविरोधाभ्यां वैषम्यात् । न हि रजतमिथ्यात्वमिथ्यात्वेऽपि रजतमपि मिथ्याभूतं दृष्टम् । नच शुक्तिरजतमिथ्यात्वे तन्मिथ्यात्वं मिथ्याभूतं दृष्टम् ।। तदयं संग्रहः – मिथ्यात्वस्य च मिथ्यात्वे मिथ्यात्वं बाधितं भवेत् सत्यत्वे स्थापितं भवेत् ।।

ननु बन्धयासुततन्मरणयोरिव द्वयोरपि मिथ्यात्वमुपपद्यत इति चेन्न; निराश्रयतया तत्र धर्मिमिथ्यात्वोपपत्तेः । नहि तत्रापि वन्ध्यासुतमिथ्यात्वं वा तन्मरणमिथ्यात्वं वा मिथ्याभूतं दृष्टम् ।

द्वितीये तु ब्रह्मव्यतिरिक्तस्य प्रपञ्चमिथ्यात्वस्य सत्यत्वेन प्रकाशनात् सद्वितीयत्वभ्रान्तित्वादिदोषो दुस्तरः । ब्रह्माव्यतिरेके तु दत्तमुत्तरम् । तृतीयेऽप्यसम्भवः, ब्रह्मव्यतिरिक्तत्वग्रहणे प्रयोजकज्ञानवतो मिथ्यात्वेनैव ग्रहणप्रसङ्गात्; प्रयोजकज्ञानाभावे प्रपञ्चमिथ्यात्वस्याप्यग्रहणप्रसङ्गात् । ब्रह्मव्यतिरिक्तत्वग्रहणे गृह्यमाणस्य मिथ्यात्वस्य ब्रह्मणश्चागृह्यमाणव्यतिरेकयोश्शुक्तिरजतयोरिवैक्येन ग्रहणप्रसङ्गात् । ततश्च सत्यत्वेन प्रकाशाप्रसक्तेर्न साधारणाकारग्रहणसंभवः ।

अन्यस्य कस्य चिद्विषयत्वमपि परमार्थापरमार्थविकल्पेन दत्तैरेव दूषणैर्दूषितम्, परमार्थत्वे ब्रह्मव्यतिरेके द्वैतप्रसङ्गात्, तदव्यतिरेकेऽन्यत्वस्यैवासिद्धिप्रसङ्गात् । अपरमार्थत्वे अविद्यातत्कार्यकोट््यन्तर्भावेन बाध्याकारतया प्रागुक्तदोषापातात् । बहिर्भावे तद्बाधकगवेषणप्रसङ्गात् ।

किंच ब्रह्मव्यतिरिक्तं तत् बाधकं ज्ञानं सत्यमसत्यं वा? असत्यत्वे त्विदमपि बाध्याकारकोटौ घटमानं कथमिव तद्भाधकं स्यात्? आकारभेदादविरोध इति चेन्न; बाधकाकारभेदस्यापिबाध्यत्वाभ्युपगमात् । अन्यथा तस्य सत्यत्वप्रसङ्गात् । तत्राप्याकारभेदाभ्युपगमेऽनवस्थानात् । प्रमाणस्थापके (ने) प्रमाणविशेषस्थापकाकारविशेषस्यापि स्थाप्यत्ववदविरोध इति चेन्न; स्थापकाकारविशेषस्थितेस्स्थाप्य सामान्यस्थित्युपयुक्तत्वात् । बाधकाकारविशेषबाध्यत्वस्य विश्वबाधासिद्धिपर्यवसितत्वात् ।

किंचैतन्निवर्तकं ज्ञानमद्वैतश्रवणादिमात्रसमुद्भवमिदानीन्तमेव ज्ञानम्? एष्यद्वा किमपि? पूर्वत्र भवन्मतश्राविणां तत्क्षणादेव प्रपञ्चविलयप्रसङ्गः; यद्वा आत्मैक्याद्विश्वेषामेव । बाधितानुवृत्तिस्तु दूषितैव । उत्तरत्रापि तत्किं पूर्वाविशिष्टविषयमपि निवर्तकम्? उत विशिष्टविषयम्? अविशिष्टविषयत्वे तु पूर्वस्यापि निवर्तकत्वप्रसङ्गः । तस्य तदभावे उत्तरस्यापि तन्न स्यात् । विशिष्टविषयत्वं तु न संभवत्येव । ब्रह्मणि प्रकाशिष्यमाणपरमार्थाकारान्तरानभ्युपगमात् । अपरमार्थाकारान्तरप्रकाशस्य प्रागुक्तन्यायेन दूषितत्वात् । प्रपञ्चमिथ्यात्वव्यवसायस्य च भवन्मतश्रद्धाजडानामिदानीमपि सिद्धत्वात् । परोक्षरूपमिदानीन्तनज्ञान मपरोक्षभ्रमबाधकं न भवति, अपरोक्षं तु भविष्यज्ज्ञानं बाधनायालमिति चेन्न; परोक्षापरोक्षशब्दाभ्याम विशदविशदत्वविवक्षायामनतिरिक्तविषयतयैव तथाविधभेदासिद्धेः । करणभेदाधीनभेदस्य चाकिचित्करत्वात् । न चास्य करणभेदः, भविष्यतोऽपि विशदज्ञानस्य भवद्भिर्वाक्यजन्यत्वाभ्युप गमात् ।

एतेन वेदान्तनैरर्थक्यमपि फलितम्, यतः कुतश्चिदनुमानादेरप्यद्वैतज्ञान सम्पादनोपपत्तेस्तदतिरिक्तस्य कस्यचिदंशस्य वेदान्तेऽपि भवद्भिःप्रतिपादनानभ्युपगमात् । सत्यस्य प्रामाण्यस्योभयत्रानभ्युपगमात्, व्यावहारिकस्य तु तस्योभयत्र सम्मतत्वात्, उपासनादिपरवेदान्तभागस्य तत्तत्फलविशेषपर्यन्ततया बन्धकत्वेन बन्धनिवृत्तिं प्रति प्रतिकूलत्वाभिधानात् । अतो यदा प्रपञ्चमिथ्यात्वानुमानादिकं न विश्वबाधकं तदा वेदान्तवाक्यान्यपि न तद्बाधकानि स्युः, तदविशिष्टज्ञानजनकत्वात्; यदि तानि बाधकानि स्युः, तदा तदविशिष्टादनुमानादेरपि तद्बाधः स्यादिति निरर्थकस्तत्त्वावेदको वेदान्तभागः । एवञ्च वेदान्तमन्तरेणापि यथावस्थितब्रहमस्वरूपज्ञानसम्पादनोपपत्तेः शारीरकापशूद्राधिकरणानारम्भप्रसङ्गश्च । ननु भेदवासनाविक्षिप्तचेतसं बुबुत्सोद्बोधने शास्त्रोपयोग इति चेन्न; सांख्यसौगतसमयेऽपि तत्त्वविचारमारभमाणैः पुरुषैस्तापत्रयाभिहतानां बुबुत्सोद्बोधने शास्त्रोपयोग इति चेन्न; सांख्यसौगतसमयेऽपि तत्त्वविचारमारभमाणैः पुरुषैस्तापत्रयाभिहतानां भेदवासनाविक्षिप्तचेतसामपि तत्त्वबुबुत्सोत्पत्तेः । नच प्रतिपत्तृभेदेन शास्त्रमनुमानं च सप्रयोजनमिति वाच्यम्, सर्वात्मना साधकबाधकप्रमाणसंभावनावैदेशिके विषये शास्त्रार्थतत्त्वस्य मीमांसितत्वात् । अतस्तत्रभवतां महत्तरेषु मतगह्वरेषु महावाक्यश्रवणमपि बालव्यामोहनमात्रमित्यापद्यते । अतो न निवर्तकज्ञानं ब्रह्मणो भिन्नम् ।

नापि द्वितीयः, ब्रह्मस्वरूपस्य विश्वनिवर्तकत्वे तस्यानादित्वेन प्रपञ्चाध्यासाभावप्रसङ्गेन प्रपञ्चप्रतिभासस्याप्यनुदयप्रसङ्गात् । एकस्यैव दण्डादेर्घटादिकारणत्वतन्नाशकत्ववदुपपद्यत इति चेत्; यौगपद्ये विरोधात्, क्रमे तु सहकार्यवश्यंभावात् । नहि दण्डो घटकारणसामग्रीमध्यमध्यासीन एव घटं नाशयति, अपि तु सिद्धे घटे अभिघातरूपसंयोगादिकमपेक्ष्य । अत्रापि तर्रि ब्रह्म स्वरूपेणाध्यासानुगुणम्, अध्यासमेव तु निवर्त्यं सहकारित्वेनापेक्ष्य तन्निवर्तकम्, निवर्तनशक्तस्यापि निवर्त्यासिद्धौ निवृत्तिजनकत्वायोगादिति चेन्न; तथाप्यनादेरध्यासस्य चिरतरानुवृत्तिभङ्गप्रसङ्गात् । एवं पूर्वपूर्वक्षणानुवृत्तिभङ्गे कदाचिदपि नाध्याससिद्धिः । किञ्च परिशुद्धं ब्रह्मस्वरूपमध्यासानुगुणम्, अशुद्धं तु तन्निवर्तकमिति महदिदमुपपादनम् । अस्तु तर्हि सामग्र्यभावादितः पूर्वमनुत्पन्नं सामग्रीसम्पत्तिदशायामुत्पत्स्यमानान्तः – करणवृत्तिविशेषमेव सहकारित्वेनापेक्ष्य ब्रह्मैव निवर्तकम्; तन्न, प्राप्ताप्राप्तविवेकेनान्तःकरणवृत्तेरेवनिवर्तकत्व प्रसङ्गात् । तथा च सति ब्रह्मस्वरूपान्तर्गतत्वपक्षव्याघातः ।

अत एव न तृतीयः, अपसिद्धान्ताच्च । किञ्च तस्य सत्यत्वे भेदांशेन ब्रह्मणस्सद्वितीयत्वप्रसङ्गः । मिथ्यात्वे त्वभेदांशेन ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गः । नित्यत्वानित्यत्वविकल्पेनापि दूषणमूह्यम् ।

चतुर्थस्तूभयप्रतिक्षेपरूपोऽनिर्वचनीयोक्तदूषणनयेनोभयसिद्ध्यनतिरेकात् दूषणेनैव दूषितः । पञ्चमस्तु परिशिष्यते । तथाभूतं किं तज्ज्ञानं यथाकथंचिदपि प्रतीतिपदवीं नावतरति, अथावतरति? पूर्वत्र किं साधनदूषणप्रयासेन? उत्तरत्र कथंचिदपि उक्तकोटिबहिर्भावासिद्धेः न पृथग्दूषणीयमवशिष्टमिति ।

किंच निवर्तकज्ञानं निवर्तिष्यते न वा? पूर्वत्र तन्निवृत्तेरेवागन्तुकत्वाद्ब्रह्मस्वरूपातिरिक्तताविद्यास्थितिप्रसङ्गः । उत्तरत्र ब्रह्मस्वरूपातिरिक्तनिवर्तकज्ञानसद्भावेनैवाविद्यास्थिरनिवार्या । अतो यदविद्याया निवर्तकत्वेन सम्मतं तदेव स्वात्मना स्वनिवृत्त्या वा तामेव स्थापयतीति विपरीतापत्तिरिति । निवर्तकज्ञानप्रध्वंसोऽपि निवर्तिष्यत इति चेत्; तर्हि ततन्निवर्तकनिवृत्त्यनुवृत्तिप्रसङ्गेन ब्रह्मणो यावदात्मभाविन्यविद्यानुवृत्तिस्स्यादिति वैपरीत्यस्थैर्यापत्तिः । इत्यलं हितातिविपर्यस्तचेतसां शोच्यानां निग्रहेणेति ।।

।। इति शतदूषण्यां निवर्तकानुपपतिवादः त्रिचत्वारिंशः ।।43।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.