शतदूषणी अवेद्यत्वभङ्गवादः(20)

शतदूषणी

।।अथ अवेद्यत्वभङ्गवादः विंशः ।। 20 ।।

श्रुतिगणशिरोनिष्णातानां स्वसत्त्वमभीप्सतां श्रवणमननध्यानैरध्यक्षतश्च चकास्ति यत् ।

अमतमिति यद्भूम्ना मन्तव्यतामवगाहते भवभयतमःप्रत्यासेधं भजेमहि तन्महः ।।

यदाहुः – अनुभूतिस्स्वयंप्रकाशा, अनुभूतित्वात्, “अनुभूतेरनुभाव्यत्वे घटादिवदननु भूतित्वप्रसङ्ग” – तत्र तावदनुभूतिशब्दस्यार्थावगतिहेतुत्वे व्याघातःअहेतुत्वेऽपि पुनर्व्याधात इत्याबालगोपालमुपलभ्यम् । स्वयं प्रकाशे इत्यनेन किं स्वव्यवहारे स्वाश्रयस्य कदाचित्स्वगोचरानु भूत्यन्तरनैरपेक्ष्यमात्रं साध्यते? उत सर्वदा सर्वस्य स्वगोचरानुभूतिविरहः? नाद्यः, सिद्धसाधनात् । वयमपि संविदो विषयप्रकाशनवेलायां स्वाश्रयं प्रति संविदतन्तरकर्मतामन्तरेण प्रकाशमङ्गीकुर्मः । तदिदं सिद्धसाधनत्वमभिप्रेत्याह – “यत्त्वनुभूतेस्स्वयंप्रकाशत्वमुक्तम्, तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैवे”ति । अत एव ये नाम स्वयंप्रकाशत्वनिवृत्तावनवस्थादिप्रसङ्गास्ते भवन्तु सम्यञ्चो न वेति तत्रास्माभिरिहोदासि । नापि द्वितीयः, प्रत्यक्षविरोधात् । तदाह – “परानुभवस्य हानोपादानादि लिङ्गकानुमानज्ञानविषयत्वात्, स्वानुभवस्याप्यतीतस्याज्ञासिषमिति ज्ञानविषयत्वदर्शनाच्चेति । स्ववचनविरोधमभिप्रेत्याह – “अतोऽनुभूतिश्चेत्स्वतस्सिद्धेति वक्तुं न शक्यते” इति ।

तथा हि । अनुभूतिस्स्वयंप्रकाशेत्यत्रानुभूतिशब्दः कस्यचिद्बोधको न वा? बोधकत्वेऽप्यनुभूतिरूप ब्रह्मस्वरूपबोधकस्तदन्यबोधको वा? ब्रह्मस्वरूपबोधकत्वे सिद्धं तस्य तज्जन्यसंवित्कर्मतया प्रकाशमानत्वं प्रकाशमानं स्वरूपं अनेनानूद्यत इति चेन्न । तथाऽपि अनुवादात्मक संवित्कर्मतया प्रकाशमानत्वस्यदुरपह्नवत्वात् । अन्यथा तदनुवादत्वस्यासिद्धिप्रसङ्गात् । ततश्च प्रतिज्ञापदयोः फलप्रतिपादनाभ्यां व्याघातः । तदन्यबोधकत्वे तु तस्यैव स्वयंप्रकाशत्वं प्रतिज्ञातं स्यात् । ततश्च सिषाधयिषितासिद्धिरर्थान्तराख्यं निग्रहस्थानमपसिद्धान्तश्च प्रसज्येरन् । कस्यचिदप्यबोधक इति पक्षे त्ववाचकप्रयोगान्निरर्थकनि ग्रहस्थानप्रसङ्गः। हेतोश्चाश्रयासिद्धिः।

एवं हेतुसाध्यप्रतिपादकशब्दावपि संविदन्वितहेतुसाध्यप्रतिपादकावित्यभ्युपगन्तव्यम् । अन्यथा त्वप्रतिपादकत्वे वाऽनन्वितप्रतिपादकत्वे वा निरर्थकापार्थकनिग्रहस्थानापातात् । अतस्तदन्वितहेतु साध्यप्रतिपादने तयोरप्यनुभूतिविशेषकत्वात्ताभ्यामपि वेद्यत्वं फलितम् । अतस्साध्यहेतुवाचिपदयोः फलप्रतिपादनाभ्यां विरोधः ।

अतोऽनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्व प्रसङ्ग इति तर्कोऽपि स्ववधायकृत्योत्थापनम् । प्रागुक्तप्रत्यक्षेण तत्रत्यानुभूतिशब्देनैव चानुभूतेरनुभाव्यत्वस्थितावननुभूतित्वप्रसङ्गात् ।

एतेनावाच्यत्वमपि ब्रह्मणो निरस्तं मन्तव्यम् । किंच यदनुभाव्यं (तदननुभूति) न तदनुभूतिरूपम्, यथा घट इति व्यतिरेकदृष्टान्तेऽपि त्वदुक्तन्यायेनानुभाव्यत्वप्रतिक्षेपस्य शक्यत्वात्साध्याव्यावृत्तो दृष्टान्तस्स्यात् । घटस्स्वयंप्रकाशो घटत्वात्, घटस्यानुभाव्यत्वे पटवदघटत्वप्रसङ्ग इति वियातजल्पस्य दुर्वारत्वात् । एवं च क्रमेण सर्वस्यापि स्वयंप्रकाशत्वमायातमिति तदनुविधायिसत्यत्वादिप्रसङ्गश्च दुस्तरः । घटोऽनुभूयते पटोऽनुभूयत इत्यनुभाव्यतयैव घटादिः प्रकाशत इति चेत् अनुभूतिरपि परगता स्वगता चातीतानागतकालयोरनुमानशब्दसंस्कारादिजन्यसंविदन्तरकर्मतयैव भातीति तुल्यम् । अनुभूतेरनुभाव्यत्वप्रतीतिर्भ्रान्तिरिति चेत्, किं घटादेरनुभाव्यत्वप्रतीतिर्भ्रान्तिर्न देवानांप्रियस्य? ततश्च परमार्थानुभाव्यत्वप्रतिक्षेपे घटादेरपि परमार्थानुभाव्यत्वरहितत्वाद्धतिरेकदृष्टान्तासिद्धिः । निषेध्यस्य क्वचिदप्यप्रसिद्धेर्निषेधासिद्धिश्च । अपरमार्थानुभाव्यत्वप्रतिक्षेपे सिद्धसाधनत्वं स्वपक्षविरोधश्च । अन्यथा तद्विषयशास्त्रानुमानाद्यनारम्भ प्रसङ्गात् । तत एवानुभाव्यत्वमात्रनिषेधोऽप्यशक्यः ।

किंच यदि परगतानुभूतिर्नानुभूयते, कथं शब्दार्थसम्बन्धग्रहः? परबुद्धिविशेषानुमानेनैव हि सर्वत्र सिद्धे कार्ये वा व्युत्पत्तिः । एवं च व्युत्पत्तेरशक्यत्वाच्चेष्टाशब्दयोः प्रमाणकोटिनिक्षेप एव न स्यात्; परस्पराभिप्रायानभिज्ञतया वादिनोश्शुष्ककलह एव स्यात्; परस्पराशयपरिज्ञानादेव च सर्वो लौकिको व्यवहारः, त्वत्समानानां न पशुमृगादीनां भयाद्युत्पत्तिश्च । तदेतत्सर्वमभिप्रेत्योक्तम् – “परानुभवानु मानानभ्युपगमे च शब्दार्थसम्बन्धग्रहाभावेन समस्तशब्दव्यवहारोच्छेदप्रसङ्गः” इति । आचार्यस्य ज्ञानवत्तामनुमाय तदुपसत्त्यादि च क्रियते “इति भाष्यं, शिष्यस्य च व्यवहारविशेषादिभिरन्यथा ज्ञानादिकमनुमाय तस्मै तत्त्वमुपदिश्यत इत्यस्योपलक्षणम् । तदेवमनुभूतेरन्यस्य वा वेद्यत्वं नास्तीति प्रतिज्ञानं स्वव्याघातकत्वान्न साधनाङ्गमिति ।

ननु वेद्यत्वं वेद्यं न वा? आद्ये वेद्यत्वस्य वेद्यत्वान्तराश्रयत्वेनानवस्था । अन्यथा वेद्यत्वाभावे वेद्यमेव न स्यात् । उत्तरत्रावेद्यत्वं क्वचित्त्वयाऽपि प्रतिज्ञातं स्यात् -इति चेत् हन्त किं (तर्हि) वेद्यत्वस्य वेद्यत्वान्तरप्रतिक्षेपेणावेद्यत्वसमर्थनार्थमयं प्रयासः? उत वेद्यत्वमेव किमपि नास्तीति तत्स्वरूपप्रतिक्षे ेपार्थम् ? अथान्यार्थम्? अनर्थको वेति ।

आद्ये त्वदुक्तानुमानस्य सपक्षे सति तत्रावर्तमानत्वात्सर्वानुमता साधारणाख्याभासत्वप्रसंगः । तत्र साध्यवृत्तिर्मिथ्याभूतेति परिहार इति चेत् तर्हि तस्य वेद्यत्वमेवायातमिति निरर्थकास्सन्नाहाः । अनुभूतावपि च भवतामवेद्यत्वलक्षणसाध्यवृत्तिर्मिथ्याभूतैव, निर्धर्मकत्वाभ्युप गमात्; तस्य स्वरूपत्वाभ्युपगमे च विवाद एव नस्यात् -इत्यादिकमन्यत्र ग्राह्यम् ।

नापि द्वितीयः, वेद्यत्वस्वरूपापह्नवेन सर्वस्यापि वेद्यत्वप्रतिक्षेपे पुनरप्यसाधारणत्वप्रसङ्गात् । भ्रान्तिसिद्धं वेद्यत्वं तत्र विद्यत इति चेत्, तदनुभूतावपि समानमेव । तत्प्रतिक्षेपे ह्यपसिद्धान्तप्रतीतिविरोधादयः ।

न तृतीयः, अन्यस्य कस्यचिदनुपलम्भात् । चतुर्थस्तु परिशिष्टोऽस्मदिष्ट इति । एतेन वाच्यत्वं वाच्यमवाच्यं वेत्यादिप्रलापोऽपि प्रत्युक्तः ।

यच्चाप्रसिद्धविशेणत्वपरिहारार्थं वेद्यत्वं किंचिन्निष्ठात्यन्ताभावप्रतियोगि, धर्मत्वात् घटत्ववदिति सामान्यतः साध्यप्रसिद्धिसाधकत्वेनोक्तमनुमानम्, तदपि प्रत्युक्तम् किंचिच्छब्देन तत्रैव तस्य वेद्यत्वापादनात्, किंचित्त्वधर्मेणानैकान्त्यप्रसंगाच्च । न हि किंचिच्छब्दवाच्यस्य किंचित्त्वं नास्तीति वक्तुं शक्यम्, वेद्यत्वादेरपि तथाऽपह्नवप्रसङ्गेनाश्रयासिद्ध्यादि प्रसङ्गात् । किंचित्त्वाभावे च न किंचिदेव भवेदिति तुच्छत्वमेव प्रसज्येत । तथा च तन्निष्ठान्ताभावप्रतियोगित्वसाधने भवतो न विवक्षितविशेषसिद्धिः । किंच सामान्यतः कस्यचिद्वेद्यत्वं नास्तीत्येतावति साधितेऽपि किंचिच्छब्दार्थोऽनुभूतिरिति कुतोऽवसीयते? पूर्वोक्ताविगीतहेतुवैभवादिति चेत् तर्हि घटस्स्वयंप्रकाशो घटत्वादित्यादिहेतुनाऽपि घटादिविशेषपरिग्रहो दुर्वारः । अनुभाव्यत्वप्रतीतिसदसद्भावाभ्यां वैषम्यं तु परिहृतम् । तर्कानुग्रहसद सद्भावाभ्यां वैषम्यमिति चेत्, कोऽसौ तर्कः? अनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्ग इत्युक्तरूप इति चेन्न; घटादावपि तथाविधतर्कस्योदाहृतत्वात् । किंच यदि घटादिवदनुभूतेरनुभूतिलक्षण विरहस्स्यात्तदाऽननुभूतित्वं युक्तम्, न पुनरनुभाव्यत्वमात्रेण तत्सिद्धिः; तस्य तदप्रयोजकत्वात् । न चानुभाव्यत्वेऽनुभूतिलक्षणविरहस्स्यादिति वक्तुं शक्यम्, अनुभवान्तरानुभाव्येऽपि परानुभवादौ स्वसत्तयैव स्वविषयभासकत्वरूपस्य स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वरूपस्य वा कस्यचिदनुभूतिलक्षणस्य स्वानुभवसिद्धस्यानपगमात् । तदवस्थाने चानुभूतित्वस्यानपायादिति । तदिदमुच्यते – “नचान्यविषयत्वेऽननुभूतित्वमि”त्यादिना ।

किं च योऽयमनुभाव्यत्वेऽनिष्टप्रसङ्गस्सोऽननुभाव्यत्वेऽपि समान इति प्रतितर्कप्रतिघातः । अनुभूतेरननुभाव्यत्वे गगनकुसुमादिवदननुभूतित्वप्रसङ्ग इति । तुच्छत्वात्तत्राननुभूतित्वम्, नत्वननुभाव्यत्वादिति चेन्न; साध्यसमव्याप्त्यभावेनोपाधित्वायोगात् । न ह्यनुभूतिव्यतिरिक्तेषु तुच्छत्वं त्वयाऽभ्युपगम्यते तत्रत्यमननुभूतित्वं तत्प्रयुक्तमित्येतावन्मात्रं विवक्षितमिति चेत्, तर्हि घटादिगतमप्यननुभूतित्वं तत्तद्वस्तुप्रतिनियतघटत्वादिप्रयुक्तं न त्वनुभाव्यत्वनिबन्धनमिति स्यात् । आश्रयाभावो धर्माभावे प्रयोजको भवितुमर्हति, निराश्रयधर्मसिद्ध्ययोगात्; न पुनराश्रयगतधर्ममात्रसद्भाव इति चेत् तर्ह्यनुभाव्यत्वमपि घटत्वादिवन्नाननुभूतित्वप्रयोजकमिति स्यात्, धर्ममात्रत्वाविशेषात् । व्याप्त्या विशेष इति चेन्न; सहचारमात्रस्य व्याप्तित्वाभावात् । नह्यननुभाव्यत्वानुभूतित्वयोः कश्चिद्विरोधो दृष्टः, येन नियमस्सिध्येत्, साहित्यमेव परगतानुभवादिषु दृष्टम् ।

किंच अनुभूतेरेवानुभाव्यत्वेऽवश्यम्भाविन्यननुभूतित्वं प्रति कथमनुभाव्यत्वस्योपाधित्वम्? अनुभाव्यत्वस्याभावेऽपि स्वप्रकाशत्वादेवानुभूतेरसत्त्वं न प्रसज्यत इति युष्माभिरभ्युपेतव्यमिति चेन्न; तथाऽपि स्वप्रकाशसिद्धेयमनुभूतिरित्येवंरूपानुभूतिविषयतामन्तरेण तत्सत्त्वस्य व्यवस्थापयितुम शक्यत्वात् । इदमखिलमभिसन्धायोक्तम् –

“घटादेरप्यज्ञानाविरोधित्वमेवाननुभूतित्वनिबन्धनम्; नानुभाव्यत्व मित्यास्थीयताम्” -इति । नचास्य साधनव्यापकत्वम्, अनुभाव्यतयाऽभ्युपगन्तव्ये परानुभवस्वरूपे तदभावदर्शनात् । नच साध्यसमव्याप्तिहानि;, अनुभूतिव्यतिरिक्तेषु सर्वेष्वपि साक्षादज्ञानविरोधित्वाभावात् । अनुभाव्यत्वेऽनुभूतेरज्ञानाविरोधित्वमपि प्रसज्यत इति चेत्, अननुभाव्यत्वेऽपि गगनकुसुमादिवत्तत्प्रसङ्गस्तदवस्थः । असत्त्वप्रयुक्तं तत्राज्ञानाविरोधित्वमिति तु दत्तोत्तरप्रायमेव । एवं “अनुभूतिरनन्याधीनस्वधर्मव्यवहारा, स्वसम्बन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वात्” -इत्याद्यनुमानेष्व प्यवेद्यत्वविवक्षायां पूर्ववद्दोषो भाव्यः, आगमबाधश्च ।

यदि ह्यनुभूतिरूपं ब्रह्म न वेद्यम्, कस्तर्हि तत्त्वावेदकशास्त्रस्य विषयः? प्रपञ्चमिथ्यात्वमात्रमिति चेन्न; “अथातो ब्रह्मजिज्ञासा” (ब्र.सू.1 -1 -1), “आत्मत्वाद्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” (बृ -उ -4 -4 -5) “ब्रह्मविदाप्नोति परम्” (तै.आ.6 -1) “अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुः” (तै.आ.6 -3) इत्यादीनां समुद्रघोषत्वप्रसङ्गात् । ब्रह्माध्यस्तोपरागतमात्रनिवर्तनार्थं ब्रह्मानुवादोऽयमिति चेत्, तथाऽपि तैस्तैश्शब्दैरनुवादरूपैरप्यनुभाव्यत्वमवर्जनीयमेव । मिथ्याभूतमिदमनुभाव्यत्वमिति चेत्, घटादेरपि समानमित्युक्तमेव । उपहितं ब्रह्म शास्त्रवेद्यमिति चेन्न; अतत्त्वावेदकत्वप्रसङ्गात् । तस्याप्युपाधेर्विलयान्न दोष इति चेन्न; तत्प्रतिक्षेपकेणापि केनचिदुपहितरूपेणानुपहिताकारेण वा ब्रह्मस्वरूपस्पर्शनस्यावर्जनीयत्वात् । अत उपहितरूपं वेद्यमनुपहितरूपं तु व्यवहर्तुं शक्यमिति तस्य वेद्यत्वप्रतिक्षेपोऽपि दुश्शकः ।

ननु अवेद्यत्वेऽपि स्वप्रकाशत्वेनैवावस्थाय तत्त्वमस्यादिवाक्यजन्यस्य स्वेतरनिषेधवाक्यजन्यस्य “द्रष्टव्य” इत्यादिविहितज्ञानस्य चावच्छेदकं ब्रह्म भवेदिति चेन्न; अवच्छेदकमिति बुद्ध्यैवात्रापि विषयीकारात् । अन्यथा (स्वयंप्रकाशानुवादादि) स्वप्रकाशानुमानादिनैरर्थक्यप्रसङ्गाच्च । तस्मादवच्छेदकत्वावेद्यत्वप्रतिपादकमपि वाक्यमन्ततो वेद्यत्वमेवोपस्थापयति ।

ननु – “यस्यामतं तस्य मतं मतं यस्य न वेद सः” । “अविज्ञातं विजानतां विज्ञातमविजानताम्”, (केन -2.3) “विज्ञातारमरे केन विजानीयात्,” (बृह -4 -14) ” येनेदं सर्वं विजानाति तं केन विजानीयात्”, (बृह.4 -4 -14) यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह,(तै -भृगु) “न शब्दगोचरो यस्य योगिध्येयं परं पदम्” (स्मृतिः) इत्यादिकं कथं निर्वहणीयमिति चेत्, भवतो वा कथम्? स्वरसप्रतीतमवेद्यत्वमङ्गीकुर्वता मया किं नाम दुर्निर्वहमिति चेन्न; मतत्वविज्ञातत्वादेरपि तत्रैव स्वरसप्रतीतत्वात्, अमतविज्ञातादिशब्दैरपि तत्रैव तत्स्वरूपप्रतिपादनात् । अन्यथा प्रागुक्तनयेन परस्परविरोधेन चानन्वयादिप्रसङ्गात् । अमतत्वोपहितरूपेण मतत्वमङ्गीकुर्म इति चेत्, किमतः? तावताऽपि ज्ञानविषयत्वस्य दुस्त्यजत्वात् । अमतत्वं सामान्यतस्स्वानुविद्धं मतत्वमपि प्रतिक्षिपतीति चेत्; तथा सत्यमतत्वमप्रतिपन्नमेव भवेत् । तथाऽप्यमतत्वे वाक्यतात्पर्यम्, मतत्वव्यपदेशस्तु गलोपरिगर्जितमिति चेन्न; विपरिवर्तस्य दुर्वारत्वात् । कस्यामतत्वे वाक्यतात्पर्यं वर्ण्यते? ब्रह्मण इति चेत्, हन्त ब्रह्मणो वेद्यत्वभयंपरित्यज्य किमेवमुच्चारयसि? यदि चाकारभेदेन मतत्वामतत्वयोर्व्यवस्था, तदाऽस्मत्पक्षेऽपि न काचित्क्षतिः । तत्तद्वाक्यप्रतिपन्नगुणविभूत्याकारितवेषेण मतत्वम्, वस्त्वन्तरस्वभावविरहेण तत्तत्प्रमाणगोचर तयाऽनवच्छिन्नविषयत्वादिना चामतत्वमिति । एतेन “अविज्ञातं विजानता” (केन -2.3) मित्यादिकमपि निर्व्यूढम् । विज्ञातारमेर केन विजानीयात् (बृह.4 -4 -14) इत्यत्र कृच्छ्रेण ज्ञातव्यत्वे तात्पर्यम्, बाह्यार्थप्रकाशनक्षमचक्षुराद्यगोचरत्वे वा । एवम्, येनेदं सर्वं विजानाति तं केन विजानीयात् (बृह -4 -4 -14) इत्यादिकमपि भाव्यम् ।

यद्वा, मत्तस्स्मृतिर्ज्ञानमपोहनं च (श्री.भ.गी.15 -15) इत्याद्युक्तप्रकारेण यत्प्रसादेनेदं सर्वं विजानाति, तं परमात्मानं तत्प्रसादमन्तरेण केन विजानीयादिति । यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह (तै.भृगु) इत्यत्रापि ब्रह्मानन्दस्य वाङ्मनसापरिच्छेद्यत्वे तात्पर्यं प्रकरणादौ व्यक्तम् । अन्यथा यच्छब्दादिभिस्तत्प्रतिपादनासम्भवात्; “आनन्दं ब्रह्मणो विद्वान्” इति तद्विषयविहितवेदनासंभवाच्च । एतेन, न शब्दगोचरो यस्येत्यादिकमपि निर्व्यूढम्; निष्कृष्टस्वरूपस्य देवादिशब्दागोचरत्वे वा तात्पर्यम् ।

एवमन्यान्यपि वेद्यत्वादिप्रतिक्षेपकाणि वाक्यानि प्रमाणान्तरश्रुत्यन्तरवाक्यशेषवाक्यस्थपदान्तराविरोधेन नेतव्यानि । “अनुभाव्यत्वेऽननुभूतित्व मित्युपहास्यम्” इति तर्कदूषणमुपसंहृत्योपहास्यतां प्रतिपादयता आगमबाधादिकं सुस्पष्टमिति सूचितं मन्तव्यमिति ।।

।। इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्याम् अवेद्यत्वभङ्गवादः विंशोवादस्समाप्तः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.