शतदूषणी जीवाज्ञानभङ्गवादः(40)

शतदूषणी

।। अथ जीवाज्ञानभङ्गवादः चत्वारिंशः ।।40।।

अखिलचिदचिदन्तर्यामितां प्राप्य तिष्ठन् स्वयमखिलगुणाढ्यस्सूरिभिर्नित्यसेव्यः ।

निजचरणनिषेवावैभवेनापराधान् व्यपनयति नराणां व्यक्तमेनं भजामः ।।

ये पुनः प्रसक्तं ब्रह्मणोऽविद्यादिरूपमसाध्यदोषं भिषज्यन्त इवाहुः – न ब्रह्मणि साक्षादज्ञान संसारादिगन्धः, अविद्यान्तः करणप्रतिबिम्बितस्य तस्य जीवत्वात्; जीवाश्रयत्वाच्चाज्ञानसंसारादेः । यद्यपि मूलबिम्बस्वरूपेण प्रतिबिम्बेनापि भवितव्यम्, तथापि यथा मणिकृपाणदर्पणादि प्रयुक्ताल्पत्वमलिनत्वतरलत्वादयो धर्माः प्रतिबिम्बैकवर्तिनो वस्तुतस्तदभिन्नेऽपि मुखे न सम्बध्यन्ते, नापि परस्परं संकीर्यन्ते, तथाऽत्रापि ब्रह्मप्रतिबिम्बभूतजीवगता दोषा ब्रह्मणि न सम्बध्यन्ते, प्रतिजीवं नियताश्च भवन्ति । वस्तुतो ब्रह्माव्यतिरिक्तानां जीवानां कथमशुद्धिरिति चेन्न; मुखाव्यतिरिक्तानां प्रतिबिम्बानां कृपाणाद्युपाधिकश्यामत्वादिवदौपाधिकाशुद्धिसंभवात् । अत एव जीवेश्वरबद्धमुक्तशिष्याचार्यादिव्यवस्थाश्च सिध्यन्ति । नन्वविद्यास्वरूपलाभे तत्र जीवाख्यप्रतिबिम्बप्रकाशः, तत्प्रकाशे तदाश्रयाविद्याक्लृप्तिरित्यन्योन्याश्रयणं प्रकटमिति चेन्न; उभयोर्बीजाङ्कुरन्यायेनानादितया परिहारात् । नच प्रासादनिगरणादिवदवस्तुरूपत्वेनानुपपन्नतैकवेषाया मविद्यायामितरेतराश्रयत्वादयो वस्तुदोषाः क्षतिमावहन्ति । यद्वा स्वरूपत एवाविद्यानां तत्कल्पितानां च जीवानामनादित्वमस्तु, एकजीववाद इवानेकजीववादेऽपि तदविरोधात्। मुखप्रतिबिम्बश्यामत्वादेरिव जीवाशुद्धेरपि मिथ्यात्वात् ज्ञाननिवर्त्यत्वमप्युपपद्यते । प्रतिबिम्बस्थानीयानामपि जीवानां परमार्थब्रह्माव्यतिरेकात् । * अनेन जीवेनात्मनाऽनुप्रविश्येत्यपि परब्रह्मणो जीवतादात्म्यानुसन्धानमप्युप पद्यते । अत एव * क्षेत्रज्ञं चापि मां विद्धीत्यादिकमपि निर्व्यूढम् । एवं परमार्थतो ब्रह्माव्यतिरेकेऽपि काल्पनिकभेदाश्रयणेन व्यवस्थेत्युक्तमिति ।।

अत्र ब्रूमः – तत्र तावदन्तः करणप्रतिबिम्बाद्यसंभवस्यान्यत्र प्रतिपादनात्तन्निबन्धनजीव भेदादिक्लृप्तिरपि निर्मूलैव, अथाऽपि वदामः । किं जीवानामकल्पितेन स्वाभाविकेन रूपेणाविद्याश्रयत्वम्? उत तदतिरिक्तेन तस्मिन् कल्पितेन? अथ कल्पिताकारविशिष्टस्वरूपेण? जडस्य स्वाज्ञाननिवृत्तिवाञ्छानुपपत्तेः, जडस्याज्ञानप्रसङ्गाभावाच्च, अज्ञाननिवृत्तेः पुरुषार्थत्वमपि न स्यात् । नच तृतीयः, तत्र किं स्वकल्पिताकारविशिष्टे वा स्वयमविद्या तिष्ठेत्, अविद्यान्तरकल्पिताकारविशिष्टेवा? पूर्वत्र आत्माश्रयत्वमन्योन्याश्रयणं वा, स्वकल्पिताकारविशिष्टस्वरूपलाभे सति स्वात्मलाभवर्णनात् । उत्तरात्राप्युक्तचोद्यावतारे अविद्यान्तरापेक्षायामन्योन्याश्रयचक्रकानवस्थान्यतमापत्तेः ।

किंच सर्वजीवभेदकल्पिकाविद्या किमेका, उत प्रतिजीवं भिन्ना? पूर्वत्र एकमुक्तावविद्याविनाशात् सर्वमुक्तिप्रसङ्गे कथं बद्धमुक्त व्यवस्था? अन्यस्यामुक्तत्वे त्वविद्यास्थित्यवश्यंभावात् कथमेकस्यापि मोक्षः? उत्तरत्रापि जीवभेदे स्थिते तन्मूलाविद्याभेदक्लृप्तिः, तन्निश्चयाच्च जीवभेदक्लृप्तिरिति परस्पराश्रयणम् । नच सत्यो जीवभेदस्त्वयेष्यते । नच तदा तत्सिद्ध्यर्थमविद्याकल्पनमपेक्षयते । प्रत्यक्षादिसिद्धजीवभेदानुसारेण तत्कल्पकाविद्याभेदक्लृप्तौ को विरोध इति चेन्न; प्रत्यक्षादिसिद्धस्य जीवभेदस्य अस्मन्मतेन सत्यतायां तन्मूलभूताविद्याकल्पनवैयर्थ्यात् ब्रह्मज्ञानवादेन तु जीवभेदस्य अस्मन्मतेन सत्यतायां तन्मूलभूताविद्याकल्पनवैयर्थ्यात् । ब्रह्माज्ञानवादेन तु जीवभेदस्य मिथ्यात्वेनैव जीवैक्यात् तद्भेदक्लृप्त्यर्थाविद्याभेदक्लृप्त्यनुपपत्तेः । उभयपक्षोल्लङ्घिनः परमार्थस्य वाऽपरमार्थस्य वा भवदभिमतस्य जीवभेदस्याप्यसिद्धेः ।

किंच याभिरविद्याभिर्जीवाः कल्प्यन्ते किं तासां ब्रह्मैवाश्रयः? उत जीवा एव? आद्ये ब्रह्माज्ञानमपरिहार्यम् । द्वितीये भिन्नजीवाश्रयाविद्याभेदसिद्धौ जीवभेदः, तत्सिद्धौ च तदाश्रयाविद्याभेदसिद्धिरिति मिथस्संश्रयः । अत जीवभेदकल्पनार्थं नाविद्यान्तरापेक्षा, बद्धमुक्तव्यवस्थासिद्ध्यर्थं कल्पिताभिरेवाविद्याभिर्जीवभेदस्यापि सिद्धेरिति चेन्न; प्रागुक्तपरस्पराश्रयानतिलङ्घनात् । बीजाङ्कुरन्यायेन तदुल्लङ्घनमिति चेत्? किं याभिरविद्याभिर्ये जीवाः कल्प्यन्ते तासां तज्जीवाश्रयाणामेव बीजाङ्कुरन्यायमिच्छसि? उत पूर्वपूर्वजीवाश्रयाभिरविद्याभिरुत्तरोत्तरजीवक्लृप्तिः? न प्रथमः, तत्र बीजाङ्कुरन्यायस्यासंभवात्; न हि यदङ्कुरोत्पादकं यद्बीजं तदेव तस्यारंभकम् । नापि द्वितीयः, जीवानां भङ्गुरत्वादिप्रसङ्गेन जीवनित्यत्वाजडत्वादिश्रुतिविरोधात्; अताभ्यागमकृतवि प्रणाशादिप्रसङ्गाच्च । सन्तानैक्यादविरोध इति चेन्न; क्षमभङ्गवादस्य दुर्निरसनत्वप्रसङ्गात् । जीवब्रह्मणोरत्यन्तवैदेशिकत्वप्रसङ्गाच्च । अथ ब्रह्मण एव पूर्वपूर्वजीवभावाश्रयाभिरविद्याभिरुत्तरोत्तर जीवभावप्रकल्पनमिति मन्यसे, तदपि दत्तोत्तरम्, अविद्याप्रवाहकल्पितजीवभावस्यापि तद्वत्प्रवाहानादित्वे ध्रवरूपताभङ्गप्रसङ्गात् । नच तदिष्टम्, आमोक्षाज्जीवभावस्य ध्रुवत्वाभ्युपगमात् ।

यत्त्ववस्तुरूपायाम विद्यायां नेतरेतराश्रयत्वादयः वस्तुदोषाः क्षतिमावहन्तीति, तद्ब्रह्माज्ञानवादे दुर्घटत्वपक्षदूषणेनैव निरस्तम् । एवं च सति ब्रह्माज्ञानवादे मुक्तानामज्ञानसद्भावे को विरोधः? शुद्धविद्यास्वरूपे तत्र तेजसीव तमसः कथमशुद्धेस्संभव इति चेन्न; अवस्तुभूतायामसंभवस्यैव त्वया गुणत्वस्वीकारात् । अन्यथा कथं प्रागुक्तेषु बाधकेषु जीवत्सु जीवाश्रयाविद्याक्लृप्तिः? तेन जीवाश्रयाविद्यामपि दुर्घटय, सुघटय वा ब्रह्माश्रयाविद्यामेव । यत्तु मिथस्संश्रयादिपरिहारस्य स्वरूपत एव जीवकल्पिकाविद्यानां तत्कल्पितजीवानां चानादित्वमस्त्वित्यन्वारूढम्, तत्र किमेकैकजीवकल्पिकाविद्या जीवानां जीवान्तरदर्शने कारणम्, नवा? पूर्वत्र जीवान्तरदर्शनस्यापि भ्रमरूपत्वात् तयैवानन्तजीवक्लृप्तिरनिवार्या । तथाच जितमेकजीववादेन, लाघवात्; दोषाणांचाविशिष्टत्वात् । उत्तरत्र जीवानां परस्परवार्तानभिज्ञत्वप्रसङ्गेन वादिप्रतिवादिशिष्याचार्यादिव्यवस्थाभङ्गः ।।

यत्पुनरुक्तं प्रतिबिम्बश्यामतादेरिव जीवाशुद्धेरपि मिथ्यात्वज्ज्ञाननिवर्त्यत्वमुपपद्यत इति; तदप्यसत्, अशुद्धिनाशे तत्तदशुद्धिहेतुभूताविद्याख्योपाधिविगमे च प्रतिबिम्बस्थानीयो जीवस्तिष्ठति वा, न वा?तिष्ठति चेदाविद्यकभेदस्थितेरनिर्मोक्षः । न चेज्जीवस्य स्वरूपोच्छित्तिरेव मोक्षः स्यादित्यवैदिकमतावतारः । मुखात्मना प्रतिबिम्बमिव ब्रह्मात्मना जीवस्तिष्ठतीति चेत्; किं प्रतिबिम्बस्यात्मा मुखम्? तथा सति सत्यमिथ्यैक्यादिप्रसङ्गात् । अत एव दार्ष्टान्तिकमपि निरस्तम् ।

किंच यस्य ह्यपुरुषार्थरूपो दोषः स्वनिष्ठतया प्रतिभासते तस्य तदुच्छेदापेक्षा स्यात्, तत्र किं बिम्बस्थानीयेन स्वात्मनैव स्वगताशुद्धिं पश्यति ब्रह्म? उत प्रतिबिम्बस्थानीयेन जीवात्मना? उतान्येन केनचिदात्मना? अथान्य एव कश्चित्पुरुषस्थानीयः पश्यतीति? न प्रथमः, ब्रह्माज्ञानवादप्रसङ्गात् । न द्वितीयः, स्वाशुद्धिनिवृत्तेः प्रतिबिम्बवत्स्वनाशाविनाभावेन तदुच्छेदापेक्षाविरहप्रसङ्गात् । मुख्यबिम्बप्रतिबिम्बभावविवक्षायां च द्वयोरपि कल्पयोर्मुखादि वद्दोषप्रतिभासाधारत्वायोगाच्च, तद्वदेवाचेतनत्वात् । न तृतीयचतुर्थौ, असंभवादनभ्युपगमाच्च ।

किंच जीवकल्पनारूपो भ्रमः किमविद्यायाः? उत जीवस्यैव? अथ ब्रह्मणः? नाद्यः, अचेतनत्वात्तस्याः । न द्वितीयः, भ्रमविषयतयैव स्वसिद्धौ भ्रमोदयात्प्राक्स्वरूपासंभवेन निराश्रयभ्रमोदयासंभवात् । स्वभ्रमाश्रयतया पूर्वमेवात्मसद्भावे त्वात्माश्रयः । कल्प्यकल्पनायाः स्वकल्पकत्वं च शुक्तिरजतादिषु न क्वचिद्दृष्टमितितत विरुद्धोपलम्भबाधः। न तृतीयः, ब्रह्माज्ञानवादप्रसङ्गादेव ।

यत्पुनरुक्तम् – जीवात्मनामपि वस्तुतो ब्रह्माव्यतिरेकात् *जीवेनात्मनेति ब्रह्मणो जीवतादात्म्यानुसन्धानं युक्तमिति; तदप्यसारम्, जीवानुसन्धानस्य कल्पितत्वे ब्रह्माज्ञानवादावतारात् । अकल्पितत्वे सयूथ्यदूरापक्रमणप्रसङ्गात् । अनुभयात्मत्वे त्वनुसन्धानासिद्धेरेव ब्रह्मणो बहुभवनसङ्कल्परूपेक्षणतत्पूर्वकविचित्र सृष्टिजीवात्मत्वानु सन्धानतत्पूर्वनामरूपव्याकरणादिवदनादिसमस्तव्यापारनिरोधेन समन्वयाविरोधलक्षणोक्त समस्तार्थविलयप्रसङ्गात् ।

अत एव भास्करोऽस्तमितः, ब्रह्मणो जीवतादात्म्यानुसन्धाने स्वात्मनो दुःखाद्यनुसन्धानस्य दुर्वारत्वात्; तदभावे बहुभवनसङ्कल्पानुपपत्तेरिति । यादवप्रकाशमते तु प्रतिसर्गदशायां सन्मात्रपरिशेषस्य ब्रह्मणश्चिदचिदीश्वरसृष्ट्यनुरूपसङ्कल्पप्रसङ्गो न संभवतीति विशेषः । प्राचीनकल्पान्ते भविष्यत्सृष्टिसङ्कल्प इति चेन्न; तथात्वे प्रमाणाभावात्, प्रतिसर्गमनन्तरसङ्कल्पश्रुतेर्बाधकाभावाच्च ।

अतो यावद्ब्रह्मणाः परस्परं च जीवानामत्यन्तभेदः पारमार्थिको नाङ्कीक्रियते न तावज्जीवेश्वरबद्धमुक्तादि व्यवस्थासिद्धिरिति । जीवाज्ञानविभागादीश्वरचिदचिद्विभागक्लृप्तिरभूत् । इति कल्पयतां जीवः कारणमीशस्तु तत्कार्यम् ।। तेनाद्वैतवादिनां पारम्पर्यवैपरीत्यक्लृप्तिः पाषण्डपदपर्यवसानभूमिरिति परित्यजन्ति सन्तः ।।

।।इति शतदूषण्यां जीवाज्ञानभङ्गवादः चत्वारिंशः ।।40।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.