शतदूषणी जिज्ञासानुपपत्तिवादः(2)

शतदूषणी

।। अथ जिज्ञासानुपपत्तिवादो द्वितीयः ।।2।।

अथ स्वात्मैकभासस्य निर्विशेषस्य दुष्यतः ।

विशुद्धस्यापि जिज्ञासा परेष्टा प्रतिषिध्यते ।।

यदाहुः -ब्रह्मशब्दनिर्दिष्टं विचार्यम्, अनुदितानस्तमितस्वरूपैकप्रकाशमशेषविशेषशून्यमनाद्य विद्यान्धकारितं नित्युशुद्धं चेति ।
तत्र विचित्रो व्याघातः ।

यद्धि न वित्तिकर्म, कथं तत्र जिज्ञासा सामान्यतो विदिते विशेषतश्च वेदितव्ये तत्प्रवृत्तेः । अन्यथा हेतुप्रयोजनविरहे तदयोगात् ।
नच ब्रह्मणि तथाविधवेदनद्वयविषयत्वं परैरिष्यते । जिज्ञासापूर्वकं परीक्षणमत्र प्रक्रम्यते । तच्च तत्र प्रमाणोपक्षेपेण । प्रमाणं च निर्विषयं न निरूप्यम् । सविषयत्वे तु तद्विषयत्वाद्दृश्यत्वमिथ्यात्वजडत्वादिस्वोक्तानिष्टापत्तिः । स्वरूपप्रकाश एव हेतुः फलं च जिज्ञासाया इति चेन्न, तस्यास्तदुभयसामानाधिकरण्यनियमदृष्टेः । स्वरूपप्रकाशस्य च तदेकाधारताभावात् । अनादेः प्रकाशस्य च निरपेक्षहेतुत्वे जिज्ञासानादित्वप्रसक्तेः । सापेक्षत्वे यथादर्शनंस्वविषयवेदनापेक्षणात् । प्रागसिद्धस्य तुच्छत्वकार्यत्वयोरन्यतरप्रसङ्गात् प्राक्सिद्धस्य फलत्वायोगात् । फलत्वे चानादित्वभङ्गात् । उपहितरूपेण वेदनद्वयविषयत्वाज्जिज्ञासा स्यादिति चेन्न; हेतोरुपहितविषयत्वाभ्युपगमेऽपि फलस्य तथात्वे भ्रान्तित्वापातात् । भ्रान्तेश्चासंपाद्यत्वान्न तदर्थं प्रेक्षावतां प्रारम्भः । भ्रान्तिमेव प्रमितिं मन्यमानैस्सा संपाद्येति चेन्न; परीक्षकेभ्योऽपि प्राथमिकभ्रान्तिप्रमात्वव्यवसायिनामेव प्रागल्भ्यप्रसङ्गात् । स्वरूपव्यतिक्तिं कृत्स्नं मिथ्येति प्रयोजकशिक्षणविरोधाच्च । नित्यभूतेऽपि समाधिवत् स्वमात्रसाक्षित्वं वैशद्यमात्रं वा साध्यमिति चेन्न, तयोरपि तत्स्वरूपत्वे सिद्धत्वात् । धर्मत्वे सत्यत्वमिथ्यात्वविकल्पक्षोभात् । अतिरिक्ताकारप्रकाश एव चेद्वैशद्यम्, तस्मिन्नप्याकारे स एव विकल्पः । नित्यस्वसाक्षिणि निरंशे निर्विशेषे च क इदानीं प्रकाश्य आकारः ?

कथं च जिज्ञासा इदं किमिति वा कथमिति वा सा स्यात्, सर्वत्र यथायथं विदिताविदिताकारभेदो दुस्त्यजः, कृत्स्नावगत्यनवगत्योर्नैष्फल्यनिर्हेतुकत्वाभ्यां तदयोगात्, किं कथमित्यत्र का गतिरितिचेत्, न, तत्रापि सामान्यतः प्रतीतसमुदायान्तर्गतविशेषनिर्धारणार्थत्वात्किमादेः । एतेषु किं कथमित्येव हि तत्राकाङ्क्षा । यः पुनर्ज्ञाताज्ञातांशविकल्पेन जिज्ञासास्वरूपमेव खण्डयेत् स ब्रह्मजिज्ञासामपि जिघांसतीति कःप्रकृतोपयोगः । इष्टा च सा यथालोकमिहापि, अन्यथाऽनारम्भेण शास्त्रोच्छितेः । अस्त्विहापि सामान्यतः स्वरूपज्ञप्तिः; अध्यासविरोधिरूपेण विशेषतश्च जिज्ञासा । मैवम्, निर्विशेषे सामान्यासिद्धेः निस्सामान्ये च विशेषायोगात् । कल्पनया तदुपपत्तिरिति चेन्न, सामान्यरूपस्य कल्पितत्वे स्वरूपोच्छित्तेः विशेषासम्भवाच्च । न ह्यकिंचिद्भूतो विशेषतः कश्चित् स्यात्; न खलु खरश्रृङ्गे कुण्ठत्वादिः । नच “अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरिति” (तै.आ.6-3) श्रावयन्ती श्रुतिः ब्रह्मणस्सामान्यधीबाधं सहेत । अत एव कल्पितास्तित्वरूपसामान्याकारभ्रमाद्विशेषबुभुत्सेति प्रत्युक्तम्, अपसिद्धान्ताच्च । विशेषस्य तु कल्पितत्वे तज्जिज्ञासावैफल्यम् । न हिब्रह्मण्यसदपूर्वाकारकल्पनार्थं पूर्वकल्पितमिथ्याकारप्रतीत्यर्थं वा शारीरकमित्यवेदबाह्यः कश्चिदपि क्षमते । कल्पिताकारमिथ्यात्वबोधनार्थमिति तु स्यात्, न तर्हि ब्रह्म जिज्ञास्यम्,अपि त्वयमाकारस्सत्यो मिथ्यावेति । ततः किमिति चेत्, श्रुतिसूत्रस्वरसार्थभङ्गस्तावत् । “ब्रह्मात्मैक्यं शास्त्रवेद्य”मिति स्वमतव्याहतिश्च । कल्पितभेदमिथ्यात्वधीरेव तद्धीरिति चेत्, न; माध्यमिकमतेऽपि तद्भावेनत्वदिष्टैक्यलाभे तद्विवादविलयापातात् । यच्च मन्यसे कल्पिताकारमिथ्यात्वबुद्ध्याऽपि ब्रह्मणस्तच्छून्यत्वमवसेयमिति तज्जिज्ञासाद्युपपत्तिरिति, तदपि यदि सामान्यबुद्धिक्रोडीकृतं तदा न जिज्ञास्यम्; बहिष्ठस्य तु सत्यत्वे सद्वितीयता । मिथ्यात्वे प्रतियोगिसाहित्यसत्यता । साहित्यराहित्ययोस्सहजसङ्घर्षात् । परस्परविरोधे च प्रकारान्तरस्थित्ययोगात् । यदि राहित्यमपि कल्पितं कथं तदा कल्पिताकारराहित्यनिवृत्तिः? यत्किञ्चिन्निवृत्तिमात्रं तु प्रागपि सुलभमिति कृतं तदर्थविचारव्यसनेन । अतस्स्वीकुरु वा सतस्सत्याकारद्वयवैशिष्ट्यम्, परिहर वा तज्जिज्ञासामिति ।

किंच यद्यशुद्धं ब्रह्म जिज्ञासोर्वेदितव्यं तर्हि दुस्त्यजं नैष्फल्यम्, तथा प्रकाशस्य संसारभेषजत्वानभ्युपगमात् । अन्यथा प्रागेव मुक्तिसिद्धौ किमर्था जिज्ञासा? कथंच अशुद्धतत्त्वोपदेशिनश्शास्त्रस्य तत्त्वावेदकत्वम्? कथंतरामतत्त्वज्ञानेन भ्रान्तिविलयः? ननुभूरन्ध्रभ्रमेणदामदर्वीकरभ्रमनिवृत्तिवत्स्यात्, न स्यात् तद्वदेव भ्रान्त्यन्तरस्थितावात्यन्तिकत्वासिद्धेः । तद्विलापकतत्त्वज्ञानदेरुक्तक्रमेणात्रासंभवात् । अहेतुकविनाशादेश्च निरसिप्यमाणत्वात् ।

शुद्धं तर्हि जिज्ञास्यमपि न ते स्यात् ज्ञप्त्या तत्स्वरूपस्पर्शानभ्युपगमात् । शाखाचन्द्रन्यायेन स्वरूपस्पर्श इवेति मतमिति चेत्, कथं तदधीनबोधविषयतामन्तरेण दृष्टान्तदार्ष्टान्तिकयोयस्तदुपलक्ष्यत्वम् तद्विषयत्वे च कथं तत्प्रयुक्तदोषातिक्रमः सोऽपि बोधः स्ववेद्यतायाभ्रान्तिर सत्यश्चेत्यदोष इति चेत्, विलीनं तत्त्वावेदकवाक्यैः ।
वेद्यमिथ्यात्वमन्तरेण भ्रान्तित्वायोगात् । उपलक्षणपर्वावलम्बननैष्फल्याच्च ।

शुद्धिश्चास्य नित्याऽनित्या वा आद्ये किमर्था जिज्ञासा, अन्ततस्तस्यास्तादर्थ्यात् । शुद्धताध्यवसायार्थं सा स्यात्, न तु शुद्ध्यर्थमिति चेन्न, तदध्यवसायेनापि तत्सिद्ध्यर्थेन भवितव्यम्, अन्यथा नैष्फल्यात् । आरोपितशुद्धिनिरसनात्साफल्यमिति चेन्न, आरोपसंभवे नित्यशुद्ध्ययोगात् । उपरक्तेऽपि स्फटिके शुभ्रत्ववत्तत्सम्भव इति चेन्न, भावानभिज्ञानात् । नहि वयमारोप्यदोषत्वेनाशुद्धिं प्रसञ्जयामः, ब्रह्मण्येव कुदृष्टिकल्पितविविधदोषदृष्टेरभ्युपगमात्, किंतु भ्रमाद्याधारतया । न तथा स्फटिकस्स्वयं स्वात्मनि रागमध्यस्यति । नच तत्कर्तृकोऽन्यकर्तृको वा रक्तताध्यासस्तच्छ्वेतिमाख्यशुद्धिविरोधी । इह तु स्वदोषेण ब्रह्मणि स्वयमेव बंभ्रम्यमाणे कथं भ्रान्त्यादिप्रत्यनीकतामयी शुद्धिः । नित्या भ्रान्तिरपि स्फटिकरागादिवत्तत्त्वतो नास्तीति निस्तार इति चेत्, स्थितं तर्हि विचारनैष्फल्यम् । असत्येव भ्रान्तिस्सतीव भातीति तन्निवर्तनं फलमिति चेत् न, तत्सत्त्वभ्रमसत्यत्वमिथ्यात्वविकल्पे सद्वितीयत्वानवस्थयोरन्यतरापातात् । स्वरूपेण ब्रह्म न भ्राम्यति, किन्तु जीवेश्वररूपाभ्यामिति चेत्, हन्त एकां व्याहतिं परिहर्तुमनेकामुपादत्से, कथमभ्रान्तस्य तस्य तद्भावः कथं सर्वज्ञोऽपि भ्राम्यतीति विवक्षाऽप्युत्तिष्ठेत? कथं चैक आत्मा युगपत्सर्वज्ञमज्ञं चात्मानमनुसंदधीत प्रपञ्चयिप्यते (36 वादे) चैतत् ।

उत्तरत्र तु नित्यशुद्धत्वश्रुत्यादिविरोधः । किंचोभयावधिमत्तया तदनित्यत्वम् उत्तरैकावधिमत्तया वा पूर्वैकावधिमत्तया वा नाद्यः, त्रिवर्गापवर्गयोरैकराश्यप्रसङ्गात्, वैराग्योपदेशादिवैयर्थ्यात्, अपुनरावृत्तिश्रुत्यादिविरोधाच्च । अत एव न द्वितीयः -बन्धमोक्षयोर्व्युत्क्रमताप्रसङ्गात्, शुद्धेरसाध्यत्वेन विचारादिनैष्फल्याच्च । तृतीयस्तु न शुद्धेर्नित्यस्वरूपैक्ये स्यात् । निरवधित्वसावधित्वयोर्नित्यवैरात् । अतिरेके च स एव सत्यासत्यविकल्पावतार इति ।

यद्यप्यस्मन्मते नित्यशुद्ध ईश्वरः, साध्यशुद्धिः क्षेत्रज्ञश्च जिज्ञास्येते, तथाऽपि न प्रतिबन्दी, ईश्वरशुद्धेरसाध्यत्वात् । जीवशुद्धेस्साध्याया अपि स्वरूपान्यत्वात्सत्यत्वाच्च । उदारगुणसागरः परमपुरुषः स्वाराधनात्मकशास्त्रार्थसंप्रीतस्त्रिवर्गमपवर्गं च प्रयच्छतीति हि प्राची मर्यादा । स यदि स्वयमेव भ्राम्येत् स्वाश्रितत्राणौपयिकगुणहीनो वा, न तर्हि जिज्ञास्यः, स्वरक्षणेऽप्यशक्तस्येति न्यायात् । कल्पितसार्वज्ञ््यादियोगात् तदभावेऽपि तीर्थादिवद्वा तस्य भजनं स्यादिति चेन्न, कल्पितस्य सार्व ज्ञ््यादेर्जिनादिष्वपि सिद्धेः तदुपसत्तिप्रसङ्गात् । सर्वैस्तेषु न तत्क्लृप्तिरिति चेन्न, अविशेषात् । महाजनपरिग्रहाद्विशेष इति चेन्न, सर्वेषां सर्वतस्सम्मूढत्वमिच्छतां क्वचिदपि प्रामाणिकत्वादिलक्षण महत्त्वस्यासिद्धेः, प्राचुर्यस्य विगानादप्रयोजकत्वाच्च । यत्तु तीर्थादिवदिति तत्तदा सह्येत, यदि तत्सेवयेव तदुपसत्त्या प्रसाद्योऽन्यः । न हि क्रियातच्छक्त्यपूर्वाण्येव फलन्तीति नैगमः पन्थाः । उक्तन्यायेन जैनगन्धिवेदान्तिमतेऽपि जिज्ञासानुपपत्तिर्द्रष्टव्या ।

तदेतदखिलमन्तर्निधाय ब्रह्मशब्दाभिधेयमुभयलिङ्गं सर्वेश्वरं प्रस्तुत्य तस्यैवारम्भसूत्रे विवक्षितत्वमाह -“तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्य” (श्री भाष्य.जि ज्ञा) इति ।।

इति श्री कवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां जिज्ञासानुपपत्तिवादो द्वितीयः ।। 2 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.