शतदूषणी अविद्यास्वरूपानुपपत्तिवादः(41)

शतदूषणी

।।अथ अविद्यास्वरूपानुपपत्तिवाद एकचत्वारिंशः ।।41।।

अविद्याख्यावद्यं फलमपि तदीयं भगवतो विदूरे यस्येति श्रुतिशिरसि जोघुष्यत इदम् ।

यदज्ञानाद्बन्धो भवति न तु यद्वैभवविदां स मे देवः श्रीमांश्छमयतु सदा चेतसि तमः ।।

यः पुनरयं स्वप्रकाशचिन्मात्रैकरसस्य ब्रह्मणो विश्वभ्रमहेतुरविद्याख्यो दोषः, स किं परमार्थः, उतापरमार्थः?

आद्येऽपि ब्रह्मणो भिन्नोऽभिन्नो वा? भिन्नत्वे परमार्थद्वित्वप्रसङ्गः । अभिन्नत्वे च ब्रह्मण एव विश्वभ्रमहेतुदोषत्वमुक्तं स्यात् । तथाच ब्रह्मणो नित्यत्वेन नित्यभ्रमप्रसङ्गः । सहकारिसद्भावात् कदाचिद्भ्रमः, तद्वैकल्यात्तु पश्चान्निवृत्तिरिति चेत्; तह्रि प्राप्तप्राप्तविवेकेन सहकारिदोष इत्युक्तं भवति । तत्रापि हि परमार्थापरमार्थविकल्पानुपपत्तिर्दुर्वारा । कश्चासौ सहकारित्वेन विवक्षितः? तत्त्वमस्यादिवाक्यजन्यतत्त्वज्ञानप्रागभाव इति चेन्न; भावरूपाज्ञानप्रतिपादनप्रयासवैयर्थ्य प्रसङ्गात् । तस्य च प्रागभावस्य न ब्रह्मस्वरूपता युक्ता, तत्त्वज्ञानाद्ब्रह्मनिवृत्तिप्रसङ्गात् । ब्रह्मव्यतिरिक्तस्य तु मिथ्यात्वेन तद्दर्शनहेतुदोषत्वं ब्रह्मण एव स्यात् । ब्रह्मणश्च नित्यत्वेन तस्य नित्यप्रकाशप्रसङ्गेन तत्त्वज्ञानानुत्पादप्रसङ्गः ।

अपरमार्थभावरूपदोषपक्षेऽप्ययेव दोषः । अनादित्वान्न दोषान्तरापेक्षेति चेत्; अनादित्वेऽपि तयोः कारणापेक्षा परिहर्तुं शक्यते, न पुनरपरमार्थस्य प्रतिभासे दोषाख्यनिबन्धननैर पेक्ष्यम् । अन्यथा दोषमन्तरेण प्रकाशमानस्य ब्रह्मवत्सत्यत्वप्रसङ्गात् । दोषस्य दोषान्तरापेक्षायामनवस्था प्रसङ्गात् । स्वपरनिर्वाहकोऽयं दोष इति चेन्न; प्रपञ्चस्यैव दोषमन्तरेणाध्यासप्रसङ्गात् । मिथ्यार्थस्य दोषमन्तरेण प्रतिभासोऽनुपपन्न इति चेन्न; अविद्याया इव स्वस्यैव स्वप्रतिभासहेतुदोषत्वकल्पनामात्रेण तत्प्रतिभासोपपत्तेः । स्वस्यैव स्वहेतुत्वमनुपपन्नम्, अध्यासोत्पत्त्योरविशेषादिति चेन्न; अनाद्यविद्याध्यासे तयोर्विशेषस्य भवतैव स्वीकृतत्वात् । नह्यसावनध्यस्ता, सत्यत्वतुच्छत्वयोरन्यतरप्रसङ्गात् । नचाध्यस्ताऽप्युत्पन्ना, अनादित्वसिद्धान्तभङ्ग प्रसङ्गात् । न च साऽप्यादिमती, प्रपञ्चाविशेषप्रसङ्गात् ।

तथा च किं तया, तद्वदेवानियमतोऽपि प्रपञ्चस्य स्वतोऽध्यासोपपत्तेः? अध्यासोत्पत्त्योरविशेषाभ्युपगमेऽप्य विद्यायां स्वाध्यासमूलदोषतयाऽभ्युपगतायां स्वहेतुत्वव्याघातो दुस्त्यजः ।

किंच यदि निर्दोषस्यापि ब्रह्मणोऽविद्या प्रकाशेत, नित्यं तत्प्रकाशप्रसङ्गः, अविशेषात् । निवृत्तत्वात्पश्चान्न प्रकाशिष्यत इति चेन्न; भवत्पक्षे प्रकाशनिवृत्तेरेव प्रकाशमाननिवृत्तिरूपत्वात् तयोर्हेतुसाध्यभावनिर्देशानुपपत्तेः। तत्त्वज्ञानोदयात्पश्चादप्रकाशः,पूर्वं तु तदभावात् तस्याः प्रकाश इति चेत्; तथा सति तत्त्वज्ञानप्रागभाव एव ब्रह्मणोऽविद्यादर्शननिबन्धनमिति प्रपञ्चदर्शनस्यापि स एव प्रयोजकः किं न स्यात्? तथा च किमन्तर्गडुनाऽविद्यया? अभावस्य विचित्राध्यासहेतुत्वं न दृष्टमिति चेत्; भावस्य वा घटादेः क्व दृष्टम्? तिमिरादिदोषाणां दृश्यत इति चेत्, विशेषाग्रहादेरभावरूपस्यापि तद्दृश्यत इति तुल्यम् । अभ्युपगतं च सर्वैरपि भ्रमेषु भेदाग्रहो निबन्धनमिति । अभावस्य पूर्वापरकालविशिष्टत्वात्तत्तत्कालविशेषप्रतिनियतकार्यविशेषाध्यासाय तादृशमहिमशालिन्यविद्या कल्पनीयेति चेत्; कल्पिताऽपि सा कथमनादिरात्तत्वज्ञानमनुवर्तमानानि तत्तत्कालनियतानि च कार्याण्यध्यसेत्? स्वभावादिति चेत्, स किमभावे नाङ्गीक्रियते? कल्पनालाघवं तु तत्र विशेषः । विवर्तपारम्पर्यादविद्यायास्तदुपपत्तिः, न त्वभावस्य निर्विकारस्येति चेत्; सा किं विवर्तपरंपराऽविद्यायास्स्वरूपम्? उत तत्कार्याण्येव? यद्वा वस्त्वन्तराणि? नाद्यः, उक्तदोषानतिक्रमात्; स्वरूपत्वाविशेषात् सर्वदा सर्वाध्यासप्रसङ्गात् । न द्वितीयः,निर्वाह्यस्यैव निर्वाहकत्वानुपपत्तेः । नच तृतीयः, अनभ्युपगमात् । अभ्युपगमेऽपि तत्सत्यमिथ्यात्वादिविकल्पशतदौस्थयापातात् । सत्यत्वे सद्वितीयत्वादिप्रसङ्गात्, मिथ्यात्वेऽपि तत्परम्परायां प्रतिनियतकालविचित्राध्यासे तथाविधपरम्परान्तरक्लृप्तिप्रसङ्गात् । पूर्वपूर्वविवर्तानामेव उत्तरोत्तरहेतुत्वान्नासौ दोषः, यथा ब्रह्मपरिणामानां प्रकृतिपरिणामानां वा तत्तदुत्तरोत्तरपरिणामहेतुभाव इति चेन्न; तथाऽप्यविद्याकल्पनस्य निर्मूलत्वप्रसङ्गात्, ब्रह्मण्येवान्यनिरपेक्षानाद्यध्यासप्रवाहवैचित्र्येण सर्वाध्याससिद्धेः । तर्हि परिणामपरंपरासामर्थ्यमाश्रित्य परिणामिद्रव्यापह्नवप्रसङ्ग इति चेन्न; प्रत्यक्षादिविरोधप्रसङ्गात् । नचात्रापि तथा, तद्विषयप्रमाणानां प्रत्येकं प्रतिक्षेपात् । न तथा निरधिष्ठानभ्रमापत्तिरिति भेतव्यं भवता, ब्रह्मण एव सर्वविवर्ताध्यासाधिष्ठानत्वाभ्युपगमात् । नह्यपरमार्थभूताया अविद्याया अधिष्ठानतया स्वीकारश्शक्यः, तथा सति ब्रह्मण एवासिद्धिप्रसङ्गे माध्यमिकसमाजमध्यमध्यास्स्व । ब्रह्मसत्यत्वश्रुत्यादिबलात्तदभ्युपगमः नतु विवर्ताधिष्ठानत्वादिति चेन्न; विकारतदुपादानप्रकृत्यादिसत्यत्वश्रुतिबलादेव प्रकृतितत्परिणाम परम्पराभ्युपगमप्रसङ्गेनाविवादप्रसङ्गात् । तत्सत्यत्वप्रतिपादकश्रुतिबाधे ब्रह्मसत्यत्वप्रतिपादिकाया अपि तस्या बाधितुं शक्यत्वात् ।

किंच किमविद्या प्रकाशते? न वा? नचेतुच्छत्वम्, निरुपाख्यस्यैव तुच्छत्वात् । प्रकाशते चेत्, स प्रकाशः किमविद्यास्वरूपम्? उत ब्रह्मस्वरूपम्? अथ तस्यास्तस्य वा धर्मः?उतान्यः कश्चित्? न तत्राद्यः, स्वप्रकाशत्वेन ब्रह्मवत्सत्यत्वप्रसङ्गात् । न द्वितीयः, तन्नित्यत्वेन नित्यमविद्याप्रकाशादनिर्मोक्षप्रसङ्गात् । नापि तृतीयः, तयोर्ज्ञातृत्वानभ्युपगमात् । अध्यस्तज्ञातृत्वाभ्युपगमे कः प्रतीकार इति चेन्न; तस्याप्यध्यासस्याविद्याहेतुकत्वेऽन्योन्याश्रयणात्, प्रकाशाध्यासस्य तदधीनत्वात्, तस्याश्च प्रकाशाधीनसिद्धित्वात् । ब्रह्महेतुकत्वे तस्य नित्याध्यासप्रसङ्गात् । अहेतुकत्वे पूर्ववत्प्रपञ्चाध्यासस्यैवाहेतुकत्वप्रसङ्गादादिमदनादिवैषम्यस्याप्रयोजकत्वोक्तेः । निर्दोषप्रकाशगोचरत्वप्रयुक्तदोषाणां च प्रागनुवृत्तेः । नापि चतुर्थः, सत्यस्य तस्यानभ्युपगमात्, मिथ्याभूतस्य त्वध्यासेऽन्योन्याश्रयप्रसङ्गात् ।

एतेनाविद्याप्रवाहपक्षोऽपि निरस्तः, प्रपञ्चप्रवाहस्यैव हेतुकार्यभावेन स्थित्युपपत्तौ निरर्थकाविद्याप्रवाहकल्पनायोगात्, उपलम्भाद्यसिद्धेश्च ।

किंचेयमविद्या निराश्रया? साश्रया वा? पूर्वत्र ब्रह्मवत् सत्यत्वप्रसङ्गः । शशश्रृङ्गवद्वा तुच्छत्वप्रसङ्गः । उत्तरत्राप्यसावाश्रयः किं ब्रह्मस्वरूपम्? उत तदेवोपहितम्? अथवा स्वतन्त्रोऽन्यः?

न प्रथमः, नित्यशुद्धस्याशुद्धिविरोधात् । अन्यतरमिथ्यात्वे वा उभयमिथ्यात्वे वा तदविरोध इति चेन्न; शुद्धमिथ्यात्वेऽपसिद्धान्तशास्त्रवैयर्थ्यादिप्रसङ्गात् । अशुद्धमिथ्यात्वे तन्निवृत्तिनैरपेक्ष्यप्रसङ्गात् । कदाचिदपि तस्या अभावात् तत्प्रतिभासनिवृत्तेरपेक्षेति चेत्; प्रतिभासस्यापि मिथ्यात्वे प्रसङ्गसाम्यात् । तत्सत्यत्वानभ्युपगमात् । मिथ्यात्वेऽपि सत्यत्व इवापुरुषार्थत्वाविशेषात् तन्निवृत्त्यपेक्षेति चेत्; तर्ह्यपुरुषार्थाश्रयत्वलक्षणाशुद्धत्वस्य दुस्त्यजत्वात्तन्मिथ्यात्वोक्तिरुपच्छन्दनमात्रे पर्यवस्यति । उभयमिथ्यात्वे तूभयविधदोषापत्तिः । व्याघातादयश्च स्युः ।

नापि द्वितीयः, अविद्याश्रयस्य ब्रह्मण उपाधिमत्त्वे सत्यमिथ्याविकल्पिताविद्यान्तरादिपरिग्रहेऽपसिद्धान्तानवस्थाविरोधादिदोषसमुन्मेषात् । नापि तृतीयः, ब्रह्माज्ञानवादपरित्यागादिप्रसङ्गात् । तस्याप्याधारनिरूपणेऽनवस्थादिप्रसङ्गाच्च । स्यादेतत्, ब्रह्मवत्स्वयमेवाविद्या स्वाश्रयेति; तन्न, आश्रयाश्रयित्वयोरेकप्रतिसम्बन्धिकयो रूपादिभेदमन्तरेण विरुद्धत्वात्; ब्रह्मणस्तु स्वाश्रयत्वं नास्त्येव । आश्रयान्तरनिषेधाभिप्रायेण स्वाश्रयत्वोक्तिः । अस्तूपाधिभेदेनेति चेन्न; तस्याप्याधाराकारोपाधेरनाधारत्वानुपपत्तेः तदाधारोपाध्यन्तरादिभेद कल्पनेऽनवस्थानात् । आधेयाकारतादात्म्येन तस्यापि स्वाधेयत्वे तूपाधिभेदवाचोयुक्तिविलोप प्रसङ्गात् । ननु मिथ्याभूतायाः किमाश्रयविकल्पेन, अध्यासस्याधिष्ठानमात्रं ह्यपेक्षितमिति चेन्न; भवत्पक्षे सर्वत्राक्षयाणामध्यासाधिष्ठानमात्रत्वात् । घटादि संसर्गोऽपि भूतलादावध्यस्त एव, अन्यथा तत्रैव तत्सत्यत्वप्रसङ्गात् ।

किंचापरमार्थभूतेयमविद्याप्रतीतिर्नाहङ्कारतद्वत्ति – तदवच्छिन्नदृशिष्वन्यतमा, तेषां तदपत्यत्वात् । अन्यथाऽपि काल्पनिकत्वेन मूलदोषान्तरापेक्षायामनवस्थानात् । न च ततोऽन्या काचिद्दृशिः? तस्या ब्रह्मस्वरूपत्वे ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गात् । तदतिरिक्तसंविदन्तरासिद्धेश्च ।

अपि च प्रकाशमानेयमविद्या किं ब्रह्मात्मना प्रकाशते? उत तदन्यत्वेन? यद्वाऽन्यत्वानन्यत्व साधारणात्मना? नाद्यः, सहि ब्रह्मस्वभावनिह्नवेन वा? स्वस्वभावनिह्नवेन वा? उभयेस्समुच्चयेन वा? उभयनिह्नवेन वा? आद्ये ब्रह्मस्वभावनिह्नवे प्रकाशतत्त्वविलयेन तदधीनसत्ताकमविद्यादिकमपि विलीनमेव स्यादिति वृथा शास्त्रादिपरिश्रमः, प्राप्यनिवर्त्यायाः प्रसङ्गस्यापि दूरापास्तत्वात् । अविद्यास्वभावनिह्नवे तु ब्रह्ममात्रप्रकाशे अपवर्गबन्धवैषम्यविरहप्रसङ्गेन पूर्वोक्तदोषानतिपातः । समुच्चयस्तु न संभवत्येव, विद्याविद्ययोर्वैरस्य शाश्वतिकत्वात् । अन्यथा विद्यानिवर्त्यत्वमविद्यायाः क्वचिदपि न स्यादिति स्थितमन्यत्र । उभयनिह्नवे तु उभयविधदोषस्यानायाससिद्धिः स्यात् ।

स्यादेतत्, यथा दर्पणमुखयोस्स्वभावमनपह्नुत्य दर्पणे मुखाध्यासः, यथा वा अतिरस्कृतोभयस्वभावो दीपकज्जलसंभेदः, यथा वा दीपालोकमण्डलस्य तद्बाह्यसन्तमसमण्डलस्य च सामीप्याविरोधः, एवमयमविद्या ब्रह्मणोरनपह्नुतोभयस्वभावयोरेवानादिरासत्तिविशेष इति किमस्मान् वर्णनावशेन वशीचिकीर्षसि? मैवम्, सर्वत्र तादात्म्याध्यासे भेदाग्रहं संसर्गाध्यासे त्वसंसर्गाग्रहमन्तरेण क्वचिदपि भ्रमासिद्धेः । दर्पणमुखाध्यासेऽप्यन्तरालाग्रहणादेव नैरन्तर्यभ्रमः । कथं तर्हि दर्पणस्य दूरस्थताग्रहणमिति चेत्; श्रूयतामवधानेन, दर्पणाभिमुखप्रवृत्तेन नायनतेजः प्रवाहेण सान्तरालदर्पणग्रहः दर्पणप्रतिहतेन तु प्रसिस्रोतसातेनागृह्यमाणान्तरालमुखस्वरूपमात्रग्रहः, तत एव दर्पणे मुखमिति भ्रमः,तद्धवहारमात्रं वा जायते । ज्ञानद्वित्कं न दृश्यत इति चेत्; किं धारावाहिकधीसन्ततौ तद्भेदः? अत्र तु तत्त्वधीभ्रमयोरितेरतरव्यवहिता धारेति विशेषः । यौगपद्यप्रतीतिस्तु शैघ्र्यातिशयेन कालकलाभेदा ग्रहणात् । अतः न क्वचिदपि प्रत्यक्षविरुद्धाकारस्य क्लृप्तिः । दीपकज्जलसंभेदेन तु न विरोधगन्धोऽपि, तत्राध्यासप्रसङ्गाभावात् वध्यघातकभावादिविरोधासिद्धेः । मूर्तयोस्समानदेशत्वविरोधस्त्वंशभेदेन सूक्ष्मवैदेश्यात्परिहृतः । आलोकसन्तमसमण्डलयोरपि सादेश्य एव विरोधः, नतु सामीप्ये । नचात्रापि ब्रह्माविद्ययोःपरस्परसमीपदेशत्वादिस्वीकारो युक्तः; परिच्छिन्नत्वादिप्रसङ्गात् । अतो नाविद्याब्रह्मासक्तिर्वक्तुं शक्यते । एवमन्यान्यप्यनन्तानि विकल्पदूषणानि अविद्यास्वरूपमनुबन्धन्ति ।

ननु किमनेनानिष्टापादनप्रपञ्चेन, प्रासादनिगरणादिवदवस्तुभूतायामविद्यायां नैते वस्तुदोषाः क्षतिमावहन्ति; यदाहुः*दुर्घटत्वमविद्याया भूषणं न तु दूषणमिति; अतोऽविद्याऽप्यनुपपन्नेति स्थितौ ब्रह्माद्वैतमकण्टकमिति चेत्; हन्त निष्यप्रयोजनः प्रयासस्तव माध्यमिकादिमतनिरासे । तेऽपि यदि सर्वशून्यत्वमपि दुर्घटम्, ततोऽपि सर्वशून्यत्वमेव प्रतिष्ठितमितीष्टप्रसङ्गतां यदि ब्रूयुः, तदानीं किं वक्ष्यसि? यदि सर्वशून्यत्वं दुर्घटम्, तदा परपक्षविजयप्रसङ्गः, ततश्च दुर्घटपक्षं परित्यज्य परपक्षः स्वीक्रियतामिति ब्रूयामिति चेत्; तर्ह्यस्माभिरप्येवमभिधाने भन निरुत्तरः । तदेतत्सर्वमुपक्षिप्तं भाष्ये – *निर्विषया निराश्रया स्वप्रकाशेयमनुभूतिः स्वाश्रयदोषवशादनन्ताश्रयमन्तविषयमात्मानमनुभवतीत्यत्र किमयं स्वाश्रयदोषःपरमार्थभूतः, उतपरमार्थभूतः, इति विवेचनीयमित्यादिना । आरम्भणाधिकरणे च व्यस्तृणीत ।।

।।इति शतदूषण्यामविद्यास्वरूपानुपपत्तिवादः एकचत्वारिंशः ।।41।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.