शतदूषणी जीवन्मुक्तिभङ्ग वादः(31)

शतदूषणी

।।अथ जीवन्मुक्तिभङ्ग वादः एकत्रिंशः।।31।।

अन्ते विरोधिजनसङ्क्रमणीयसर्व पूर्वोत्तराधनिवहप्रतिबन्धकेन ।

यद्व्यानसन्ततिलताप्रथमाङ्कुरेण मुक्ता इवात्र मुनयः स गतिस्स्वयन्नः ।।

समन्वयाधिकरणभाष्ये परेषां सयूध्यकलहमुपक्षिप्य जीवन्मुक्त पक्षः प्रतिक्षिप्तः, तदेवात्र पूर्वापरसङ्गतेर्व्याकुर्मः ।

यदाहुः – ब्रह्मात्मैक्योपदेशपरतत्वमसिवाक्यश्रवणजनिततत्वाध्यवसायादेव जीवन्नपि मुच्यते पुरुषः, ज्ञानस्यैव स्वाभाविक मोक्षप्रतिबन्धनिवर्तकत्वात्, तस्यच निष्पन्नत्वात्; बाधातिरिक्तायाश्च विरोधिनिवृत्तेरभावात् । नहि रज्जुयाथात्म्यज्ञानातिरेकेण मिथ्याभूतसर्पभयनिवृत्तेः सर्पविनाशोऽप्यपेक्षितः । नच शरीरदेस्सत्यत्वमिच्छामः, येन ज्ञानमात्रान्न निवर्तेत । श्रूयतेच – “तमेवं विद्वानमृतइह भवति’ “तमेव विदित्वाऽतिमृत्युमेति’ “यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि स्थिताः । अथ मर्त्यो मृतो भवति अत्र ब्रह्म समश्नुते’ इति । जीवन्मुक्तिशब्द एव च क्वचित्पुराणेषु पठ््यते “जीवन्मुक्ता भवन्ती’ त्यादि । यः पुनर्जीवन्मुक्तस्यापि यथापूर्वं देहाद्यनुबन्धः, सोपि दग्धपटवन्नबन्धकः; स्वयमेवच कदाचिच्चक्रभ्रमस्वप्नादिवदत्यन्तप्रतिभासलयमेष्यति । “कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ “न कर्म लिप्यते नरे’ “यस्य नाहङ्कृतो भाव’ इत्यादिभिर्ब्रह्मविदां कर्मालेपोपदेशश्च जीवन्मुक्तिमन्तरेण न घटते । “तस्यकार्य न्नविद्यत’ इति सर्वोपायानुष्ठाननिवृत्तिरपि तेषान्तदैव मुक्तिमावेदयति । अतो वयन्निर्गुणब्रह्मविदस्सर्वस्वैरयोग्याः – इति ।

अत्र ब्रूमः – यदुक्तं ज्ञानस्यैव मोक्षप्रतिबन्धकनिवर्तकत्वात्तस्य च निष्पन्नत्वात्तदानीमेवासौ मुक्त इति; तदसत्, असकृदावृत्तस्या प्रयाणादनुवृत्तस्य ज्ञानविशेषस्य मुक्तिसाधनत्वस्थापनात्; तस्य च प्रक्रान्तस्याप्यन्तिमप्रत्ययसावधिकत्वेन निश्शेषनिष्पन्नत्वाभावात् । भवतुवोपायभूतज्ञानं निष्पन्नम्, तथापि तदानीमेव फलसिद्धिरिति नायन्नियमः, स्वर्गादिसाधनेषु सगुणानुष्ठितेषु यज्ञादिष्विव प्रतिबन्धकेन फलविलम्बोपपत्तेः । नच प्रतिबन्धकमपि मिथ्यात्वाविशेषात्तत्वज्ञानेनैव निवृत्तमिति वाच्यम्, तथासति जीवनादेरपि निवृत्तिप्रसङ्गेन जीवन्मुक्तिवाचोयुक्तेरेवायुक्तेः । शरीरादि मिथ्यात्ववर्णनदूषणमपि विस्तरेणान्यत्र द्रष्टव्यम् । इहामृतत्व श्रुत्यादिकमपि प्रत्यक्षादिविरोधात् बहुविधश्रुतिस्मृत्यादिविरोधाच्च उत्तरपूर्वाधाश्लेषविनाशरूपमुक्तिकल्पावस्थाविशेषाभिप्रायमिति व्यवस्थाप्यते । एतदभिप्रायेण हूयुक्तं महाभारते – “मुक्तानां लक्षणं ह्मेतद्यच्छ्वेतद्वीपवासिनामि’ ति । “अत्र ब्रह्म समश्नुत’ इत्येदपि समाधिदशाभाविब्रह्मानुभवपरम् । नच सैव साक्षाद्ब्रह्मप्राप्तिः, अस्या नुकलं विच्छेदात्;

अपुनर्विच्छेदस्य निरवशेषब्रह्मानुभवस्य सिषाध यिषितत्वात् । यत्तु यथा पूर्वं देहानुबन्धस्य दग्धपटवन्नबन्धकत्वमिति, तदपि स्वहृदयविसंवादेनोक्तम् । नहि तत्वमस्यादिवाक्य श्रवण समनन्तरमप्यनुवर्तमानदेहेन्द्रियादिभिर्दुःखादिकं न जायेत ।

काचेयं जीवन्मुक्तिः? किं जीवत एव देहादिभेदनिवृत्तिः, उत तत्प्रतिभासस्य, अथ तदधीनप्रवृत्तेः, यद्वा तन्मूलपुण्यपापादेः, अथवा तत्प्रयुक्तसुखदुःखादेः, यद्वान्यस्य कस्यचिदिति ।

नाद्यः, व्याघातात्; जीवनस्य शरीरादिसम्बन्धात्मकत्वात् । सशरीरत्वं बन्धः, अशरीरत्वं मोक्ष इति त्वयैव श्रुतिभिरुपपादितत्वात् । अथ सशरीरत्वप्रतिभासे सत्यपि बाधात् सशरीरत्वं निवृत्तमिति न विरोध इति चेत्? सशरीरत्वे निवृत्ते कथमशरीरस्य सतो जीवन्मुक्तिः? अजीवतोपि हि मुक्तिः सशरीरत्वरूपमिथ्यार्थाध्यवसाय निवृत्तिमात्रात्मा, नतु त्वन्मते तदधिका वस्तुस्वरूपनिवृत्तिरिति जीवन्मुक्तेरजीवन्मुक्तेश्च न विशेषं पश्यामः । सशरीरत्वप्रतिभासबाधेपि द्विचन्द्रज्ञानादिवत्तदनुवृत्त्या विशेष इति चेन्न; – त्वत्पक्षे बाधितानुवृत्त्यसम्भवस्योक्तत्वात् । प्रत्यक्षविरोधाच्च । निवृत्तावप्यनुवृत्तवद्भातीति चेन्न; – स्वरूपतो नित्यनिवृत्तस्य प्रतिभासमात्राधीन सिद्धितया भिमतस्य प्रतिभासानुवृत्तौ निवृत्तिवचनायोगात् ।

न द्वितीयः, बाधादेव, जीवनविरोधाच्च । नच देहादिभेदप्रतिभासा त्यन्तनिवृत्तौ जीवनन्नाम किमपि । नच सुषुप्तवदसौ जीवन्मुक्तो निवृत्तप्रतिभास एव प्राणिति,तथासति यथापूर्वं प्रवृत्तिविरोधात् ।

अत एव न तृतीयः । नच यत्किञ्चित्प्रवृत्तिशून्यं कञ्चिदद्वैतंनिष्ठं पश्यामः श्रृणुमोवा । प्रतिष्ठिताद्वैतविज्ञानैरेवहि भवत्सिद्धान्त ग्रन्धकन्थाशतानि निर्मितानि ।

नापि चतुर्थः, जातिवर्णाश्रमाद्युपाधिकानां विधिनिषेधानां ब्रह्मविदोप्यनुवर्तनीयत्वस्य “”नाविरतो दुश्चरितात्” “”नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः । ” इत्यादिभिस्सिद्धत्वात् । अलेपकमतभङ्गेचास्य प्रपञ्चो ग्राह्यः । अथ मन्यसे अबुद्धिपूर्व केषु न लेप इति, अस्त्वेवं; तथापि नासौ मुक्तः, बुद्धिपूर्वैः प्रारब्धैश्च बन्धानुवृत्तेः । एतावन्मात्रजीवन्मुक्तेरश्लेषश्रुतिवशेनास्माभिरपीष्यमाणत्वात् ।

अत एव न पञ्चमः, प्रामादिकैः कर्मभिः ब्रह्मविदां फलारम्भानभ्युपगमात् । बुद्धिपूर्वैः प्रारब्धैश्च फलस्य प्रत्यक्षादिसिद्धस्य दुरपह्नवत्वात् । अनिर्वचनीयत्वादिमात्रेण तदपह्नवे तत्वज्ञानात्प्रागपि वस्तुतो मुक्तत्वेन जीवन्मुक्तिपर्वकल्पनानुपपत्तेः ।

नापि षष्ठः, अन्यस्यापि निवृत्तिः जीवनविरोधिनी नवा? आद्ये विरोधादेव जीवन्मुक्त्यसम्भवः । द्वितीयेपि जीवनाविनाभूत दुःखादेरेवावर्जनीयत्वान्न मुक्त्युपपत्तिः । अन्ततो अविद्याशेषमन्तरेण जीवनानुपपत्तिः । तच्छेषेच मुक्त्यनुपपत्तिः । ईश्वरावताराणामिव ब्रह्मविदामपि जीवतान्दुः खाद्यभिनयमात्रमिति चेत्? हन्त स्वानुभवविरुद्धं धार्ष्ट्यम् । शक्यञ्चेदं सर्वैर्वक्तुम् । नच स्वपर प्रयोजनविरहे मन्दोपि कश्चित्प्रवर्तेत । नच मुक्तस्य लीलाप्रसङ्गमप्यनुमन्यसे, जक्षदादिवाचामेव भक्षणात् । अतो जिवतिचेन्न मुक्तः, मुक्तश्चेन्नजीवतीति न कथञ्चिदपि जीवन्मुक्तिस्सम्भवतीति ।

यत्तु चक्रभ्रमादिदृष्टान्तेनानुवृत्तांशस्य स्वयमेव विलय इति, तदप्यहेतुकविनाशाद्यनुपपत्त्या बाधितानुवृत्तिभङ्गे निरस्तम् । यत्पुनरलेपोपदेशो जीवन्मुक्तिमन्तरेण न घटत इति, तदपि प्रामादिकविषयत्वस्थापनादेव परिहृतम् । “”तस्य कार्यं न विद्यत” इत्यादिसर्वोपायानुष्ठाननिवृत्तिवादाश्च मुक्तविषयतया समाध्यवस्था विषयतया च यथासम्भवं व्यवस्थाप्याः । अन्यथा ब्रह्मविदामेव यावज्जीवानुष्ठानस्य निषिद्धपरिहारस्य च श्रुतिस्मृतिसिद्धस्य बाध प्रसङ्गात् । किञ्च निर्गुणविषयत्वाभिमतसद्विद्यानिष्ठस्यैव “”तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य” इति शरीरपातमात्रमपेक्षते मोक्ष इति विळम्बावधिमुपदिशन्ती श्रुतिरेव जीवन्मुक्तिं वारयति । तथा “”नह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशत” इति श्रुतिमप्यधीमहे । अत्राशरीरत्वञ्च कर्माधीनशरीरवैधुर्यमित्यन्यत्र स्थापितम् । आपस्तम्बेनोपासनगत्यादिविषयबहुविधाध्यात्मशास्त्रार्थतत्वपारदृश्वना निराकृतेयं जीवन्मुक्तिः – “”वेदानिमं लोकममुंच परित्यज्यात्मान मन्विच्छेत्, बुद्धे क्षेमप्रापणम्, तच्छास्त्रैर्विप्रतिषिद्धम्, बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत, एतेन परं व्याख्यात” मिति । एतेन – निर्विशेषवादिनां जीवन्मुक्तिनिराकरणेन, तत्कल्पितं निराकरणीयं सर्वं तुल्यन्यायतया निराकृतमित्यर्थः । अतः प्रत्यक्षश्रुति स्मृत्यादिविरोधात्, स्वैराभिलाषिभिः स्वैरजनसङ्ग्रहश्रद्धाव्यामुग्धैर्वाकल्पितेयं जीवन्मुक्तिरिति प्रत्यक्षीकृतस्वदुःखैर्मुुमुक्षभिरुपेक्षणीयेति ।

इति श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां  जीवन्मुक्तिभङ्ग एकत्रिंशोवादः । (31)

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.