शतदूषणी अहमर्थात्मत्वसमर्थनवादः(26)

शतदूषणी

।।अथ अहमर्थात्मत्वसमर्थनवादः षड्विंशः ।।26।।

अहंत्वेदंत्वाभ्यां स्वपरविदितांश्चेतनगणानहङ्कारादीनप्यचिदुपधिभेदाननहमः ।

अहन्ता यस्यैका कबलयति वैशिष्ट्यविभवान्ममास्मिन्विश्राम्यत्वहमिति मतिर्विश्ववपुषि ।।

यदुच्यते – अहमर्थो नात्मा, सुषुप्तिमोक्षयोरननुवर्तमानत्वात् । मोक्षे न तदनुवृत्तावज्ञत्वादिप्रसङ्गाच्च । अतश्चैतन्यमात्रमात्मा । तत्रानिदमि चैतन्ये निरुपाधिरहंभ्रमः। कर्तृत्वादिस्तु सोपाधिः सर्पलोहित्यवत्क्रमादिति ।

अत्र ब्रूमः-सुषुप्तौ तावदहमर्थाननुवृत्तौ पुनः प्रतिसन्धानानुपपत्तिप्रसङ्गः । न ह्यहमर्थान्तरेणानुभूतमर्थमहमर्थान्तरं स्मर्तुमलम्, अतिप्रसङ्गात् । सुषुप्तावपि तदनुवृत्तौ तदानीमपि तत्प्रकाशप्रसङ्ग इति चेन्न; विद्यमानस्य प्रकाशनियमानभ्युपगमात् । तदानीमप्रकाशेऽपि तदनुवृत्तौ किं प्रमाणमिति चेन्न; पूर्वोत्तरवर्त्यहमर्थप्रतिसन्धानबलादेव मध्येऽपि तत्कल्पनात् । पूर्वोत्तरकालावच्छिन्मध्य कालकल्पनेनास्वाप्समितीदानींतनकालानुसन्धानवदिदानीमतीतकालावच्छिन्नाहमर्थस्यापि प्रकाशोपपत्तेः । मध्ये चाहमर्थाभावे संस्काराधाराभावात्प्रतिसन्धानाभावप्रसङ्गाच्च(ङ्गश्च)। संवित्स्वरूपमविद्यास्वरूपं वा तदाधारो भवत्विति चेन्न; तयोरपि तदानीमनुवृत्तौ प्रमाणाभावात् । न हि ज्ञातारमन्तरेण ज्ञानमज्ञानं वा स्थातुमलम् । अन्यथा घटादिष्वपि तदवस्थितिप्रसङ्गात् । ज्ञानाभावस्तत्रापि विद्यत इतीष्टप्रसङ्ग इति चेन्न; भवदभिमतभावरूपाज्ञानस्य तत्र प्रसज्यमानत्वात्, तस्य च तन्निष्ठत्वेन त्वयाऽनभ्युपगमात् । न च संवित्स्वरूपस्य संस्काराधारत्वम्, निर्विकारत्वनिर्विशेषत्वविरोधात् । नाप्यविद्यास्वरूपस्य, तथा सति तस्यैव ज्ञातृत्वप्रसङ्गात् । न ह्यन्यगतसंस्कारेणान्यस्य स्मृतिः संभवतीत्युक्तम् । उपादानोपादेयभावादुपपद्यत इति चेन्न; क्षणभङ्गनयप्रसङ्गात् ।

सत्कार्यवादाभ्युपगमेनाविद्यातद्विवर्तयोरेकत्वादुपादानं संस्कारे उपादेये कार्यकर इति चेन्न; उपादानोपादेययोः काल्पनिकैक्यस्य सौगतमतेऽपि सत्त्वात्; परमार्थैक्यस्य त्वन्मतेऽप्यभावात् ।

किं वा सुषुप्तिकाले संविदविद्ययोः सद्भावे प्रमाणम्? सुप्तोत्थितस्य सुखमहमस्वाप्समिति परामर्श इति चेन्न; तेन सुखस्वापविशिष्टतदानींतनाहमर्थस्यैव विषयीकरणात् । इदानींतनाहमर्थप्रकाशनेन तदुपलक्षणमिति चेन्न; इदानींतनसुखसंविद्भ्यां तदानींतनस्वापविशिष्टाहमर्थोपलक्षणं किं न स्यात्? तदानीमहमर्थप्रकाशाभावे कथं तत्परामर्श इति चेत् कथं तदानीमज्ञानसुखसाक्षिसंवित्प्रकाशाभावे तत्परामर्शः? तत्परामर्शादेव तदा तत्प्रकाशोऽपि कल्प्यत इति चेत् तथाऽहमर्थप्रकाशोऽपि कल्प्यताम् । उपलम्भविरुद्धं तत्कल्पनमिति चेत्, कोऽयमुपलम्भः? एतावन्तं कालं न किंचिदहमज्ञासिषमित्येवंरूप इति चेत्, तर्हि तत एवाज्ञानसुखसाक्षिसंवित्प्रकाशकल्पनमपि विरुध्येत । उपलम्भस्य बहिर्विषयवेदननिषेधरूपत्वात्तत्कल्पनमुपपद्यत इति चेत्, समःसमाधिः ।

मामप्यहं न ज्ञातवानित्युपलम्भो विरोधीति चेत्, कस्य विरोधी? किमहमर्थस्य? उत तत्संवेदनस्य? उत वेदनमात्रस्य? न प्रथमः, अतद्रूपत्वादुपलम्भस्य । न ह्येतावन्तं कालं नाहमभूवमिति कश्चित्प्रतिसन्धत्ते, अपि तु विद्यमानमपि मां न ज्ञातवानिति । न द्वितीयः, एतावन्तं कालं न ज्ञातवानित्यनेन संविदमपि न ज्ञातवानिति संवित्संवेदनस्यापि निषेधप्रसङ्गात् । स्वप्रकाशेन तदा तत्प्रकाशनम्, निषेधस्तु विषयप्रकाशस्येति व्यवस्थेति चेत्, तुल्यमहमर्थेऽपि । अत एव न तृतीयः, स्वपक्षोन्मूलनप्रसङ्गाच्च । “नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवती” (छां 8-11-2) ति सुषुप्तिविषयश्रुत्या तदानीमहमर्थप्रकाशकल्पनं विरुध्यत इति चेत्, तर्हि “प्राज्ञेनात्मा संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरमिति” (बृह-6-3-21) तद्विषयश्रुत्यैव संवित्सुखादिप्रकाशकल्पनमपि विरुध्येत्, अविशेषात् । तथाऽपि तदानींतनमज्ञानमनुभूतमननुभूतं वा? पूर्वत्र संविदोऽपि प्रकाशसिद्धिः, स्वयंप्रकाशत्वात्; उत्तरत्रज्ञानप्रतिसन्धानानुपपत्तिरिति चेन्न; तदानींतनकालस्येव तदानींतनाज्ञानस्यापि तदानीमेव कल्प्यमानत्वेन तद्विषयप्रतिसन्धाना(न) भ्युपगमात् । तथाऽपि प्रातर्गजाभावादिनयेन तदानीमधिकरणोपलम्भोऽवश्यंभावीति चेन्न; इदानीमेव कल्प्यमाने मध्यकालवर्तिनि स्वात्मनि योग्यस्मृत्यभावेन ज्ञानाभावस्यापि कल्पनोपपत्तेः । तदानीमधिकरणोपलम्भस्यावश्यंभावेऽपि अहमर्थस्यैव प्रकाशकल्पना युक्ता । अहं न ज्ञातवानिति स एव ह्यज्ञानाश्रयतया प्रतिसन्धीयते । अतो न कथश्चिदपि सुषुप्तावहमर्थाभावो वक्तुमपि शक्यः । अहमेव पूर्वं सुप्तः, तथाऽप्यहमर्थस्तदानीं नास्तीति स्ववचनविरोधाच्च ।

मुक्तावप्यहमर्थानुवृत्तिः प्रागेव श्रुतिवशाद्दर्शिता । न च मोक्षे अहमर्थानुवृत्तावज्ञत्वप्रसङ्गः, तथा सति संविदनुवृत्तावपि तत्प्रसङ्गात् । यथावस्थितस्वरूपप्रकाशो नाज्ञत्वादिहेतुः, अपि तु तद्विरुद्ध एवेति चेत्, तुल्यम् । यदि च मोक्षेऽहमर्थो न स्यात् मोक्षशास्त्रस्याधिकार्यभावः स्यात् । न हि स्ववधाय स्वयमेव बुद्धिपूर्वकारी प्रवर्तते । अहमर्थस्य चात्यन्तविनाशो मोक्षे भवद्भिरिष्यते । संविदात्मनः स्वस्य च विवेकाग्रहात् प्रवर्तते इति चेत्, तर्हि स्वविनाशे संविदो विनाशमभिमन्येत । स च स्वविनाश एवेति मन्यमानो न प्रवर्ते तैव । स्वात्मावस्थानभ्रमात् प्रवर्तत इति चेन्न; फलस्वरूपमजानतस्तदर्थित्वायोगेनोपायानधिकारात् । अहमर्थस्थितिमपेक्षमाणस्य च भवन्मते नित्यसंसारप्रसङ्गात् । अहमर्थस्थितिभ्रमेण प्रवृत्तस्याप्यद्वैतज्ञानोदयसामर्थ्यादेवानिच्छतोऽप्यहमर्थविनाश इति चेत्, तथा सति राज्यकामस्य शिरश्छेदवदपवर्गः स्यादिति सम्यक् पुरुषार्थपरत्वं शास्त्रस्य समर्थितं भवति ।

अस्तु तर्ह्याध्यात्मिकादिदुःखत्रयाभिघातवशात्तदविनाभूताहमर्थस्यापि विनाशोऽभिमत इति, तदपि मन्दम्; “तमेवं विद्वानमृत इह भवति” (तै-आ.3.पु.सू) “तमेव विदित्वाऽतिमृत्युमेती” (श्वे 3-8)त्यादिभिर्मृत्युतरणहेतुतया श्रुतस्य ब्रह्मवेदनस्य साक्षान्मृत्युहेतुत्वप्रसङ्गात् । “ब्रह्मैव भवति ” (मुंड-3-2-3) “सर्वं ह पश्यः पश्यति” (छां-7-26-2)इत्यादिभिर्विरोधप्रसङ्गाच्च ।

अस्तु तर्हि ज्ञप्तिरूप एवात्मा मोक्षशास्त्राधिकारीति चेन्न; तस्य ज्ञातृत्वमन्तृत्वाद्यसंभवेन श्रवणमननाद्ययोगात्, नित्यमुक्तस्वभावतयाऽपवर्गार्थित्वासंभवाच्च । ज्ञातृत्वदुःखित्वाध्यासात्सर्वमुपपद्यत इति चेन्न; तदध्यासप्रलापानामन्यत्रोत्सारितत्वात् । एतेनात्मनोमपवर्गार्थमहमर्थरूपो ज्ञाता प्रवर्तत इति च प्रयुक्तम्, दृष्टादृष्टरूपप्रयोजनान्तरमन्तरेण परार्थं स्वानर्थस्य परमकारुणिकैरप्यनभ्युपगमात् । तदेतत्प्रियतमोज्जीवनार्थं मुण्डोपहारवदित्यायातम् ।

अपि च यद्यहमर्थो नात्मा कथमनात्मनि देहेऽहंबुद्धिः देहात्मभ्रम इत्युच्यते? स हि त्वत्पक्षे देहाहङ्कारभ्रम इत्यभिधीयेत । आत्माहङ्कारयोरैक्यभ्रमाद्देहाहङ्कारभ्रम एव देहात्मभ्रम इति चेन्न; तद्भ्रमस्याद्याप्यसिद्धेः । संविद्रूपस्य चाहं जानामीत्यादिना तद्धर्मभावादिविरुद्धधर्मवत्तया प्रतीयमानस्याहमर्थेन देहेन वा तादृशभ्रमप्रसङ्गाभावात् । ततश्च देहात्मवादनिराकरणप्रयासोऽपि निरर्थकः स्यात्, देहश्चैतन्यमिति चार्वाकैरप्यनङ्गीकारात् । देहस्याहन्त्वचेतनत्वादिप्रतिक्षेप एव हि तान्प्रति क्रियते । अन्यथा तेषां सिद्धसाधनत्वात् ।

यदि चाहमर्थो नात्मा, तस्य प्रत्यक्त्वमपि न स्यात्, अहंबुद्ध्यैव प्रत्यगर्थस्य परागर्थाद्विवेकात् । “युष्मदस्मत्प्रत्ययगोचरयो”(शांकर भा 1-1-1) रित्यादि हि भवदीयभाष्येऽप्युक्तम् । नन्वहमर्थविषयेंऽशद्वयमस्ति, तत्र तत्प्रकाशांशः प्रत्यक्पदार्थः, तदधीन प्रकाशोऽहन्त्वांशः परागर्थः, इदं रजतमिति भ्रमे शुक्तिरजतांशभेदवदिति । तदप्याशामोदकमात्रम्, इदं प्रत्ययेऽपि कश्चित्प्रत्यगंशोऽस्तीति निष्कर्षप्रसङ्गात् । उपलम्भविरुद्धः स इति चेत्, तुल्यम् । अहंप्रत्ययविषयेऽपि वस्तुन्येवेदमंशः परकीयानुमानाद्दृश्यत इति चेत्; तर्हि तत्रैवेदंप्रत्ययगोचरे प्रत्यगंशोऽपि सिद्ध इति तद्वदेव घटादिष्वपि तत्कल्पनाप्रसङ्गः । नात्र परात्मनीदमंशः प्रतीयते, अपि त्वेकमेव वस्त्वंशभेदमन्तरेणापि प्रतिसंबन्धिभेदेनाहन्त्वेदन्त्वाभ्यां प्रकाशत इति चेन्न; अहमर्थप्रकाशेऽप्येकस्यैव पुत्रत्वेन पितृत्वेन प्रतीतिवत् इदमंशभानप्रसङ्गात् । तत्रापि कदाचिदयमहमस्मीति प्रतिभातीति चेन्न; देवोऽहमित्यादिषु देवादिशब्दवत् विशेषणविवक्षया तत्रेदंशब्दप्रयोगात् । तस्य चांशस्यास्माभिरपि परत्वाभ्युपगमात् । प्रतिसंबन्धिनिरूप्योऽहमर्थो न स्वरूपं भवितुमर्हतीति चेन्न; पुत्रादिष्वपि तत्प्रसङ्गात् । प्रतिसंबन्धिनिरपेक्षं मनुष्यत्वाद्याकारान्तरं दृश्यते, अतस्तत्र न दोष इति चेन्न; अत्रापि वस्तुत्वचेतनत्वाद्याकारान्तरसिद्धेः।

नन्वहं शब्दप्रत्यभिज्ञानादहंकार एवाहमर्थ इति निश्चीयते, स च क्षेत्रान्तर्भूतो भगवता परिगणितः,”महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च” (श्री.गी.13-7) इत्यारभ्य “एतत्क्षेत्रमिति” (गी.13-6)वचनात्, “निर्ममो निरहंकार” इत्यादिषु च हेयतयाऽयमुपदिश्यते, अतो नात्मा भवितुमर्हतीति । तदसत्, बुद्धिशब्दप्रत्यभिज्ञानेन भवदभिमतसंविदोऽपि बुद्धिपर्यायवाच्यमहत्तत्वानतिरेकप्रसङ्गात् । अध्यवसायाख्यकार्योपकरणत्व मात्रेण तत्र बुद्धिशब्द इति चेत्; तर्हि अनात्मनि देहे अहमभिमानाख्यकार्यकरतयाऽत्राप्यहंकारशब्द इति भाव्यम् । अहम्भावान्तरहेतुत्वं न शब्दशक्त्या प्रतीयत इति चेन्न; अभूततद्भावार्थच्विप्रत्ययमुत्पाद्य व्युत्पत्त्या तदुपपत्तेः । क्षेत्रान्तर्भावपरिगणनं तु बुद्धेरप्यविशिष्टमिति । संविदोऽपि क्षेत्रकुक्षिनिक्षेपे नैरात्म्यवादप्रसङ्गः, समाधिश्च समान एव । निरहंकार इत्यादिषु गर्वपर्यायोऽहंकार उत्कृष्टजनावमानहेतुत्वादनर्थहेतुरिति हेयतयोपदिश्यते; न पुनरहमर्थोऽहंकारतत्त्वं वा, तयोरुपाधिमन्तरेणानर्थहेतुत्वाभावात् । तथा च सत्युपाधेरेव हेयत्वापत्तेः । नचाहंभावः स्वरूपेण त्यक्तुं शक्यः, त्यागबुद्धावपि तदनुप्रवेशात् । सुषुप्तिमूर्छादिषु तत्त्यागाभ्युपगमेऽपि नासौस्वशक्त्या, दैवादापन्नत्वात् । अहंभावस्य चोपादेयत्वमेव श्रुत्या प्रतीयते अथातोऽहंकारदेशः (छां-7-27-1) “अहमेवाधस्तादहमुपरिष्टात्” (छां 7-25-1) “त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहमि” (जाबाला इति शांकरे) त्यादिषु तत्त्वमसिनिरूपणेचैषामबाधितंसामानाधिकरण्यमनुसन्धेयमिति सिद्धमनारोपितज्ञातृत्वविशिष्टोऽहमर्थ एवात्मेति ।।

।।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्तचार्यस्य कृतिषु शतदूषण्यां अहमर्थात्मत्वसमर्थनवादः षड्विंशः ।।26।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.