शतदूषणी अखण्डवाक्यार्थखण्डनवादः(38)

शतदूषणी

अथ अखण्डवाक्यार्थखण्डनवादः अष्टत्रिंशः ।

ज्ञानानन्दगुणोपेतं ज्ञानानन्दमयं महः । पायादपायाद्भवतो भवबन्धविधायकात् ।।

सत्यज्ञानाजिभिर्वाक्यैरखण्डं बोध्यमिच्छताम् । अहङ्करोमि मूर्खाणामहङ्करणखण्डनम् ।।

यत्तु जल्पन्ति – विगीतं वाक्यमखण्डार्थपरम्, समानाधिकरणवाक्यत्वात्, सोयं देवदेत्त इत्यादिवाक्यवदिति । अत्र किमिदमखण्डार्थपरत्वं? निवयवार्थपरत्वं वा? अच्छेद्यार्थपरत्वं वा? निर्विशेषणपरत्वं वा? विशेष्यमात्रपरत्वं वा? निर्भेदार्थपरत्वं वा? भावरूपविशेषणरहितपरत्वं वा? एकविशेष्यपरत्वं वा? अन्यद्वा किंचित्? इति ।

न प्रथमद्वितीयौ, सिद्धसाधनात्; दृष्टान्तस्य साध्यविकलत्वाच्च । न हि देवदत्तपिण्डस्य निरवयत्वमच्छेद्यत्वं वा भवताऽभ्युपेतम् । नापि सोयं देवदत्त इति वाक्यादपि तथा प्रतीतिः । दृष्टान्तान्तरोपादनेपीह दुस्तरो व्यभिचारः ।

न तृतीयः, तत्र निर्विशेषणत्वमपि किं शब्दबोध्यत्वेनाभिमतम्? उत वस्तुगत्या? आद्ये निर्विशेषणत्वमपि लक्षणविशेषणविशिष्टार्थबोधनादविशिष्टार्थबोधकत्वाभिमानभङ्गः । निर्विशेषणत्वं न विशेषणं अपि तु स्वरूपमेवेति चेत्; न, स्वरूपस्य सम्प्रतिपन्नत्वेनासाध्यत्वात् । तदाह्यर्थपरमित्येतावदेवोक्तं स्यात्, तथा च सिद्धसाधना । तत्परिहारार्थन्तर्ह्यखण्डविशेषणामिति चेत्, किं पर्यायपदोपादने सिद्धसाधनतापैति? अखण्डपरमित्येतावत्प्रयुञ्जानो न चोद्येतेति चेत्; तदपि दत्तोत्तरम्, यत्किंचिदर्थपरमिति विवक्षिते सिद्धसाधनात्; विशेषणाभावविशिष्टपरमिति पूर्वोक्तविरोधात् । द्वितीये तु सगुणब्रह्मप्रतिपादकस्य वाक्यस्य न कश्चिद्विशेषः । तदपि हि वस्तुगत्या निर्विशेषणमेव वक्ति भवतः । विशेषेणप्रतिपादना प्रतिपादनाभ्यां वैषण्यमिति चेत्; न, प्रातीतिकप्रतिपादनस्य परमार्थतोऽप्रतिपादनस्यचोभयत्रापि समानत्वात्; अस्मन्मते वस्तुत स्सविशेषणेपि देवदत्तश्श्यामोयुवेत्यादिवाक्यानां प्रवृत्तिदर्शनात्, दृष्टान्तस्य साध्यविकलत्वाच्च । त्वन्मतेन तु व्यधिकरणवाक्यानामपि परमार्थतो विशेषणशून्यार्थविषयत्वेन हेतुविशेषणवैयर्थ्यम् ।

न चतुर्थः, विशेष्यस्वरूपस्यैव मात्रशब्देनोपादाने सिद्धसाधनत्वात्; अतिरिक्तोपादने विवक्षितासिद्धेः । पदप्रतिपन्नविशेषणत्यागस्तेन विवक्षित इति चेत्; स किं वाच्यत्वेन विवक्षितः? उत तत्राविद्यमानतामात्रेण? उत विशेषणानां बोधनव्यापारागोचरत्वेन? आद्ये बोध्यवैशिष्ट्यप्रसङ्गः, सत्यपदस्यासत्ये तात्पर्यामिति व्याहतवर्णनप्रसङ्गश्च । साध्यवैकल्पञ्च, तदिदंशब्दयोस्तत्तेदन्ताऽभाव प्रतिपादकत्वाभावात् । द्वितीयेपि पूर्ववत् सगुणब्रह्मवाक्यसमानतया तेषामप्यखण्डपरत्वप्रसङ्गः; साध्यवैकल्यं च, देवदत्तस्य कालद्वयसम्बन्धाभावे क्षणिकत्वप्रसङ्गात् । तृतीयेपि किं सर्वेषां तथाविधबोधनव्यापारागोचरत्वमभिमतम्? उत निरूपकाणां? नाद्यः, – भवदभिमततर्कानभिज्ञानं तदभिज्ञत्वेपि तदविश्वासिनां च तद्विशेषणविशिष्टप्रतीतेः । न द्वितीयः, असिद्धेः; अनुपपत्त्यभावस्य वक्ष्यमाणत्वात् ।

नापि पंचमः, व्यावृत्तिपरत्ववर्णनस्यापि निर्मूलत्वप्रसंगात् । अनृतजडपरिच्छिन्न व्यावृत्तिपरतया हि पदत्रयव्यावृत्तिरभिमता । सजातीयभेदराहित्यं विवक्षितमिति चेत्; न, तस्यैतच्छब्दप्रतिपाद्यत्वाभावात् विशेषणविशिष्टत्वेपि तत्सिद्ध्यविरोधाच्च पूर्ववच्च साध्यवैकल्यं स्यात् । जडादिभेदस्य मिथ्यात्वाभ्युपगमे अन्यत्रोक्तरमुक्तम् ।

न च षष्ठः, भावरूपविशेषणदूषकाणां तर्काणां अभावरूपविशेषणैस्सह का पैतृष्वस्रीयता? तैरपि सम्बन्धाभावात् । तथा च – भावो यथा तथाऽभावो निर्विशेषत्वबाधकः । अबाधकत्वे भावेपि बाधकत्वकथा मुथा ।। वाक्यार्थस्य सखण्डत्वं भावेन यदि जायते । अभावेनापि जायेत सखण्डत्वमखण्डितम् ।। भावान्तरमभावो वा यद्वा भावान्तराधिकः । न खण्ड्यते सखण्डत्वं द्वयोरपि च पक्षयोः ।।

देवदत्तः श्यामोयुवेत्यादिभिरनैकान्त्याच्च । प्रत्यक्षबलात्तत्र वैशिष्ट्यम्, अत्र तु शब्दैकसमधिगम्यत्वाद्यथाशब्दं व्यवस्थेति चेत्; तर्हि शब्दकैसमधिगम्यार्थविषयत्वे सति समानाधिकरणवाक्यत्वादिति हेतुस्स्यात् । तथा सति दृष्टान्तस्य साधनविकलत्वप्रसङ्गस्स्यात् । नहि सोयन्देवदत्त इत्येतद्वाक्यमतीन्द्रियार्थाविषयम् । पूर्ववत्साध्यवैकल्यं च ।

सप्तमस्त्वस्मत्पक्ष एवेति सिद्धसाधनमेव । अष्टममपि विकल्पं विकल्पयामः, तत्किं निर्विवादयत्किंचिद्बोधनमात्रादधिकम्? उतानधिकम्? आद्ये विशिष्टपरत्वमकामेनापि स्वीकार्यम् । द्वितीये तु सिद्धसाधनत्वमेव ।

विगीतं वाक्यमिति किन्तत्वमसिसत्यज्ञानादिमात्रं विवक्षितम्? उतसोयं देवदत्त इति वाक्यव्यतिरिक्तं सर्वमपि समानाधिकरणवाक्यम्? नाद्यः, देवदत्तः श्यामोयुवालोहिताक्ष इत्यादिभिरनैकान्त्यात् । न द्वितीयः, तैरेव कालात्ययापदेशात् । नहि सोयन्देवदत्तइत्यादिवाक्यस्येव देवदत्तःश्यामइत्यादिवाक्यस्य विरोधाभासोप्यस्ति ।

आहुश्च – “सर्वस्यापि च पक्षत्वे बाध एव प्रसज्यते । अनैकान्तिकता तु स्यात् पक्षीकारे च कस्यचित् ।। वाक्यत्वादिति हेतुश्च स्वरूपासिद्धतां व्रजेत् । आकांक्षादित्रयाभावे तद्भावेक्वाविशिष्टघीः।।’

यश्चास्मिन्नेव साध्ये लक्षणवाक्यत्वात् प्रकृष्टप्रकाशचन्द्र इतिवाक्यवदिति प्रयोगः, सोप्येतैरेव दूषणैर्निरस्तप्रायः । प्रतिज्ञाहेत्बोर्विरोधश्च, लक्षणस्यासाधारणधर्मत्वात् । किञ्च प्रकृष्टप्रकाशचन्द्र इत्यत्र प्रकृष्टप्रकाशत्वं किं चन्द्रशब्दप्रवृत्तिनिमित्ततया विवक्षितम्? उत तदुपलक्षणतया? आद्ये चन्द्रशब्दस्य स्ववाच्यतापरत्वात् प्रवृत्तिनिमित्तभेदेन वैशिष्ट्यं स्यात्, अन्यथा चन्द्रशब्दस्य तत्रापि निष्प्रयोजनत्वप्रसङ्गात् सामानाधिकरण्यस्यासिद्धिप्रसङ्गाच्च । न हि पर्यायेणापि सामानाधिकरण्यम्, “भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्य’ मिति हि तल्लक्षणम् । द्वितीये प्युपलक्षणीयोपलक्षणाकारद्वयप्रतिपादनाद्वैशिष्ट्यं सुस्थितमेव । प्रतिपन्नाकारोप्यधिक इति प्रागेवोक्तम् । प्रकृष्टप्रकाशश्चन्द्रइतिवदित्यत्र प्रकाशमात्रविवक्षायां सर्वप्रकाशानामपि चन्द्रत्वप्रसङ्गः, तस्य तन्मात्रलक्षणत्वात् । प्रकाशविशेषविवक्षायां प्रकृष्टप्रकाशश्चन्द्र इत्यस्य विशिष्टार्थविषयत्वात् दृष्टान्तस्य साध्यविकलत्वं स्यात्; अन्यथा प्रकृष्टपदवैयर्थ्यं च । तथा गन्धवतीप्रथिपीत्यादिषु लक्षणवाक्येष्वनै कान्त्यम् ।

अथ मन्यसे सर्वलक्षणवाक्येषु लक्ष्यपदेन स्वरूपन्निर्दिष्टम्, लक्षणांशेन तु स्वेतरसमस्तव्यावृत्तिर्विवक्षिता, तेनाकारेण स्वरूपमेववा, अस्मिन् ज्योतिर्मण्डले कश्चन्द्रः, एषु द्रव्येषु का पृथिवीत्यादि वदतां तत्तत्स्वरूपविषयो हि प्रश्नः, तत्र यदि प्रतिवचनं प्रकारविषयं स्यात्तदान्यप्रश्ने तदन्योक्तिरित्यसङ्गतिःस्यात् । तस्मात्स्वरूपमेव वाक्यार्थः, तत्र लक्षण स्वरूपविशेषणवैशिष्ट्यम विवक्षितम् । एवं विशेषणलक्षणत्यागात् विशेष्यापरित्यागाच्च जहदजहल्लक्षणया ब्रह्मैवात्र प्रतिपाद्यम् । यद्वा कल्पितसत्तादिसामान्यस्यैव वाचकाः । जहल्लक्षणयैवैते प्रागुक्तब्रह्मबोधकाः ।। इति । –

तन्न, अविवक्षितमिति किं अबोध्यत्वं विवक्षितं? उतान्यार्थबोध्यत्वं? न हि गन्धवत्वमन्तरेण पृथिव्यां व्यावृत्तिप्रतीतिरस्ति । न द्वितीयः,तदानीमपि तद्विशिष्टत्वस्यानपायात् । अतस्सर्वत्र लक्षणवाक्येषु लक्षणान्वयस्तद्विरोधिव्यावृत्तिश्चाभिमतेइति तदुभयवैशिष्ट्यं वाक्यान्तरेभ्योधिकमेव । अतस्सर्वेष्वपिवाक्येषु वैशिष्ट्यं दुस्त्यजमेव!

प्रतिप्रयोगश्च – विगीतं वाक्यं विशिष्टपरं वाक्यत्वात्, व्यधिकरणवाक्यवदिति । इदं चानुमानं सर्वलोकप्रतीत्यनुगुणत्वाद्विशेषणक्लेशरहितत्वाच्चाधिकबलमेवेति अनेन पूर्वयोर्बाधः प्रतिरोधो वा । न च जरद्गवादिवाक्यैरनैकान्त्यम्, आकाङ्क्षादित्रयवत एव वाक्यत्वेन विवक्षितत्वात् । यद्वा – प्रमाणत्वे सतीति विशेषणमिह प्रथममेव प्रक्षेप्यम्, तथाप्यनेन पूर्वयोर्बाधः प्रतिरोधो वा दुर्वारः । न च व्यधिकरणवाक्यत्वमत्रोपाधिः, लोके वेदे च विशिष्टपरसमानाधिकरणवाक्यदृष्टेस्तस्य साध्यसमव्याप्त्यभावात् ।

किञ्चानयोरनुमानयोर्विपक्षे बाधकाभावात् अप्रयोजकत्वं च । नन्वस्ति विपक्षे बाधकम्; तथा हि – यदि विगीतं वाक्यं विशिष्टपरस्यात्तदा निर्गुणवाक्यविरोधप्रसङ्ग इति चेत्; न, निर्गुणवाक्यानां दोषनिषेधपरत्वस्थापनात् । विशेषणविशेष्ययोर्विशेषणनां न मिथोभेदादेकार्थपरताभङ्ग इति चेत्; किं प्रधानभूतैकार्थपरता भज्येत? उत विशेषणविशेष्यतादात्म्यलक्षणैकार्थपरता? उत निर्विशेषैकार्थपरता? न प्रथमः, प्रसञ्जकप्रसञ्जनीययोर्व्याप्त्यभावात् । न द्वितीयतृतीयौ, इष्टप्रसङ्गत्वेन दुष्टत्वात् । विशेषणविशेष्यतादात्म्यनिर्विशेषत्वयोरसिद्धत्वेन विपर्यये पर्यवसानासिद्धेश्च । द्वितीयस्य विपर्यये पर्यवसानं तु क्षपणकगन्धिवेदान्तिमतमुत्थापयत् भवतोपसिद्धान्ततामावहेत् ।

ननु विशेषणभेदेन विशिष्टताभेदात् विशेष्यभेद इति प्रसङ्गार्थ इति चेत्? कोयं विशिष्टताभेदो नाम? किं विशेषणभेद एव? उत तत्सम्बन्धभेदः? उत व्यावृत्तिभेदः? यद्वा – तदधीनबुद्धिभेदः?अथवा विशेष्यभेद एव?

नाद्यः, व्याप्त्यभावस्योक्तत्वात्; विशेषणभेदेन विशिष्टताभेदादित्यनयोरैकार्थ्यप्रसङ्गेन हेतुफलभावासिद्धेश्च ।

न द्वितीयः, अव्याप्तेरेव; एकस्य विशेष्यस्यानेकविशेषणसम्बन्धभेदादनेकत्वमिति स्ववचनविरोधाच्च । प्रसञ्जनीय विपर्ययेण प्रसञ्जकविपर्यये तात्पर्यात् अविरोध इति चेत्; एकश्चायम्, अतोऽनेकविशेषणसम्बन्धोस्य नास्तीति स स्यात्; तत्र च श्यामत्वाद्यनेकविशेषणविशिष्ट विशष्टतयोपलभ्यमाने देवदत्तादौ व्यभिचार एव । एकत्वमनेकविशेषणसम्बन्धाभावश्चेत्युभयमेकत्रोप संह्रियमाणमेकस्यानेकसम्बन्धो नोपपद्यत इति वदतः स्ववचनविरोधमावहति ।

न तृतीयः, तत्तद्विशेषणसबन्धभेदैर्यथास्वं विरोधि व्यावृत्तिभेदे विवक्षितेऽनेकव्यावृत्तीनामेकत्र सम्भवात्, अविरोधिव्यावृत्तिभेदस्य त्वसिद्धत्वात् । न हि नैल्यमुत्पलादपि व्यावर्तयेत्, तथा सति घटः पट इत्यादिवन्नीलमुत्पलमित्यादिसमानाधिकरणवाक्यानामनन्वयप्रसंगाच्च । भेदकं विशेषणं भेद्यं विशेष्यमिति स्थिते सङ्कोचकप्रत्यक्षाद्यसम्भवे स्वेतरसमस्तविशेषणाश्रयाद्भेदस्सिद्ध्येदिति चेत्; तर्हि तत एव विशेषणान्तरप्रयोग इव तदप्रयोगेपि स्वाश्रयाद्भेदः किन्न सिद्ध्येत्? विरोधादिति चेत्; किमत्र मानम्? उपलम्भ इति चेत्; किं प्रत्यक्षादिजन्योयमुपलम्भः? उतैतद्वाकक्यस्थसत्यादिपदजन्यः? न प्रथमः, शास्त्रैकसमाधिगम्ये तदसम्भवात् । न द्वितीयः, अविशेषादविरोधिविशेषणान्तराश्रयादपि व्यावृत्त्यभावेन तत्तद्वाक्योदिताविरोधिसर्वविशेषणान्वयसिद्धेः । यदि चैकमेव विशेषणं स्वेतरसमस्ताश्रयाद्धाबर्तयेत्, तदा विशेषणान्तरप्रयोगस्सर्वत्र निरर्थकः । तस्यापि चैकस्य निरसनीयत्वेन तत्प्रयोगोपि प्रतिकूलः “”प्रक्षाळनाद्धि पङ्कस्य दूरादस्पर्शनंवर” मिति न्यायात् । परस्परप्रवृत्तिनिमित्तप्रतिक्षेपोनेकपदप्रयोजनमिति चेत्; न, अनृतजडपरिच्छिन्नभिन्नतया गूढसौगतकूटस्थैर्व्याख्यातत्वात्, पदद्वयप्रयोगेणापि चरितार्थत्वाच्च तेनैव निश्शेषप्रतिपक्षेपसिद्धेः । यद्वा – विशेष्यपदमात्रमेव प्रयोक्तव्यम्, प्रक्षाळनादितिन्यायात्; एकं पदमबोधमिति चेत्; न, उपलम्भविरोधात् । स्मृतिमात्रं स्मृत्यविशिष्टबोधमात्रं वा तेन जन्येतेति चेत्? किमतः? तावतैव विशेष्यस्वरूपप्रकाशसिद्धेः तदतिरिक्तस्य च पदान्तरप्रयोगेपि भवता प्रक्षेपात् । विशेष्यपदमात्रप्रतिपन्नं स्वरूपं विशेषणविधिनिषेधसाधारणं प्रतीयेत, ततश्च संशयस्स्यादिति स्वयं विशेषणाभावनिर्णयाय विशेषणपदप्रयोग इति चेत्; हन्ताभावनिर्णयाय भावप्रतिपादनामिति महदिदमुपपादनमाहात्म्यमिति विपरीतनिर्णय एव ततस्स्यात् । विषं भुङ्क्ष्वेत्यादिवत्तात्पर्यपरीक्षा तदभावनिर्णय इति चेत्; एवं विशेष्यपदमात्रप्रयोगेपि तात्पर्यपरीक्ष्या सर्वविशेषणशून्यत्वमुन्नीयताम् । तात्पर्यनिश्चायकं तत्र नास्तीति चेत्? अहो विशेषणपदप्रयोगे विशेषणाभावतात्पर्यं निश्चीयते, तदप्रयोगे तु नेति सम्यक्परीक्षकत्वम् । देवदत्तोयभित्यादौ विशेषणपदाप्रयोगेपि तद्विशिष्टत्वं प्रतीयत इति सन्देहानपाय इति चेत्; श्यामोयुवेत्यादिविशेषणपदप्रयोगेपि तद्विशिष्टत्वं प्रतीयत इति सन्देहानपाय एव । प्रतीतमपि युक्त्या निरस्यत इति चेत्; अप्रतीतं किन्निरसितुं युक्त्या न शक्यते? नूनमुपकारकमेवापकारकं मन्यसे । प्रतियोगिस्मृत्यभावे तत्प्रतिक्षेपो न शक्यत इति चेत्; न, साधारणधर्ममात्रप्रतीत्यैव धर्मिणां बुद्ध्यधिरोहात् । अन्यथा संशयस्याप्यनुत्थाने सिद्धमेकपदेनैव निर्विशेषम्, किमनेकैरजागळस्तनायमानैस्सत्यादिपदैः ।

नापि चतुर्थः, स हिबुद्धिस्वरूपभेदमात्रं वा? ग्राहकविशेषाधीनप्रत्यक्षादिभेदो वा? ग्राह्याकारभेदो वा? आद्ये धारावाहिकबुद्धौ वस्तुनः क्षणिकत्व प्रसङ्गः । अभिज्ञाप्रत्यज्ञियोर्भिन्नविषयत्वेन क्षणिकत्ववादिसम्मत सर्वप्रत्यभिज्ञाप्रामाण्यभङ्गप्रसङ्श्च । अतिरिक्तस्त्वयं विशेषः, स्मृत्यनुभवयोर्भिन्नविषयत्वप्रसङ्गश्च । एवं वादिप्रतिवादिशिष्याचार्यबुद्धीनमेविषयत्वाभावात्परस्पर व्यवहारानभिज्ञतया कथा प्रवृत्त्यादिभङ्गप्रसङ्गश्च । एतेनात्मख्यातिवादस्तदनुविधायिविषयान्तः करणवृत्त्यध्यासवादश्च निर्मूलः । अत एव न द्वितीयः । स्वराद्यनुमितपुत्रादेः पूर्वानुभूतान्यत्वप्रसङ्गश्च । तथा च श्रवणमनननिदिध्यासनादीनां भिन्नविषयतया स्यात् । तृतीयेपि ग्राह्याकारमात्रं विवक्षितम्? विरुद्धग्राह्याकारभेदो वा? पूर्वत्र उक्तनयेन विशेष्यभेदासिद्धिः, एकस्यैवानेकविशेषणविशिष्टता ग्राहणात् । अन्यथा व्यावहारिकस्यपि विरुद्धाविरुद्धधर्मव्यवस्थापनस्यासिद्धिप्रसङ्गात् । उत्तरोपि प्रागुक्तनयेनासिद्ध एव । तत्त्वमसीत्यत्र तत्त्वमाकारयोरविरोधस्तु सामानाधिकरण्यवादे द्रष्टव्यः । नापि पञ्चमः, विशिष्टताभेदाद्विशेष्यभेद इति हेतुसाध्यभावासिद्धिप्रसङ्गात् । पर्यायद्वारा पर्वक्रमेण बुध्यारोहणमात्रार्थमिदमिति चेत्; तर्हि विशेषणभेदाद्विशेष्यभेद इत्येतावदेवोक्तं भवति, तच्च व्याप्त्यभावादिनां प्रथममेव दत्तोत्तरम् ।

अस्तु तर्हि परस्परसमवायप्रसङ्गो विपक्षे दण्डेः । तथाहि – सर्वं हि वाक्यं उद्देश्योपादेयविभागवत्; ततश्च क्रमावश्यम्भावः, यौगपद्येन विशेषणानामन्वये सत्युद्देश्योपादेयविभागासिद्धेः, “यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षण’ मित्याहुः, ततश्च यदि विशेषणविशिष्टमुद्दिश्य विशेषणान्तरं विधीयते तदोद्देश्यानुप्रविष्टविशेषणांशस्यापि विशेष्यांशस्येव विशेषणान्तरेण विशेष्यत्वप्रसङ्गः । एवं विशेषणान्तरविशिष्टोद्देशेपीति;

तन्न, सर्वेषां वाक्यानामुद्देश्योपादेयनियमाभावात् । सर्वस्याप्राप्तत्वे विशिष्टमेव विधेयं निरणैषुः “यदाग्नेयोऽष्टाकपाल’ इत्यादिषु । गत्यभावविषयो विशिष्टविधिरिति चेत्? किमतः? उद्देश्योपादेयविभागस्स्वरस इति चेत्? तथापि कृत्स्नस्याप्राप्तत्वे स एव गत्यभाव इति विशिष्टविधिर्भवति । अन्यथा न क्वचिदपि विशिष्टविधिस्वीकारः । अतो विशिष्टविधिस्थलेषु युगपदेविशेषणविशिष्टैकप्रतीतिरनिवार्या । यत्र किञ्चिदुद्दिश्य किमपि विधीयते; न तत्रापि परस्परसमवायसिद्धिः, प्रथमन्तावत् परस्परमुद्देशासम्भवात् । प्राप्तोह्यंश उद्देश्य एव अप्राप्तोंशो विधेय एवेति व्यवस्थापनात् । प्राप्तस्यापि विशेषणस्य विशेष्यान्वयप्रतिपत्त्यर्थमितरांशानुवादेन तदंशविधिस्स्वीकार्य इति चेन्न; – तद्विशिष्टतानुवादेनैव तदन्वयप्रतीतिसिद्धेः । अत उद्देश्योपादेयभावस्य प्राप्तत्वाप्राप्तत्वनिबन्धनत्वान्नाभिधानदशायां क्रमापेक्षा । स्मृतिविमर्शयोस्तदपेक्षायामपि प्रत्येकंस्मरणात् यथायोग्यं विमर्शाच्च न परस्परसमवाय प्रसङ्गावकाशः । “यद्गृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षण’मिति तूच्चारणक्रमविषयम्, नाभिधानविषयम् । अत उद्देश्यांशगतविशेषणस्य तृपादेयविशेषणाधारत्वप्रसङ्ग इति च प्रत्युक्तम् । उद्देश्यपदवदुपादेयपदस्यापि विशेष्यसमवेतविशेषणबोधनव्युत्पत्तेर्यथाव्युत्पत्ति विवक्षितत्वात्प्रयोगाच्च । न हि “दण्डी देवदत्तः कुण्डली’ त्यत्र दण्डस्यापि कुण्डलित्वमनुन्मत्तोऽभिमन्येत् !

ननूद्देश्यस्य व्याप्यत्वमुपादेयस्य व्यापकत्वं सर्वत्राभिमतम्,अस्त्वेवम्, तथापि यथा यो यो घूमवान् सोग्निमानित्यादिषु, अतो विशिष्टस्योद्देश्यत्वे तस्यांशस्याशेषस्याप्युपादेयांशेन व्याप्तिर्वक्तव्येति चेत्; अस्त्वेवम्, तथापि न समवायेन व्याप्तिर्वक्तव्या; यथाप्रमाणं सम्बन्धनियमस्यैव व्याप्तिरूपत्वात्, न हि धूमोग्निव्याप्त इति धूमसमवेतोग्निः; ततोत्र विशेषणान्तरेणैकार्थसमवायतस्सम्बन्धनियम इति यथाप्रमाणमास्थीयताम् । एवन्तर्ह्युद्देश्यांशगतविशेषणस्य शाखासारसादिवदुपलक्षणत्वमात्रं स्यादितिचेत्; किन्तेन? न हि तथात्वेपि निर्विशेषत्वं सिद्ध्यति । लक्षणस्य बहिर्विषयत्वात्तत्सिद्धिरिति चेत्; न, तस्य बहिष्ठत्वेप्युपादेयस्य तन्निष्ठतया निर्विशेषत्वासिद्धेः; नचोपलक्षणं सर्वे बहिष्ठमिति नियमः, गोत्वपृथिवीत्वाद्युपलक्षणसास्त्रादिमत्वगन्धवत्त्वादेर्बहिष्ठत्वाभावात् । न च सारसादिकमपि बहिष्ठम्, संयोगादिमत्त्वात्; अन्यथा सम्बन्धाभावेन देवदत्तक्षेत्राद्युपलक्षणत्वासम्भवात्; असम्बन्धमुपलक्षयन्न कस्यचिदेवोपलक्षणं स्यात्; अपि त्वसम्बन्धाविशेषात् सर्वस्यापि स्याद्वा न वा । कस्यचिदुपलक्षणस्य सम्बन्धाभावे वाक्यस्यानन्वयप्रसश्च । एतेन चन्द्राद्युपलक्षणशाखादिकमपि निर्व्यूडम् । न हि साप्यसम्बन्धिनि तमुपलक्षयति; तस्यास्सर्वोपलक्षकत्वप्रसङ्गात् निर्णयासिद्धेः । सर्वस्य तदुपलक्षणत्वं तदानीमेव स्यादित्यतिप्रसङ्गेन तत्वासम्भवात् । कस्तर्हि तत्सम्बन्धः यस्तन्निर्देशविवक्षितः? स एव किमिति सौहृदेन पृच्छाम इति चेत्; शाखाग्रे चन्द्र इति वदन्तो द्विविधाः, प्रतीतिमात्रतन्त्राः निरूपकाश्च । तत्र पूर्वे व्याप्तिसिद्धं संयोगादिकमुपजीव्य प्रयुञ्जते, इतरे तु तदार्जवेदशलक्षणविवक्षयेति । अतः पारंपर्येण सम्बन्धश्शाखायमपि सिद्धः । तादृशर्जवादिसम्बन्धस्साक्षात्सम्बन्धभ्रमेपि भ्रमकारणतयोऽपक्षितत्वात् नापैतीति भ्राम्यत्प्रयोगेपि सम्बन्धमात्रसत्यत्वसिद्धिः ।

अस्तु तर्हि विशेष्यं न विशेषणान्तराधिकरणम्, उद्देश्यपदप्रतिपन्नत्वात् तत्पदोपत्तिविशेषणवदिति चेत्; न, प्रागुक्तोपलम्भविरोधादिदूषणानामनिवार्यत्वात् तथाविधवाक्यातां सर्वेषां प्रामाण्यप्रसङ्गात् । त्वदुक्तेनैव हेतुना त्वदुक्तदृष्टान्तवदेव विशेष्यं न पदान्तरबोद्ध्यमित्यतिप्रसङ्गाच्च । एतेन युगपद्बोधने विशेष्यांशवत् प्रातिपदिकार्त्थैक्यपरसमानविभक्तिसामर्थ्यादेव विशेषणानांमिथो विशेषणान्तरैर्विशेष्येण च तादात्म्यप्रसङ्गोपि प्रत्युक्तः । न हि पदद्वयप्रतिपन्नविशेष्यैक्यमात्रात्तत्सिद्धः, भवत्पक्षे सगुणब्रह्मवाक्यपर्यालोचनेन व्याप्तिविरोधात् । न च सगुणसमानाधिकरणवाक्यस्य प्रातिपदिकार्त्थैक्ये तात्पर्यमिति स्यात्, तद्वदेव निर्गुणवाक्येष्वपि विशेष्यमात्रैक्यपरत्वनिर्णयात् । तथा च सगुणे र्निर्गुणे वापि सामानाधिकरण्यधीः । विशेषणानां भेदेपि विशेष्यैक्ये नियम्यते ।। अन्यथा व्युत्पत्तिपत्त्योर्विरोधात् । अत एव भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यमिति तल्लक्षणविदः ।

ननु भिन्नप्रवृत्तिनिमित्तत्वं हि भिन्नार्थत्वम्, प्रवृत्तिनिमित्तस्य शब्दवाच्यत्वात्, अतो भिन्नार्थानां शब्दानामेकार्थपरत्वमिति व्याघात इति चेत्; किमिदं लक्षणवाक्यस्य दूषणाभिप्रायेणोक्तम्? उतान्यपरत्वाभिमानेन? नाद्यः, अनभ्युपगमात्; न द्वितीयः,भिन्नप्रवृत्तिनिमित्तानां शब्दानां प्रवृत्तिनिमित्तपरित्यागेनैकार्थपरत्वमिति शेषपूरणेन व्याख्येयमिति चेत्; कुत एतत्? एकैकस्मिन्नर्थे प्रवृत्तिरिति शेषपूरणेन विपरीतं वा किन्न स्यात्? एकार्थत्वस्य तात्पर्यसिद्धत्वात् भिन्नार्थत्वस्य तद्विरुद्धत्वाच्चेति चेत्; तर्हि व्यधिकरणवाक्येष्वपि नानाकारकादिवैशिष्ट्यन्न स्यात्; तत्राप्येकार्थत्वस्य तात्पर्यसिद्धत्वात् । “अर्थैकत्वादेकं वाक्यं साकांक्षञ्चेद्विभागे स्या’दिति हि वाक्यविदः । न च बौद्धगन्धिवैयाकरणादिवत्तत्रापि वैशिष्ट्यं माभूदिति वाच्यम्; अपसिद्धान्तात् । वस्तुतस्तत्रापि वैशिष्ट्यन्न सिद्धान्त इति चेत्; तर्हि तद्वदेव समानाधिकरणवाक्यस्यापि विशिष्टपरत्वमभ्युपगम्य तैस्सह बाध उपपाद्यताम् । एवं च समानाधिकरणवाक्यत्वादिति हेतुविशेषणोपादानवैयर्थ्यं च प्रागेवोक्तम् । अनेककारकविशिष्टैकर्थपरत्वं व्यधिकरणवाक्येषु व्युत्पत्तिसिद्धमिति चेत्; तर्हि अनेकविशेषणविशिष्टैकविशेष्यपरत्वं सामानाधिकरणवाक्येषु व्युत्पत्तिसिद्धमिति समस्समाधिः । एवं च विषयव्यवस्थया विरोधे शमयितव्ये बाधाध्याहारलक्षणादिपरिग्रहो देवानां प्रियेभ्य एव रोचते । प्रवृत्तिनिमित्तशब्दवाच्यविशेषणनिष्ठो हि भेदस्तदाश्रयभूतविशेष्यगतञ्चैकत्वमिति कोत्र विरोधमनुसन्दधीत? अतस्सामानाधिकरण्यलक्षणानुपपत्ति र्न ते विपक्षे बाधिका, अपि तु स्वपक्ष एवेति तूष्णीमास्व ।

पदद्वयप्रतिपन्नविशिष्टद्वयैक्ये विशेष्यैक्यवद्विशेषणैक्यमपि दुस्त्यजम्, तद्वदेव वा विशेष्यभेदोपि किन्न स्यादिति चेत्; किमिदम्? अथश्शायितोपि केशान्न मुञ्चति! विशिष्टद्वयैक्यशब्देन विशेषणद्यैक्यविवक्षायामात्माश्रयसिद्ध्यादिदोषः, विशेष्यैक्यविवक्षायान्तस्य विशेषणैक्यं प्रत्यसाधकत्वस्योदीरितत्वात्; यथा जात्यादिरूपविशेषणैक्येपि विशेष्यभेदः प्रत्यक्षादि सिद्धत्वाद्दुरपह्नवः; तथा विशेष्यैक्येपि विशेषणभेदस्तत एव दुरपह्नवः । अन्यथानेकगुणविशिष्टैकवस्तुप्रतिपादकतयाभिमतानां सगुणवाक्यानामनुत्थानप्रसङ्गात् । यथा वानेकप्रतियोगिभेदेपि तत्तद्धावृत्तवस्त्वैक्यम्; तथानेकविशेषणभेदेपि तत्तदन्वितवस्त्वैक्यं न व्याहतमेव । एवं च विशेषणैक्यप्रसङ्गे प्रतियोग्यैक्यप्रतिबन्देरपि दुस्तरत्वं स्यात् । किञ्च – यथा क्रमेण युगपद्वा प्रत्यक्षादिभिरनेकविशेषण विशिष्टैकवस्तुप्रतिपत्तौ विशेष्यभेदो वा विशेषणानां मिथस्तादात्म्यसमवायो वा न प्रसज्येते; तथा शब्देनापि, प्रत्यक्षाद्यनुसारिव्युत्पत्तिवशंवदत्वात् तत्सामर्थ्यस्यापि प्रायशः तत्समानत्वात् । एवमन्यदपि द्रष्टव्यम् ।

प्रतिकूलतर्काश्च भवन्ति तथाहि – यद्येकपदप्रतिपन्नादन्यूनानधिकमेव पदान्तरेणापि बोध्येत; तदा पर्यायत्वप्रसङ्गः, पदान्तरवैयर्थ्यञ्च; निमित्तेभेदादपर्यायत्वमितिचेत्; तर्हि वैशिष्ट्यप्रसङ्गः, तथा च स्वेष्टभङ्गः, निमित्तभेदे सत्यपि तदन्वयाभावाद्वैशिष्ट्याभाव इति चेत्; किमत्र घटः पट इतिवत्प्रमाणविरोधादनन्वयः? उत तदविरोधेपि श्रद्धासंगृहीततर्कावस्करबलात्? नाद्यः, असिद्धेः; न द्वितीयः, प्रागेव निरस्तत्वात्; यदि च सन्तमपि निमित्तभेदमनादृत्य सर्वैः पदैस्स्वरूपमात्रमेव बोध्येत; तर्ह्येकेतरपदप्रयोगे नैरर्थक्यं स्यात्, प्रतिपन्नेपि स्वरूपे तत्तत्प्रतियोगिव्यावृत्तिसिद्ध्यर्थं पदान्तरप्रयोग इति चेत्; किन्तत्प्रवृत्तिनिमित्तान्वयसामर्थ्यात्तत्प्रतियोगिव्यावृत्तिसिद्धिः? उत तत्तत्पदजन्यस्वरूप मात्रबोधादेव? नाद्यः, वैशिष्ट्यस्य दुर्वारत्वात्; न द्वितीयः, अविशेषात्; प्रथमपदेनैव स्वरूपप्रतिपत्तौ सर्वव्यावृत्तिसिद्धिप्रसङ्गात्, तेन तदसिद्धौ पदशतेनापि तदसिद्धिप्रसङ्गात्; यथा पर्यायाणां शतमपि पठ्यमानं न व्यावृत्तिभेदमापादयति, तथात्रापि । अत एकेतरपदानां नैरर्थक्यमेव । सामानाधिकरण्येन निर्विशेषपरत्व सिद्ध्यर्थमनेकपदप्रयोग इति चेत्; न, तथापि पदद्वयमात्रेणापि तत्सिद्धेः बहुपदप्रयोगे नैरर्थक्यप्रसङ्गात्; तथा च विशेषण पदद्वयमपि प्रयोक्तव्यम्; एकविशेषणपदसहितविशेष्यपदमात्रेण सामानाधिकरण्यसिद्धेः । सामानाधिकरण्यस्य निर्विशेषपरत्वे सिद्धे तदर्थतया अनेकपदप्रयोगसाफल्यम्, तत्साफल्ये च सति सामानाधिकरण्यस्य निर्विशेषपरत्वसिद्धिरित्यन्योन्योश्रयता । ननु तत्तत्प्रवृत्तिनिमित्तविशिष्टं वस्तु शब्दबोध्यम्, प्रवृत्तिनिमित्तानि च स्वविरोधिव्यावृत्तिसहवर्तीनि, अत्र तु विशिष्टबोधनानुपपत्या विशेष्यमात्रं बोधयन्त्यपि पदानि नैरर्थक्यादिपरिहाराय स्वप्रवृत्तिनिमित्तसहिततत्तद्विरोधिव्यावृत्तिमपि लक्षयन्ति, ततस्ततद्धावृत्तमेकं वाक्यार्थ इति किन्नोपपद्यते? श्रूयताम् । तत्तद्धावृत्तिः किमत्र धर्मिस्वरूपम्? उत ततोन्या?

तत्र न तावत्स्वरूपम्, स्वरूपस्यैव तत्प्रकाशत्वात्; प्रकाशाप्रकाशयोरध्यासानुपपत्त्यादेरन्यत्र प्रतिपादनात् । किञ्च – तत्तद्विरोधिव्यावृत्तिः किं परस्परभिन्ना? उतैका? भिन्नत्वे तदात्मकत्वात् ब्रह्मणोपि भेदप्रसङ्गात्; न च व्यावृत्तिभेदो मिथ्येति वाच्यम्; मिथ्याभूताभेदप्रतिपादनायानेकपदनैष्फल्यात्; अतत्वावेदकप्रसङ्गाच्च । एकत्वे प्रथमपदेनैव सर्वव्यावृत्तिसिद्धौ पदान्तरप्रयोगनैष्फल्यमनतिक्रान्तम् । एकनिष्ठानेकप्रतियोगिकान्योन्याभावनिरूपणं तर्हि कथमिति चेत्; इत्थम् । प्रतियोगिभेदादन्योन्याभावभेदाभ्युपगमे दोषाभावात् । अभेदेपि तत्तत्प्रतिसम्बन्धित्वलक्षणविशेषणविशिष्टैकान्योन्याभावपरत्वात् अनेकपदप्रयोजनसिद्धिः । एवं स्वरूपानतिरिक्तान्योन्याभावे समाधिरनुसन्धेयः । न चात्रापितत्तत्प्रतिसम्बन्धित्वलक्षणाविशेषणवैशिष्ट्यमात्रमभ्युपगतमिति वाच्यम्, प्रागेव तत्तद्धर्मवैशिष्ट्यस्य यथाप्रतीत्यभ्युपगन्तुमुचितत्वात् ।

नाप्यन्या; सा हि तत्तत्प्रवृत्तिनिमित्ताकारा वा स्यात्? उत ततोन्या तदविनाभूतेति? न प्रथमः, दूरं गत्वा घट्टकुटीप्रभात्तप्रसङ्गात्; नापि द्वितीयः, तत्तत्समानयोगक्षेमतया तदभावे तदसिद्धिप्रसङ्गात्, न हि घटत्वाभावेप्यघटव्यावृत्तिसिद्धि, तत्सिद्धौ तद्वैशिष्ट्यस्यापरित्याज्यत्वात् पुनरपि परपक्षकुक्षिप्रवेशेन भस्मीभावः । अभावरूपविशेषणमात्रवैशिष्ट्यमनुमन्यामह इति त्वपक्षपातिनस्ते न युक्तम् । न च व्यावृत्तीनां मिथ्यात्वेन समाधिः, जडाद्यैक्यप्रसङ्गस्यान्यत्रोक्तत्वात्; पूर्ववदतत्वावेदकत्वप्रसङ्गाच्च । भवत्पक्षे तत्तत्प्रवृत्तिनिमित्तानामपि मिथ्यात्बात्तत्तद्वैशिष्ट्येप्येवं न भेतव्यम् । अतो भवता प्रथममेव तदभ्युपगम उचितः ।

एतेन शौकल्यं कार्ष्ण्यव्यावृत्तं पीतिमव्यावृत्तमित्यादिप्रतिबन्दिनिस्तारसिद्धिः, तत्र प्रतिपदं प्रतिपाद्यभेदाभ्युपगमात् । यदि पुनस्तत्रापि कार्ष्ण्यव्यावृत्तिरेव पीतिमव्यावृत्तिः स्यात्, तदा पीतिम्नः कार्ष्ण्यव्यावृत्तिसद्भावे न पीतिमव्यावृत्तिप्रसङ्गः । एवं विपरिवर्तेन कार्ष्ण्यव्यावृत्तिप्रसङ्गः । अतः कार्ष्ण्यव्यावृत्त्यभावे पीतिमव्यावृत्तेः कार्ष्ण्ये दर्शनात्तयोर्मिधो भेदस्सिद्धः, व्यावृत्त्यनुवृत्त्योरेकत्र विरोधात् । व्यावृत्त्यनुवृत्तिभ्यामेव हि व्यक्तिजातिभेदं सर्वेप्याहुः । ताभ्यामेव हि घटादेस्सतश्च मिथ्यात्वामिथ्यात्वविवेको भवद्भिरपि स्वीकृतः । अतः कार्ष्ण्यव्यावृत्तमित्यादौप्रतिपदं प्रतिपाद्यभेदस्याभ्युपगन्तव्यत्वान्न निष्प्रयोजनत्वप्रसङ्गावकाशः । यद्यपि भावान्तरं व्यावृत्तिरिति पक्षः, तथापि तस्य व्यावृत्तित्वं तत्तत्प्रतिसम्बन्धित्वसमुच्चितोपाधिभेदगर्भमिति तेनाकारेण प्रतिपाद्यभेदसिद्धिः, अन्यथा शौकल्यस्वरूपस्यैव पीतिमव्यावृत्तिरूपत्वे कार्ष्ण्ये पीतिमव्यावृत्तिशब्दो न प्रयुज्येत । न च तावता भआवान्तराभाववादपरित्यागप्रसङ्गः, अभावाभावेष्विवात्रापि निर्वाहस्य तन्त्राचार्यैस्समर्थितत्वात् । सम्भवति च शौकल्यादेस्सकलेतरव्यावृत्तिरूपत्वम्, तत्प्रकाशेऽन्याध्यासस्यादृष्टेः, ब्रह्मस्वरूपेनिर्विशेषे प्रकाशमान एव सर्वेतराध्यासात् सर्वेतरव्यावृत्तिरूपत्वं दुरुपपादमेव ।

किञ्च निर्विशेषबाधने वाक्यस्य सामानाधिकरण्यासिद्धिप्रसङ्गश्चासामानाधिकरणानेकार्थबोधकतयैव ह्यन्ततः शब्दानां सामानाधिकरण्यम् । अत एव हि भिन्नप्रवृत्तिनिमित्तानामित्यादि लक्षणमुक्तम् । न चैतदुदाहरण विशेषविषयमिति वक्तुं युक्तम्; एकप्रवृत्तिनिमित्तानां वा परित्यक्तमुख्यामुख्यसर्वप्रवृत्तिनिमित्तानां वा सामानाधिकरण्यादर्शनात् । सत्यज्ञानादिवाक्ये दृश्यत इति चेत्; न, आशामोदकतुल्यत्वात् । तर्हि पर्यायपाठेष्विति चेत्, किं पुनरुक्तोदाहरणेषु यथा घटं कुम्भमानयेत्यादिषु? किं वा निखण्डुवत् पर्यायव्युत्पादनार्थपाठेषु यथा कः पिक इत्युक्ते कोकिलः पिक इत्यादिषु? तत्राद्येऽनन्वयादेव सामानाधिकरण्यासिद्धिः, अनन्वयश्चाकाङ्क्षादि विरहात्, आकाङ्क्षादित्रयसमाहारे सत्येव ह्यन्वयः, अन्यथा नैराकाङ्क्ष्येण क्वचिदपि वाक्यभेदो न स्यात् । द्वितीये तु निमित्तभेदोस्त्येव, कोकिलशब्दस्य कोकिलत्वजात्यैव प्रवृत्तत्वात्पिकशब्दस्य पिकशब्दवाच्यत्वलक्षणविवक्षया प्रयोगात् । कथमिदमवगतमिति चेदित्थम्; कः पिक इति पृच्छतो हि पिकशब्दवाच्यः क इत्यभिप्रायः, तदुत्तरार्श्रस्तु तदनुरूप एव भवितुर्महति. ततश्च कोकिलः पिकशब्दवाच्य इत्येवोत्तरवाक्यार्थः । एतदनभ्युपगमे तत्रापि पौनरुक्त्यादिदोषो दुष्परिहर इति ।

एवं च न समानाधिकरणवाक्यस्य मुख्येपि विशिष्टैक्ये सम्भवति लक्षणा, तत्रापि सर्वपदलक्षणा, तत्र च निर्विशेषविशेष्यमात्रलक्षणा, तदुपरि व्यावृत्तिलक्षणेत्यादिपरिक्लेशो भवति । इदं च तात्पर्यानिर्णयवशास्त्वीक्रियत इति वदन् कथन्न जिह्रेति? स्वप्रतिपत्तिर्भवतीति कथमेनन्न निर्भत्सर्यति? अथ वा लक्षणयापि ब्रह्मणश्शब्दबोध्यत्वं वदता “यतो वाचो निवर्तन्त’ इत्यादेः स्ववचनविरुद्धोप्यसङ्कोचोपपादनप्रयासो विस्मृतः । मुख्यतया बोध्यत्वं तत्र निषिध्यत इति चेत्; विपरीतं किन्न स्यात्? उभयथापि वाग्वृत्त्या बोध्यत्वस्याविशेषात्, बोध्यत्वे मिथ्यात्वप्रसङ्गभयं लक्षणया बोध्यत्वेपि समानमेव, विशेषाभावात् । अत एव परमार्थतो वा लक्षणया वा बोधनं नेच्छाम इति चेत्; तर्ह्यखण्डवाक्यार्थासिद्धिरेव भवेत्, परमार्थतस्तत्प्रतिपादनाभावेपि तत्सिद्धौ तत्रैव सखण्डवाक्यार्थसिद्धिरपि किन्नस्यात्?

यत्तु वाक्यतात्पर्याविरोधायैकपदलक्षणेव सर्वपदलक्षणापि न दोष इत्याहुः । तदपि तात्पर्यस्यान्यथानिर्णयादेव निरस्तम् । यत्पुनर्विषं भुङ्क्ष्वेत्यादिषु सर्वपदलक्षणा दृष्टेति; तदपि न भुङ्क्ष्वेत्यस्य निषेधप्रतियोगिविशेषसमर्पकस्य, तत्रापि मुख्यत्वात्, विपशब्देनैव ह्यनर्थकरभक्ष्यरूढेन भुज्यमाने तस्मिन्ननर्थहेतुतया निषिद्धतामभिप्रयता भोजननिषेधोप्यभिप्रेतः । यद्वा भुङ्क्षत्वेत्यत्र प्रकृत्या निषिद्धभोजनं विवक्षितम्, विषशब्देन तन्निषेध एव विवक्षितः, तथापि प्रत्ययांशस्य मुख्यत्वं सिद्धम् । अस्तु तर्हीहापि प्रत्ययांशस्य मुख्यत्वम्, विशेष्यैक्यस्य तदर्थस्यापरित्यागादितिचेत्, न, विशेष्यमात्रस्यैव प्रतिपत्तुमशक्यत्वोपपादनेन विशेष्यैक्यस्यापि दुष्प्रतिपादत्वात् ।

यत्तु विशेषस्यापि मुख्यार्थैकदेशत्त्वात्तत्र वृत्तिर्नलक्षणेति के चिदाहुः, तदपि मन्दम्, विशिष्टविषयायाश्शक्ते र्विशेषणाभावे विशिष्टाभावेन निर्विषयत्वात् ।

किञ्च विशेष्यविषया शक्तिर्यदि नैवोपपद्यते । अभिधेयत्वयोगेन तन्मिथ्यात्वं प्रसज्यते ।।

अतो विशेष्यबोधने विशेषणद्वारायाश्शक्तेस्तदभावे कुण्ठितत्वमेव; अन्यथा विशेष्यपरित्यागेनापि बोधनमात्रेण सर्वत्र मुख्यत्व प्रसङ्गात् । अतोत्र निर्निमित्तलक्षणादिदोषो दुष्परिहरः । यद्यपि विशेष्यमात्रे तदैक्ये च मुख्यत्वं सम्भवति, विशेष्यं हि वाक्ये प्रधानोंशः, तथापि तत्र स्वारस्यहानिरवर्जनीयैव ।

किञ्च वाक्यार्थस्य निश्शेषभेदरहितत्वे तत्प्रतिपादकस्य वाक्यत्वाभावप्रसङ्गः, परस्परसंसृष्टपदार्थपरतया वा तत्संसर्गपरतया वा खल्वन्विताभिधानाभिहितान्वययोस्सम्भवः । निर्विशेषे तु तदुभयमपि न सम्भवति, बौद्धमतगन्धिवैयाकरणाद्यभिमतबुद्धिविशेषादिवाक्यार्थत्वं मीमांसाचार्यादिभिर्विस्तरेण प्रतिक्षिप्तमिति न तत्रास्माभिरिह प्रयस्यते ।

नन्वस्तु तत्वमसिसत्यज्ञानादिवाक्यानामखण्डपरत्वं निष्प्रमाणकम्, तथापि भवता वादजल्पयोस्सखण्डपरत्वे प्रमाणं वाच्यमितिचेत्; उच्यते । विप्रतिपन्नं वाक्यं विशिष्टपरम्, बोधकत्वात्; सम्प्रतिन्नवत्; न च पदमात्रैर्भ्रमहेतुर्भिवाऽनैकान्त्यम्; तेषामपि यत्किञ्चिद्विशिष्टबोधकत्वमात्रस्य सिद्धत्वेन तत्रापि साध्य सामान्यस्य विद्यमानत्वात्, स्मारकत्वं हि पदानां । विशेष्टमेव स्मार्यम्, एकत्यापि पदार्थस्य प्रकृत्याद्यंशभेदेन विशिष्टत्वात्पदार्थानामपि निपुणनिरूपणे प्रावशो विशिष्टत्वादेव । अख्यातिगर्भमयथार्थगोचरवा भ्रान्तिज्ञानमपि विशिष्टविषयमेव । संसर्गमात्राख्यातिरेवह्यख्यातिर्न पुनस्सर्वाख्यातिः । एतेनाखण्डवाक्यार्थ इति भवद्वाक्येनाप्यनैकान्त्यं परिहृतम् । न च निर्विशेषगोचरप्रत्यक्षादिभिरनैकान्त्यम्, तेषामन्यत्र प्रतिक्षिप्तत्वात् । पराभिमतनिर्विकल्पकस्य निश्शेषोन्मूलनात् ।

एवं वाक्यत्वादिति प्रागुक्तश्च हेतुरनुसन्धेयः । यद्वा – किमनुमानक्लेशेन? सत्यज्ञानादिवाक्यश्रवणसमनन्तरं निपुणनिरूपितनीति परिशद्धबुद्धीनामपि विशिष्टवाक्यार्थबोध एव जायते, यथा सगुणब्रह्मादिपरतया भवदभिमतवाक्यश्रवणे; न चैतदपह्नवमर्हति, सर्वेष्वपि वाक्येषु विशिष्टवाक्यार्थबोधापह्नवप्रसङ्गात्, न च तत्साहसिकानां पश्यतोहराणां भवतामपीष्टम् । अतोऽनन्यथासिद्धानन्तर्य नियमाधिगमादन्यत्रेवात्रापि स्वानन्तरभाविविशिष्टवाक्यार्थबोधं प्रति करणत्वं प्रत्यक्षत एव सिद्धम् । बाधशङ्का तु प्रागेव निरस्तेति । अतस्सिद्धं सखण्डपरं “तत्वमसि’ “सत्य’ मित्यादि वाक्यमिति ।

इति शतदूषण्यां अखण्डवाक्यार्थखण्डनवादः अष्टत्रिंशः  । (38)

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.