शतदूषणी ब्रह्माश्रयाज्ञाननिरासवादः(19)

शतदूषणी

।। अथ ब्रह्माश्रयाज्ञाननिरासवादः एकोनविंशः ।।19।।

अनन्यचेतसां पुंसामज्ञानमवधून्वते ।

निरस्ताज्ञानगन्धाय नित्यं सर्वविदे नमः ।।

अहङ्काराभिव्यङ्ग्यत्वं दूषयद्भिर्भाष्यकारैरज्ञानाश्रयत्वमपि संविदो निरस्तम् “न च संविदाश्रयत्वमज्ञानस्ये”त्यादिना । अविद्याश्रयविकल्पे चोक्तम् – “नापि ब्रह्माश्रित्य, तस्य स्वप्रकाशज्ञानरूपत्वेनाविद्याविरोधित्वात् इत्यादिना” । प्रदेशान्तरेषु च सर्वज्ञत्वनिर्दोषत्वादि श्रुतिशतैर्विरोधो दर्शितः तत्सर्वं सङ्कलस्य व्याकुर्मः । यद्यसौ परमात्मा त्वदुक्तप्रकारेण संविन्मात्रस्वरूपः, यदि वा यथाश्रुति सर्वज्ञः, नोभयधाऽपि तस्याज्ञानाश्रयत्वं संभवति । तथा हि – न तावद्घटादिवत् ज्ञातृत्वात्यन्ताभावलक्षणमज्ञानमिह विवक्षितम्, तस्य त्वदभिमते ब्रह्मण्यपि घटादाविव यावत्स्वरूपभावितया स्वरूपे सति निवर्तयितुमशक्यत्वात् । नापि ज्ञान प्रागभावद्वंसौ । ब्रह्मणि धर्मभूतज्ञानस्य कदाचिदपि अनभ्युपगमात् । नापि ज्ञानान्योन्याभावः, ज्ञानान्तरानभ्युपगमात्; स्वप्रतियोगिकभेदायोगाच्च । वृत्तिज्ञानादध्यस्तज्ञानाद्वा भेदस्य स(नि)त्यत्वेन तस्यापि निवर्त्यतयाऽभिमता ज्ञानत्वायोगात् । भावरूपाज्ञानत्वाभ्युपगमादेव च नाभावान्तरमपि । अतोयत्तदज्ञानं ज्ञाननिवर्त्यमभिमतम्, तज्ज्ञातर्येव भवितुमर्हति; ज्ञानस्य स्वाश्रय एवाज्ञाननिवर्तकत्वव्याप्तेः । न हि देवदत्तगतेन ज्ञानेन यज्ञदत्तगतमज्ञानं निर्वतते । ननु ईश्वरादिगतेन ज्ञानेन कथं तदनुग्रहविषयजीवगताज्ञाननिवृत्तिस्तवेति चेन्न; तत्र शक्तिविशेषोपबृंहितत्वेन तदुपपत्तेः । न हि प्रकाशाकारतामात्रेण तत्र परगताज्ञाननिवर्तकत्वम्, तथा सति नित्यं तन्निवृत्तिप्रसङ्गात् । अतो जीवगतेनान्तःकरणगतेन वा तत्त्वज्ञानेन ब्रह्माज्ञाननिवृत्तिरिति प्रत्युक्तम् । ततश्च यत् ज्ञाननिवर्त्यमज्ञानम्, न तत् ज्ञातृत्वप्रसक्तिशून्ये ब्रह्मणि भवितुमर्हति । तदेतद्भावरूपाज्ञानदूषणे प्रसङ्गाभिप्रायेण प्रायुङ्क्ते – “विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रयम्, अज्ञानत्वात्;”शुक्तिकाद्यज्ञानवत्; ज्ञात्राश्रयं हि तत् इति । “ब्रह्म नाज्ञानास्पदम्, ज्ञातृत्वविरहात्, घटवत्” इति च । ननु कल्पितं ज्ञातृत्वं ब्रह्मणोऽप्य (स्ति, तेनास्या) स्तीति तस्याज्ञानाश्रयत्वोपपत्तिरिति चेन्न; अहङ्कारोपहितवेषेणैव तस्य ज्ञातृत्वकल्पनाभ्युपगमात्, सुषुप्तिमरणादिष्वहङ्कारप्रलयेऽपि संविदात्मन एवाज्ञानाश्रयत्वाभ्युपगमाच्च । ततश्च शुक्तिकाज्ञानवद्ब्रह्माज्ञानमप्यहमर्थनिष्ठमिति वा कल्पय, त्यज वा सर्वत्र ब्रह्माज्ञानम् ।उभयधाऽपि न त्वामुपद्रवामः । यश्च वस्तुतो ज्ञातृत्वं परिग्रह्याज्ञानमपि ब्रह्मणि स्थापयेत्, सोऽपि नित्यसर्वज्ञत्वानुपपत्त्या निरसिष्यते।

स्वप्रकाशत्वाच्च । ब्रह्मप्रकाशबाध्यं हि ब्रह्माज्ञानमभिमतम्, ब्रह्म च नित्यस्वप्रकाशरूपम्, ततस्तेजसीवतिमिरं कथं तत्र तत्स्यात्? तच्चेत्स्वस्मिन्नज्ञानं सहेत, कस्तस्य निवर्तकः? ब्रह्मविषयं वृत्तिज्ञानं निवर्तकमिति चेत् अनुभाव्यत्वे घटादिवदननुभूतित्वप्रसंग इति त्वदुक्तं किं न स्मरसि? प्रस्मर वा । तथाऽपि विशेषाभावान्न तस्यापि निवर्तकत्वम् । निवर्तकानुपपत्तौ चास्य विस्तरो ग्राह्यः । ननु भवतोऽपि जीवस्वरूपं स्वप्रकाशम्, तदेव चाज्ञानाश्रयतयाऽभिमतमिति चेत् सत्यम्, तथाऽपि न तत्र विरोधः । नहि स्वप्रकाशांश प्रत्यनीकमप्रका (शां) शं प्रत्यगात्मनो ब्रूमः, अपि तु तस्यैव देहेन्द्रियादिविधर्मिणः स्वप्रकाशत्वनित्यत्वस्वादुतमत्वादिधर्मविशिष्टरूपाज्ञानम् । तच्च तदात्मगतेन विशिष्टविषयेण ज्ञानेन निवर्तते । यथा च शबरसंवर्धितस्य राजकुमारस्य शबरतयाऽऽत्मानमभिमन्यमानस्य प्रकाशमान एवस्वात्मनि क्षत्रियत्वाज्ञानम्, तच्चोपदेशादिजन्यराजत्वज्ञानेन निवर्तते; तद्वदत्रापीति स्वयमेव परिभावय ।

नित्यमुक्तत्वाभ्युपगमाच्च । न ह्यज्ञानाश्रयत्वमनन्तर्भाव्य कश्चिद्बन्धो नाम न च बन्धाभावादन्यामुक्तिः । येच मुक्तिदशायां पाषाणादिवदज्ञत्वमिच्छन्ति, न तेऽपि तदानीं संसारबीजभूतमज्ञानमनुमन्यन्ते । अस्मन्मते तु यद्यपि सार्वज्ञ्यमात्मनां स्वरूपप्रयुक्तं, तथाऽपि तदुपाधिवशान्निरुद्धमिदानीं न विद्यत इति बन्धमोक्षयोः कालभेदान्न विरोधः । अस्माकमप्यविद्यातन्निवृत्त्योः पौर्वापर्यान्न विरोध इति चेत्; तर्हि नित्यमुक्तत्व (व्याघातः) – विरोधः । अविद्यायाः स्वकालेऽपि वस्तुतो निवृत्तत्वान्नित्यमुक्तत्वमुपपद्यत इति चेत्; कथं तर्हि पौर्वापर्यम् । प्रतिभासभेदाधीनमिति चेन्न; प्रतिभासयोरपि नित्यनिवृत्तस्वरूपतया तत्रापि पौर्वापर्यासिद्धेः । एवं च तत्तत्प्रतिभासपारम्पर्यगवेषणेऽपि न निस्तारः । न च सत्यस्ते प्रतिभासभेदः, येन निरुपाधिकं तत्र पौर्वापर्यं स्यात् । निवृत्त्यनुपपत्तिहेतवश्चात्र संचारणीयाः ।

सर्वज्ञत्वाच्च । न हि सर्वं जानाति यत्किंचित्सर्वमेव वा न जानातीति सम्भवति । माभूत्सार्व ज्ञ््यं ब्रह्मण इति चेत्, न तावदयं शापः । नाप्यनभ्युपगममात्रप्रकाशनम्, अकिंचित्करत्वात् । नापि प्रमाणानुधावनम्, वैपरीत्यात् । श्रूयते हि – “यस्सर्वज्ञस्सर्ववित्”(मुण्ड – 1 – 1 – 5) इत्यादि । स्वयं च ब्रवीति – वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ।। (श्री.भ.गीता 7 – 26) इति । स्मरन्ति च – “सर्वज्ञस्सर्ववित्सर्वशक्तिर्ज्ञानबलर्धिमान्” । (वि.पु) इत्यादि । न नित्यं तस्य सार्वज्ञ्यमिति चेत्, अस्य कोऽर्थः? किं कदाचिदपि सार्वज्ञ्यं नास्तीति? उत सदप्यनित्यमिति? नाद्यः, श्रुतिविरोधात्; गुणनिषेधश्रुतीनां श्रुतिविहितगुणव्यतिरिक्तविषयत्वस्थापनात् । न द्वितीयः, स्वाभाविकसार्वज्ञ्य श्रुतिविरोधादेव । न हि स्वाभाविकसार्वज्ञ्यस्य विनाशस्सम्भवति । नापि चोत्पत्तिः,प्रागभावाभावात् । विस्तरस्त्वन्यत्र । अतो नित्यसर्वज्ञत्वाद्ब्र्रह्मणो न कदाचिदपि तस्याज्ञानाश्रयत्वसम्भवः । एतेन समस्तदोषनिषेधकवाक्यशतबाधोऽपि स्थापितः ।।

ननु क एवमाह अज्ञानाश्रयभूतं ब्रह्मेति? यं प्रति तन्निषेधसम्भवः, इति चेत्; हन्त किमस्मदुक्तयुक्त्याप्रयुक्तो भवान् ब्रह्माज्ञानं निषेधति? उत स्वमनीषिकासिद्धवृषलोद्वाहमन्त्रन्यायेन? पूर्वत्र त्यजामस्संरम्भम् । उत्तरत्रापि न तावन्निरुपाधिकयोरेकत्र सम्भवः, उपाधिभेदापादितयोरपि न त्वदुक्तयुक्त्या सिद्धिः; न हिदेशकालादिभेदेन तयोर्निर्वाहं पश्यसि, तथा दर्शनेऽपि प्रागुक्तयुक्तयः प्रतिस्पर्धिन्यः । प्रातिभासिको विधिः पारमार्थिको निषेध इत्यपि न पालयितुं शक््यम् । निषेधस्याप्यन्ततास्त्वदुक्तरीत्याप्रातिभासिकत्वात् । नचाविद्यास्वरूपततदाश्रयत्वादेर्दुनिरूपतया तन्निषेधः पारमार्थिक इति युक्तम्, तन्निषेधस्य दुर्निरूपतया तत्स्वरूपादिपारमार्थिकत्वप्रसङ्गेन विपरिवर्तस्य सुशकत्वा (च्च)त् । भवतूभयमपि दुर्निरूपत्वादपारमार्थिकम्,. का नः क्षतिरिति चेन्न “परस्परविरोधे हि न प्रकारान्तर स्थिति”(न्याय.कु.सु.3 – 7) रिति न्यायस्य सुस्थितत्वात् । ननु गगनकुसुमवदेतत्स्यात्; तद्धि न सुरभि नाप्युसरभीति चेन्न; तत्र स्वरूपस्यैवाभावेन विधिनिषेधयोरनवकाशात्, अत्र पुनस्स्वरूपसद्भावात् । अत्रापि तदभावे माध्यमिकविजय (प्रसङ्गात)स्स्यात् । ततश्चान्यतरपरिशेषेप्रामाणिकेनात्मना निषेधस्यैव स्थितौ विधेरसम्भवः । प्रमाणविरुद्धस्तु तत्सम्भवस्त्वादृशां भ्रमेणैव स्यात्। तथा चादित्येऽन्धतमसमपि कश्चिदल्पजीवितः कल्पयतीति न प्रामाणिकतत्त्वस्थितिविरोधः । एवं च क्षणभङ्गादिवादानामपि यथेष्टं परिग्रहः कार्यः, अर्थस्थितिमनादृत्याऽऽकस्मिकपरिग्रहमात्रेण वेदान्तार्थस्थापनस्य तत्र चात्र च विशेषाभावात् । युक्तीनां च यथाभिमानं त्रिचतुरकक्ष्यास्थायित्वस्य समानत्वात् । अन्यथा कथमेकैकशोऽनन्तस्यात्मवर्गस्य तत्तत्सैद्धान्तिकतर्केन्द्रजालव्यामोहवशंवदत्वमिति।।

इति श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां ब्रह्माश्रयाज्ञाननिरासवादः एकोनविंशस्समाप्तः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.