शतदूषणी बाधार्थसामानाधिकरण्यभङ्गवादः(32)

शतदूषणी

।।अथ बाधार्थसामानाधिकरण्यभङ्गवादः द्वात्रिशः।।32।।

यदधिकरणमेतद्यद्विधेयं यदर्थं यत उदितमपीति प्रोच्यते यद्वि विश्वम्् ।

तमजमजडमन्तर्यामिणं सर्वजन्तोः निरवधिमहिमानं देवमाराधयामः ।।

यदाहुः – य इह निर्विशेषचिन्मात्रब्रह्माविद्याविवर्तरूपाणां तत्तत्पदार्थानां तत्वोपदेशपरेषु वाक्येषु ब्रह्मणा सह सामानाधिकरण्यनिर्देशः स बाधार्थ एव, अर्थान्तरासम्भवात् तस्यैव विवक्षितत्वात् । तथाहि – अन्धकारादिषु स्थाणुमविशिष्टमवलोक्य यश्चोर इति मुह्यति तं प्रति तत्वदर्शी कश्चिद्वदति त्वद्द्ष्टश्चोरः स्थाणुरिति । तस्य कोर्थः? चोरत्वाभिमानविषयः ते न चोर इति । नहि कल्पान्तरादिष्वपि चोरस्यैव स्थाणुत्वं स्थाणोर्वा चोरत्वं प्रतीतिमधिरोहेत् । नचाप्तो व्याहतं भाषते । नच स्थाणुत्वं तदानीमुपदेष्टव्यम्, अनपेक्षितत्वाच्छ्रोतुः । अतोवसीयते चोरत्वबाधार्थ एवायमुपदेश इति । तद्वदिहापि “इदं सर्वं यदयमात्मा’ “पुरुष एवेदं सर्वम्’ “जगच्च सः’ “ज्योतींषि विष्णुर्भुवनानि विष्णु’ रित्यादिषु सत्यासत्यसामानाधिकरण्येषु स्वरूपक्यासम्भवादसत्यांशबाध एवाभिप्रेतः । नच स्थाणावारोपितचोरबाधेपि चोरमात्रस्थितिवत् ब्रह्माध्यस्तप्रपञ्चबाधेपि प्रपञ्च स्वरूपस्थितिश्शङ्क्या, इदं सर्वमिति कृत्स्नानुवादेन बाधेऽवशिष्टा सम्भवात् । अतश्चोरभयनिवृत्त्यर्थं स्थाणुत्वोपदेशेन चोरत्वबाधवत् “द्वितीयाद्वै भयं भवती’ त्यादिप्रतिपन्नसमस्तसांसारिकभयनिवृत्तये सर्वस्यात्मत्वोपदेशेन सर्वस्य बाध एव विवक्षित इति ।

अत्र वदामः – किमिह प्रपञ्चमिथ्यात्वं सिद्धं कृत्वा सामानाधिकरण्यस्य तद्बाधपरता स्वीक्रियते, उत सामानाधिकरण्य शक्त्यैव प्रपञ्चमिथ्यात्वपर्यवसितो बाधस्साध्य इति?

नाद्यः, विश्वलुण्टाकवैयात्यवात्यावेगस्य सर्वतः प्रशमितत्वात् । अस्तुवा प्रपञ्चमिथ्यात्वम्, तथाप्यत्र न बाधार्थतैवेति निश्चेतुं शक्यम्, “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीते’ त्यत्र शान्त्यर्थं ब्रह्मात्मकसर्वानुसन्धानविधानस्य भवद्भिर्व्याख्यातत्वात्; तस्यैवच लक्षणादिदोषदवीयसः शास्त्रार्थस्यान्यत्रापि नेतुं शक्यत्वात् । नच विधिसन्निधानासन्निधानाभ्यां विशेषः, सर्वत्र प्रकरणे व्यवहितस्याव्यवहितस्य वा विधेः स्थितत्वात्; अनेकपदलक्षणादिदोषशत परिग्रहाद्विप्रकृष्टविधिसमन्वयमात्रस्वीकारस्य समीचीनत्वात् ।

तत्वमस्यादिवाक्यप्रस्तावे तदेतत्सर्वमभिप्रेत्याह “बाधार्थत्वेच सामानाधिकरण्यस्य तत्त्वम्पदयोरधिष्ठानलक्षणा निवृत्तिलक्षणा चेति लक्षणादयस्त एव दोषाः । ‘ इति । नापि द्वितीयः, प्रवृत्तिनिमित्तभेदेनैकार्थ्यपर्यवसानमात्रे सामानाधिकरण्यशक्तिस्थापनात् । प्रवृत्तिनिमित्तयोरेकाश्रयत्वविरोधादत्र सामानाधिकरण्यस्य बाधार्थता स्वीक्रियत इतिचेत्? तथापि न सामानाधिकरण्यशक्त््या बाधप्रतीतिः, व्यधिकरणवाक्य इव विरोधादेवार्थान्तरपरत्वे विवक्षिते प्रकृत्यंशेनैव समन्वययोग्ये निमित्ते लक्ष्यमाणे तद्विशिष्टैकार्थविषयत्वात् सामानाधिकरण्यस्य । तथापि स्थाणुपदस्य चोरपदसमानाधिकरणप्रयोगबलादेव चोरत्वाभावलक्षकत्वस्वीकार इति अन्ततो बाधनिदानमेवात्र सामानाधिकरण्यम्, तद्वत् प्रकृतेपीति चेत्? विरोधपरिहाराय लक्षणास्वीकारेपि राजा राष्ट्रमित्यादाविव लघीयस्येकपदलक्षणापक्षे तिष्ठति न सर्वपदलक्षणादिपरिग्रहो युक्तः । तथाहि – चोरः स्थाणुरित्यत्र चोरपदेन चोरत्वारोपाधिकरणलक्षणा स्थाणुपदेन तु चोरत्वाभावसहचरितस्वार्थेन तल्लक्षणेति सर्वपदलक्षणासिद्धा, द्वयोरपि पदयोर्मुखभेदेन प्रवृत्तेर्विरूपलक्षणा, तत्रच पदान्तरोपस्थापितधर्माभावस्य पदान्तरेण लक्षणेति विरुद्धधर्मलक्षणा चेति । एतत्सर्वं पूर्वोक्तेन भाष्येण सूचितं “अधिष्ठान लक्षणा निवृत्तिलक्षणाचेती’ ति । गत्यन्तराभावादेव चोरस्थाणुशब्दसमभिव्याहारे स्वीक्रियतान्नाम तथा क्लेशः, नच तत्रापि दृष्टान्ते क्लेशः, यश्चोर इति ख्यातस्स स्थाणुरिति स्थाणुशब्दे लक्षणागन्धाभावात् । अथापि जगच्च स इत्यादिषु गत्यन्तरं लाेकवेदप्रसिद्धं दृश्यत एव । प्रयुञ्जते हि नरपतिरेव लोक इति लौकिकाः । सस्मारच भगवान्वाल्मीकिः – “रामभूतं जगदभूद्रामे राज्यं प्रशासती’ ति । श्रुतौच “सराष्ट्रमभवत् सराष्ट्रन्नाभव’ दित्यादि प्रयोगास्सन्दृश्यन्ते । अत्र च एकेनैव निमित्तेन एकस्यैव पदस्य पदान्तरोपस्थापितानुगुणार्थलक्षकत्वमेवेति न पूर्वोक्तदोषः । “इदं सर्व’मिति चेतनाचेतनात्मकसर्वप्रपञ्चनिर्देशेन ब्रह्मत्वोक्तौ चिदंशे तादात्म्यमचिदंशे बाध इत्यपि वैरूप्यं भवता स्वीकार्यम् । अथैतद्दोषपरिहाराय अचिदंश एव इदं सर्वमिति निर्दिष्ट इति मन्यसे, तदा स्वेच्छामात्रसिद्धस्सङ्कोचक्लेशः ।

किञ्च जगद्ब्रह्मसामानाधिकरण्ये लक्षणायामप्यस्मदभिमतार्थ लाघवमुक्तम्, नचात्र लक्षणेति निगमान्तविदः । अपृथक्सिद्धविशेषणवाचिशब्दानां विशेष्यपर्यवसानव्युत्पत्तेः शरीरस्यच शरीर्य पृथत्सिद्धेश्शरीरवाचिनां च देवमनुष्यादिशब्दानां शरीरिपर्यन्त प्रयोगस्य लोकवेदयोर्दर्शनात् विश्वस्य चेतनाचेतनात्मकस्याविशेषेण परमात्मशरीरत्वश्रुतेस्तत्तद्वाचिशब्दानां ब्रह्मपर्यवसानोपपत्तौ तन्निबन्धनमेव ब्रह्मसामानाधिकरण्यमिति युक्तमङ्गीकर्तुम् । तथाच सति चेतनाचेतनविषयब्रह्मसामानाधिकरण्यप्रयोगाणामेकस्मिन्वाक्ये वाक्यान्तरेप्येकरूप एव निर्वाहः, सर्वश्रुत्यविरोधश्च सिद्ध्येत् ।

किञ्च – यत्र यत्र जगद्ब्रह्मणोस्सामानाधिकरण्यं दृश्यते तत्र तत्र प्रायशस्तद्धेतुमपि सर्वप्रमाणाविरुद्धं, निर्दिशन्ति श्रुतिस्मृतयः, यथा “तदनुप्रविश्य सच्च त्यच्चाभवत्’ “स भूमिं विश्वतो वृत्वा, अत्यतिष्ठद्दशाङ्गुलम्, पुरुष एवेदं सर्वम्’, “सर्वं समाप्नोषि ततोसि सर्वः’, “सर्वगत्वादनन्तस्य स एवाहमवस्थितः ।।’ इत्यादि । ततश्च सर्वविरोधिप्रशमनपटीयसि सामानाधिकरण्यनिदाने श्रुर्त्येव दर्शिते सर्वक्षोभकबाधार्थतास्वीकारो वेदविप्लावकरुचिभ्य एव रोचते ।

किञ्च – चोरः – स्थाणुरित्यादिषु चोरादिपदलक्षिताधिष्ठानातिरेकिणि स्थाणुत्वादौ विरोधिधर्मे पदान्तरेणोपस्थापिते चोरत्व निवृत्तिः, न पुनः पदान्तरेणापि स्वरूपमात्रनिर्देशे, ब्रह्मणि तु जगद्वाचिशब्दलक्षितस्वरूपातिरेकेण को नाम विरोधिधर्मः पदान्तरेणोपस्थाप्यते । न कश्चिदिति चेत्? न तर्हि ततो बाधः । कल्पितो विरोधिधर्म इति चेत्? कल्पितत्वाविशेषे किं कस्य बाधकं बाध्यं वा भवतु? सुन्दोपसुन्दवत्परस्परमिति चेन्न; – एकस्यैवोद्देशोपादानादेरेकस्मिन्वाक्ये दुश्शकत्वात् । विरुद्धोभयपरित्यागेन स्वरूपमात्रं पदद्वयेन विवक्षितमितिचेत्? नतर्हीदं बाधार्थसामानाधिकरण्यम्, उपलक्षणसामानाधिकरण्यताया भवद्भिरेवोक्तत्वात्, तस्य च निरस्तत्वात् । ननु किं धर्मोपस्थापनेन, स्वरूपमेव तु तद्विरोधीति तदुपस्थापनेन बाध इति चेन्न; – भ्रमाधिष्ठानतया स्वत एव प्रकाश मानस्य स्वरूपस्योपदेशनैरपेक्ष्यात्; भ्रमविरोधित्वासम्भवाच्च । सम्भवे वा नित्यं भ्रमानुदयप्रसङ्गात् । नच स्वरूपन्न प्रकाशत इति वाच्यम्, तथाच निरधिष्ठानभ्रमोदयप्रसङ्गात्; नित्यप्रकाशत्वविरोधाच्च । अविद्यातिरोहितं अविशदं स्वरूपं भ्रमसहतया पूर्वं प्रकाशते, अतिरोहितन्तु विशदरूपं बाधार्थपदेनोपस्थाप्यत इति चेन्न; – तिरोधानवैशद्याद्यसम्भवस्य स्वरूपनाशादिप्रसङ्गेन प्रपञ्चितत्वात्; वैशद्यस्य चान्ततः स्वरूपानतिरेकिणः प्रागेव सत्वे प्रकाशे चावश्यम्भाविनि तत एव सर्वबाधोपपत्तौ सर्वभ्रमानुत्पत्तौ वा न सामानाधिकरण्येन बाध्यं पश्यामः । प्रागेव सत्वेऽसत्वे च तत्स्वरूपप्रकाशयोः । सामानाधिकरण्येन नैव बाध्यन्तु दृश्यते ।।

ननु शुक्तिरजतभ्रमे नेदं रजतमितिवत् प्रपञ्चाभावो बाधार्थ शब्देन उपस्थाप्यते, नह्यवश्यं शुक्तित्वोपदेशादेव रजतभ्रमनिवृत्तिः, अपितु साक्षाद्रजतत्वाभावोपदेशादपीति चेत्? इदमपि पिष्टपेषणम्,प्रपञ्चाभावस्य ब्रह्मस्वरूपान्तर्भावबहिर्भावयोरुक्तोत्तरत्वात् । नच नेदं रजतमितिवत् इह साक्षान्निषेधकश्शब्दः । नच चोरः स्थाणुरितिवदगत्या विधायकस्थैव निषेधपरत्वकलृप्तिः,निष्कण्टकस्य गत्यन्तरस्य दर्शितत्वात् । अत इदमेव शिष्यते “ज्योर्तिषि विष्णुर्भुवनानि विष्णुरि’ त्यादौ विनिविष्टानामेकैकशोनञस्समर्पणेन बाध इति, तत्रापि च वयं नञन्तरन्निक्षिप्य तदेव बाधेमहि । तदेतत्सड्गृहीतम् – “नेदं रजतमितिवत् अप्रतिपन्नस्यैव बाधस्या गत्या परिकल्पनम्, तद्वदेव तत्पदेनाधिष्ठानातिरेकिधर्मानुपस्थापनेन बाधानुपपत्तिश्च’ त्यादिभिर्भाष्यैः ।

इति श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां बाधार्थसामानाधिकरण्यभङ्गवादः द्वात्रिशः । (32)

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.