शतदूषणी दृश्यसम्बन्धानुपपत्तिपरिहारवादः(17)

शतदूषणी

।। अथ दृश्यसम्बन्धानुपपत्तिपरिहारवादः सप्तदशः ।।17।।

बिभ्राणमात्मनि सदा महतीं विभूतिं देहेन तन्मयनिदर्शितभूषणास्त्रम् ।

आलिङ्गितं कमलया मम चित्तवृत्तेरालम्बनं भवतु दैवतमद्वितीयम् ।।

यत्तु – आत्मख्यातिवादिभिरार्जितं ग्राह्यलक्षणायोगाख्यं तर्कं भिक्षित्वा दृग्दृश्ययोस्सम्बन्धानुप पत्तिरिति नामान्तरेण पठन्ति; तदपि सम्बन्धस्याबाधितप्रत्यक्षसिद्धत्वादेव निरस्तम् । आहुश्च – “उक्तं तु सौगतैर्ग्राह्यलक्षणाभावलक्षणम् । अन्ये दृग्दृश्यसम्बन्धाभावमाहुर्निरासि तत्” । इति ।

ननु कोऽसौ सम्बन्धः? न तावत्संयोगःदृशेरद्रव्यत्वात् । द्रव्यत्वाभ्युपगमेऽपि गुणादिभिस्सह तत्सम्बन्धस्य संयोगत्वायोगात् । नापि समवायः, आत्मधर्मस्य ज्ञानस्यार्थे तदयोगात् ।

न चार्थानामेव ज्ञाने समवायः, तेषां बाह्यत्वात्; अतद्धर्मतयैव प्रतीयमानत्वाच्च । न च रूपरसयोरिवैकार्थसमवायः, उभयाश्रस्यैकस्यानुपलम्भादिनिरस्तत्वात् । नाप्येकान्तः करणसंक्रमः, निर्विकारायाश्चित्तेस्संक्रमाख्य परिणामायोगात् । विवर्तपक्षे तु दृग्दृश्यसम्बन्धस्य मिथ्यात्वावश्यंभावात् । न त्व(चा)र्थस्याप्यन्तःकरणे संक्रमः, बहिरेवोपलभ्यमानत्वात् । अन्तःकरणस्य विषयस(स्व) रूपवृत्तियोगो विषयसंक्रान्तिरितिव्यपदिश्यत इति चेन्न; विषयविधर्मिण्या वृत्तेर्विषयसारूप्यस्यानुपलम्भनिरस्तत्वात् । गौरिति ज्ञानं गौरित्यर्थ इत्यर्थसारूप्यं प्रत्यक्षसिद्धमिति चेन्न; तयोः पृथगर्थत्वात् । गोत्वविशिष्टमर्थं प्रकाशयज्ज्ञानं गौरिति ज्ञानमिति व्यपदिश्यते । गोत्वविशिष्टार्थस्तु गौरित्यर्थ इति । अन्यथा गौरिति शब्द इत्यत्रापि शब्दस्यार्थसारूप्यप्रसङ्गात् । तथा चेदमर्थसारूप्यवादिनो वेतालस्य वैरूप्यायैव जायते । विषयोपरागापरनामकसंभिन्नवृत्तिमदन्तःकरण भेदाग्रहजनितातात्त्विकधर्मयोगाभिमान एवोपलब्धिनामा चितेर्विषयसम्बन्ध इति चेन्न; प्रत्येकं सार्वत्रिकाणां चैतन्यस्वरूपाणामनन्तान्तः करणसन्निधानाभ्युपगमेन पुरुषबहुत्वस्थापकभोगप्रतिनियमादिभङ्गप्रसङ्गात् । नच प्रत्यात्म समवेतमदृष्टादिकं नियामकं किमपि तैरिष्यते, अन्तःकरण (गत)स्य तु साधारण्यं दुष्परिहरम्, अनादिसामग्रीस्वभावादेव कश्चिद्भोगप्रवाहः कंचित्प्रति भवतीति चेन्न; पूर्वपूर्वसामग्र्या अपि सर्वसम्बन्धित्वेन साधारण्ये तदधीनोत्तरनियमासिद्धेः।

नच तादात्म्यं दृशेर्दृश्यसम्बन्धः, जडत्वाजडत्वादिविरुद्धधर्मप्रतिहतत्वात् । एकस्याश्च संविदोऽनेकविषयत्वदर्शनेन परस्परविरुद्धानेकतादात्म्ये तेषामपि मिथस्तादात्म्यप्रसङ्गात् । ततश्च विरोध एव जगति न स्यात् । इदं सर्वमिति सर्वावलम्बिबुद्धितादात्म्येनान्ततस्सर्वैक्यप्रसङ्गेन विचित्रव्यवहारविलयप्रसङ्गात् । तथा च पुनरेकस्याप्यर्थस्य नर्तकीभ्रूलतादर्शनादिष्विवैकविषयसंविदैक्यप्रसङ्गेनास्मदिष्टापाताच्च ।

न च चित्राद्वैतम्, स्ववचनविरोधात्, नानात्वं चित्रत्वं तत्प्रतिषेधस्त्वद्वैतमिति । चित्ररूपं तु नानारब्ध (मितिस्थ) मेकमिति न विरोध इति निर्वहन्ति । एवं चित्ररसादिष्वपि । नानारूपसमुदाय एव वा । नचात्रारम्भस्समुदायो वा, अनभ्युपगमात् । नच चित्रत्वं मिथ्या, अस्मन्मतप्रसङ्गात् । निराकारमपि ज्ञानं वासनावैचित्र्यादेकाकारमनेकाकारमिव भातीति चेत्; तथाऽपि मिथ्याभूतस्याकारस्य सत्यज्ञानेन तादात्म्यमनुपपन्नमिति ज्ञानाकारस्य बाह्यत्वमेष्टव्यम् । तथाऽपि ज्ञान एवायमाकाराध्यास इत्यान्तरत्वमिति चेन्न; एतावदात्मख्यातेरस्माभिरपीष्यमाणत्वात् । नच स्वजन्यज्ञाने स्वाकारसमर्पकत्वमेव ग्राह्यत्वम् । अन्याकारस्यान्यत्र समर्पयितुमशक्यत्वात् । मृगमदवासनासंक्रमेऽपि हि द्रव्यसंक्रम एव । अनेनैव न्यायेन “यस्मिन्नेव हि सन्तान” इत्यादिकमपि निरस्तम् । कार्पासरक्ततादिषु पाकजगुणान्तरारम्भः । कथंच विनश्यताऽर्थेनानुत्पन्ने ज्ञाने स्वाकारसमर्पणम्? न चाकारः स्थिरस्त्वयेष्यते, येनाकारिण्यतीतेऽपि परस्मिन्वर्तेत । तत्स्वरूपमिथ्याकारयोग एव तत्संक्रम इत्युच्यत इति चेन्न; मिथ्याकारेण सह सत्यस्य सम्बन्धायोगात् । एवमालम्बनस्य स्वाकारसमर्पकत्वायोगात्तद्धेतुत्व मात्रेण ग्राह्यत्वेऽधिपतिप्रभृतीनामपि ग्राह्यत्वप्रसङ्गः ।

नच ज्ञानस्वरूपमेवार्थस्य तत्सम्बन्धः । सम्बन्धसम्बन्धित्वलक्षणविरुद्धधर्माध्यासप्रसङ्गात्, विषयविशेषनियामकाभावाच्च । न हि तत्कंचित्प्रत्यज्ञानमस्वरूपं वा । न हि नीलं कंचित्प्रत्यनीलम् । नच हेतुत्वमात्रमेव नियामकम्; इन्द्रियादेरपि विषयत्वप्रसङ्गात्; अतीतादेरविषयत्वप्रसङ्गाच्च । अदृष्टादिवशात्कर्मकारकं विषय इति चेन्न; नित्यतया कारकशून्यस्येश्वरज्ञानस्य निर्विषयत्वप्रसङ्गात्, अस्मदादिज्ञानस्याप्यतीतानागतेरसत्त्वादकारकैरसम्बन्धप्रसङ्गात्, भ्रान्तिविषयस्यासत्त्वादकारकत्वेनभ्रान्तेर्नित्यनिर्विषयत्वप्रसङ्गाच्च । मुक्तस्य च विधूतपुण्यपापस्याज्ञानमिच्छतोऽदृष्टादेर्नियामकस्यासम्भवात् ।

नचार्थगतप्राकट्यजननमेवार्थसंबन्ध इति युक्तम्; ज्ञानातिरिक्तस्यार्थप्रकाशस्यानुपलम्भादिबाधात्, तज्जनने च ज्ञानस्यार्थसम्बन्धान्तरमन्तरेणासामर्थ्यात्, अन्यथाऽन्यत्रापि तदारम्भप्रसङ्गात्, अतीतादिषु निराधारप्राकट्यजननायोगाच्च ।

नच विषयविषयिभावाख्योऽयमपरस्सम्बन्धः, तस्यापि नियामकान्तराभावे सार्वत्रिकत्वप्रसङ्गाच्च । तस्यापि द्रव्यादिषट्कान्तर्भावे सामान्यादिभिस्सह तत्संवेदनस्यासम्बन्धप्रसङ्गात् । बहिर्भावे त्वभावत्वादिप्रसङ्गात् । भूषणकारव्यतिरिक्तानामपसिद्धान्तापाताच्च । एव प्रकारन्तरेष्वपि दूषणमविनाभूतम् । सर्वथाऽप्यतीतानागतयोर्वर्तमानज्ञानसम्बन्धस्य दुर्निर्वहत्वात् । नहि निराधारस्सम्बन्धस्सम्भवति । अन्यथा भविष्यद्वृष्ट्यादिभिरिदानीमपि सस्यादिपोषणप्रसङ्गात् । यश्चासौ विषयविषयिभावात्मा दृग्दृश्ययोस्सम्बन्ध इष्यते, किं ताभ्यामसम्बद्ध? उत सम्बद्धः? उतोभयात्मा? आहोस्विदनुभयात्मा? अन्यो(न्यात्माकारो)वा? पूर्वत्र तयोस्सम्बन्धो न स्यात् । तदसम्बन्धस्यापि तत्सम्बन्धत्वे सर्वस्यापि सम्बन्धस्य सर्वसम्बन्धत्वप्रसङ्गात् । उत्तरत्रापि सम्बन्धान्तरेण, न वा? आद्येऽनवस्था । द्वितीये त्वसम्बद्धत्वम् । न हि सम्बन्धरहितमपि सम्बद्धमिति समस्ति । स्वतो मिलितोऽयं सम्बन्ध इति चेन्न; सम्बन्धिनोरेव स्वतो मेलनस्य लघुत्वात् । नामान्तरेण च मेलनमेव नास्तीत्युक्तिः स्यात् । संबन्धिन एव स्वसंबन्धात्मकत्वे व्याघातस्य पूर्वोक्तत्वाच्च । उभयानुभयादि पक्षास्तु व्याघातादिनिरस्ता एव । अनुभयपक्षे चास्मदिष्टानिर्वचनी (यतावादः) यापातः स्यात् । किंच विषयविषयिभावाख्यसंबन्धो द्विष्ठः, एकनिष्ठो वा? नाद्यः, अन्योन्यस्मिन्नन्योन्यत्वाभावेन द्वयोरपि तस्यासिद्धेः । सिद्धौ वा द्वयोरपि विषयत्वविषयित्वयोः प्रसङ्गात् । अत एव न द्वितीयः, संबन्ध रूपताव्याघाताच्च । येनात्मनाऽसौ संबन्धः क्वचिद्वर्तते किं तेनैववात्मनाऽन्यत्रापि? उत ततोऽन्येन? आद्ये द्वयोरपि विषयत्वादिप्रसङ्गः । द्वितीयेकथमेकस्य व््यात्मकता?द्वयो (तयो)रप्यात्मनोर्द्विष्ठत्वा भावात् । सम्बन्धरूपतात्यागे तदात्मनोऽपि सम्बन्धस्य तत्त्वं न स्यात् ।

एवमन्यान्यपि सम्बन्धसामान्यविकल्प दूषणान्यत्रानुसन्धेयानि ।

ननु किं सम्बन्धान्तरगवेषणेन? स्वत एव किंचिज्ज्ञानं कस्यचिदेवेति नियतस्वभावमुप लम्भसिद्धमिति चेन्न; नियामकमन्तरेण नियमेऽतिप्रसंगात् । कस्यचिदिति सम्बन्धविभक्तेर्मित्थ्या विषयत्वप्रसंगाच्च । तन्निरूप्यस्वभावतया स्वसामग्र्या जन्यत इति चेन्न; ईश्वरज्ञानस्य तदभावेन निर्विषयत्वप्रसंगात् । सामग्र्या हि स्वरूपमुत्पादयितुं शक्यम्, न तु (त्व) सम्बन्धिनिरूप्यत्वापादनम्, सर्वाकारैस्सर्वनिरूपणापादनप्रसंगात् । सम्बन्धरहितयोरपि भावाभावयोरिव विषयविषयिणोर्निरूप्य निरूपकभाव इति चेन्न; सम्बधरहितयोर्भावाभावयोरपि तात्त्विकस्य निरूपणस्यास्माभिरभ्युपगमात् । तथाऽपि दोषादिसामग्रीवैचित्र्यादेवासम्बन्धविषयनिरूप्यत्वं शुक्तिरजतादिज्ञानोत्पत्तौ दृष्टमिति सर्वत्रापि तथाऽभ्युपगम्यत इति चेत्; आगतोऽसि पन्थानम् । विषयमिथ्यात्वादेव हि तत्र विषयसम्बन्धाभावः, तथाऽत्रापि स्वीकर्तव्यमिति ।

अत एकस्यैव संविदात्मनोऽनाद्यविद्यादोषवैभवादविचारितरमणीयसंबन्धे तदाकारावभासोऽभ्युपगन्तव्य इति ।

अत्रोच्यते – किं दृग्दृश्ययोस्संबन्धानुपपत्त्या तदुपपादनार्थं दृश्यमित्थ्यात्वकल्पनमित्यर्थापत्ति विवक्षा? यद्वा विकल्पासहत्वेन सम्बन्धाभावं सिद्धं कृत्वा तेनैव सम्बन्धिनोऽप्यभावसाधनम्? उत दृश्यसत्यत्वे तस्य संवेदनसंबन्धाभाव प्रसङ्ग इति प्रपञ्चमिथ्यात्वसाधकानुमाने श्रुत्याद्यनुग्राहकतर्क विवक्षा? इति ।

नाद्यः, अन्यथैवोपपत्तेः, परिदृश्यमानार्थस्यानुपपत्तौ प्रसज्यमानायामुपपादककल्पनं ह्यर्थापत्तिः । न च दृग्दृश्यसम्बन्धस्योपपादकं दृश्यमिथ्यात्वम्, अपि तु तत्प्रतिक्षेपकमेव । अत उपपादककल्पनाप देशेनानुपपत्तिकल्पनमेवेत्यायातम् । मिथ्याभूतसम्बन्धस्योपपादकमेवेति चेन्न; तथाविधस्य तस्यादर्शनेन तदुपपादकान्वेषणायोगात् ।

नापि द्वितीयः, सम्बन्धाभावेऽपि मेरुमन्दरयोश्शशविषाणयोश्शाखाचन्द्रयोरिव च सम्बन्धित्वाभिमतयोस्सत्त्वाविघातात् । अन्यथा दृश्यवद्दृशोऽपि, तस्या एव वा मिथ्यात्वं किं न कल्प्यते? दृगधीनसिद्धेर्दृश्यस्य दृगभाव इव तत्सम्बन्धाभावे च मिथ्यात्वं सिध्यति, दृशेस्तु स्वसंवेदनसिद्धतया दृश्य सम्बन्धाभावेनासत्यत्वमिति चेन्न; यथा दृशो दृशिकर्मत्वाभावेऽपि स्वसंवेदनेन सिद्धिस्तद्वद्विश्वस्यापीति वदतः कः प्रतीकारः? स्वात्मनि क्रियाविरोध इति चेत्, तुल्यम् । संवेदनेऽपि स्वव्यवहारे स्वगोचरसंविन्नैरपेक्ष्यमात्रविवक्षायां न बाध इति चेत्, घटादावपि तथाऽस्तु । संविद्विषयत्वं घटादेः प्रतीयत इति चेत्; किमतः? स्वव्यवहारेऽन्यसापेक्षत्वमिति चेन्न; संवित्सम्बन्धस्य त्वयैव प्रतिक्षिप्तत्वेन तदधीनव्यवहारत्वायोगात् । ततश्च परिशेषात् घटादेरन्य निरपेक्षव्यवहारत्वसिद्धेस्तावन्मात्ररूपं स्वसंवेदनं फलितमेव । घटादिस्वरूपवत्तस्य स्वसंवेदनमपि नोपलभ्यत इति चेत्; संविदो वा किं स्वतस्स्वयंप्रकाशत्वमुपलभ्यते? अनुभूतित्वाद्यनुमानादिभिस्साध्यत इति चेन्न; घटत्वाद्यनुमानैरपि विश्वस्वप्रकाशत्वसाधनप्रसङ्गस्याप्यवेद्यत्वनिराकरणे स्थापनात् । किंच अनुमानविषयत्वाङ्गीकारे कथं विषयविषयिभावसम्बन्धं विघटयसि? तद्विघटने वा कथं स्वप्रकाशत्वमेव साधयसि? अतो दृग्दृश्ययोस्सम्बन्धानुपपत्त्या दृश्यमिथ्यात्वेदृशोऽपि मिथ्यात्वप्रसङ्गो दुर्वारः । स्वतस्सिद्धतया तत्सत्यत्वे विश्वस्यापि तत एव सत्यत्वमवर्जनीयम्, अविशेषात् ।

ननु भवतोऽपि संविदस्स्वयंप्रकाशत्वं घटादेर्दृगधीनसिद्धित्वं चाभिमतम्; अतः कथं प्रतिबन्द्यवतारः? इत्थम् अस्माभिस्संवित्स्वयंप्रकाशकत्वस्य संविदन्तरवेद्यताभ्युपगमात् । यदि त्वयाऽपि तथेष्यते, ततस्तत्रैव विषयविषयिभावस्सिद्धः । यदि तत्रापि विषयमिथ्यात्वम्, ततस्स्वयंप्रकाशत्वमेव न स्यात् । धर्मरूपत्वात्तदाऽपि माभूदिति चेन्न; तत्परित्यागे स्वसंवेदनेन संवित्सत्यत्वस्थापनानुपपत्तेः । धर्मतामपहाय संवित्स्वरूपतया तदेव तिष्ठतीति चेत्; तर्हि स्वरूपमेव स्वप्रकाशत्वसाधकसंविदन्तरविषय इत्यायातम् । तथा सति विषयभूतायास्संविदोऽपि त्वदुक्तानुपपत्त्यैव घटादिवन्मिथ्यात्वमवर्जनीयम् । तन्मिथ्यात्वेऽपि तद्विषया संविदन्या स्वसंवेदनगुप्ता तिष्ठतीति चेन्न; तत्संवेदनेऽप्युक्तदोषानतिलङ्घनात् । अतस्संविदन्तरकर्मतागन्धरहितसंवित्स्वयंप्रकाशत्वे विश्वस्यापि तथात्वेन सत्यत्वप्रसङ्गो दुर्वारः । संविदोऽपि यथाकथञ्चिद्दृश्यत्वाभ्युपगमेऽपि तन्मिथ्यात्वप्रमङ्गेन दृश्यमिथ्यात्वकल्पनमशक्यमि (क्यं स्यादि)ति ।

किंच यदि परिदृश्यमानस्सम्बन्धोऽनुपपन्नस्तदा सम्बन्धान्तरमेव दृष्टवाधेन कल्प्यताम् । न पुनस्सम्प्रतिपन्नस्वारसिकबाधरहितदृश्यबाधो युक्तः । सम्बन्धान्तरमपि कल्प्यमानमनुपपन्नमिव भातीति चेत्, किं दृश्यमिथ्यात्वं कल्प्यमानुपपन्नमिव भाति? यत्ते स्ववचनव्याघातादिकमापादयति । अनुपपन्नमपि गत्यभावादवलम्ब्यत इति चेत्, सम्बन्धसत्यत्वमप्यनुपपन्नमपि किं नावलम्ब्यते? अनुपपन्नत्वमेवसत्यत्वाभाव इति चेत्; मिथ्यात्वेऽनुपपन्ने तदभावस्यावर्जनीयत्वात् । यथा सम्यग्रजतस्य मिथ्यारूपत्वानुपपत्तौ सत्यत्वम् । अतस्सम्बन्धोऽपि तथाभूतः कश्चिदिति नित्यमुपलम्भानुरोधेन तत्सत्यत्वस्थापने दृश्यस्याप्युपलब्धसत्यत्वाबाधोपपत्तेः, मिथ्यात्वस्य च स्वयमेवानुपपन्नत्वाभ्युपगमा दस्माकमनायासेनेष्टसिद्धिप्रसङ्गात् । अनुपपन्नत्वाभिमतपरपक्षाणामपि प्रतिषेधायोगाच्च । यथारुचि परिग्रह इति तु स्यात् । तथा च कृतं वैदिकत्वकञ्चुकवहनवृथाप्रयासेन ।

न च तृतीयः, असत्यत्वपक्षेऽपि सम्बन्धानुपपत्तिप्रसङ्गेन प्रतितर्कपराहतत्वात् । असत्यत्वेऽपि शुक्तिरजतादिष्वारोपितसम्बन्धेन व्यवहारः प्रतीयत इति चेत्; सत्यत्वेऽप्यनुभूतेस्तद्विषय ज्ञानान्तरस्यारोपितसम्बन्धे व्यवहार इति तुल्यम् । अतस्सम्बन्धमात्रस्य विकल्पासहत्वाभिमतस्या रोपितत्वमिष्यताम् । किं ततो दृश्यमिथ्यात्वकल्पनप्रयासेन? किंच प्रसङ्गस्य विपर्यये पर्यवसानमप्यङ्गम् । अत्र च दृश्यस्य सत्यत्वे सम्बन्धानुपपत्ति प्रसङ्ग इत्यस्य विपर्यय उपपद्यते चायं सम्बन्ध इत्येवं रूपस्स्यात् । तथा च सम्बन्धोपपत्त्या दृश्यमिथ्यात्वकल्पनमिति स्यात् । ततश्च सम्बन्धिपरित्यागेन सम्बन्धस्वीकारप्रसङ्गः । न ह्यस्ति सम्भवस्सम्बन्धिनमन्तरेण सम्बन्धस्येति । अनुपपन्न (विशेषेण)वेषेणोपपन्नं विपर्यय इति तत्स्वीकार इति चेन्न; प्रसङ्गतद्विपर्यययोरविशेषप्रसङ्गात् । तथा च प्रसङ्गविपर्ययासिद्धिः । अन्यथेष्टप्रसङ्ग इति स्यात् । उपलभ्यते चायं सम्बन्ध इत्येव विपर्यये न दोष इतिचेत्; तर्हि दृश्यसत्यत्वे सम्बन्धोपलम्भभङ्गप्रसङ्ग इति (प्रति) तर्कः स्यात् । अहो! सम्बन्धिसत्यत्वे सम्बन्धोपलम्भ भङ्ग इति कुत्रेयं व्याप्तिर्गृह्यते? तथाऽप्यारोपितस्सम्बन्धो दृश्यसत्यत्वे न स्यादिति प्रसङ्ग इति चेत्? तर्ह्यनारोपितोऽयं सम्बन्ध इत्यास्थीयताम् । अनारोपितस्तु विकल्पासहत्वान्न सिध्यतीति चेत्; तथाऽप्येकस्यारोपितत्वे तदनुबन्धिनोऽन्यस्याप्यारोपितत्वमिति वृथानिर्बन्धः । तथा हि सति सम्बन्धिनो ब्रह्मणोऽपि विलयप्रसङ्गात् । अनारोपितयोरेवारोपितसम्बन्धस्य परकीयस्वकीयत्वभ्रमादौ दृष्टत्वाच्च । एतेन दृश्यसत्यत्वे सम्बन्ध उपपद्यतेति विवक्षाऽपि निरस्ता, इष्टप्रसङ्गात् । विषय विषयिभावस्य भ्रान्त्यविशेषेण सर्ववादिसंमतत्वात् । अत एव विपर्ययापर्यवसानं च ।।

यत्त्वतीतानागतादिभिस्सह सम्बन्धो न सम्भवतीति । तत्र पृच्छामः, वर्तमानैर्वा कथं सम्भवतीति । स्वरूपस्य विद्यमानत्वादिति चेन्न; विद्यमानयोरेव शशविषाणयोरसम्बन्धदर्शनात् । तथाऽपि क्वचिद्दर्शनादभ्युपगम्यत इति चेत्; अत्रापि तथाऽभ्युपगम्यताम् । संयोगादिलक्षणस्सम्बन्धोऽतीतादिभिर्न दृष्ट इति चेत्, अयं तु दृष्टत्वादङ्गीक्रियताम् । दृष्टत्वेऽपि निराधारत्वेन प्रतिक्षिप्यत इति चेन्न; वर्तमानयोरिवातीतादेरपि स्वकालवृत्तित्वेनाधारत्वोपपत्तेः । यथा चाभिन्नदेशयोरिव भिन्नदेशयोरपि मूर्तयोस्संयोग इष्यते, तथा भिन्नकालयोरपि प्रतिनियतसामग्रीसामर्थ्याद्वा नित्यज्ञाने नित्यं तत्प्रवणस्वभावत्वाद्वा विषयविषयिभाव इति किं नोपपद्यते? व्यवधानाव्यवधानाभ्यां विशेष इति चेन्न; तद्विशेषमात्रस्याकिञ्चित्करत्वात्, अन्यथाऽतिप्रसंगात्; तथाऽप्यव्यवहितत्वलक्षणसम्बन्धस्तत्र न सम्भवतीति चेन्न; तद्विशेषमात्रस्याकिञ्चित्करत्वात्, अन्यथाऽतिप्रसंगात्,तथाऽप्यव्यवहितत्वलक्षणसम्बन्धस्तत्र न सम्भवतीति चेन्न, सम्बन्धमात्रस्याव्यवहितत्वलक्षणाभावात् । गोमानित्यादौ तद्दर्शनाभावात् । तल्लक्षणस्यात्रानिष्यमाणत्वात् ।

ननु ज्ञानमपि हि द्रव्यमेव, सम्बन्धश्च संयोगलक्षणः इति भाष्यं वः (ष्यवचः) कथमिति चेन्न; सम्भवद्विषयस्य तस्य संयुक्ताश्रितत्वादेरप्युपलक्षणपरत्वात् । सर्वत्र संग्रहः कथमिति चेत् तत्तत्स्वभावविशेषादेव । तेषामनुवृत्तादिव्यपदेशः कथमिति चेत्, न; आधाराधेयभावादिवदुपपत्तेः । तथाऽपि विविक्तव्यवहारेऽभिव्याप्तमाकारान्तरमन्तरेण कथमिति चेन्न; व्यवहारानुगुण्यापादन रूपत्वस्य प्रतीतिसिद्धत्वात् । अन्यथा भवतामप्यवेद्यत्वे सत्यपरोक्षव्यवहारानुगुण्यादिकथनम (सं) बद्धप्रलाप एव स्यात् ।

एतेन भविष्यद्वृष्ट्यादिना सस्यादिपोषणप्रसंगोऽपि प्रत्युक्तः, सम्बन्धस्वभावविशेषाणां प्रतिनियतसामर्थ्यात् । सामग्रीवैचित्र्यादेव च वर्तमानतत्प्रतिनियतविषयत्वोपपत्तेः ।

तथाऽपि कोऽसौ सम्बन्ध इति सौहार्देन पृच्छाम इति चेत्; वयमपि परमसौहार्देन प्रतिब्रूमः । कोऽसाविति किं संज्ञाविशेषः पृच्छ्यते? उत स्वरूपविशेषः? यद्वा लक्षणम्? उत प्रकारान्तरम्? अथवा संयोगादिषु कुत्रान्तर्भाव इति? उतान्यः कश्चित्? आद्ये तमन्तरेणापि सामान्यत एव व्यवहारनिष्पत्तेः किंतद्विचारक्लेशेन? विषयविषयिभाव इत्येव वा विशेषनाम निर्दिश्यताम् । सङ्केत्यतां वा यथारुचि नामान्तरम् । द्वितीयेऽपि स एव सः न त्वसः, अन्यथा व्याघातादिप्रसङ्गात् ।

तृतीयेऽपि लक्षण मन्तरेणापीक्षुक्षीरादिरसवैषम्यवत्स्फुट प्रतीतिसिद्धं दुरपह्नवतरम् । अतिपीडायां तु व्यवहा (रविशेषा) रानुगुण्यापादनम् । अत एव चतुर्थेऽपि दत्तमुत्तरम् । पञ्चमे तु न कुत्रचिदिति वा क्वचिदन्तर्भावदर्शने तत्रैवेति वा वक्तव्यम् । बहिर्भावेऽपि नाभावत्वप्रसङ्गः, स्वेच्छापरिसंख्यातद्वित्रादिबहिर्भावेऽन्येषामभावत्व प्रसङ्गात् । अन्यस्तु व्यवहाराङ्गतया प्रतीयमानत्वे स्वयमेवावगम्यताम्; अनङ्गत्वे तु किं तन्निरूपणेनेति ।

यत्तु – सम्बन्धपरिग्रहे सम्बन्धान्तरानवस्था, अन्यथा तत्सम्बन्धत्वपरित्याग इति । तदपि किं सम्बन्धमात्रापह्नवार्थमुच्यते? ज्ञानार्थनिरूपितसम्बन्धविशेषापह्नवार्थं वा? आद्ये स्वव्याघातः, दूष्यदूषणवाच्यवाचकादिसम्बन्ध प्रतिक्षेपे त्वदुक्तदूषणस्यैवाकिंचित्करत्वप्रसङ्गात् । तदभ्युपगमे चस्माकं प्रतिक्षेपासिद्धेः । स्वपरप्रतिक्षेपसामर्थ्यस्याप्यन्यत्र प्रतिक्षेपात् । द्वितीये त्वनङ्गाङ्गीकारः, सम्बन्धस्य सतोऽपि विशिष्टव्यवहारे सम्बन्धान्तरमपेक्षितमित्यनङ्गस्यैव स्वीकृतत्वात् । यु(उ) क्ताङ्गत्यागो वा, अङ्गस्यापि स्वपरपरित्राणस्य परित्यागात् । अन्यसम्बन्धस्य चाङ्गत्वे दूष्यदूषणसम्बन्धादावपि प्रसङ्गात् । सम्बन्धान्तराभावे सम्बन्धत्वहानिरित्यपि तत एव दत्तोतरम् । अन्यथा स्वपरनिर्वाहकमात्रभङ्गे स्वयंप्रकाशस्यापि निरासप्रसङ्गात् । स्वव्यवहारस्य नैरपेक्ष्यमन्यत्रादृष्टं तत्र हि स्वीक्रियते, तद्वदत्रापि स्वप्रतिसम्बन्धिव्यवहारे सम्बन्धान्तनैरपेक्ष्यमिति समाधिस्सम एव ।

यत्तु सम्बन्धस्य स्वतो मेलने सम्बन्धिनोरेव स्वतो मेलनप्रसङ्ग इति, तदपि दृश्यमाने सम्बन्धे नावतरति; कल्प्यमाने तु वयमपि तथाऽभ्युपगच्छाम इति क्वानिष्टप्रसङ्गः? इदमप्यसूत्रयत् – “समवायाभ्युपगमाच्च साम्यादनवस्थिते(ब्र.सू.2 – 2 – 12)रिति । नच तत्र मेलनमेव नास्तीति प्रसङ्गो दोषः, तदभावेऽपि विशिष्टव्यवहारजननस्वभावतयैव तत्तत्स्वरूपसिद्धेः । न च स्वयमेव सम्बन्धात्मकंस्वसम्बन्ध्यात्मकं चेति स्वरूपभेदमङ्गीकुर्मः, येन व्याघातादिप्रसङ्गस्स्यात् । अतो यत्र वस्तुनोर्विशिष्टव्यवहारजननस्वभावत्वं दृष्टं तत्र तत्तत्स्वरूपमेव विशिष्टव्यवहारजनकत्वमात्रेण सम्बन्ध इति व्यपदिश्यते; यत्र तु सम्बन्ध एव स्फुटस्तत्र तदभ्युपगमेन तदुपरि सम्बन्धान्तरनैरपेक्ष्यमङ्गीक्रियत इति सर्वत्र विशिष्टव्यवहारे निरुह्यमाणे स्ववचनविरोधादि नरकपातमनुमत्य किं विश्वमिथ्यात्ववृथाग्रहेण?

यत्तु विषयविषयिभावो द्विष्ठ एकनिष्ठो वेति, तत्र विषयत्वं विषयित्वं चैकैकनिष्ठमितरेतर प्रतियोगिकमिति निष्कर्षः । ताभ्यामेव च विषयविषयिणोर्विशिष्टव्यवहारसिद्धेः । तदुभयसमाहाराद्विषय विषयिभावाख्य सम्बन्ध इत्युच्यते । अत एव येनात्मनाऽसौ क्वचिद्वर्तत इत्यादिकमपि दत्तोतरम्; यानि चान्यानि सम्बन्धसामान्यदूषणानि तान्यपि दूष्यदूषणादिसम्बन्धसत्त्वा सत्त्वयोस्स्वव्याघातकानीति न ततोऽपि दृग्दृश्यसम्बन्धभङ्गः । तदेतत्सर्वं योगाचारोक्तग्राह्यलक्षणा योगनिरासे फलिष्यतीति मत्वाऽत्रोदास्ते । इहाप्यसूचयत् – * “अनुभूतिसद्विषययोश्च विषयविषयिभावेन भेदस्य प्रत्यक्ष सिद्धत्वादित्यादिना सदनुभूतिभेदस्य प्रत्यक्षसिद्धत्वात् इत्यादिना सदनुभूति भेदभाष्येण ।।

इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्यकृतिषु शतदूषण्यां द्दक्द्दश्य सम्बन्धानुपपत्ति परिहारवादः सप्तदश स्समाप्तः । ।।17।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.