शतदूषणी शब्दावेद्यत्वनिरासवादः(45)

शतदूषणी

।।अथ शब्दावेद्यत्वनिरासवादः पञ्चचत्वारिंशः ।।45।।

यन्नामनि परोरजांसि गृणतां यादृच्छिकैर्हेतुमिः दुर्लङ्घोऽप्युपयाति गोष्पदतुलां संसारवारां निधिः ।

दूरे नित्यमसीमभूमकतया वाचां यदाचक्षते तद्वन्देमहि सर्वशब्दविषयं त्रय्यन्तवेद्यं महः ।।

यदूचिरे -निर्धूतनिखिलकल्पनाजाले स्वप्रकाशचिन्मात्रे ब्रह्मणि कस्यचिच्छब्दस्य वृत्तिस् संभवति । नहि निमित्तमन्तरेण शब्दाः प्रवर्तेरन्, न चावेद्ये वेदकानामवकाशः । न च सर्वेषामात्मसाक्षिकं प्रकाशमाने प्रकाशकापेक्षा । न चैवमुपदेशनैरर्थक्यम्, स्वत एव प्रकाशमानेऽपि स्वरूपे कल्पितोपप्लवप्रशमनमात्रार्थतया प्रतिपन्नार्थप्रतिष्ठापनार्थप्रत्यभिज्ञापकतया वोपदेशसाफल्यात् । अतएव वेदान्तां ब्रह्मणि प्रवृत्तिरपि व्याख्याता । यद्यप्यविद्योपाधिकोपरागप्रशमनपरेषु वाक्येषु सद्बह्मात्म ज्ञानादिशब्दैर्ब्रह्म निर्दिश्यते, तथाऽप्युपलक्षण भूतैस्तैश्चन्द्रमस इव शाखया न ब्रह्मणस्संस्पर्शः । अत एव न ब्रह्मादिशब्दनिर्देशेन स्ववचनविरोधः । न च नामकीर्तनविधीनां विरोधः, सगुणब्रह्मविषयत्वात्तेषाम् । अत एव हि परस्मिन् ब्रह्मणि* मौनं मन्त्रजप इत्याचार्याः । अन्यथा कथमसंप्रज्ञातोऽपि समाधिस्स्यात् । न च विचित्रनामरूपभाक्त्वश्रुतिविरोधः, तस्यास्तत्कार्योपहितविषयत्वस्य युष्माभिरप्यङ्गीकारात् । न च शब्दतत्त्वमेव ब्रह्मेति स्वप्रकाशत्वे स्ववाच्यतया शब्दवाच्यता, शब्दब्रह्मणोऽपि ब्रह्मविवर्तमात्रत्वात् । अत एव स्मरन्ति *शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति । आह च साम्बः *शब्दार्थत्वविवर्तमानपरमज्योतीरुचो गोपतेरिति । नच ब्रह्म शब्दवाच्यं वस्तुत्वात् घटवदित्यनुमानोदयः, काल्पनिकवाच्यत्वेन सिद्धसाधनात् । तदतिरिक्तस्य तु दृष्टान्तेऽप्यस्मन्मतेनासिद्धेः । घटादिषु च वस्तुत्वानभ्युपगमेन साधनविकलत्वाच्च । न च प्रकाशमानत्वादिमात्रं वस्तुत्वमिति वाच्यत्वं वोऽपीष्टम्, स्वयमसतः परमार्थधर्मानाधारत्वात् । किंच यदि वाच्यत्वं वाच्यम्, ततस्तस्यापि वाच्यत्वान्तरमेवं तस्यापीत्यनवस्था । यदि पुनरवाच्यं तेनैवानैकान्त्यं दुष्परिहरम् । ब्रह्म न शब्दवाच्यम् निर्विशेषत्वादिति प्रत्यनुमानं च । आगमे च परिपन्थिनि कथमनुमानगन्धः । तथाहि * यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, *न शब्दगोचरो यस्य योगिध्येयं परं पदमित्यादिश्रुतिस्मृतिशतैर्बाधस्स्फुट एव । न च सामान्यपरत्वम्, ब्रह्मस्वरूपोपदेशपरतयैव प्रवृत्तेः । न च कतिपयशब्दनिषेधपरतया सङ्कोचः, तथा सति सर्ववस्तुसाधारण्येनातिशयासिद्धेः । असङ्कोचे चास्मदुक्तविषयव्यवस्थायास्सङ्ग्राह्यत्वात् । तदेतत्सर्वमभिप्रेत्य भगवान् पराशरः* प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ।। इति । अतो न ब्रह्म कस्यचिदपि शब्दवाच्यमिति ।

अत्रोच्यते -यदुक्तं समस्तविशेषरहिते ब्रह्मणि निमित्ताभावेन न शब्दप्रवृत्तिरिति; तत्र सविशेषत्वोपपादनादेव हेतुरसिद्धः । यथा च निमित्तं निमित्तान्तरमन्तरेण शब्दवाच्यं भवति यथा स्वरूपमपीति निरूप्यतां त्वया । येषां शब्दानां यत्र यन्निमित्तद्वारेण प्रवृत्तिः तेषामेव हि तत्र तदभावे निवृत्तिः । अन्यादृशस्तु शब्दो ब्रह्मणि न दृश्यत इति चेत्; किं कुर्मः? सङ्केत्यतां व्यवहाराय तथाविधश्शब्दोऽपि । यच्च अवेद्ये वेदकानां नावकाशः, नच स्वयंप्रकाशे प्रकाशकापेक्षेति, तच्च स्वप्रकाशस्यापि ज्ञानान्तरवेद्यत्वस्थापनादेव परिहृतम् । यच्चोपदेशानां वेदान्तानां च कल्पितोपप्लवप्रशमनमात्रार्थत्वमुक्तम्, तदपि तदा शोभते, यदि स्वरूपमनिर्दिश्योपरागाश्शमयितुं शक्येरन् । अन्यथा ब्रह्मणो निर्विशेषत्वमपि नोक्तं स्यात् । ननु किं ब्रह्मणो निर्देशेन, विशेषा एव प्रतीयमाना मिथ्यात्वेन ज्ञाप्यन्ते, ब्रह्म तु स्वप्रकाशं तिष्ठत्येवेति चेत्; तदपि न, * निर्गुणं निरञ्जनमित्यादीनां ब्रह्मणो विशेषणतयैव प्रयोगात् । प्रकाशमानमात्रनिषेधे च ब्रह्मणोऽपि निषेधप्रसङ्गात् । यदि ब्रह्मव्यतिरिक्तमिति विशेष्येत, तदापि सिद्धस्तन्निर्देशः । प्रतियोगितयेति तु विशेषः । यच्चोपदेशादेः प्रत्यभिज्ञापकत्वमिति; ततः किमायातमवाच्यत्वस्य? पूर्वप्रतिपन्नेऽपि शब्दप्रवृत्तिमात्रस्यानभ्युपगमात् । यत्तु शाखाचन्द्रन्यायेन सद्ब्रह्मादिशब्दैरुपलक्षणभूतैर्न ब्रह्मणस्संस्पर्श इति, तदप्यसत् । उपलक्ष्योपलक्षणयोरपि बोध्यबोधकभावलक्षणसंस्पर्शस्य सर्वत्र दुस्त्यजत्वात् । तावतैव च शब्दवैद्यत्वसिद्धेः । लक्षणामात्रं तु तत्र, नतु वाच्यत्वमिति चेत्; किमतः? तावताऽपि शब्देवद्यत्वस्य स्थितत्वात् । मुख्यार्थसम्बन्धादेश्च लक्षणानिमित्तस्य लाक्षणिकशब्देनाप्यपेक्षणीयत्वाच्च । एतावन्मात्रं शब्दवेद्यत्वमिष्यत इति चेत्; किमन्यत्रेष्यते? न तावन्निमित्ताभावादेरित्युक्तम् । न च वाङ्मनसनिषेधश्रुतिर्लक्षणामनुजानातीति नियामकं पश्यामः । विरोधपरिहाराय वृत्तिविशेषविषयत्व व्यवस्था क्रियत इति चेत्; तर्हि लक्षणावृत्तिरेव निषिद्ध्यताम्, नियामकाभावात् । अस्मन्नयेन सर्वप्रमाणाविरुद्धेनापरिच्छेद्यमाहात्म्यं तदर्थमातिष्ठस्य । अतस्सर्वप्रकारशब्दवेद्यत्वनिषेधस्य दुश्शकत्वात् स्ववचनविरोधो दुष्परिहारः । यत्तु नामकीर्तनविधीनां सगुणब्रह्मविषयतेति; तत्तावत्सत्यम्, यदि तदतिरिक्तं ब्रह्म नाभिसन्दध्याः । यश्चासौ *मौनं मन्त्रजप इति व्याहतोपदेशः, सोऽपि मौनप्रशंसापरश्चेदुपपद्यते, नतु मन्त्रजपं विहितं प्रतिषेद्धुं क्षमते । न चाधिकारिविशेषेण विषयव्यवस्था, समाधिनिष्ठमधिकृत्यैव तद्विधानान् । असंप्रज्ञातसमाधिरपि न शब्दवाच्यताविरोधी, अपितु केवलं तदातनशब्दानुसन्धानपरिपन्थीति समाधिशास्त्राविदः । यत्तु विचित्रनामरूपभाक्त्वश्रुतिस्तत्कार्योपहितविषयतयेति, तदस्माभिरपीष्यत एव, तथाऽपि तत्तदुपहितब्रह्मण्यपि तत्तन्नामपर्यवसानविवक्षा दुर्वारा । अन्यथा * बहुस्यामिति सङ्कल्पस्य, *तन्नामरूपाभ्यां व्याक्रियतेत्यादेश्च दुर्निर्वहत्वात् । शब्दतत्त्वस्य ब्रह्मव्यतिरेकसाधनं त्विष्टमेव । विर्वतता तु प्रकृतानुपयोगिनी पराकृता च । यत्तु शब्दवाच्यत्वसाधने काल्पनिकवाच्यत्वाभ्युपगमात् सिद्धसाधनत्वमुक्तम्, तदपि स्वबाधपर्यवसितम्, घटाद्यविशेषप्रसङ्गात् । घटादीनां शब्दवाच्यत्वमभ्युपगम्य ब्रह्मणि तन्निषेधप्रवृत्तत्वात् । घटादितुल्यशब्दवाच्यत्वाभ्युपगमे च विवादाभावात् । न हि वयं ब्रह्मणि लोकसिद्धातिरिक्तप्रकारं वा वाच्यत्वमिच्छामः, येन तन्निषेधसिद्धिः । न च वाच्यत्वमात्रस्य दुर्निरूपतया ब्रह्मणि तदभावः; सामान्यतो दुर्निरूपत्वप्रक्रियायाः प्रपञ्चमिथ्यात्वसाधकानां च निरस्तत्वात् । अत एव वस्तुत्वादिहेत्वसिद्धिरपि परिहृता ।

यत्तु प्रकाशमानत्वादिति हेतोश्शुक्तिरजतादिभिरनैकान्त्यमिति; तत्रापि प्रकाशमानस्य सर्वस्याधिष्ठानारोप्यसम्बन्धादेश्शब्दवाच्यत्वसिद्धेः, तदतिरिक्तस्य कस्यचिदस्माभिः प्रकाशमानत्वानभ्युपगमात् । असद्धवहारप्रसङ्गस्यान्यत्र निस्तीर्णत्वात् । यत्तु वाच्यत्वधर्मेणानैकान्त्य मुक्तम्, तदप्यसत्, तस्यापि वाच्यत्वशब्देन वाच्यत्वात् । अन्यथा वाच्यत्वमिति वक्तुमशक्यत्वात् । न चावनस्था, घटादिगतवाच्यत्वस्य वाच्यत्वगतवाच्यत्वस्य च वाच्यत्वशब्दवाच्यसामान्यरूपेणैकतया परिगृहीतं किमत्र विस्मरसि?

यत्तु निर्विशेषत्वादिति प्रत्यनुमानम्; तत्र केषांचित् स्वरूपासिद्धिः । सिद्धानामपि स्वयंप्रकाशत्वादीनां स्ववचनविरोधादिभिर्निरासः । ब्रह्मेति धर्मिनिर्देशात्तत्पर्यवसित साध्यहेतुनिर्देशाच्च । अन्यथा आश्रयासिद्ध्यनन्वयस्वरूपासिद्ध्यादिदोषप्रसङ्गात् । मुख्यवृत्ति निषेधस्साध्यते, लक्षणया तु धर्मिस्वरूपादिनिर्देश इति चेन्न; ब्रह्म न लक्ष्यं निर्विशेषत्वादित्यपि वक्तुं शक्यत्वात् । सर्वस्य च ब्रह्मव्यतिरिक्तस्य येनकेनापि शब्देन लक्ष्यत्वसिद्धेर्न सपक्षत्वप्रसङ्गः । माभूल्लक्ष्यत्वमपीति चेत्; तर्हि धर्मिनिर्देशादित्यागे कथमनुमानकथा? *यतो वाचोनिवर्तन्ते इत्यादिकं तु न ब्रह्मणश्शब्दवाच्यतां बाधते, तस्य शतगुणितोत्तरक्रमेण ब्रह्मगुणानन्त्यं प्रतिपाद्य तथाविधापरिच्छेद्यत्वनिबन्धनवाङ्निवृत्तिप्रतिपादनपरत्वात् । *आनन्दं ब्रह्मणो विद्वानितिव्यतिरेकनिर्देशेन च गुणविषयत्वं व्यक्तम् । अन्यथा वाच्यत्वमात्रनिषेधे त्वत्रत्ययच्छब्दोस्समुद्रघोषत्वप्रसङ्गः । एवं च यत्र गुणप्रकर्षप्रसङ्गमन्तरेणैव शब्दवाच्यत्वं निषिद्धं तत्राप्ययमेव शास्त्रार्थोऽनुगमयितव्यः । न चैवंविद्या वाचोनिवृत्तिर्वस्त्वन्तरेषु विद्यते, येन कतिपयशब्दमात्रागोचरत्वे अतिशयासिद्धिं शङ्केथाः । या पुनस्तवासंकोचेन विषयव्यवस्थाऽभिमता, साऽप्याशामात्रसिद्धा, लक्षणवृत्तेर्ब्रह्मणि काल्पनिकवाच्यत्वस्य वा दुस्त्यजत्वात् । अन्यथा स्ववचनविरोधादेः प्रतिपादितत्वात् । अवाच्यमिति वाच्यं चेत् ब्रह्म वाच्यत्वमृच्छति । अवाच्यमित्यवाच्यं चेत् ब्रह्म वाच्यत्वमृच्छति ।।

यत्तु *प्रत्यस्तमितभेदमित्यादि; तदपि परिशुद्धात्मस्वरूपोपदेशपरमिति प्रकरणानुसारेण व्याख्यातं भाष्ये । भवतु वा तस्य परब्रह्मविषयत्वम्, तथापि न सर्वशब्दवाच्यत्वनिषेधशङ्का, स्ववचनविरोधादेरत्रापि दुर्निरासत्वात् । येन महर्षिणैवमुक्तम् -*शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय भगवच्छब्दस्सर्वकारणकारणे ।। तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण ह्यन्यत्र ह्युपचारतः ।। एवमेष महाशब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ।। इति, स कथं ब्रह्मणश्शब्दवाच्यत्वं प्रतिक्षिपेत्? नच त्वदुक्ता एव श्रुतिस्मृतयः; * बृहति बंृहति तस्मादुच्यते परं ब्रह्म, *तस्योदिति नाम, * तस्योपनषदहरित्यधिदैवतम्, *तस्योपनिषदहरित्यध्यात्मम्, *सर्वाधारं धाम विष्णुसंज्ञमित्यादिश्रुतिशतैस्तत्तच्छब्दानां ब्रह्मणश्च नामनामिभावेनैव व्यपदेशात् । *आेमिति ब्रह्मेत्यादिना प्रणववाच्यत्वम् । स्मरन्ति च * नतास्स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती, *वचसां वाच्यमुत्तमम्, इति । आह च स्वयमेव * वेदैश्च सर्वैरहमेव वेद्यः, * सर्वे वेदा यत्पदमामनन्तीत्यादि । अतस्सर्वश्रुत्याद्यविरोधाय स्ववचनविरोधादिपरिहाराय मुमुक्षूपादेयब्रह्मनामवर्गसंरक्षणाया परिच्छेद्यमाहात्म्यादिनिबन्धनैव ब्रह्मणि वाचोनिवृत्तिश्श्रुतिस्मृतिभिर्विवक्षितेति न ब्रह्मणि शब्दवाच्यत्वमात्रं प्रतिक्षेप्तुं शक्यमिति ।

।। इति शतदूषण्यां शब्दावेद्यत्वनिरासवादः पञ्चचत्वारिंशः ।।45।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.