शतदूषणी मुक्तसंविन्निर्विषयत्वभङ्गवादः(51)

शतदूषणी

।।अथ मुक्तसंविन्निर्विषयत्वभङ्गवादः एकपञ्चाशः ।।51।।

अनुकूलतया सर्वं पश्यन्त्या मुक्तसंविदः । आन्ध्यं निर्विषयत्वेन वदतोऽर्थान्निरुन्ध्महे ।।

*धीसन्ततिस्स्फुरति निर्विषयोपरागेति सौगतोपदिष्टमेव सन्ततिशब्दप्रहाणमात्रेण संगृह्णन्तः श्रुतिभिस्तावद्बाह्यतया ख्याप्यन्ते । तथा हि *ब्रह्मविदाप्नोति परमित्युपक्रम्य * सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चितेति ब्रह्मवेदनफलत्वेन विभूतिगुणविशिष्टब्रह्मानुभव एव प्रपञ्च्यते । * यदा पश्यः इत्यादौ * निरञ्जनः परमं साम्यमुपैतीतीश्वरपरमसाम्यापत्तिवचनाच्च सार्व यादिकं मुक्तस्य सिद्धम् । * मम साधर्म्यमागताः इति च भगवान् स्वयमेवाह । * ब्रह्म वेद ब्रह्मैव भवतीत्यादिकमपि * वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेत्यादाविव साधर्म्यमात्रविषयमेव । न हि स्पर्धमानस्य यागविशेषमात्रेण साक्षाद्विष्णुत्वापत्तिः । जयरूपञ्च फलान्तरं स्फुटमभिधीयते । * इववद्वैवमेवेति च नैघण्टुकाः । प्रकारैक्ये च तत्त्वव्यवहारो मुख्यवत्प्रसिद्ध एव । एवकारादिश्च साधर्म्यातिरेकादमुख्ये मुख्यार्थोपचारद्योतको द्रष्टव्यः। यथा-*नेदं मुखमिदं पद्मं न नेत्रे भ्रमराविमौ । एतानि केसराण्येव न च दन्तार्चिषस्तव ।। इत्यादिषु । नच तद्रूपस्य तद्रूपतापत्तिः फलम्, सिद्धत्वात् । नाप्यतद्रूपस्य, अपसिद्धान्तात्; अशक्यत्वाच्च । यथोक्तं भगवता पराशरेणापि * परमात्मात्मनोर्योगः परमार्थ इतीष्यते । मित्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः ।। इति । अत्र योग इति तादात्म्यमुच्यते । * नैति तद्द्रव्यतां यत इति तादात्म्यस्योत्तरत्र निषेधात् । न चादिभरतमृगत्ववत् तज्जातीयतापत्तिः, तथाऽपि साधर्म्यमात्रे पर्यवसानात् । वस्तुतश्च ब्रह्मणस्सर्वविजातीयत्वात् । न च तद्रूपस्यैव सतस्तद्रूपताप्रादुर्भाव इह विवक्षित इति वाच्यम्, तथाऽपि वाक्यस्यामुख्यार्थतात्पर्याविशेषात् । अतो वरं साम्यश्रुत्याद्यविरोधेन यथोक्त एवार्थः । *तत्केन कं पश्येत्; * न दृष्टेर्द्रष्टारं पश्येरित्यादिकं तु भाष्य एव सुव्यक्तं व्याख्यातम् । * सर्वं ह पश्यः पश्यतीत्यादिश्रुतयश्च मुक्तस्य साक्षात्सर्वज्ञतां स्फुटतरमुपादयन्ति । * यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । इत्यारभ्य * तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ।। इति च स्मर्यते । तथाच *पश्चादुद्भूतबोधाश्चेत्यादि । सूत्रं च * जगद्धापारवर्जमित्यादौ *भोगमात्रसाम्यलिङ्गाच्चेति । अतःश्रुतिस्मृतिसूत्रानुवर्तिनामीश्वरपरमसाम्यापत्त्या सार्व यमेव मुक्तस्य स्फुटम् ।

किंच स्वप्रकाशैकस्वरूपस्य ब्रह्मणः कदाचित्स्वेतरविषयत्वं कदाचिच्च निर्विषयत्वमिति (त्यत्र) उभयमपि किं तत्त्वम्। उभयमप्यतत्त्वम्? उतान्यतरत्तत्त्वम्? अन्यतरदतत्त्वम्? इति ।

न प्रथमः; विषयविषयितत्सम्बन्धादिभेदस्य सत्यत्वप्रसङ्गात् ।

न द्वितीयः, उभयस्वरूपमात्रनिषेधे व्याघातात्; कालोपश्लेषेण निषेधो द्वयोरपि नित्यतामापादयेदिति पुनरपि व्याघातः ।

अथ कालावच्छिन्नान्यतरनिषेधार्थोऽन्यतरानुवाद इति मन्यसे, तदा तृतीयःपक्षः परिशिष्यते । सविषयत्वस्य कालानवच्छेदेन तात्त्विकत्वे प्रागुक्तदोषाः प्रादुष्युः । निर्विषयत्वस्य नित्यत्वे संसाराभाव प्रसङ्गात् उपलम्भविरोधोपदेशवैयर्थ्यशास्त्रानुद्धारापसिद्धान्तस्ववचनविरोधवादानधिकारादिदोषशतसाम्राज्यम् । वस्तुतो विषयभावेऽपि सविषयता भातीति संसारादिसमुद्भवान्न दोष इति चेन्न; विषयाभावेऽपि सविषयत्वं तात्त्विकमिति त्वयाऽभ्युपगन्तव्यत्वात् । अन्यथा निर्विषयख्यातिप्रसङ्गात् । नहि शुक्तिकारजतादिसंविदां रजतविषयतामपि बाधन्ते बाधकाः । अबाधितस्यापि मिथ्यात्वमित्यतिसाहसम् । अस्त्वेवं मिथ्याविषयगोचरत्वलक्षणं सविषयत्वं ब्रह्मणस्तात्त्विकम्, किं नश्छिन्नमिति चेन्न; तन्नित्यत्वे नित्यसंसारप्रसङ्गात् । तदनित्यत्वे तात्त्विकत्वपरिग्रहायोगात् । न ह्यनित्यमपि किंचित्पारमार्थिकं भवन्तो मन्यन्ते । स्वरूपानुप्रवेशात्तात्त्विकमिति न दोषइति चेन्न; स्वरूपस्याप्यनित्यत्वप्रसङ्गात् । तन्नित्यतया तदात्मना तन्नित्यत्वे पुनर्नित्यसंसारप्रसङ्गात् ।

किञ्चानादिकालं सविषयायाः संविदो निर्विषयता कुत आगता? विषयग्रहणसामग्री सन्तानात्यन्तोच्छेदादिति चेत्; किं नित्यायास्सामग्र्यपेक्षया? संविदन्तरसिद्ध्यर्थं सेति चेत्; किं संविद्भेदमङ्गीकरोषि? विषयावगाहनार्थं सेति चेत्; किमिदमवगाहनं संवित्स्वरूपम्? उतान्यत्? पूर्वत्र नैरपेक्ष्यमेव; उत्तरत्र किमंसौ विषयिधर्मः, उत विषयधर्मः, उतोभयधर्मः, यद्वा विषयस्वरूपमेव? आद्ये सविशेषत्वम् । मिथ्याधर्मप्रलापदूषणं तु स्थनलान्तरेऽनुसन्धेयम् । द्वितीये तदुत्पत्तावपि रूपाद्युत्पत्ताविव संविदस्तत्सम्बन्धाभावेन तादवस्थ्यमेव । तृतीयेऽपि सविकारत्वमवर्जनीयमेव । चतुर्थे सम्बन्धासिद्धिः । विषयग्रहणसामग्र्या विषयोत्पादनमिति हास्यत्वं च । सिद्धे हि विषये प्रकाशार्थं सा । भ्रान्तौ तु तदुत्पत्तिस्तद्ग्रह इति न भेद इति चेन्न; आत्मख्यातिवादप्रसङ्गात् । प्राक्सतामेव हि विषयाणां ग्रहणार्थं प्रमाणकल्पनं व्यावहारिकमपि भवत्परिगृहीतम्, अन्यथा, क्षणभङ्गनिराकरणस्याप्ययोगात्, अतस्सामग्रीनिरपेक्षसंवित्स्वरूपप्रकाशवादिनस्ते न निर्विषयदशा सिध्यति ।

अस्तु तर्हि विषयविनाशादेव निर्विषयतासिद्धिरिति चेन्न; नष्टस्यापि विषयत्वाविरोधात् । अन्यथा अतीतादिविषयस्मृत्यनुमानादि भङ्गप्रसङ्गात् । तद्विषयत्वे स्थितेऽपि तन्नाशान्न संसारादिप्रसङ्ग इति चेत्; किमसौ नाशोऽप्रकाशात्मा? उत प्रध्वंसात्मा? आद्ये तद्विषयत्वे स्थितेऽपि तन्नाशादिति स्ववचनविरोधः । द्वितीये निवर्त्यसत्यत्वम्, निवृत्त्या सद्वितीयत्वमित्यादिदोषप्रसङ्गः । निवृत्तान् निवृत्ततया विषयीकरोतीति न दोष इति चेत्; विषयीकरणं किं स्वरूपम्? उत तदतिरिक्तम्? स्वरूपपक्षे संसारदशायामपि नित्यं निवृत्ततया विषयीकारप्रसङ्गः, सर्वत्र स्वरूपस्य तदानीमपि विद्यमानत्वात् । अतिरिक्तपक्षे तत्किं सत्यम्? उत मिथ्या? सत्यत्वे सद्वितीयत्वादिप्रसङ्गः । मिथ्यात्वे तु तस्यैव दृगधीनसिद्धेः प्रकाशात्तत्कारणाविद्यानुवृत्त्यवश्यं भावाच्च पुनरपि संसारानुच्छेदः । तावन्मात्रं क्षभ्यत इति चेन्न; तस्य तस्याश्चानिवर्त्यत्वेन सत्यत्वप्रसङ्गे सद्वितीयत्वादिप्रसङ्गात्, तुल्यन्यायात् प्रपञ्चबाधादिमूर्खप्रलापानां निरोधप्रसङ्गात् । अतस्संविदि नित्यायाम्, सामग्रीनिवृत्त्या विषयनिवृत्त्या वा निर्विषयत्वापादनं त्वया वक्तुं न शक्यम् ।

ननु भवतामात्मस्वरूपस्य संविद्रूपत्वेऽपि यथा निर्विषयत्वं तथाऽस्माकमपि स्यात् । न स्यात्, अस्माकमात्मस्वरूपस्य प्रतीचः कदाचिदपि बाह्यार्थगोचरत्वानभ्युपगमात् । भवतस्तद्विषयाया एव तद्विषयत्वनिवृत्तेर्दुर्वचत्वात् । अस्तु तर्हि भवतां धर्मभूतज्ञानवत्कदाचित्सविषयत्वम्, कदाचिच्च निर्विषयत्वमिति चेन्न; अस्माभिः परमार्थाकारान्तरापत्त्यभ्युपगमात्, भवतां तु तदनभ्युपगमात्तदयोगात् । अतो नित्संवित्स्वरूपप्रकाशमात्राधीनसिद्धीनां सर्वेषामपि पदार्थानां नित्यत्वमपि प्रसज्येत । तदधीनसिद्धित्वाभावे तु सिद्धिनिषेधे तुच्छत्वम् । तादधीन्यनिषेधे तु सत्यत्वम् । अतस्तन्मात्राधीन सिद्ध्यभ्युपगमे तद्वदेव तदधीनस्यापि नित्यत्वमवर्जनीयमेव । तथा च सति सर्वप्रपञ्चस्सत्य इति जितं यथार्थवादिभिः । तद्भयात्संविन्नित्यत्वपरित्यागे साक्षात्सौगतत्वादिप्रसङ्गः । अत एव स्वापमदमूर्च्छादिषु निर्विषया संविदित्यपि भवद्भिर्दुर्वचमेव, निर्विषयनिराश्रयसंवित्प्रकाशस्तदानीमनुभूयत इति कस्यचिदपि सावधानस्यापि समस्तसंस्कारतिरस्कारकदेहविगमादिक्लेशाभावेऽपि न परामर्शोऽस्ति । किंतु अहमपि न विनष्टः, विषया अपि स्थिताः, प्रकाश एव सुषुप्त्यादौ निवृत्त इति सर्वे प्रत्यवमृशन्ति । * नाह खल्वित्यादिश्रुतिरपि ज्ञाननिषेधपरैव, न जानामीत्यत्रैव तात्पर्यात् । अस्माभिस्तु विषयप्रकाश लक्षणावस्थाविशेषरहितज्ञानद्रव्यमात्रसत्ता *न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यत इत्यादि श्रुतिबलादभ्युपेयते । न चास्ति तत्र प्रत्यक्षविरोधः, विषयप्रकाशव्यतिरिक्तदशायां तस्याः स्वप्रकाशायोग्यत्वात्, ज्ञानान्तरस्य तु तदानीं सामग्र्यभावादेवानुदयात्, तावताऽपितदातनज्ञाननिषेधश्रुतेश्चरितार्थत्वात् ।

अतस्त्वत्पक्षे ज्ञानस्य कदाचिदपि निर्विषयदशा दुरुपपादा । मुक्तौ तु सुतरामिति यथाश्रुति सार्व यमेव तदा स्वीकार्यम् । अन्यपरास्ताः श्रुतय इति चेन्न; परब्रह्मोपासनप्रकरणात् तत्फलप्रतिपादनपरत्वेन च सांसारिकफलित्वायोगात्, तत्रतत्रैव च निवृत्तसमस्तपुण्यपापत्वादिप्रतिपादनात्, विध्यपेक्षिते फले समर्प्यमाणे केवलार्थवादत्वकल्पनायोगात् । अन्यथा श्रुतहानाश्रुतकल्पनादिदोषसमुद्भवात् । अतस्सिद्धं न कथंचिदपि मुक्तिदशयां सर्वविषयवैमुख्यलक्षणमान्ध्यं संविदश्शङ्कनीयमिति ।।

।। इति शतदूषण्यां मुक्तसंविन्निर्विषयत्वभङ्गवादः एकपञ्चाशः ।।51।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.