शतदूषणी निर्विशेषविषयकनिर्विकल्पकभङ्गवादः(11)

शतदूषणी

।।अथ निर्विशेषविषयकनिर्विकल्पकभङ्गवादः एकादशः ।।11।।

संप्रज्ञातस्थितिमधिगते निर्विकल्पे समाधौ शान्तावद्यं स्तिमितबहुलानन्दसन्दोहमन्तः ।

यत्तत् ब्रह्म स्फुरति यमिनां पूर्णषाड्गुण्यरूपं सा मे नित्यं हृदि हयमुखी देवता सन्निधत्ताम् ।।

यदेतदाहुः अस्ति तावन्निर्विकल्पकं नाम प्रत्यक्षम्; प्रथमाक्षसन्निपातसमनन्तरमविशिष्ट विषयापरोक्षाभासस्य दुरपह्नवत्वात् । अभ्युपेतं चैतत् सर्वैर्वादिभिः ।

ननु शाब्दास्तत्रापि शब्दानुवेधमिच्छन्ति, यथाऽऽहुः – “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ।।” (वाक्यपदीयं) इति ।

सत्यम्; तैरपिसमाधिदशायां तस्यैव शब्दस्य निरस्तसमस्तकल्पनाजालस्योपलम्भः स्वीकृतः । किंच शब्दानुविद्धत्वं नसर्वत्र ज्ञाने दर्शयितुं शक्यम्; बालादिविज्ञानेषु तदसंभवात् । अन्यथा चैषां व्युत्पत्तिमन्तरेण तत्तद्वाचकपरिज्ञानप्रसंगात् । बालादिविज्ञानान्यपि सूक्ष्मशब्दानुविद्धविषयाणीति चेत्, तथाविधस्य शब्दस्य परैरनभ्युपगमात् । अब्युपगच्छतामपि तदनुवेधस्य दुःसाधत्वात् । पदज्ञानमेव तावन्न प्रत्यक्षम्; किंपुनस्तदनुविद्धस्तस्य विषयः। न च सूक्ष्मशब्दानुविद्धत्वव्याप्तं किं पुनस्त (दनुविद्ध)स्य विषयः । न च सूक्ष्मशब्दानु विद्धव्याप्तं किंचिल्लिङ्गमस्ति अथ व्युत्पन्नपुरुषबोधदृष्टान्तेन बालादिज्ञानेष्वपि प्रत्ययत्वादि हेतुभिः शब्दानुविद्धविषयत्वं साध्येत तदप्यशक्यम्; पूर्वोक्तप्रसङ्गा(पाता)त् । अस्तु स्थूलशब्दानुवेधस्य बाधः; तत्सहकृतात् पक्षधर्मताबलात् सूक्ष्मशब्दानुवेधः सिद्ध्यतीति चेन्न; वाचकतयाऽनुवेधविवक्षायांसूक्ष्माभिमतशब्दस्यावाचकत्वादेव तदनुवेधासम्भवात् । न हि व्युत्पत्तिपदवीदवीयसस्तस्य वाचकत्वमुत्प्रेक्षणीयम् । “अव्युत्पन्नोऽपि शब्दः स्ववाचक” इति तु परिभाषामात्रम्; शब्दवाचकतायामपि शब्दस्य व्युत्पत्तिसापेक्षत्वात् । स्ववाचकत्वसिद्धावपि च न वस्तुनस्तदनुवेधः, तस्य तद्वाचकत्वेनाव्युत्पत्तेः अस्तु रूपादिव दवाचकत्वेनैवानुवेध इति चेत्, न; अतन्निष्ठत्वात्; आरोपासम्भवाच्च । सौगतैरपि शब्दाध्यासो व्युत्पत्ति (कल्पित) बुद्धावेवाऽऽद्रियते, न तु निर्विकल्पके । अतश्चक्षुरादिभिरर्थेषु स्वरूपेणोपलब्धेषु कलुषित व्युत्पत्तिसमयसहानुभूतार्थसंदर्शनादुद्बुद्धसंस्कारवशात् वाचकावगतौ सत्यां वस्तुनस्संज्ञानविकल्प इति न प्रथमाक्षसन्निपातजेषु ज्ञानेषु अव्युत्पन्नबालमूकतिर्यगादिबुद्धिषु च शब्दानुवेधसंभवः ।

मा भूच्छब्दानुवेधस्तत्र, तथाऽपि, समानेन्द्रियग्राह्यजातिगुणादिविशिष्टमेव सर्वं द्रव्यं प्रथमाक्षसन्निपातादप्युपलभ्यते इति चेत् तदपि न; अकारणकार्योत्पत्तिप्रसङ्गात् । विशिष्टज्ञानस्य सर्वस्य स्वरूपज्ञानपूर्वकत्वदर्शनात् । प्राथमिकस्वरूपज्ञानाभावे विशिष्टज्ञानस्यानुत्पत्तिप्रसङ्गात् । विगीता बुद्धिः स्वरूपज्ञानपूर्विका, विशिष्टबुद्धित्वात्, संप्रतिपन्नवदित्यनुमानात् ।

अस्तु स्वरूपज्ञानम्; तदेव स्वरूपं जातिगुणादिसर्वात्मकमपि निर्विकल्पे न तथा विविच्यते; विकल्पे तु जातिगुणाद्यात्मना तदेव विकल्प्यते इति चेत् तन्न; जातिगुणादीनां परस्परम्, आश्रयाच्च भेदसिद्धेः । अभेदोऽपि तद्वत् सिद्ध्यतीति चेन्न; साधकाभावात् । प्रथमपिण्डग्रहणमस्तीति चेत्, तत्रप्रथमपिण्डग्रहणशब्देन किं पिण्डस्य प्रथमं ग्रहणं विवक्षितम्? उत अनुपलब्धचरेष्वेकजातीयेषु कस्यचित् प्रथमस्य पिण्डस्य ग्रहणमिति? न प्रथमः; प्रथमाक्षसन्निपातसमनन्तरं जात्यभिन्नवस्तूपलम्भे तस्यैव विकल्पत्वापातात् । अनुवृत्तत्वाद्याकराग्रहणादविकल्पत्वमिति चेत् न; तथासति जात्यादिस्वरूपस्याग्रहणे तदभिन्नवस्तूपलम्भासिद्धेः जात्यादीन्यपि सदात्मना तदैव गृह्यन्त इति चेन्न; तथा सति सन्मात्रं गृहीतम्, न तु जात्यादिरित्येव पर्यवसानात् । तथाच तदेवास्माकं निर्विशेषमिति । असद्व्यावृत्तिलक्षणो विशेषस्तत्रापि गृहीतस्स्यादिति चेन्न; तस्य तत्स्वरूपानतिरेकात् । अतिरेके वा तद्ग्राहिणः सविकल्पकत्वप्रसङ्गात् ।

नापि द्वितीयः; तत्रापि प्रथमाक्षसन्निपातजन्यज्ञानस्य उक्तन्यायेन तदभेदग्रहणासिद्धेः । तत्समनन्तरभाविनस्तु विकल्पस्य जातिग्रहणे सत्यपि प्रकारप्रकारिभावेन भेदस्यैव ग्रहणात् । तदानीं तत्सजातीयवस्त्वन्तरग्रहणाभावात्, जातेर्वस्त्वन्तरानुगतत्वलक्षण आश्रयाद्भेदो न गृह्यते । जातिगुणादिविशिष्टेऽपि वस्तुन्येको गौरित्याद्येकशब्दानुविद्धप्रत्ययादैक्यमुपलब्धमिति चेन्न; वसनाभरणादिविशिष्टेऽप्येकोऽयमिति प्रत्ययात् । तत्र पुरुषान्तरव्यवच्छेदार्थमेकशब्दः; न तु विशेषणविशेष्यैक्यार्थमिति चेत्, अत्रापि गवान्तरादिव्यवच्छेदार्थमित्येवास्तु ।

नन्वभेदरहितेषु विशेषणेषु मत्वर्थीयसापेक्षं सामानाधिकरण्यं दृष्टम्; जातिगुणादिषु मत्वर्थीयनिरपेक्षसामानाधिकरण्या दभेदोऽप्यभ्युपगन्तव्य इति चेन्न; अभेदप्रसङ्गरहितेष्वपि शरीरात्मादिषु देवोऽहम्; मनुष्योऽहम्; आत्मादेवो जातः कर्मभिरित्यादिमत्वर्थीयनिरपेक्षसामानाधिकरण्यदर्शनात् । लक्षणया तत्र सामानाधिकरण्यमिति चेन्न; तत्रापि कैश्चितथाऽभ्युपगमात् ।। अपृथक्सिद्धत्वात् अपर्यवसानादिवृत्त्या वा तत्र सामानाधिकरण्यमिति चेन्न; शरीरेऽपि तथा सुवचत्वात् (तत्रापि तथा सुवचत्वात्) अपृथक्सिद्धत्वस्य मत्वर्थीयनैरपेक्ष्यप्रयोजकत्वादिति । अस्तु तर्हि अपृथक्सिद्धत्वादेव जातिगुणादेराश्रयतादात्म्यमिति चेन्न; भेदगर्भेण संबन्धेनाभेदसाधने व्याघातात् । नायमभेदो भेदाभावात्मा, नापि भेदविरुद्धो धर्मः; येन व्याघातः स्यात्; अपि त्वन्यादृश इति चेन्न – तथाविधस्य कस्यचिदभेदस्याप्रसिद्धत्वात् । भेदाविरुद्धस्य कस्यचित् स्वभावान्तरस्य साधनेऽस्माकमनिष्टाभावाच्च । एतेन “सहोपलम्भनियमादभेद” इत्यपि निरस्तम्; सहोपलम्भस्य तन्नियमस्य च तादात्म्यवैरित्वात् । तदेवं भिन्नेष्वभेदसाधकासिद्धौ, “भेदाभेदयोः प्रतीतिबलादविरोधः” इति धार्ष्ट्यमात्रेणोच्यते; अतोजातिगुणाद्यात्मकस्य एकस्यासम्भवादेव तद्विषयं निर्विकल्पमाशाम्बरसगोत्राणामाशामात्रपरिकल्पितम् ।

अस्तु तर्हि परस्परमत्यन्तभिन्नानां द्रव्यजातिगुणादीनामगृहीतविशेषणविशेष्यभावानां स्वरूपमात्रग्रहणं निर्विकल्पकम्; तत एव च तत्समनन्तरभाविविकल्पोत्पत्तिरपि निर्त्यूढा भवति । “न ह्यगृहीतविशेषणा विशिष्टबुद्धिरुपपद्यते” । न च जात्यादीनां विशेषाणां तत्दिन्द्रियेण ग्रहणयोग्यानांतत्दिन्द्रियसंप्रयोगादिसामग्र्यां सत्यामग्रहणमुपपद्यते । अतोविशेषण स्वरूपग्रहणरहितं निर्विकल्पकं नास्तीति ।

तदप्यसारम्; यदि विशेषणविशेष्ययोस्स्वरूपग्रहणम्; कस्तर्हि विकल्पाद्भेदः? समवायग्रहणमिति चेन्न; अपृथक्सिद्धेषु जात्यादिषु वेदान्तविद्भिः स्वरूपातिरिक्तसमवायानभ्युप गमात् । तथा च वैशेषिकनिराकरणाधिकरणे सूत्रम् – “समवायाभ्युपगमाच्च साम्यादनवस्थितेः” (ब्र.सू.2 – 2 – 12)इति । अस्तु वा समवायाख्यः सम्बन्धः,स किं तदा न गृह्यते?। अयोग्यत्वादिति चेन्न; नित्यं तदग्रहणप्रसङ्गात् । एवमपि कैश्चिदिष्यत इति चेन्न; तथाऽपि विकल्पाविशेषप्रसङ्गः; न हि तदा विकल्पेऽपि समवायग्रहणं संभवति । तथाऽपि विशेषणविशेष्यभावो गृह्यत इति चेन्न, तर्हि तत एव ततःपूर्वं विशिष्टप्रत्ययोत्पत्तिर्वक्तव्या । जाते हि विशिष्टप्रत्यये निष्कर्षकबुद्ध्या विशेषणमिदं विशेष्यमिदमिति विविच्यते । ततश्च प्रथममेव विशिष्टप्रत्यये क्व निर्विकल्पकम्? । मा भूत् स्वरूपायोग्यत्वम्; “सहकारिवैकल्यात्तु निर्विकल्पके समवायाग्रहण”मिति न्यायाचार्या इति चेत्; किं तत् सहकारि? । अवच्छेदकग्रहणमिति चेन्न, अवच्छेदकयोराश्रयाश्रयिणोस्स्वरूपस्य निर्विकल्पेऽपि ग्रहणात् । अवच्छेदकग्रहणस्य संबन्धग्रहणकारणत्वात् पूर्वमवच्छेदकग्रहणमपेक्षितमिति चेन्न; तस्य कारणत्वे प्रमाणाभावात्; सम्बन्धग्रहणदशायां च येन रूपेणावस्थाय तदवच्छेदकमवच्छिन्द्यात्, तद्यदि रूपं युगपद्ग्रहणेऽपि संभवति, किं तस्य पूर्वग्रहणेन, व्यर्थविशेषणत्वात् । सत्यपि पूर्वग्रहणेतादात्विकावच्छेदकस्वरूपोल्लेख एव हि अवच्छेद्योल्लेखापेक्षितः, पूर्वग्रहणे सत्यपि तादात्विकावच्छेदकोल्लेखाभावे तदवच्छिन्नसम्बन्धोल्लेखासम्भवात् ।

अस्तु सम्बन्धस्यापि स्वरूपग्रहणम्, तथाऽपि तस्यावच्छिन्नत्वं न गृह्यत इति चेन्न; अवच्छेदकयोराश्रयाश्रयिणोरवच्छेद्यस्य च सम्बन्धस्य स्वरूपग्रहणे कथमवच्छिन्नत्वाग्रहः? अवच्छेदकस्वरूपग्रहणातिरिक्तस्य तदवच्छिन्नत्वग्रहणापेक्षितस्यासंभवात्, अनभ्युपगमाच्च ।

एतेन समवायस्य निर्विकल्पकैकविषयत्वं वदन्तो भूषणमतानुसारिणोऽपि प्रत्युक्ताः । अतो यदि विशेषणग्रहणम्, तदा न कथंचिदपि निर्विकल्पकत्वसिद्धिः । विशेषणरहितस्वरूपग्रहणे तु तदेवास्माकं निर्विशेषग्रहणमिति ।

भवतु निर्विकल्पके निर्विशेषग्रहणम्, तथाऽपि विशेषा एव स्वलक्षणापरनामानः स्वयमकिञ्चिन्निष्ठाः कैश्चिदनाश्रिताश्च तत्र गृह्यन्ते; नद्वितीयमिति चेन्न प्रमाणभावात् । नीलपीतादिप्रतिनियतविचित्रविकल्पोत्पत्तिरेव प्रतिनियतकारणमन्तरेणानुपपद्यमाना निर्विकल्पकेऽपि स्वानुरूपविशेषोल्लेखं व्यवस्थापयतीति चेन्न; एकस्मिन् अद्वितीये सर्वेषु निर्विकल्पेषु गृह्यमाणेतत्तद्विचित्रवासनादिरूपभ्रमसामग्रीसामर्थ्यादेव प्रतिनियतविकल्पोपपत्तेः । किमेकस्यामेव रज्जौ गृह्यमाणायां विचित्राः सर्पभूदलनाम्बुधारादिविकल्पाः क्रमशो न संदृश्यन्ते? युगपदपि वा किमेकस्मिन् गगने गन्धर्वनगरप्राकारतोरणादि विकल्पाः प्रकल्प्यन्ते? विकल्पानां च भ्रान्तिरूपत्वं भवद्भिरपीष्यते । विशेषाणामेवाभावे कथं विचित्रवासनादिसंभव इति चेन्न; विशेषाणां वासनाहेतुत्वाभावात्, तत्तद्विषयविज्ञप्तिबीजान्येव वासनामङ्कुरयन्ति । अन्यथा शुक्तिरजतादिविषय मिथ्यात्वेन तदनुभवजन्यवासनाभावात् तदनुस्मरणतन्मूल चेलाञ्चलग्रन्थिविघटनादयो न संभवेयुः ।।

नन्वापणादिषु सत्यरजतग्रहणाद्रजतवासना । ततश्च तदेव रजतं वासनावशादेव देशान्तरकालान्तरयोरसदपि प्रतीयते । तत्प्रतीतिमूलश्च पुनस्संस्कारस्मृत्यादिप्रवाह इति युज्यते । यस्य तु क्वचिदपि विशेषा न सन्ति, तस्य कथं विशेषवासना निर्वाह्या? उच्यते, मिथ्यार्थज्ञानस्यापि तावद्वासनाजनकत्वं भवद्भिरपीष्यत एव । ततश्च पूर्वपूर्वभ्रमविशेषजनितसंस्कारविशेषादेव सर्वविकल्पोपपत्तौ किं क्वचिद्विचित्रेणार्थेन, विकल्पवैचित्र्याय प्रत्यक्षतया तदनुमेयतया वा कल्पितेन? अस्य चार्थस्य वैशद्याय समानसमयाचारा योगाचारादय उपास्यन्ताम् । तत्र तु भवन्त एव तेषां बाह्याभेदापह्नवन्यायेन आन्तराभेदापह्नवं परानिष्टमुद्घाटयन्तु । अतो विचित्रविकल्पोदयस्य अन्यथासिद्धेर्निर्विकल्पकेऽपि विचित्रविशेषग्रहणकल्पना न युक्ता; तत्कल्पनेऽपि वा लाघवाय विचित्राद्वैतं विश्वविषयमास्थीयतां । न चैकस्यानेकस्वभावताव्याघातः; “रूपरसगन्धस्पर्शस्वभावाः पार्थिवाः परमाणवः, रूपरसस्पर्शस्वभावा आप्याः, रूपस्पर्शस्वभावास्तैजसा” इति भवद्भिरेकैकस्यानेकस्वभावकल्पनात् । अत एव नैकस्यविरुद्धस्वभावतेत्यपि दतोत्तरम्, लोकदृष्ट्या परराद्धान्तिभिश्च रूपत्वरसत्वादेरविरुद्धस्वभावतया स्वीकारात् । भवद्भिस्तु शान्त्या सिद्धाश्रमीभवद्व्याळनकुलादेरिवनीलधवलादेरपि वैरस्यस्य शमयितुं शक्यत्वात् ।

तस्मादस्मदभिमतमद्वैतमेव शुद्धं चित्रं वा निर्विकल्पकपदमिति शत्रुमित्रविभागोदासीनैश्च सौगतैरपि संग्रहणीयम् । ततः प्रमाणज्येष्ठस्य प्रत्यक्षस्य प्रथममेव निर्विशेषोल्लेखित्वात् विकल्पोल्लीढविशेषाणां भ्रान्त्या निर्वाहात् न शक्यम्, “निर्विशेषवस्तुनीदं प्रमाणमिति न शक्यते वक्तुम्”(श्री.भाष्यं जिज्ञा) इति । अत्रोत्तरमाह,”निर्विकल्पकमपि सविशेषविषयमेवे”ति । अयमभिप्रायः तत्र यत्तावत् शाब्दकौमारिलादिमतदूषणं तदस्माकमपि सम्मतमेव । तत्र यदुक्तं विशिष्टग्रहणस्य स्वरूपग्रहणं कारणंमिति तन्न सार्वत्रिकम् । भिन्नसामग्रीवेद्येषु सविशेषणविशेष्येष्वेव तथा दर्शनात्, एकसामग्रीवेद्येषु तु समानकालीनविशेष्यग्रहणेनैव विशिष्टग्रहणसिद्धेः । उक्तं च त्वयाऽपि “तत्कालीनविशेषणग्रहणमेव विशिष्टोल्लेखोपयोगी”ति; तद्वत् विशेष्यस्वरूपस्य पूर्वगृहीतस्यापि तादात्विकृेल्लेखाभावे विशिष्टग्रहणासिद्धेः, सति तस्मिंस्तत्सिद्धेः, पूर्वग्रहणस्यानपेक्षितत्वात् । अत एव विशिष्टग्रहणत्वात् स्वरूपग्रहणपूर्वकत्वानुमानं प्रत्युक्तम् । यच्चोक्तम् विशेषणग्रहणे सति न कथिञ्चिदपि निर्विकल्पकसिद्धिरिति तदप्यसत्; निर्विशेषग्रहणरूपनिर्विकल्पके शशविषाणायमाणे यदि विशेषणग्रहणेनिर्विकलपकं नाम न किंचित् स्यात्; न स्यादेव; न ह्यप्रामाणिकमवश्यमङ्गीकुर्मः ।

योगशास्त्रेषु निर्विकल्पकसमाध्युपदेशान्न तस्याप्रामाणिकत्वमिति चेन्न; तत्रापि निर्विशेष ग्रहणस्यानुपदेशात् । आगमानां च सविशेषपरत्वस्य स्थापयिष्यमाणत्वात् । समाधिलक्षणानु प्रविष्टस्यार्थमात्रावभासत्वपरस्य “स्वरूपशून्यमिव” (पा.यो.सू.3 – 3) इत्यस्य निर्विशेषग्रहणपरत्वा भावात् । ध्यानमेव हि यथावस्थितध्येयार्थवैशद्यातिशयात् तन्निगीर्णस्वरूपमिव भवतीति तत्रोपदिश्यते । प्रह्लादवामदेवादि समाधिषु चानन्तविशेषणविशिष्टब्रह्मानुभव एव श्रूयते । अतो न शास्त्रान्निर्विशेषविषयनिर्विकल्पक सिद्धिरिति ।

अतः प्रामाणिके कस्मिंश्चिन्निर्विकल्पके यथोपलम्भङ्गीक्रियमाणे संस्कारानपेक्षप्रथमाक्षसन्निपात मात्रसंभवं प्रत्यक्षं निर्विकल्पकम् । ततस्तत्संस्कारसहकृतेन्द्रियजन्यं तदेकविषयं तज्जातीयपिण्डान्तरविषयं वा प्रत्यक्षं सविकल्पकम् । तच्च येनाऽऽकारेण पूर्वापरानुवृत्तेन स्वविषयं विशिनष्टि, तदाकारविशिष्टस्यपूर्वमपि ग्रहणावश्यंभावात् प्रथमाक्षसंयोगजस्यापि विशिष्टविषयत्वमेव युक्तम्, तदाह “सविकल्पके स्वस्मिन्ननुभूतपदार्थविशिष्टप्रतिसन्धानहेतुत्वा”दिति । “निर्विकल्पकम्” “तच्च विशिष्टविषयम्” इति स्ववचनविरुद्धमिति चेन्न; प्रमाणबलात् शब्दवृत्तिसङ्कोचेऽवश्यंभाविनि परामर्शदशाविषयीक्रियमाण विशेषणनिवृत्तिमात्रेण निर्विकल्पकवाचोयुक्तेरुपपत्तेः । तदाह “निर्विकल्पकं नाम केनचिद्विशेषेण वियुक्तस्य अर्थान्तरस्य ग्रहणम्; न सर्वविशेषरहितस्य” इति । यदुक्तं प्रथमाक्षसन्निपातसमनन्तरमविशिष्ट विषयापरोक्षावभासो दुरपह्नव इति, तत्राह “तथाभूतस्य कदाचिदपि ग्रहणादर्शनात्” इति । अयमभिप्रायः – न तावत् निर्विशेषवस्तु ग्रहणमिति वयं तदुत्तरकाले व्यक्तं परामृशामः; न च तदानीमेव । यद्यपि निर्विशेषवस्तुग्रहणमपि स्वप्रकाशत्वात् स्वतःसिद्धमिति वक्तुं शक्यम्; तथाऽपि तथाविधा स्वतस्सिद्धिरपि तथाभूततद्गोचरपरामर्शमन्तरेण दुरुपपादेत्युक्तम्; अन्यथा शशविषाणग्रहणमपि स्वप्रकाशसिद्धमिति धृष्टोक्तेरनिस्तारात्, तथा च न किंचित् प्रतिक्षेप्यं स्यात्, सर्वस्यापि तथा तथासिद्धेः सुवचत्वादिति । मा भूत् तथाभूतस्य ग्रहणम्, उपपत्त्या तु कल्प्यत इति यदाहुः, तत्राह “अनुपपत्तेश्च” इति । उपपत्त्यभावादित्यर्थः । व्याख्यातमिदं प्रागेव । अदर्शनं विवृणोति “केनचिद्विशेषणेन इदमित्थमिति हि सर्वा प्रतीतिरुपजायते” इति । उपपत्त्यभावं विवृणोति “त्रिकोणसास्नादिसंस्थानविशेषेण विना कस्यचिदपि पदार्थस्य ग्रहणायोगात्” इति । यद्वा, “तथाभूतस्य कदाचिदपि ग्रहणादर्शनादनुपपत्तेश्च” इति योग्यानुपलब्धिबाधमुपपत्तिबाधं चाऽऽह; तदुभयविवरणम्, “केनचित्” इत्यादिग्रन्थद्वयम् । यद्वा पूर्वग्रन्थद्वयं साधकाभावपरम्; उत्तरं तु तद्द्वयं बाधकपरमिति विभागः । उक्तप्रकारनिर्विकल्पक सविकल्पकविभागमुदाहरणमुखेन विशेषेण दर्शयति – “अतो निर्विकल्पकमेकजातीयद्रव्येषुप्रथमपिण्डग्रहणम्; द्वितीयादिपिण्डग्रहणं सविकल्पकमित्युच्यते” इति । निर्विकल्पक सविकल्पकोदाहरणविशेषभूतयोः प्रथमद्वितीयपिण्डग्रहणयोः केनचिद्विशेषेण वियुक्तिमवियुक्तिं च दर्शयति “तत्र प्रथमपिण्डग्रहणे गोत्वादेरनुवृत्ताकारता न प्रतीयते । द्वितीयादिपिण्ड ग्रहणेष्वेवानुवृत्तिप्रतीतिः” इति । ननु यदि कस्यचिदग्रहणान्निर्विकल्पकत्वम्, तर्हि द्वितीयादिपिण्ड ग्रहणमपि यत्किञ्चिद्वस्त्वन्तराग्रहणान्निर्विकल्पकमेव स्यात् । ततश्च सविकल्पक निर्विकल्पकयोर्व्युत्पत्त्यनुसारेण विभाजकं लक्षणं वाच्यमिति; तत्राह “प्रथमप्रतीत्यनुसंहितवस्तु संस्थानरूपगोत्वादेरनुवृत्तिधर्मविशिष्टत्वं द्वितीयादिपिण्डग्रहणावसेयमिति द्वितीयादिग्रहणस्य सविकल्पकत्वम् । सास्त्रादिवस्तुसंस्थानरूपगोत्वादेरनुवृत्तिर्न प्रथमपिण्डग्रहणे गृह्यत इति प्रथमपिण्डग्रहणस्य निर्विकल्पकत्वम्; न पुनः संस्थानरूपजात्यादेरग्रहणात्” इति । अयमभिप्रायः – संस्कारसहकृतेन्द्रियजन्यतया सप्रत्यवमर्शं ज्ञानं सविकल्पकम्, संस्कारनिरपेक्षकेवलेन्द्रियजन्यज्ञानं निर्विकल्पकम्;तदेतद्दृश्यते प्रथमपिण्डग्रहणदशायामिदमित्येव ग्रहणात्, द्वितीयादिपिण्डग्रहणेषु तज्जातीयतया सोऽयमिति परामर्शादिति ।

ननु यदि प्रथमपिण्डग्रहणे जातिग्रहणं स्यात्, तदैवं विभागः स्यात्; तत्रैव तु किं प्रमाणम्? न ह्यनुवृत्ताकारजातिग्रहणमेकपिण्डग्रहणे संभवतीत्यत्राह “संस्थानरूपजात्यादेरप्यैन्द्रियकत्वाविशेषात् संस्थानेन विना संस्थानिनःप्रतीत्यनुपपत्तेश्च प्रथमपिण्डग्रहणेऽपि संस्थानमेव वस्तु इत्थमिति गृह्यते” इति । एतेन वैशेषिकाद्युक्तं निर्विकल्पकमपि निराचकार । ननूक्तेन लक्षणप्रकारेण विभागे प्रथमपिण्डग्रहणेऽपि सविकल्पकत्वं संभवति; यथा प्रथमपिण्डस्यैव द्वितीय पिण्ड ग्रहणे सोऽयं गौरिति; द्वितीयदिपिण्डग्रहणेष्वपि निर्विकल्पत्वं स्यात् । यथा विस्मृत प्रथमपिण्डस्य परामर्शाभावात् द्वितीयादि पिण्डेष्वप््ययं गौरिति । अतो लक्षणोदाहरणयोरसामञ्जस्यमिव भाति; अनुवृत्तस्वरूपाया जातेर्ग्रहणमेकपिण्डमात्रग्रहणे न संभवतीति चोद्यं चापरिहृतम्; तत्राह “ततो द्वितीयादिपिण्डग्रहणेषुगोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानवत् संस्थाननिवच्च सर्वदैव गृह्यत इति तेषु सविकल्पकत्वमेव”इति । अयमाशयः, निर्विकल्पकसविकल्पकविभागस्तावत् उक्तप्रकारमन्तरेण नोपपद्यत इति दर्शितम् । उदाहरणमपि संभवल्लक्षणव्यक्तिविषयम् । अतः प्रथमद्वितीयाद्यनादर एव । येषु तु प्रथमस्यैव पिण्डस्य द्वितीयादिग्रहणेषु प्रतिसन्धानसंभवः, तेषु सविकल्पकत्वमेवास्तु । येषु द्वितीयादिपिण्डग्रहणेषु च,प्रथमस्यैव पिण्डस्य द्वितीयादिग्रहणेषु च प्रमुषितसंस्कारस्य प्रतिसंधानासंभवः, तत्रापि निर्विकल्पकत्व मेव । येषु पुनर्द्वितीयादिपिण्डग्रहणेषु गोत्वादेरनुवृत्तिधर्मविशिष्टता संस्थानिवत् संस्थानवच्च सर्वदैव गृह्यते, तेषु सविकल्पकत्वमेवेति तत् द्वितीयविकल्पोदाहरणम् । योग्यतया संस्थानस्य प्रथममेव स्वरूपग्रहणम्, आश्रयभेदग्रहरूपसहकारिविशेषस्याभावादनुवृत्तिरूपधर्माग्रहणम्, द्वितीयादिपिण्डेषु गृह्यमाणेषु तथाविध सहकारिसद्भावात् संस्थानस्वरूपस्येव तदनुवृत्तेरपि ग्रहणमिति न सङ्कटं किंचिदिति । निगमयति – “अतःप्रत्यक्षस्य न कदाचिदपि निर्विशेषाविषयत्व”मिति । “अत’ इति साधकाभावात् बाधकसद्भावात् प्रामाणिकस्य निर्विकल्पकसविकल्पकविभागस्य लोकशास्त्राविरोधेन निर्वाहाच्चेत्यर्थः । “कदाचिदपी”ति सविकल्पकदशायामिव निर्विकल्पकदशायामपीत्यर्थः ।।

।।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां निर्विशेषविषयकनिर्विकल्पकभङ्गवादः एकादशः ।।11।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.