शतदूषणी निष्प्रपञ्चीकरणनियोगभङ्गवादः(46)

शतदूषणी

।।अथ निष्प्रपञ्चीकरणनियोगभङ्गवादः षट्चत्वारिंशः ।।46।।

आविभर्आवतिरोभावजन्मनाशविकल्पवत् । यस्यैतदक्षयं नित्यं जगतं विष्णुमाश्रये ।।

ये पुनस्सर्वशब्दानां कार्यपरत्वं वदतां मतमपि कटाक्षयन्तस्सिद्धरूपे ब्रह्मणि स्वतो निरतिशय पुरुषार्थरूपे ज्ञानजननमात्रेण प्रयोजनपर्यवसाने वेदान्तानां संभवत्यपि प्रत्यक्षाद्यबाधितनिरतिशय पुरुषार्थरूपब्रह्मज्ञाने स्वतः प्रामाण्यमपि विस्मरन्तस्तथाविधपरिनिष्पन्नब्रह्मस्वरूपपशुद्ध्यर्थं तस्य निष्प्रपञ्चताकरणनियोगविषयतामाहुः, तेषां तथाविधनियोगविधिवाक्यासंभवात् सपरिकरनियोगा सिद्धेश्च निर्मूलः प्रलापः । तथा हि -न तावन्निष्प्रपञ्चं ब्रह्म कुर्यादिति विधिवाक्यमधीमहे । नच फलकरणदर्शनादिभिः कल्प्यते । नच स्मृत्याद्यनुसारेण तथाविधश्रुतिरनुमीयते । नच नित्यानुमेया श्रुतिरुपपद्यते । नच तदनुमितिलिङ्गतया निष्प्रपञ्चताकरणाचारः केनचित् क्वचिदपि दृष्टपूर्वः । नच निष्प्रमाणकोऽपि विधिरस्तीति वाङ्मात्रेणापि सिध्यति । ननु किमनेन कदर्थनेन? नानात्वदर्शननिन्दावचनैर्नानात्वनिषेधवचनैर्निर्गुणादि श्रुतिभिर्मायोपादानत्वान्यथानुपपत्त्यादिभिश्चानुगृहीतो *न दृष्टेर्द्रष्टारं पश्येरित्येवमादिको विधिरुपलक्षणपरस्सन् द्रष्टृदृश्यादिसमस्तभेदशून्यं दृशिमात्रं ब्रह्म कुर्यादिति नियुञ्जनः प्रकृतार्थे परिपूर्णं प्रमाणम्, नित्यसिद्धस्यापि ब्रह्मणो निष्प्रपञ्चतारूपेण साध्यत्वमप्यविरुद्धमिति चेन्न; अनुग्राहकत्वेनाभिमतानां सर्वेषां प्रत्येकं विस्तरतो दूषणात् ।

विधिस्वरूपमपि न पश्यामः -कोऽत्र ब्रह्मवाचकशब्दः, कश्च तस्य निष्प्रपञ्चताकरणवाचीति । दृष्टिमतिश्रुत्यादयश्शब्दाः संविद्रूपब्रह्मवाचकाः, द्रष्टृमन्तृप्रभृतिदर्शननिषेधो निष्प्रपञ्चताकरणवाचीति चेत्; किं व्युत्पत्तिसिद्धोऽयमर्थः? उत तदनुपपत्त्या लक्षणादिवशादङ्गीक्रियते? किंवा भवत्सैद्धान्तिकसङ्केतादिति? न प्रथमः, दृष्टिमतिश्रुत्यादिशब्दानां तावत् ब्रह्मशब्दापर्यायत्वाभावात् । तत्तत्करणायत्तबुद्धिविशेषा एव तैरभिधीयन्ते । अन्यथा पुनरुक्तिस्स्यात् । द्रष्टृप्रभृतिदर्शननिषेधोऽपि तत्तज्ज्ञाननिवृत्तिमेव वदति, नतु तत्तन्निवृत्तिम् । नापि द्वितीयः, अनुपपत्तेरदर्शनात् । उचितार्थान्तरादर्शनमेवानुपपत्तिरिति चेन्न; तथाप्यनुचितार्थान्तरकल्पनायोगात् । दृश्यते चार्थान्तरमुचितम् । तथा हि -यदा दृष्टेरतिक्तं द्रष्टारं न पश्येरित्यतिरिक्तपदाध्याहारेण योजना । तदा द्रष्टुः पुरुषस्यापि स्वयंज्योतिषः स्वधर्मभूतदृष्टिमत्यादिशब्दाभिलप्यज्ञानसाजात्येन तदतिरिक्तत्वनिषेधोपपत्तेः, न कस्यचिदपि मिथ्यात्वसिद्धिः । अनध्याहारे तु दृष्टेर्द्रष्टेति जीवात्मा निर्दिश्यते, आेदनपाकं पचतीतिवत्कर्तृत्वमात्रविवक्षया द्रष्ट्रादिशब्दः तत्तत्करणायत्तज्ञानकर्तारं जीवात्मानं नोपासीथाः; अपि तु तदन्तर्यामिणं करणनिरपेक्षस्वाभाविकनिरतिशयज्ञानादिगुणगणम् अशेषदोषवैदेशिकं परमात्मानमुपास्स्वेत्युक्तं भवति । नच जीवस्यापि विशेषणतया उपास्यत्वाभ्युपगमात्तद्दर्शन निषेधानुपपत्तिरिति वाच्यम्; करणप्रवृत्तिलङ्घस्वाभाविकविकासशालिपरिशुद्धस्वरूपजीवविशिष्टस्य परमात्मन उपास्यत्वात् । एवमर्थान्तराण्यपि कर्तृत्वाभिमानत्यागादिरूपाणि प्रत्यक्षाद्यविरुद्धानि समुचितानि कल्पयितुं शक्यानि । अतो नानुपपत्तिलेशः । नापि तृतीयः, अतिप्रसङ्गात् । परसिद्धान्तसिद्धसङ्केतवशादपि भवत्पक्षस्य कार्त्स्न्येन भङ्गप्रसङ्गात् । एवं विधिवाक्यासंभवो दर्शितः ।

अथ सपरिकरनियोगासिद्धिं ब्रूमः । तथा हि -नियोगवाक्यार्थवादिना नियोगो नियोज्यः तद्विशेषणं विषयः करणमितिकर्तव्यता प्रयोक्ता च वक्तव्याः । तत्रासौ नियोगस्तावत्सामान्यतो विशेषतोऽपि प्रमाणादर्शनादेव निरस्तः ।

कश्चात्र नियोज्यः? न तावद्ब्रह्म, त्वन्मते तस्याज्ञत्वात् अनियोज्यत्वात् । अस्मन्मते तु सर्वज्ञत्वादेव नियोक्तव्यत्वाभावात् । अत एव नाप्यविद्या । नाप्यहङ्कारादिकम्, तत्प्रतिफलितचैतन्यादिकं वा, तेषामपि विमृश्यकारिणां स्वोच्छेदकरणे नियोक्तुमशक्यत्वात् । अविमृश्यकरणे तु न शास्त्रयोग्यता । नच निर्विशेषानुभूतिस्थितये निरूपको बालो वा कश्चित् स्वोच्छेदमनुमन्यते । अत एव तेषामधिकारित्वप्रयोजक्तृत्वाद्यवस्थान्तरमपि भग्नम् । न च शास्त्रं वायूदकादिवद्विवक्षामनुत्पाद्यैव प्रवर्तयति, अशास्त्रत्वप्रसङ्गात् । ततोऽपि नियोगस्य मूलोच्छेदः ।

किं तावन्नियोज्यविशेषणम्? ब्रह्मस्वरूपयाथात्म्यानुभव इति चेत्; तत्किं निमित्ततया स्थित्वा नियोज्यं विशिनष्टि, उत फलतया? नाद्यः, जीवनपुत्रजन्मादिवत्तस्यासिद्धत्वात्, सिद्धत्वे वा किं नियोगेन, तत एव तत्फलसिद्धेः? अथ श्रवणजन्यः परोक्षानुभवस्सिद्धस्सन् विशेषणमिति चेन्न; श्रवणेन तथाविधानुभवजननस्यैव निष्प्रपञ्चीकरणरूपत्वात् । नहि ततोऽतिरिक्तं किंचिदत्र पुरुषव्यापारविषयं पश्यामः । साक्षात्कारज्ञानं तद्विषय इति चेन्न; साक्षात्कारस्य नियोगसाध्यत्वाभ्युपगमात् ततः पूर्वं तदसिद्धेः । तत्सिद्धौ वा किं नियोगेनेत्युक्तम् । अथ यदि नित्यब्रह्मस्वरूपप्रकाश एव निमित्तमित्युच्येत, न तर्हि तत्कस्यचिद्विशेषणम्, अनन्यनिष्ठत्वात् । तस्य च निमित्तत्वे तन्नित्यत्वेन जीवननिमित्ताग्निहोत्रवन्नित्यं विषयानुष्ठानप्रसङ्गः । नापि द्वितीयः, तथापि हि याथात्म्यानुभवश्शब्दजन्यो वा, अक्षजन्यो वा, स्वरूपभूतानुभव एव वा? आद्ये नियोगात्पूर्वं सिद्धस्य कथं नियोगफलत्वम्? द्वितीये त्वसंभवः, न हि निष्प्रपञ्चतायां सिद्धायामक्षाणि तज्जन्यं वा ज्ञानं संभवति । संभवे वा कथं निष्प्रपञ्चता? तृतीये तु कतं नित्यसिद्धस्य फलत्वम्? स यदि साध्यः, तदा स्वर्गादिवदनित्यस्स्यात् । प्रपञ्चनिवृत्तिरूपेण साध्यत्वमिति चेत्; नह्यन्यरूपेणान्यस्साध्यस्स्यात् । अतः प्रपञ्चनिवृत्तिरेव साध्येत्युक्तं भवति । ततश्च हेतुसाध्ययो रैक्यप्रसङ्गः ।

कश्चात्र नियोगविषयः? किं ब्रह्मैव, उत निष्प्रपञ्चब्रह्म, अथ प्रपञ्चनिवृत्तिरेव? न प्रथमः, तस्य नित्यत्वेनाभाव्यत्वात्, अभावार्थत्वाच्च । अत एव न द्वितीयः, नहि निष्प्रञ्चमपि ब्रह्म भावार्थः । तथापि तस्य साध्यत्वं संभवतीति चेत्; किं ततः? न हि स्वर्गादिकं साध्यमित्येतावता विधिविषयो भवति ।। अतोऽत्रापि केवलं फलत्वमात्रं संभाव्येत, तत्र च प्राप्ताप्राप्तविवेकेन विशेषणस्यैव साध्यत्वमिति कथं ब्रह्मस्वरूपस्य विधिविषयत्वम्? अत एव न तृतीयः, तस्याः फलत्वाच्च । न हि प्रपञ्चनिवृत्त्यतिरिक्तो मोक्षो नाम भवन्मते । किमर्थं च तया नियोगस्साध्यते? न हि नियोगसाध्यं तदतिरिक्तं किंचित् । कथं च सर्वप्रपञ्चनिवृत्तौ नियोगस्वरूपलाभः? तस्याश्च नियोगविषयत्वे तया नियोगः, तेन च सेति परस्पराश्रयणं च । उक्तन्यायेन प्रपञ्चनिवृत्तेः करणत्वमपि निरस्तम्, विषयकरणयोरतीव भेदाभावात् । स चायं नियोगः किं स्वयमेव प्रपञ्चं निवर्तयति, उत तत्त्वज्ञानमुत्पाद्य? पूर्वत्र किं मिथ्याभूतस्य प्रपञ्चस्य ज्ञानबाध्यत्वं परित्यज्य नियोगबाध्यत्वमङ्गीकरोषि? तथा सति प्रायश्चित्तनिवर्त्यदुरितवत्सत्यता प्रपञ्चस्य । अन्यथा तत्त्वज्ञानेनैव बाध्यत्वे नियोगकृत्यं न पश्यामः । उत्तरत्राप्याकाङ्क्षादित्रयवता वाक्येनैव तत्त्वज्ञानं जायत इति किं नियोगात्? तेनैव च तत्त्वज्ञानेन ब्रह्मव्यतिरिक्तसमस्तबाधात्कथं सपरिकरनियोगोत्पत्तिश्च? परोक्षापरोक्षनिवर्तकज्ञानयोरविशेषोप पादनादिकमन्यत्र ग्राह्यम् । किंच प्रपञ्चनिवर्तकोऽयं नियोगो न तावद्ब्रह्मस्वरूपम्, निवर्तकस्य नित्यतया नित्यं प्रपञ्चाभावप्रसङ्गात्; नित्यस्य विषयानुष्ठानसाध्यत्यायोगाच्च । अतो ब्रह्मस्वरूपव्यतिरिक्त एष्टव्यः । सच कृत्स्नप्रपञ्चनिवृत्तिरूपविषयानुष्ठानेन प्रयोक्तुरपि नष्टत्वान्निराश्रयः कथमुत्पद्येत? आश्रयस्थितौ वा कथं विषयलाभः? निराश्रयोत्पत्तावपि नियाेगाख्यमिथ्यापदार्थस्थितौ कथं कृत्स्नप्रपञ्चनिवृत्तिः? सिद्धावपि किमन्यन्नियोगसाध्यं मोक्षाख्यं फलमिति ।

किंच करणभूतायाः प्रपञ्चनिवृत्तेः का नामेतिकर्तव्यता? न काचिदिति चेन्न; अनुपकृतस्य करणत्वायोगात् । यथाहुः -* नहि तत्करणं लोके वेदे वा किंचिदीद्दशम् । इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ।। इति । अस्तु वा काचिद्भावरूपेति चेन्न; सा हि सन्निपत्योपकारिका वा स्यात्, आरादुपकारिका वा? नाद्यः, कृत्स्नप्रपञ्चनिवृत्तिरूपकरणशरीरनिवर्तकस्य कस्यचिददर्शनात् । अद्वैतज्ञानं दृश्यत इति चेन्न; तेनैव प्रपञ्चनिवृत्तिरूपमोक्षसिद्धौ करणादिनिष्पाद्यासिद्धिप्रसङ्गात् । नापि द्वितीयः, कृत्स्नप्रपञ्चनिवृत्तिरूपकरणस्वरूपासिद्धेः, तत्सिद्धौ तदनुग्राहकांशानवस्थानमित्युभयतःपाशा रज्जुः । अथाभावरूपानुग्राहकस्थितौ न विरोध इति मन्यसे; तन्न; तस्य कृत्स्नप्रपञ्चनिवृत्त्यन्तर्गतत्वेन करणेतिकर्तव्यताभेदासिद्धेः । तदेतदभिप्रेत्याह -* अभावरूपत्वे चाभावादेव न करणशरीरं निष्पादयति, नाप्यनुग्राहकमिति । अभावात् -कृत्स्नप्रपञ्चनिवृत्त्यन्तर्गतत्वेन करणात्पृथगभावाभावादित्यर्थः । केचित्तु अस्य भाष्यस्यैवमर्थमाहुः, अभावत्वादेव न हेतुत्वमित्युच्यत इति, तत्र शब्दास्वारस्यार्थानौचित्यादिकं च द्रष्टव्यम् । तदेवं विधायकादर्शनात् सपरिकरनियोगानुपपत्तेश्च निष्प्रपञ्चब्रह्मविषयो विधिर्न संभवतीति सिद्धम् ।।

।। इति शतदूषण्यां निष्प्रपञ्चीकरणनियोगभङ्गवादः षट्चत्वारिंशः ।।46।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.