शतदूषणी मायाऽविद्याविभागभङ्गवादः(42)

शतदूषणी

।।अथ मायाविद्याविभागभङ्गवादः द्विचत्वारिंशः ।।42।।

य एको दुर्लङ्घ्यत्रिगुणनिजमायानिगलितैर्विचित्रैः क्षेत्रज्ञैर्विहरति सोजासहचरः ।

जगत्सर्गक्षेमक्षपणपरिकर्मीणमहिमा दयालुर्देवोऽसौ तुरगवदनस्तारयतु नः ।।

ये तु ब्रह्मणो दोषं परिजिहीर्षन्तः ब्रह्माज्ञानं मायशब्देनोपचरन्ति, तान्प्रति ब्रूमः, मायाविद्ययोः को विशेष इति । परव्यामोहनहेतुर्माया, स्वव्यामोहनहेतुरविद्येति चेत्, किं परेषामदर्शनेऽपि तद्धामोहनम्? उत तद्दर्शने? न प्रथमः, असंभवात्; न हि मायाविनः परानपश्यन्तस्तन्मोहनमिच्छन्ति, मोहयन्ति वा; मायाविशब्दस्य परव्यामोहनाभिसन्धिमत्पुरुषविशेषवाचित्वात् । अन्यथा मोहनहेतूनां मणिमन्त्रौषधीनामपि मायावित्वप्रसङ्गात् । नापि द्वितीयः, तद्धि परदर्शनं ब्रह्मणः किं स्वभावतः? उताज्ञानेन? अथ तयैव मायया? नाद्यः, निर्दोषदर्शनविषयतया परेषां सत्यत्वप्रसङ्गात्; ब्रह्मणि ज्ञातृत्वस्य स्वाभाविकत्वप्रसङ्गाच्च । न द्वितीयः, ब्रह्माज्ञानवादावतारात् । तथा (च) सति तेनैवाज्ञानेन सर्वसंभवे तद्धतिरिक्तमायाभ्युपगमानुपपत्तिश्च । न च तृतीयः, परेषु दृष्टेषु तन्मोहनमात्रोपकरणत्वान्मायायाः परदर्शनहेतुत्वायोगात् । अथ ब्रह्मगतायाः मायायास्त्वयमतिशयो धर्मिग्राहकसिद्धः यत्परदर्शनतद्धामोहनयोर्हेतुत्वमिति चेन्न; मिथ्याभूतपरदर्शनहेतुत्वांशेन तस्या एवाविद्यात्वस्यापि दुर्वारत्वात् ।

अथ मन्यसे, विपरीतदर्शनहेतुरविद्या, यथा शुक्तिरजतादिदर्शनहेतुः, माया तु न ब्रह्मणोविपरीत दर्शनहेतुः,मिथ्याभूतस्य ब्रह्मव्यतिरिक्तस्य मिथ्यात्वेनैव बोधनात्; नहि शुक्तिरजतमिथ्यात्वग्राहकस्या विद्यात्वम्, तथा सति बाधकज्ञानानां सर्वेषामप्यविद्यामूलत्वप्रसङ्गात्; भवदभिमतसर्वज्ञस्यापि सर्वेषां जीवानां भ्रमस्वरूपं विजानतस्तत्तद्भ्रमविषयैस्सह तत्तद्भ्रमग्रहणादविद्यावत्त्वप्रसङ्गात्; न हि निर्विषयज्ञानग्रहणं संभवति; न चेश्वरस्य भ्रमानभिज्ञता, असर्वज्ञत्वप्रसङ्गात्; आश्रितव्यामोहनिबर्हणार्थप्रवृत्तिशून्यत्वप्रसङ्गाच्च । अतो मिथ्याभूतं ब्रह्मव्यतिरिक्तं मिथ्यात्वेनैव बोधयन्ती ब्रह्मणो माया नाविद्येति;

तदप्यसारम् । किमिदं ब्रह्म स्वव्यतिरिक्तं मिथ्याभूतं स्वभ्रमसिद्धतया मिथ्यात्वेन, उत परभ्रमसिद्धतया ब्रह्म पश्यतीति चेन्न; परान्तरस्वीकरणेऽनवस्थानात् । तेषामेव परेषां भ्रमेण तत्सिद्धत्वदर्शनेऽपि तथाविधविशिष्टपरदर्शने स्वस्याविद्यापेक्षणात् । नहि बन्ध्यासुतभ्रमसिद्धो बन्ध्यासुत इति ज्ञाने बन्ध्यासुतस्यैव भ्रमः, न तु तद्विज्ञातुरिति वक्तुं शक्यम् । न च तृतीयः, भ्रमसिद्धत्वाज्ञाने मिथ्यात्वस्य दुर्ग्रहत्वात् । न ह्यसत्त्वमात्रं मिथ्यात्वम्, अपि तु स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वादिकम् ।

परेषां मिथ्यात्वदर्शने च न ब्रह्मणः परव्यामोहनेच्छा संभवति; न हि प्रतिबिम्बवन्ध्यासुतचित्रपुरुषादीनां व्यामोहनाय मायाविनोऽपि मायां प्रयुञ्चते; प्रयुञ्जाना वा कथं स्वयमनुन्मत्ताः स्युः । आहुश्च – *अचेतनेषु मायावी मायामोचक एव वा । उभावुन्मत्तपदवीमश्नुवाते मनीषिणाम् ।। इति । ततश्च ब्रह्मापि मिथ्यात्वेनावधारितपरव्यामोहनार्थं मायां प्रयुञ्जानमुन्मत्तपर्यायमिव स्यादिति तदेव ब्रह्माज्ञानम् ।

अथ स्यात् – यद्यपि परव्यामोहने परदर्शनमवश्यंभावि, मिथ्याभूतपरदर्शनं च न दोषमन्तरेण; तथाऽपि नात्र ब्रह्मणःपरदर्शनहेतोर्मायाख्यदोषस्याविद्यात्वम्, अपुरुषार्थापरमार्थदर्शन हेतुरविद्येति तल्लक्षणात्; ब्रह्मणस्तु व्यामोहनीयान् परान् प्रकाशयन्त्यपि माया नापुरुषार्थतया प्रकाशयति, स्वप्नसिद्ध (भोगो) लीलोपकरणादिवत्पुरुषार्थतयैव प्रकाशयति, अतस्तस्या नाविद्यात्वमिति;

तदपि न, पुरुषार्थहेतोर्दोषत्वाभावात् । दोषत्वे त्वपुरुषार्थतान्वयस्यावर्जनीयत्वात् । न ह्यनिष्टं किंचिदनन्तर्भाव्य क्वचिदपि दोषत्ववर्णनम्, अन्यथा तत्तत्सामग्र्या तत्तत्कार्योत्पत्तौ सर्वेषां कारणानां दोषत्वमेव वा गुणत्वमेव वा स्यादिति गुणदोषविभागाभावप्रसङ्गात् ।

ननु किमिहेष्टानिष्टचिन्तनेन? स्वाभाविकाकारो गुणः, आैपधिकाकारस्तु दोषस्यात्, यथा द्विचन्द्रदर्शनदशायां चक्षुषस्तिमिरादि; नच द्विचन्द्रदर्शने कश्चिदपुरुषार्थस्पर्शः, इति चेत्; मैवम्, द्विचन्द्रदर्शनहेतोरपि पारम्पर्येणानिष्टमन्तर्भाव्यैव दोषत्ववर्णनात् । अन्यथा निधिदर्शनादिहेतोरञ्जनादेरप्य स्वाभाविकतया दोषत्वप्रसङ्गात् । यदि च द्विचन्द्रदर्शनहेतोर्दोषत्वमविद्यात्वं च न स्यात्, कथं तन्निरासाय प्रेक्षावन्तः प्रयस्यन्ते । न ह्यस्पृष्टानिष्टगन्धं किंचिद्विमृश्यकारिणां निरसनीयम् । माभूत्तर्हि माया ब्रह्मणो दोषः, पुरुषार्थैकपर्यवसायितया गुण एव तु स्यादिति चेन्न; सा किमुच्छेदनीया न वा?

पूर्वत्रापि किं ब्रह्मेच्छया, अन्यतो वा? यदि ब्रह्मेच्छया कथं पुरुषार्थैकपर्यवसायिता? न ह्यस्पृष्टानिष्टं निरसनीय मित्युक्तम् । न चान्यतस्तदुच्छेदः, ब्रह्ममायामोहितैरल्पज्ञानशक्तिभिः क्षेत्रज्ञैस्सर्वज्ञस्यापरिमित शक्तेर्ब्रह्मणोऽनन्तपुरुषार्थसाधिकायाः विश्वेन्द्रजालपिञ्छिकाया अपहर्तुमशक्यत्वात् । नच स्वतः कदाचिन्मायोच्छेदिनीति वाच्यम्; अहेतुकविनाशेन क्षणभङ्गापातात्; अविशेषादितः पूर्वमेव तदुच्छेदप्रसङ्गाच्च । ततश्चानुच्छेदपक्षाविशेषे नित्यैव माया ब्रह्मस्वरूपानुबन्धिनी स्यात् । अस्तु मायायाःनित्यत्वम्, तथाऽपि न ब्रह्माज्ञानप्रसङ्ग इतीष्टप्रसङ्गत्वमेवेति चेन्न; ब्रह्मस्वरूपानुबन्धिनी हि माया किंब्रह्मवत्परमार्थभूता, उतापरमार्थभूता? नाद्यः, अद्वैतपरतया युष्माभिरभ्युपेतैः श्रुतिशतैर्विरोधप्रसङ्गात्; अपसिद्धान्ताच्च । अथ पुनर्मायामपि ब्रह्मस्वरूपेऽन्तर्भाव्य श्रुतिविरोधादिकं परिजिहीर्षसि; तथा च सति ब्रह्मण एव मायाशब्देनोपचारात्तस्य च स्वमात्रप्रकाशचिन्मात्रवपुषः परदर्शनहेतुत्वाभावात्परव्यामोहनादिकमेव न स्यात् । परदर्शनमपि ब्रह्मणः स्वभाव इति चेदिष्येत, हन्त जितं सगुणवादेन ।

नापि द्वितीयः, नित्यायास्तस्या मिथ्यात्वस्य साधयितुमशक्यत्वात् । न ह्यबाधितमपि मिथ्येति वक्तुं शक्यम्, बाधिताऽपि द्विचन्द्रादिबुद्धिवन्नित्यमनुवर्तत इति चेन्न; भवत्पक्षे बाधितानुवृत्त्यसम्भवस्योक्तत्वात् । नित्यस्यापि मिथ्यात्वे कथम् * अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते इति पराशरादिवचनं निर्वक्ष्यसि? ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गं कतं परिहरिष्यसि? अबाधादिति चेन्न; तत्रापि यत्किंचिद्बाधकस्य सुवचत्वात् । प्रमाणाप्रमाणविभागस्य त्वयैव शिथिलीकृतत्वात् । किंचेयं माया परमार्थत्वेन ब्रह्मणःप्रकाशते? उतापरमार्थत्वेन? पूर्वत्र सिद्धं ब्रह्माज्ञानम् । उत्तरत्र कथं तया क्रीडितुमिच्छेत्? कथं च तन्मूलां मिथ्यात्वेनैव प्रतीयमानां क्रीडामभिनिविशेत? नहि क्रीडोपकरणानि तन्मूलां क्रीडां तदुभयप्रतिभासस्वरूपं चापरमार्थतया जानतां प्रेक्षावतां क्रीडारसो निष्पद्यते । बालोन्मत्तादयः कथं प्रतिबिम्बादिभिः क्रीडन्तीति चेन्न; तेषां तदानीं प्रतिबिम्बादेस्तत्प्रति भासस्य च मिथ्यात्वग्रहणभावात् । अस्त्विहापि बालादिवद्ब्रह्म, तथा च स्मरन्ति * बालः क्रीडनकैरिव, * क्रीडतो बालकस्येव चेष्टां तत्य निशामय इत्यादीति चेन्न; उन्मत्तवदीश्वरस्याविस्रम्भणीयत्वप्रसङ्गात्; स्वयं व्यामुह्यतः परव्यामोहनसामर्थ्यासंभवाच्च; मुमुक्षुभिरुपेक्ष्यत्वप्रसङ्गाच्च । बालकदृष्टान्तस्तर्हि कथमिति चेत्; सर्वथा सादृश्यस्य दृष्टान्तानङ्गत्वात् । अन्यथा बालत्वादेरपि प्रसङ्गात् ।

किंच यस्य जीवब्रह्मणोद्वैतं तत्त्वम्, तस्य कथं जीवाज्ञाने ब्रह्माज्ञानं न स्यात्? अथ यदि जीवो ब्रह्मणस्तत्त्वतो भिन्नः, ततः कथमैक्यज्ञानान्मोक्ष इत्यादिकं घटेत?

अतो यस्य मते माया सत्या, मायाविनश्च भगवतो न भ्रमः, व्यामोहनीयाश्च जीवाः परस्मादत्यन्तभिन्नाः सत्याश्च, परेण च यथावद्दृश्यन्ते, तस्यैव मायाविद्याविभागेन ब्रह्माज्ञानं सुपरिहरम्; न तु निर्विशे षैकचिन्मात्रवादिन इति ।।

।।इति शतदूषण्यां मायाविद्याविभागभङ्गवादः द्विचत्वारिंशः ।।42।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.