शतदूषणी संविन्नानात्वनिषेधकानुमानभङ्गवादः(23)

शतदूषणी

॥अथ संविन्नानात्वनिषेधकानुमानभङ्गवादः त्रयोविंशः ॥23॥

प्रतिपुरुषमनेकाः प्रत्यवस्थं विचित्राश्शुभगतिषु धियो यश्चोदयत्यञ्जसा नः ।

अखिलचिदचिदन्तर्यामि तद्विष्णुसंज्ञं सवितुरहमुपासे तस्य देवस्य भर्गः ॥

यदाहुः – अनुभूतिर्न नाना, अजत्वात्; यन्नाना तज्जायते, यथा घटः । दृश्यमानस्तु संविद्भेदो विषयाश्रयादिभेदोपाधिकत्वान्न स्वाभाविकः, घटाकाशतरङ्गचन्द्रपराभिमतसमवायादिभेदवत् । अन्यथा कल्पनागौरवप्रसङ्गादिति ।

तदसारम्; किमत्र यतःकुतश्चिदपि भेदो निषिध्यते? उतसंविज्जातीयमात्रात्? अथ संवित्स्वरूपात्? उत संविदन्तरात्? अथवा संवित्सजातीयराहित्यं साध्यत इति ।

न प्रथमः, प्रत्यक्षविरोधात्, देहात्मविवेकानुपपत्तिप्रसङ्गात्; अपसिद्धान्ताच्च । “युष्मदस्मत्प्रत्यय गोचरयोर्विषयविषयिणोस्तमः प्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्ता”विति (शांङ्करभाष्यं) हि वः कूटस्थोपदेशः। अपरमाथोऽपि भेदस्तत्र निर्दिश्यत इति चेत् साधु तत्त्वोपदेशः समारब्धः । परमार्थतस्तयोः(ऐक्य)भेदप्रसङ्गाच्च । अत्राप्यपरमार्थभेदनिषेधे स एव दोषः, परमार्थभेदानुमितिप्रसङ्गो वा । परमार्थभेदनिषेधे तु व्यतिरेकव्याप्तिभङ्गः, यत्परमार्थभेदवत्तदुत्पन्नम्, यथा घट इति हि सा स्यात् । नच घटादौ परमार्थभेदस्त्वयाऽभ्युपगम्यते । तदाह – “जन्मप्रतिबद्धःपरमार्थविभागः किंक्वचिद्दृष्टस्त्वयेति । (श्री भाष्यं जिज्ञा) अविद्यायाश्चानुत्पन्नतयाऽभ्युपेतायास्संविदपेक्षया परमार्थभेदाभ्युपगमे पक्षविपक्षमात्रवृत्तितया विरुद्धो हेतुः। अपरमार्थभेदाभ्युपगमे तु जडाजडतादात्म्यातिदेशः । तदाह – अविद्याया आत्मनः परमार्थतो विभागाभावे वस्तुतोऽविद्यैव स्यादात्मेति (श्री भाष्यं जिज्ञा)

न द्वितीयः, संविदः संविद्विजातीयत्वानभ्युपगमेन सिद्धसाधनात् । न हि संविदेव भवति संविज्जातीयमात्राद्भिद्यत इति कश्चिदिच्छति । तथेच्छन्तमपि प्रति नासौ हेतुः, अविद्यायां संविद्विजातीयायां तद्वृत्तेः । ह्यनुपपन्ना संवित्तत्त्वात् सर्वस्मादेव हि भिन्ना त्वयेष्यते । तद्भेदानभ्युपगमे तन्मिथ्यात्वाभ्युपगमे च दत्तमुत्तरम् ।

न तृतीयः, सिद्धसाधनत्वादेव । नापि चतुर्थः, संविदन्तरसिद्धौ तदवधिकभेदस्यापि सिद्धेस्तन्निषेधायोगात् । तदसिद्धौ कथं तन्निरूपितभेदनिषेधः । उपाधिवशात्संविदन्तरत्वेन प्रतीयमानं स्वरूपमेव संविदन्तरशब्देनानूद्य तदवधिकभेदो निषिध्यते,चन्द्रस्तरङ्गचन्द्रान्न भिद्यत इतिवदिति चेत् तथाऽपि हेतोर्विरोधः, संविदन्तराद्भिन्नायामविद्यायां तद्वृत्तेः । न हि सा संविदन्तरभेदरहिता, प्रागुक्तदोषात् । यश्च प्रवाहानादिमविद्यामिच्छति, तस्यापि प्रागभावे संविदन्तराद्भिन्ने हेतुवृत्तेर्विरोध एव । यद्यप्यभावमपि नेच्छेत्, तथाऽपि घटादिषु संविदन्तरभेदाभावात्सपक्षभूतेषु सर्वेषु हेतोरवृत्तेरसाधारणता । अपरमार्थस्संविदन्तराद्भेदस्तत्रास्तीति न सपक्षतेति चेत्; तर्हि संविदोऽपि संविदन्तरादपरमार्थभेदयोगान्न तत्र तद्राहित्यं साधयितुं शक्यम् । अपारमार्थ्यमेव तस्यात्र साध्यत इति चेत् तथाऽपि घटादिष्वपि संविदन्तरभेदापारमार्थ्यसिद्धेः सपक्षत्वमपरिहार्यम् । संविदः संविदन्तराद्भेदमात्रं मिथ्या, घटादेस्तु स्वरूपमपीति विशेष इति चेत्, किमतः? स्वरूपस्य मिथ्यात्वे सत्यत्वेऽपि संविदन्तरप्रतियोगिकमिथ्याभेदयोगित्वस्य साधारणत्वात् । एतेन अनुभूतित्वादिति हेतुनाऽप्यस्य साध्यस्य दुस्साधत्वं दर्शितम् । तरङ्गचन्द्रदृष्टान्तोऽपि विषमः, तरङ्गचन्द्रस्य मिथ्याभूतस्य सत्यचन्द्रतादात्म्यायोगात् । यदि चन्द्रव्यतिरिक्तस्तरङ्गचन्द्रो नास्तीति निर्दिश्येत, तर्ह्यत्रापि संविदन्तरं मिथ्येत्येवोक्तं स्यात् । तथा विषयाश्रयभेदभिन्नानन्तसंविदुपलम्भे च कस्यास्सत्यत्वं कासां तु तरङ्गचन्द्रवन्मिथ्यात्वमिति विशेषकाभावादनियमेन सर्वसंविन्मिथ्यात्वं सर्वसंवित्सत्यत्वं वा प्रसजेत् । सामान्यतस्संवित्तत्वे कुतश्चित्सिद्धे तद्व्यतिरिक्तास्संविदो निषिध्यन्त इति चेत्, क एवमाह? संवित्तत्त्वव्यतिरिक्तास्संविद इति, अपि तु संविद एव संविदः । न च संवित्तत्त्वं सामान्यतः सिध्यदेकमिति सिध्यति, येन तद्व्यतिरिक्तसंविन्मिथ्यात्वं साध्येत । एकतया सिद्धौ च किमत्र पुनस्साध्यम्?

अत एव न पञ्चमः, एकयाऽनाद्यविद्ययाऽनैकान्त्याच्च । प्रवाहाविद्यापक्षेऽपि सजातीयवत्यविद्याप्रागभावे त्वदभिमतेऽनुत्पन्नत्वहेतोर्वृत्तेर्विरोधश्च । तस्यापि सजातीयवत्त्वं मिथ्येति चेत्, तर्हि घटादेरपि सज्जातीयवत्त्वं मिथ्येति यन्नाना तदुत्पन्नमिति व्याप्तिप्रदर्शनासिद्धिः । व्यावहारिकं घटादेः सजातीयवत्त्वमुपजीव्य व्याप्तिप्रदर्शनमिति चेत्, प्रागभावस्यापि व्यावहारिकसजातीयवत्त्वात्तद्वर्तिनो हेतोर्विरोध एव । न चाभावस्य जातिर्नास्तीति सजातीयाभावः, समानोपाध्याक्रान्तत्ववेषेणाविशेषात् । अन्यथा संविदोऽपि जातिमनभ्युपगच्छतः सिद्धसाधनत्वप्रसङ्गात् । नच घटादिभेदस्य व्यावहारिकत्वमिति स्थितमन्यत्र । तदेतत्सर्वमभिप्रेत्याह – “अबाधितप्रतीतिसिद्धदृश्यभेदसमर्थनेन दर्शनभेदोऽपि समर्थित एव, छेद्यभेदाच्छेदनभेदवदि”(श्री भाष्यं जिज्ञा) ति ।

ननु दृश्यभेदेऽपि दर्शनमेकमेवोपलभ्यते, यथा घटपटाविमाविति; छेद्यभेदेऽपि छेदकव्यापार एक एव दृश्यते, यथा एकप्रहारभेद्येष्वनेकेषु काण्डेषु; अतः कर्मभेदे क्रियाभेद इति न व्याप्तिः; नच दृश्यभेदसमर्थनन्यायेन दर्शनभेदसिद्धिरिति विवक्षा, छेद्यभेदाच्छेदनभेदवदित्युदाहरणस्याना काङ्क्षितत्वप्रसङ्गात्; न च छेद्यभेदसमर्थनन्यायेन छेदनभेदस्समर्थ्यते, यदर्थमप्युदाह्रियेत, अतः किमर्थं भाष्यमिति । उच्यते – दृश्यभेद इति न दृश्यानां स्वरूपभेदमात्रं विवक्षितम्, अपि तु कर्मकारकत्वविशेषणभेदः, अनेकेषामप्येकसामग्रीविशेषमध्यपतितानां घटादीनामेकं कर्मत्वम्, एवं कारकान्तरेष्वप्यनेकेषामेकं तत्तत्कारकत्वं दृश्यते, यथा दर्शपूर्णमासयोः करणत्वमेकमेव तथाऽत्राप्यनेकेषामेकं कर्मत्वमिति न विरोधः । एवं छेद्यभेदेऽपि द्रष्टव्यः – ततश्चायमर्थः – यदि सर्वासां संविदामैक्यं स्यादेकस्यां घटादिप्रतिनियतविषयायां संविदि संविदन्तरविषयाणामपि प्रकाशप्रसङ्गः, न च तथोपलभ्यते, दृष्टादृष्टव्यवस्थाप्रदर्शनात्, अतोऽवगम्यते मिथोऽनाघ्रातविषयाः संविदः स्वरूपतो भिन्ना इति । तत्रेदं निदर्श्यते – यथा छेदनक्रियाः परस्परास्पृष्टविषयाःपरस्परं विभिद्यन्ते तद्वदिति । एतेन दृश्यमानस्य संविद्भेदस्य विषयादिभेदोपाधिकत्वं विषयभेदमिथ्यात्वेन संविद्भेदस्य मिथ्यात्वसमर्थनं च निरस्तम् । दृश्यमानत्वादेव च कल्पनागौरवप्रसंगोऽपि परिहृतः । दर्शनस्य च बाधकाभावादेव (च) प्रमात्वं सिद्धम् ।

ननु प्रत्यगात्मनिष्ठधर्मभूतज्ञानं नित्यमिति य इच्छति तस्य कथं संविद्भेदस्य विषयभेदोपाधिकत्वापह्नवः? उच्यते; नित्याऽपि संवित्तत्तत्कर्मानुरूपं तेषु तेषु विषयेषु संकोचं विकासं च भजते । ततश्च कर्मानुरूपतत्तद्विषयीकरणविकारविशेषापेक्षया स्वरूपत एव क्रियाभेदः प्रतिनियतविषयता च युज्यते । तव तु न तथा, नित्यनिर्विकारस्वप्रकाशमात्रत्वाभ्युपगमात् संविदः । मायातिरोधानतदधीनविचित्र विषयत्वादिकं तु न सम्भवतीत्यन्यत्र द्रष्टव्यमिति ।।

।।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां संविन्नानात्वनिषेधकानुमानभङ्गवादःत्रयोविंशः ।।23।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.