शतदूषणी साक्षित्वभङ्गवादः(28)

शतदूषणी

।।अथ साक्षित्वभङ्गवादः अष्टाविंशः ।।28।।

चतुर्दशविधस्यापि साक्षिवर्गस्य साक्षिणे ।

स्वतस्सर्वविदे तस्मै नमस्सर्वान्तरात्मने ।।

यत्पुनराहुः – आसंसारमज्ञानसाक्षित्वेन ब्रह्मावतिष्ठते । श्रूयते हि – “साक्षी चेता केवलो निर्गुणश्चे” (श्वेता – 6 – 11)त्यादि। न च स्वप्रकाशप्रत्यक्षादैन्द्रियिकप्रत्यक्षाच्चातिरिक्तं साक्षिप्रत्यक्षं नाम न किञ्चिदुपलभ्यत इति वाच्यम्, सुखमहमस्वाप्समेतावन्तं कालं न किंचिदहमज्ञासिषमिति सुखाज्ञानयोः साक्षित्वेन सुप्तोत्थितस्य स्वात्मपरामर्शादिति ।

अत्रोच्यते । तत्र तावत्स्वरूपसुखप्रकाशः स्वप्रकाशान्तर्गतः, न पुनस्साक्षिप्रकाशगम्यः । वैषयिकसुखप्रकाशस्तु सुषुप्तिकाले न संभवति । अज्ञानमपि तदानीन्तनस्मृत्यभावेनानुमीयते, तत्कालादिवत् । न हि सुषुप्तिकालोऽपि तदानीमेव साक्षिणा गृहीत इतीच्छसि । इष्यमाणत्वेऽपि कालोपाधेरपि कस्यचिद्ग्रहीतव्यतया जागरनिर्विशेषत्वप्रसङ्गः । तदग्रहणेपुनरेतावन्तं कालमिति कालविशेषणोपादानविरोधस्स्यात् ।

किंच किमिदं साक्षित्वमिति निरूपणीयम् । किं साक्षात्कर्तृत्वम्, उत साक्षात्कारत्वम्, उताविद्यकप्रकाशं प्रति हेतुत्वम्, उतान्यत्किंचित्? इति ।

नाद्यः, ब्रह्मणो वास्तवज्ञातृत्वानभ्युपगमात् । लोकेपरमार्थद्रष्टारमेव साक्षीति व्यपदिशन्ति । आविद्यकस्यापि ज्ञातृत्वस्याहंकारनिष्ठत्वाभ्युपगमेन विलीनाहंकारेषु सुषुप्त्यादिकालेषु तदसिद्धेः ।

न द्वितीयः “साक्षाद्द्रष्टरि संज्ञाया” (अष्टाध्यायी – 5 – 2 – 12)मित्यनुशासनविरोधात् । आहचाहमर्थात्मत्वसमर्थनमध्ये “साक्षित्वं च साक्षाज्ज्ञातृत्वमेव, न ह्यज्ञातुस्साक्षित्वम्, ज्ञातैव हि लोकवेदयोस्साक्षीति व्यपदिश्यते, न ज्ञानमात्रम्; स्मरति च भगवान् पाणिनिः – साक्षाद्द्रष्टरि संज्ञायामिति साक्षाज्ज्ञातर्येव साक्षिशब्द”मिति । आैपचारिकसाक्षित्वाभ्युपगमेऽपि स साक्षात्कारः किं स्वात्मनः उताविद्यायाः? नाद्यः, स्वप्रकाशस्यान्यवैमुख्येन दृगधीनसिद्धेरविद्याया एवासिद्विप्रसङ्गात् । न द्वितीयः, मिथ्याभूताविद्यागोचरत्वेन वृत्तिज्ञानवत् ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गात् । स्वरूपणेणाबाधितस्यापि वृत्तिज्ञानस्य विषयमिथ्यात्वादेव हि मिथ्यात्वमुपवर्णितं सविषयमिथ्यात्ववादिभिः । स्वगोचर एव साक्षात्कारः पुनरविद्यागोचर इव भातीति चेन्न; तथाऽप्यविद्याया असिद्धिप्रसङ्गात् । न ह्यन्यगोचरस्य ज्ञानस्य ततोऽन्यगोचरत्वेन भ्रमः, अनुव्यवसायस्य विषयावच्छिन्नग्राहकत्वात् । तद्भ्रमेऽपि न तेन ज्ञानेन तत्सिद्धिः । किंच स्वगोचर एवायं साक्षात्कारोऽविद्यागोचर इव कस्य भाति? न तावद्ब्रह्मणः, अहमविद्यागोचर इति ज्ञातुमसमर्थत्वात् । नाप्यविद्यायाः, अहं ब्रह्मणो गोचर इव भातीति तस्या अपिज्ञातुमशक्यत्वात् । न चान्यस्य, तदुभयव्यतिरिक्तस्य कस्यचित् सुषुप्त्यादिषु अप्रकाशमानत्वेन तदयोगात्। न च न कस्यचिदिति वक्तुं शक्यम्, भातीत्यादेः प्रतिसम्बन्धिनमन्तरेण प्रयोगादृष्टेः । मिथ्यासाक्षित्वमिति चेन्न; । “साक्षित्वं यदि मिथ्या स्यात् साक्ष्यन्तरपरिग्रहः । न चेदाधारभावेऽपि मिथ्यात्वमनुवर्ण्यताम्” ।।

नन्वासंसारमविद्यायास्स्वात्मनश्च प्रकाशो ब्रह्मणः, अपवर्गे तु स्वात्मन एवेति नियम इति चेत्, किमपवर्गदशायामविद्यायाः प्रकाशो निवृत्तो न वा? निवृत्तश्चेत् स्वात्मैव निवृत्तस्स्यात् । अनिवृत्तत्वे त्वविद्याऽपि तदानीमनिवृत्ता स्यात् । प्रागपि प्रकाशमात्राधीनसिद्धिर्हि सा । यदि च ब्रह्मस्वरूपसाक्षात्कार एवाविद्यामपि प्रकाशयेत्, ब्रह्मणोऽविद्यायाश्च तादात्म्यं प्रसज्येत । स्वरूपमेव हि तेन प्रकाशनीयम् । अस्वरूपप्रकाशत्वे वृत्तिवन्मिथ्यात्वं प्रागेवोक्तम् । विषयापहार एव वा स्वरूपापहारोऽपि वा यद्वा तद्वा मिथ्यात्वमस्तु ।

किंचाविद्यासाक्षित्वं ब्रह्मणस्स्वरूपमेव, ततोऽन्यद्वा? पूर्वत्र स्वरूपस्य नित्यत्वान्नित्यमविद्यासाक्षित्वप्रसङ्गः । उत्तरत्र तत् किं परमार्थभूतमुतापरमार्थभूतम्? आद्ये ब्रह्मव्यतिरिक्तसत्यत्वानभ्युपगमेनापसिद्धान्तः । द्वितीये तत् किमविद्यास्वरूपमुत तदारब्धम्? नाद्यः,विषयस्वरूपमात्रस्यैव साक्षिस्वरूपत्वे घटादेर्यावद्विनाशं व्यवधानादिदशायामप्यविच्छेदेन प्रकाशप्रसङ्गात् । न द्वितीयः, साक्षित्वाधीनसिद्धेरविद्यायाः साक्षित्वजनकत्वायोगात् । साक्षित्वस्याप्यनादित्वाभ्युप – गमेनापसिद्धान्ताच्च । एतेनाविद्याप्रकाशं प्रति हेतुत्वपक्षो निरस्तः, अनादेर्हेत्वनपेक्षणात् । नापि चतुर्थः, तस्यापि स्वरूपान्तर्भावबहिर्भावादिविकल्पदुःस्थत्वादिति ।

अतो न कथंचिदपि निर्विशेषज्ञानमात्रस्य साक्षित्वं संभवतीति साक्षित्वोपदेशसामर्थ्यादेव ज्ञातृत्वादिकमात्मनोऽवश्याभ्युपगन्तव्यमिति ।।

।।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां साक्षित्वभङ्गवादः अष्टाविंशः ।।28।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.