[highlight_content]

शतदूषणी जीवैक्यभङ्गवादः (61)

शतदूषणी

।।अथ जीवैक्यभङ्गवादः एकषष्टितमः ।।61।।

पयोधितनयान्वितं परमधाम्नि यद्वर्तते सदा यदवलोकनं विदधते फणीन्द्रादयः ।

अत्रिमसरस्वतीवदनसन्ततास्वादितैर्गुणैरधिगुणं महः स्वयमनन्तमालक्ष्यते ।।

विगीतं मदविद्याकल्पितम्, विवादाध्यासितं चेतनजातमहमित्यादिषु किं सर्वत्राहमर्थैक्यं सिषाधयिषितम्? उत तद्धर्मसंविदैक्यम्? यद्वा तदुपलक्षितसन्मात्रैक्यम्? न प्रथमः, अपसिद्धान्तप्रत्यक्षादिविरोधप्रसङ्गात् । न ह्यहमर्थं सत्यमात्मानमनुमन्यसे, न चाहङ्काराणां स्वरूपैक्यम् । न च परदुःखादेः स्वदुःखादित्वमभिमन्यसे । * एको बहूनामित्यादि च न स्मरसि । अत एव न द्वितीयः, सर्वेषां सर्वज्ञत्वस्यासर्वज्ञत्वस्य वा प्रसङ्गाच्च । न तृतीयः, सर्वानुयायिसदैक्येऽप्यात्मैक्यासिद्धेः । नहि कस्यचित्सद्बुद्धिविषयमात्रे स्वात्माभिमानः, आत्माभिमानमात्रं वा; तथा सति देहात्मभ्रमादेर्विशेषतः परिहारे निदानाभावात् । आत्मनः सत्त्वं त्वयापीष्यत इति चेत्; सत्यमेतत्, नतु सतः सर्वस्यात्मत्वम् । आत्मव्यतिरिक्तस्य न सत्त्वमिति चेन्न; *तदनुप्रविश्य, सच्च त्यच्चाभवत् *कथमसतः सज्जायेतेत्यादिविरोधात् । किंच सतामैक्यं सर्वमानविरुद्धम्, सत्तैक्यं तु जात्यैक्यमात्रं स्यात् । सत्तैव महानात्मेति चेन्न; तस्यान्यधर्मत्वायोगात् । सतां हि भावः सत्ता, नतु सा स्वतन्त्रा । उक्तं च संवित्सिद्धौ *स्वैः स्वैर्व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः । सा सत्ता न स्वतन्त्रा स्यात्तत्राद्वैतकथा कथम् ।। इति । पारतन्त्र्यभ्रमोऽयमिति चेत्; स किं सत्ताया उत सतः? आद्ये विरोधः, सतां हि भावः सत्ता । द्वितीयेऽपि विरोधः, न हि सतां स्वधर्मभूता धीरस्ति । न चैतावता तेषामैक्यसिद्धिः ।

अपि च जीवैक्यं सत्यं मिथ्या वा? पूर्वत्रापसिद्धान्तः, अविद्यातत्सबन्धिजीवभावतदेकत्वादीनां मिथ्यात्वाभ्युपगमात् । उत्तरत्र जीवबहुत्वमपि तथैवेति किमन्यतरपक्षपातेन तत्साधनेन वा? प्रतीत्यनुसारेण जीवभेदपक्षे वा किं न पतसि? न च जीवैक्यं प्रातिभासिकम्; सर्वधीव्यवहारविरोधात् । नापि यौक्तिकम्; धर्मधीविरोधात्? प्रवृत्त्यादिभेदैर्हि परानुमानम् । नच स्वात्मपरात्मधीन्यायः, *वैधर्म्याच्च न स्वप्नादिवदिति सूत्रोक्तन्यायविरोधात् । स्वात्मनश्च ते तथैव प्रसङ्गात् । स्वात्मनश्च परं प्रति परात्मित्वात् । नहि दृश्यवद्द्रष्टापि ते मिथ्याभूतः । व्यावहारिकसत्यत्वं तस्यास्तीति चेत्? स्वीकृतं तर्हि व्यावहारिकजीवबहुत्वं तदैक्यं चेति नैकत्र पक्षपातो युक्तः । यथा दृष्टवह्नोर्लिङ्गतो वह्न्यन्तरानुमितिः तथैव ह्यत्र आत्मान्तरानुमितिः । यद्यत्रैक्यं साध्यते, तर्हि वह्न्याद्यैक्यमपि किं न साध्यते? विरुद्धधर्मविहतेरिति चेत्तुल्यम् । न चैकाश्रयतया सर्वदुःखादीनां प्रतिसन्धानमस्ति । अन्तःकरणाद्युपाधिभेदादप्रतिसन्धानमिति चेन्न; देहावयवबाह्येन्द्रियादिभेदेऽपि प्रसङ्गात् । स्वेच्छया विशेषवर्णनेऽप्यतिप्रसङ्गात् । महाप्रलयान्तरभाविनां महात्मनां केषाञ्चिदन्तः करणभेदेऽपि पूर्वकल्पानुभूतप्रतिसन्धानदर्शनाच्च । अद्यतनानां प्राग्भवीयाननुसन्धानवत् स्यादिति चेन्न; प्रायेण नरकक्लेशप्रसूतिव्यसनकालविप्रकर्षादिभिःसंस्कारविलयात् । न चेह तथा, स्वस्याप्यस्मरणापातादिति ।।

।।इति शतदूषण्यां जीवैक्यभङ्गवादः एकषष्टितमः ।।61।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.